मीमांसासूत्र (टीका सहित) · अध्याय 1.2.8
इदं समाम्नायते - वायव्यं श्वेतम् आलभेत भूतिकामः, वायुर् वै क्षेपिष्ठा देवता, वायुम् एव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतीति{*1।421*}. वायुर् वै क्षेपिष्ठा देवतेत्य् अतो यद्य् अपि क्रिया नावगम्यते, क्रियासंबद्धं वा किंचित्. तथापि विध्युद्देशे[43]{*1।422*}नैकवाक्यत्वात् प्रमाणम्. भूतिकाम इत्य् एवम् अन्तो विध्युद्देशः, तेनैकवाक्यभूतो वायुर् वै क्षेपिष्ठा देवतेत्येवमादिः. कथम् एकवाक्यभावः. पदानां साकाङ्क्षत्वाद् विधेः स्तुतेश् चैकवाक्यत्वं भवति. भूतिकाम आलभेत. (कस्मात्?){*1।423*} यतो वायुः क्षेपिष्ठेति. नायम् अभिसंबन्धो विवक्षितः, भूतिकामेनालब्धव्यम् इति. कथं तर्हि आलभेत? यतस् ततो भूतिर् इति भिन्नाव् इमाव् अर्थौ, उभयाभिधाने वाक्यं भिद्येत.
किम् अर्था स्तुतिर् इति चेत्. कथं रोचेत, नोनुष्ठीयेतेति. ननु प्राक् स्तुतिवचनाद् अनुष्ठानं भूतिकामान्तात् सिद्धम्, स्तुतिवचनम् अनर्थकम्. न हि, यदा स्तुतिपदासंनिधानं तदा पूर्वेणैव विधिः. यदा स्तुतिपदसंबन्धः, न तदा भूतिकामस्यालम्भो विधीयते. यथा पटो भवतीति पट उत्पद्यत इत्य् अर्थः. निराकाङ्क्षं च पदद्वयम्. यदा च तस्मिन्न् एव रक्त इत्य् अपरं श्रूयते, तदा रागसंबन्धो भवतीत्य् अर्थः, भवति च रक्तं प्रत्याकाङ्क्षा. एवं यदा न स्तुतिपदानि, विधिशब्देनैव तदा प्ररोचना, यदा स्तुतिवचनम्, तदा स्तवनेन. नन्व् एवं सति किं स्तुति-वचनेन, यस्मिन् सत्य् अविधायकम्, मा भूत् तत्. तदभावे ऽपि पूर्वविधिनैव प्ररोचयिष्यत इति. सत्यम्, विनापि तेन सिध्येत् प्ररोचनम्. अस्ति तु तत्, तस्मिन् विद्यमाने यो ऽर्थो वाक्यस्य, सो ऽव-गम्यते स्तुतिप्रयोजनं{*1।424*} तयोः. तस्मिन्न् अविद्यमाने विधिना प्ररोचनम् इति.
ननु सत्स्व् अपि स्तुतिपदेषु पूर्वस्य विधिस्वरूपत्वाद् विधिर् अभिप्रेतः स्यात्, न विवक्ष्येत स्तुतिपद-संबन्धः. आह - स्तुतिपदानि ह्य् अनर्थकान्य् अभविष्यन् साकाङ्क्षाणि. भवन्त्व् अनर्थकानीति चेत्. न, गम्यमाने ऽर्थे ऽविवक्षितार्थानि भवितुम् अर्हन्ति. [44]{*1।425*} यो ऽसौ विध्युद्देशः, स शक्नोति निरपेक्षो ऽर्थं विधातुम्, शक्नोति च स्तुतिपदानां वाक्यशेषीभवितुम्, प्रत्यक्षश् च वाक्यशेषभावः. अतो ऽस्माद् विधेः स्तुतिम् अवगच्छामः.
ननु निरपेक्षाद् अपि विधिम् अवगमिष्याम्. भवत्व् एवम्, नैवं सति कश्चिद् विरोधः. किं त्व् अशक्यः स्तुतिपदसंबन्धे सति विध्यर्थो विवक्षितुम्. वाक्यं हि संबन्धस्य विधायकम्, द्वौ चेत् संबन्धौ विदध्यात् - भूतिकाम आलभेत; आलम्भेन चैष गुणो भविष्यतीति, भिद्येत तर्ह्य् एवं सति वाक्यम्. अथ यद् उक्तम् - न क्रिया गम्यते न तत्संबद्धं वा किंचिद् इति{*1।426*}. स्तुत्यर्थेन विधीनां स्युः, स्तुतिशब्दाः स्तुवन्तः क्रियां प्ररोचयमाणा अनुष्ठातॄणाम् उपकरिष्यन्ति क्रियायाः. एवम् इमानि सर्वाण्य् एव पदानि कंचिद् अर्थं स्तुवन्ति विदधति. अतः प्रमाणम् एवंजातीयकानि, वायुर् वै क्षेपिष्ठा देवतेति{*1।427*}.
नोतेस्:
*{1।421: तैत्.स्. 2.1.1}*
*{1।422: ए2: 2,14; ए4: 1,41; ए5: 2,17; ए6: 1,30}*
*{1।423: इन् ए1,5 गेक्लम्मेर्त्}*
*{1।424: ए1,5,6; ए2,4: स्तुतिः प्रयोजनं}*
*{1।425: ए2: 2,17; ए4: 1,41; ए5: 2,22; ए6: 1,31}*
*{1।426: च्f. ए1, स्.39।9.
}*
*{1।427: तैत्.स्. 2.1.1}*
तुल्यं च सांप्रदायिकम्
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0