भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसाश्लोकवार्त्तिक · अध्याय 9

9.1

इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम्
अनुमानपरिच्छेदः समाप्तः ॥
006 शब्दपरिच्छेद
अथ शब्दपरिच्छेदः
अत्र प्रत्यक्षानुमानयोर् अपरीक्ष्यत्व उक्ते शास्त्रस्याप्य् अपरीक्ष्यताप्रतिपादनार्थं भाष्यम् -- शास्त्रं शब्दविज्ञानाद् असन्निकृष्टे ऽर्थे विज्ञानम् इति. ननु वृत्तिकारमते न परीक्षितव्यं निमित्तम् इति प्रतिज्ञाय{3,101}प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम् इत्य् उक्तेः प्रत्यक्षव्यभिचारेण परीक्षाम् आशङ्क्य तदव्यभिचार उक्ते ऽनन्तरम् एव शास्त्रस्यापरीक्षा प्रतिपाद्यत इति युक्तम्, तद् धि प्रकृतम्, किम् अनुमानेन व्यवधीयते. सत्यम् एवम्. अयं तु तन्त्रान्तरानुसारेण क्रम आश्रितः. तथा हि नाप्रत्यक्षं प्रमाणम् इति लोकायतिका मन्यन्ते. ते हि वैशेषिकाद्याश्रितप्रत्यक्षानन्तरानुमानप्रामाण्यप्रतिपादनेन प्रतिबोध्यन्ते. एवं हि वैशेषिकाः पठन्ति -- द्विविधं प्रमाणम् आलोचिताध्यवसानम् अनालोचितानुगमनं चेति. तथान्ये ऽपि प्रत्यक्षम् अनुमानं च द्वे एव प्रमाणे इति. यथाक्षपादीयैर् अपि प्रत्यक्षानन्तरम् अनुमानं लक्षितम् -- तत्पूर्वकं त्रिविधम् अनुमानम् इति. तेनेहापि तावत् प्रत्यक्षानन्तरम् अनुमानं वर्णितम्. ततो महाविषयतया प्रकृतत्वेन पुरुषार्थौपयिकत्वेन च शास्त्रम्. तदनन्तरं च यत्र क्वचन वाच्ये बहूनां प्रसिद्धम् इत्य् उपमानम् उक्तम्. न्यायविस्तरे हि प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् इत्य् उक्तम्. ततः पाराशर्यमतेनार्थापत्तिर् उक्ता. तदुत्तरकालम् एव तन्मतानुसारिणा कृतकोटिनोक्तत्वात्. अभावप्रमाणस्य तु भावप्रमाणाभाव एवात्मेति तदुत्तरः प्रस्तावः. किं पुनस् तन्त्रान्तरानुसारस्य प्रयोजनम्. उच्यते. प्रसिद्धत्वेन ह्य् अपरीक्षा प्रतिपाद्यते. तन्त्रान्तरेष्व् एवम् इमानि प्रमाणानि प्रसिद्धानीति प्रसिद्धिप्राबल्यं कथितं भवति. व्युत्थिताश् च तेन तेन साक्षिणा प्रतिपादिता भवन्ति.
अत्र च शब्दविज्ञानाद् इत्य् उच्यते, तत् कथं विगृह्यते. किं शब्दाद् विज्ञानं शब्दस्य वा विज्ञानम् इति. पूर्वत्र समासानुपपत्तिः. भयेन हि पञ्चमी समस्यते. उत्तरत्र तु सविकल्पकप्रत्यक्षे ऽपि शास्त्रत्वप्रसङ्गः, शब्दविज्ञानाद् एव हि गौर् इत्य् एवमादयो ऽसन्निकृष्टार्थविकल्पा भवन्ति. अत्रोच्यते. षष्ठीसमास एवायम्. न च सविकल्पके प्रसङ्गः, न हि तच्छब्दप्रमाणाद् उत्पद्यते, अपि तु शब्दसहायाद् इन्द्रियात्. यथैव हि गन्धसहकृतम् इन्द्रियं तैलाद् विलीनं घृतं विविनक्ति. एवं शब्दसहकृतं जात्यादीन्. तथा चाक्षसम्बन्धफलम् अपरोक्षावभासिता. त(?त्र।च् च) सविकल्पके ऽस्तीत्य् उक्तं प्रत्यक्षान्ते. अतो यद् एव शब्दशक्तिविमर्शोत्थं विज्ञानम् असन्निकृष्टार्थगोचरं तच्छाब्दम्. अत एव न पदार्थमात्रज्ञानं शाब्दम्. न हि तदसन्निकृष्टार्थगोचरम्.{3,102}वक्ष्यति हि -- स्मारकान् न विमृश्यत इति. किं नाम तर्हि शाब्दम्, वाक्यार्थज्ञानम् इति वदामः. न (नु) तत्पदार्थज्ञानाद् उत्पद्यते, न शब्दज्ञानात्. न. अवान्तरव्यापारत्वात् पदार्थप्रतिपादनस्य शब्दानाम्, पाक इव काष्ठानां ज्वलनस्य. वक्ष्यति हि --
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ।
इति. अतो न किञ्चिद् अनुपपन्नम् इति.
इदं तु वक्तव्यं किम् इदं सामान्यलक्षणावसरे विशेषलक्षणं प्रणीयते शब्दविशेषो हि शास्त्रम्. तद् यदि वक्तव्यम्, एवम् अपि सामान्यलक्षणम् उक्त्वा (?वक्ष्यते।लक्ष्येत). यत् पुनरतित्वरितेनैव सामान्यलक्षणावसरे विशेषो लक्ष्यते तदसाम्प्रतम्. न हीह प्रत्यक्षादीनां चाक्षुषत्वादयो विशेषा लक्ष्यन्ते. ततः प्रत्यक्षादिषु सामान्यतो वक्तुम् आरब्धेषु मध्ये शब्दमात्रस्यैव लक्षणं वक्तुं युक्तम्, न शास्त्रस्येति. तद् एतद् आह -- प्रत्यक्षादिष्व् इति

9.2

दूषणान्तरम् आह -- सामान्ये ति. निर्ज्ञातसामान्यलक्षणो हि तद्विशेषं बोधयितुं शक्यो नेतरः. न ह्य् अलक्षिते द्रव्ये तद्विशेषाः पृथिव्यादयो लक्षयितुं शक्यन्त इति

9.3

एवं तावत् शास्त्रम् इति लक्ष्यनिर्देशो ऽनुपपन्न इत्य् उक्तम्. शब्दविज्ञानाद् इत्यादि लक्षणम् अपि लक्ष्यविशेषे न सङ्गच्छत इत्य् आह -- यच् चोक्तम् इति

9.4

कीदृक् तर्हि शास्त्रलक्षणम् अत आह -- प्रवृत्तिर् इति.{3,103}प्रवृत्तिनिवृत्त्युपदेशकं हि नित्यं वेदवाक्यम् अनित्यं धर्मशास्त्रादिकं शास्त्रम् उच्यते न शब्दमात्रम् इति

9.5

ननु स्वरूपमात्राभिधायिनाम् अपि क्षेपिष्ठादिवाक्यानां शास्त्रत्वम् इष्यते, किम् उच्यते प्रवृत्तिनिवृत्त्यङ्गं शास्त्रम् इति. अत आह -- स्वरूपे ति. तदङ्गत्वेनेति. विधायकवाक्यैकदेशत्वेनेत्य् अर्थः. अस्ति हि तत्रापि वायव्यं श्वेतम् आलभेत भूतिकाम इति विध्युद्देशः. तेनैकवाक्यभूतो वायुर् वै क्षेपिष्ठेत्य् एवमादिः. अतो युक्तं तस्यापि शास्त्रत्वम् इति

9.6

नन्व् अर्थवादा न तावत् साक्षात् क्रियां प्रतिपादयन्ति. नापि तदंशम्. त्रयो ऽपि हि तदंशाः साध्यं साधनम् इति कर्तव्यता चेति. न चैषाम् अन्यतमम् अमीभिर् अभिधीयते. अतो ऽक्रियार्थानाम् एकवाक्यताम् एव न मन्यामहे. अत आह -- भावनायाम् इति शास्त्रम् इत्यन्तेन. अयम् अभिप्रायः -- यद्य् अपि न क्रियां गमयति, न च क्रियासम्बद्धं किञ्चित् साधनादि, तथापि विधिना शब्दभावनापरनामधेयेन सहैषाम् एकवाक्यता. विधिर् हि पुरुषं प्रवर्तयितुं विषयप्राशस्त्यज्ञानम् अपेक्षते. तच् चार्थवादाश् शक्नुवन्ति कर्तुम् इति तत् कुर्वताम् एषाम् अस्ति प्रवृत्तिनिवृत्त्योर् उपयोगः. अतस् समस्तायां त्र्यंशपूर्णायाम् एव भावनायां महावाक्याद् एव सार्थवादकात् पुरुषः प्रवर्तते निवर्तते वा न विध्युद्देशमात्राद् इति सार्थवादकम् एव वाक्यं शास्त्रम् इति. एतच् चार्थवादाधिकरणे प्रपञ्चयिष्यामः. दर्शितं च किञ्चिद् विधिविवरणे इत्य् अलम् अनेनातिपरिस्पन्देनेति. यत एव सार्थवादकात् प्रवृत्तिनिवृत्तिज्ञानम्, अत एव विधिवाचिनः प्रत्ययमात्रस्य पदमात्रस्य वा यजेतेत्य् एवमादिकस्य विधिश्रुताव् अपि न शास्त्रत्वम्. यत्र हि त्र्यंशभावनावचनम् अप्य् अवान्तरवाक्यम् अनपेक्षितार्थवादकं न प्रवृत्तौ समर्थं, कथम् इव तत्र पदप्रत्यययोश् शक्तिर् भविष्यतीति दुरधिगमम् इत्य् आह -- न पदाद्यत इति

9.7

{3,104} एवं लक्ष्यलक्षणानुपपत्त्या दूषितं भाष्यम् उपपादयति -- अपरीक्षे ति. अयम् अभिप्रायः -- वेदव्याख्या हि प्रकृता, अतो यद् एव तदुपयोगि तद् एव वाच्यम् इत्य् अतिक्रम्यापि सामान्यप्रक्रमं विशेषम् एव लक्षितवान्. न हीह लक्षणकरणम् एव स्वरूपेण विवक्षितम्. अपरीक्षाच् छलेन हि लक्षणानि प्रणीयन्ते. तत्रापि यद् एव प्रकृतोपयोगिशास्त्रलक्षणं तद् एव कृतम्. स्वतन्त्रो वेदः अपुरुषतन्त्रत्वाद् इति

9.8

यदि स्वतन्त्रोपयोगित्वनिरपेक्षाणि न जल्पति, ततः किम् अत आह -- तत्रे ति. यदा ह्य् अयं जल्पाक इव नानुपयुक्तं भाषत इति स्थितम्, तत्र यदि लोकवाक्यस्थितं शब्दलक्षणं कथयेत् तद् अस्य वेदं व्याचिख्यासोर् अनुपयुक्तं स्याद् इति

9.9

ननु यद्य् अनुपयुक्तं न लक्षणीयं, किम् इति तर्हि प्रत्यक्षादि लक्ष्यते न हि तेषां वेदोपयोगो दृश्यते अत आह -- प्रत्यक्षादी ति. अयम् अभिप्रायः -- वेदस्वरूपावधारण एव तावन्महानुपकारः प्रत्यक्षस्य, न हि तदन्तरेण पुरः -- प्रथमम् एव स्वाध्यायग्रहणकाले वर्णमात्राद्य् अवधारयितुं शक्यते, तदा चानवधृतं शास्त्रार्थज्ञानवेलायाम् अस्मृतत्वान् नोपयुज्येतैव. अतः पुरस्तात् परस्ताच् च वर्णमात्रादितः कृते प्रत्यक्षाद्युपयोगं मत्वा तल्लक्षणं कृतम्. अनुमानम् अपि प्रतीकविनियुक्तमन्त्रशेषानुमान उपयुज्यते. यथा देवस्य त्वेति निर्वपतीति. उपमानम् अपि सौर्यादिकर्मणां प्रकृतिविशेषोपमाने. अर्थापत्तिर् अप्य् अश्रुतवाक्यैकदेशकल्पनायाम्. अभावो ऽपि पदवाक्येयत्तावधारणे द्रव्यदेवताद्यभावेन च कर्मणाम् अव्यक्तचोदनात्वावधारण उपयुज्यत इति द्वयोर् आदिशब्दयोर् अर्थ इति

9.10

{3,105} न चैवञ्जातीयकः कश्चिद् उपयोगो गामानयेत्यादिवाक्यस्थस्य शाब्दलक्षणस्यास्तीति तदुपेक्ष्यैव शास्त्रगतम् एव लक्षणं प्रणीतम् इत्य् आह -- यत् त्व् इति

9.11

यत् पुनर् अलक्षिते सामान्ये न विशेषो लक्षयितुं शक्यत इत्य् उक्तं तत्परिहरति -- विशेषश् चे ति. सामान्यलक्षणे हि विशेषो न सिध्यति, व्यभिचारात्. विशेषस् तु सामान्याव्यभिचारीति तस्मिन् लक्षिते तदन्तर्गतं सामान्यं सुखम् एव लक्षितं भवेत्. यदा हि विधायकविज्ञानाद् असन्निकृष्टे ऽर्थे विज्ञानं शास्त्रम् इत्य् उक्तं तदार्थाद् विधायकविशेषरहिताच् छब्दमात्रज्ञानाच् छाब्दम् इति शक्यम् अवगन्तुम् इति न पृथग् उच्यत इति

9.12

ननु नेदं विशेषलक्षणं विशेषोपादानाभावाद् इत्य् उक्तम्. अत आह -- सामान्ये ति. नावश्यम् उपात्तम् एव विशेषणं भवति, किन् तु अधिकारलभ्यम् अपि, यथाग्नेयादिषु वक्ष्यते, त(द्व)द् इहापि चोदनालक्षणाधिकाराच् छब्दविज्ञानाद् इत्य् उक्ते ऽपि विधायकविशेषणं प्रत्येष्यत इति. ननु यदि प्रकृतोपयोगि वक्तव्यं, एवं तर्हि चोदनालक्षणम् एव वाच्यम्, किं शास्त्रलक्षणेनात आह -- चोदने ति. पर्याया एत इति भावः

9.13

अयं चाधिकारतो विशेषलाभो जैमिनेर् अप्य् अनुमतश् चोदनाशब्दम् अविशेषितं द्वितीये सूत्रे प्रयुञ्जानस्येत्य् आह -- यथा चे ति. एवं हि मन्यते -- यद्य् अपि चोदनाशब्दः प्रवर्तकवाक्यमात्रवचनः, तथापि प्रथमसूत्रे ऽथशब्देन{3,106}वेदाध्ययनानन्तर्यस्योपात्तत्वात् तदधिकाराद् एव चोदनाशब्दो वैदिक्याम् एव चोदनायाम् अवतिष्ठते, एवम् इहापि शास्त्रलक्षणे चोदनाप्रामाण्याधिकारात् शब्दविज्ञानार्थज्ञानशब्दौ विशिष्टशब्दार्थपरौ, विधायके शब्दशब्दो विधेये चार्थशब्द इति

9.14

यद् अपि वृत्तिकारमतोपन्यासावसरे प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम् इति भाष्यकारेणोक्तं तत्रापि विशेषशास्त्रापरीक्षाप्रतिज्ञानं प्रकृतोपयोगित्वाभिप्रायेणैवेति दर्शयति -- प्रत्यक्षादी ति. इदं तु चिन्तनीयम्. यदि विधायकशब्दजनितं विज्ञानं शास्त्रम्, किम् इदानीम् अङ्गानि मीमांसा कर्मानुशासनानि च न शास्त्राणि, लौकिकानि च गामानयेत्यादिवाक्यानि शास्त्राणि. यद्य् एवं महान् लोकविरोधः. न हि लौकिका गामानयेत्यादिषु शास्त्रशब्दम् उपचरन्ति. स्ववचनविरोधश् च. यतो गामानयेत्यादिवाक्यस्थं शाब्दलक्षणम् इति हि वदन्ति. मीमांसादिषु वेदवत् ततो ऽपि वा सातिशयं शास्त्रशब्दोपचारम् उपलभामहे. अपि चायं शास्त्रशब्दो रूढो वा स्याद् यौगिको वा, सर्वथा च वेदाङ्गादिषु वर्तितुम् अर्हति, अस्ति हि तेषु यथायथम् अर्थानुशासनं, रूढिश् च सातिशयेति वर्णितम्. अत्राभिधीयते. योगरूढिर् इयं पङ्कजादिवत्, अतो न तावद्गामानयेत्यादिष्व् अतिप्रसज्यते. सत्य् अपि योगे लौकिकानां तेष्व् अप्रयोगात्. पुरुषार्थोपदेशान् एव लौकिकाश् शास्त्रम् इति मन्यन्ते. तथा चाङ्गानीति तेषां शास्त्रत्वम्. ननु विधायकं शास्त्रम् इति शास्त्रलक्षणम्, न च तानि कञ्चिद् विदधति. मैवम्. सर्वेषाम् एवानुष्ठानोपदेशपरत्वात्. व्याकरणे हि यत्साधुभिर् भाषेत तद् एभिर् इत्य् उपदिश्यते. मीमांसायाम् अपि प्रत्यधिकरणं न्यायव्युत्पादनेनानुष्ठानोपदेश एव सर्वत्र. अतो यच्छास्त्रं तत्प्रवृत्तिवृत्त्युपदेशकम् एवेति नियमः, न पुनस् तदुपदेशकं शास्त्रम् एवेति लौकिकी प्रसिद्धिर् इह भाष्यकारेणानूदिता, न पुनस् तन्निरपेक्षं शास्त्रलक्षणं प्रणीतम्. अतो{3,107}यदसन्निकृष्टार्थगोचरं पुरुषश्रेयोविधायकं वाक्यं लोके शास्त्रम् इति प्रसिद्धं तच्छास्त्रम्. यत् पुनर् असन्निकृष्टार्थगोचरं विधायकम् अविधायकं वा तच्छाब्दम् इति विवेकः. प्रत्यक्षवच् चात्रापि शब्दतज्ज्ञानादिषु विवक्षातः प्रमाणविकल्पा दर्शयितव्याः. नावश्यं ज्ञानम् एव प्रमाणम् इत्य् अभिनिवेष्टव्यम्. पूर्वप्रमाणे चोत्तरं वाक्यार्थज्ञानं फलं तत्प्रामाण्ये च हानादिबुद्धिर् इति विवेक इति

9.15

इदं च शास्त्रम् अनुमानाद् अभिन्नम् इति प्रमाणद्वयवादिनो मन्यन्ते, तान्निराकर्तुकामस् तेषां मतम् उपन्यस्यति -- तत्रे ति. इदं च प्रतिज्ञामात्रम् एव तेषाम् उक्तम्, तदीयाभेदहेतूपन्यासस् तु परोक्तभेदहेतुनिरासावसरे करिष्यत इति. किं पुनर् अभेदोपन्यासनिरासयोः प्रयस्यते, नन्व् अयं साङ्ख्यादिभिर् एव भेदवादिभिर् अभेदो निराकृत एव, अत आह -- भेद इति. न तैस् सम्यग्भेदकारणम् उक्तम् इत्य् अर्थः

9.16

तान् एव तदुक्तान् भेदहेतून् निराकर्तुम् उपन्यस्यति -- पूर्वसंस्कारे त्य् उक्ता न्तेन. एवं हि तैर् उक्तम् -- शब्दे हि पूर्वसंस्कारयुक्तो ऽन्त्यो वर्णो, वाक्यं, आद्यो ऽपि वा वर्णः, सर्वे वा प्रत्येकं, सहिता वा, तेषाम् एव क्रमः पदानां वा वाक्यत्वजातिर् एव वावयवी वा निर्धूतनिखिलवर्णादिविभागः स्फोटो वा पदान्य् एव वा संहत्यार्थम् अभिदधति. एते च पदेष्व् अपि विकल्पा दर्शयितव्याः. तथा विवक्षाप्रयत्नादयश् च शब्दनिष्पत्तिहेतव इति. सर्वम् इदं धूमादौ न दृष्टम् इति तद्वैधर्म्याद् अ(न)नुमानत्वम् इति. अत्र दूषणम् आह -- तत्रे ति. बौद्धेन शाब्दम् अनुमानाद् अभिन्नम् अन्वयव्यतिरेकाभ्याम् उत्पत्तेः, धूमाद् अग्न्यनुमानवद् इत्य् उक्ते, यद् एतद् धूमादिवैधर्म्येण प्रत्यवस्थानम्, इयं वैधर्म्यसमा नाम जातिः, विकल्पसमा वा. का पुनर्जातिः. साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः. वादिना हि प्रयुक्ते प्रयोगे प्रसङ्गो जायते, स जायत इति जातिर् इत्य् उच्यते, स च प्रसङ्गः साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम्.{3,108}यत्रोदाहरणसाधर्म्येण वादिना हेतुर् उक्तः, तत्र यदा प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति. यथा -- क्रियावान् आत्मा क्रियाहेतुगुणयोगात् लोष्टवद् इति वादिनोक्ते, प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति -- यथा क्रियावद् द्रव्यम् अविभु दृष्टम्, यथा लोष्टम्, न तथात्मा, तस्मान् निष्क्रिय इति. सेयं वैधर्म्यसमा जातिर् इत्य् उच्यते. तथा धर्मान्तरविकल्पात्. यदा प्रतिवादिना साध्य(ध)र्मस्यापि विकल्प आपाद्यते, असौ विकल्पसमा नाम जातिर् उच्यते. यथास्मिन्न् एव प्रयोगे प्रतिवादी वदति, क्रियाहेतुगुणयुक्तं किञ्चिद् अविभु दृष्टं यथा लोष्टम्, किञ्चिद् विभु यथात्मा, एवं किञ्चित् क्रियावद् भविष्यति किञ्चिद् अक्रियावद् इति. एवम् इहापि परेणाभेदसाधने उक्ते धूमादिवैधर्म्यमात्रेण प्रत्यवस्थाने वैधर्म्यसमा नाम जातिर् आपाद्यते. धूमाद् अग्न्यनुमानं हि वाक्यविकल्पादिरहितम्. न च तथा शाब्दम्. अतो नानुमानम् इति. तथा विकल्पसमाप्य् एवं दर्शयितव्या. अन्वयव्यतिरेकजम् एव किञ्चिद् वाक्यविकल्पाद् इमद् दृष्टं यथा शाब्दम्, किञ्चिच् च न, धूमादिनाग्निज्ञानम्. एवं किञ्चिद् अनुमानं भविष्यति, किञ्चिद् अननुमानम् इति. जातिद्वयप्र(तिपादनात् प्र)त्युत्तरं च साधकम् इति न वचनीयम् इति

9.17

कथं पुनर् इयं जातिः, एवं हि साधनम् इदम् -- शाब्दम् अनुमानाद् भिन्नं तद्वैधर्म्यात् प्रत्यक्षवद् इति, अत आह -- धूमे ति. न तावत् त्रैलक्षण्यप(रित्यागेन) वैधर्म्यं तैर् उक्तम्. किञ्चिद् विशेषणमात्रेण तु वैधर्म्यम् अविशिष्टम् अर्थात्मकानाम् अनुमानानाम् इति तेषाम् अप्य् अनुमानाद् भेदो भवेत्, न चासाव् अस्ति, न हि धूमादीनां ... ... ... ... ... ... ... ... वैलक्षण्यम् इत्य् अननुमानता भवति. त्रैलक्षण्यापरित्यागाद् अनित्यत्वं कृतकत्वे हेतुर् इति. त्रैलक्षण्यपरित्यागप्रतिपादने (?प्य् अ।ह्य् अ)नुमानाद् भेदस् सिध्यतीति

9.18

{3,109} वैलक्षण्यमात्रेण तु भेदं वदतो वैलक्षण्यवचनस्य जातितैवापद्येतेत्य् आह -- त्रैलक्षण्ये ति

9.19

यद् अपि चेदम् अपरं शाब्दानुमानयोर् वैलक्षण्यम् उक्तम् -- धूमादयो हि स्वाभाविकेनैव प्रतिबन्धेन प्रतिबन्धकबुद्धिम् अनुमाने जनयन्ति, शब्दात् तु यथेष्टविनियुक्ताद् एवार्थप्रत्ययो दृश्यते, अतो भेद इति, तत्राप्य् आह -- यथे ति. अयम् अभिप्रायः -- अत्रापि यदि किञ्चिद् वैधर्म्यमात्रेण भेद उच्यते, अतो जातिर् एव. अथायं प्रयोगः -- शाब्दम् अनुमानाद् भिन्नं यथेष्टविनियोगेनार्थप्रतिपादनाद् अक्षवद्. अक्षं हि चक्षुरादि यत्रैव व्यापार्यते, तद् एव प्रतिपादयतीति. तद् अयुक्तम्. तत्रापि स्वाभाविक्यैवात्मशक्त्या रूपादिप्रतिपादनात्. अथ स्वगोचरे यथेष्टविनियोगेन प्रतिपादनं हेतुर् उच्यते, अतो लिङ्गम् अपि परार्थप्रयोगे यम् एव प्रति प्रयुज्यते तम् एव प्रतिपादयतीति समानम्. अथ यथेष्टविनियोगस् सङ्केतो ऽभिधीयते, ततो ऽयम् अर्थो भवति, यत्रैव सङ्केत्यते तम् एव गमयतीति, ततो दृष्टान्ताभावः, न हि शब्दाद् अन्यत् सङ्केतानुविधानेनार्थं बोधयति. अथावीतहेतुर् अयम्. अनुमानं हि यथेष्टविनियोगाननुविधायिप्रतिपादनम्, न चेदं तथा, अतो भिन्नम् इति. तन् न. व्यतिरेकमात्रस्यागमकत्वाद् अन्वयव्यतिरेकी हि हेतुर् इष्यते. न चायं हेतुर् अनुमानाद् अभेदेन व्याप्तः क्वचिद् अवगतः, शब्दातिरेकिणः कस्यचिद् यथेष्टविनियोगेनाप्रतिपादनात्. अथास्ति हस्तसङ्केतादीनां यथासमयं प्रतिपादनम् इत्य् उच्यते. तत् तर्हि प्रमाणान्तरम् अनुमानं वा. न तावत् प्रमाणान्तरम्, तल्लक्षणाभावात्. अतो व्याप्तिबलेन ज्ञायमानम् अनुमानम् एव तत्. एवं च सति तेनैव व्यभिचार इति नानुमानाद् व्यावृत्तिर् हेतोस् सिध्यति. तद् इदम् उक्तं व्यभिचारो ऽङ्गवृत्तिभिर् इति. अङ्गानां हस्तादीनाम् आकुञ्चनप्रसारणाद्या वृत्तयो ऽङ्गवृत्तय इति

9.20

{3,110} एतद् एव विवृणोति -- हस्ते ति. हस्ताद्यङ्गाश्रितवृत्तय एवार्थविशेषज्ञानाङ्गतया हस्तसंज्ञेत्य् उच्यन्ते. कथं पुनर् इदम् अनुमाम्, न हि हस्तादिसन्निवेशास् सङ्ख्याविशेषादिभिर् अर्थैर् व्याप्ताः. तैर् विनापि कदाचिद् भावात्. किन् तु अङ्गुल्यादिसन्निवेशात् सङ्केतकालभाविशब्दस्मरणेनार्थं प्रतिपद्यमानाः शब्दाद् एव प्रतिपद्यन्ते. तन् न. अन्तरेणापि शब्दसङ्के(?त।तं) व्यवहार एवाव्युत्पन्नस्याङ्गुल्यादिसन्निवेशदर्शिनस् तदर्थावगतेः. न चात्र व्यभिचारः. न हि यादृशे सन्निवेशे व्याप्तिर् अवगता तादृशस्य व्यभिचारो दृश्यते. तद् इदं तेन धर्म्यन्तरेष्व् एषेत्य् अत्र वर्णितम्. अतो ऽनुमानम् एवेदम्. तद् इदम् उक्तं - ते तल्लिङ्गम् इति स्थितिर् इति. सर्वं चेदम् अन्वारुह्य वार्त्तिककारेण दूषणं दत्तम्. न हि यथेष्टविनियोगेन शब्दाद् अर्थप्रतीतिर् भवति. गवादिशब्दा हि निजशक्त्यनुसारेणैव स्वार्थं प्रतिवेदयन्ति. यदृच्छाशब्दास् तु हस्तसंज्ञादितुल्यास्ते सङ्केतानुसारेणार्थं बोधयन्तो ऽनुमानम् एवेति किं तद्भेदप्रतिपादनेनेति

9.21

इदम् अपरं भेदकारणं, शब्दाद् धि पुरुषापेक्षो ऽर्थनिश्चयः, लिङ्गं तु स्वमहिम्नैवार्थं निश्चाययति, अतस् तद्वैलक्षण्याद् भेद इति. अयम् अपि अवीतहेतुः. एवं च वक्तव्यम् -- न पुरुषोपक्षो ऽनुमाने ऽर्थनिश्चयः, न च तथा शब्द इत्य् अतो भिद्यत इति. एतद् अपि दूषयति -- पुरुषे ति. व्यतिरेकहेतुर् व्यतिरेकपुरस्कारेणैवार्थं साधयति, प्राणादय इवानात्मकाद् देहाद् व्यावृत्तम् आत्मानम्. पुरुषापेक्षिता त्व् अनुमाने ऽप्य् अर्थनिश्चयाङ्गम् अङ्गवृत्तिषु दृष्टा. यादृशो हि सङ्केतो यदर्थप्रतिपादने पुरुषैः कृतः, तम् एव परपुरुषापेक्षया बुध्यन्ते. अतो ऽत्रापि व्यभिचारितेति. अपि चाव्यापकत्वाद् असिद्धो हेतुर् इत्य् आह -- पदे ति. पदानि हि स्वमहिम्नैवार्थं प्रतिपादयन्ति न पुरुषापेक्षया.{3,111} वेदवाक्यान्य् अपि न स्वार्थप्रतिपादनाय पुरुषम् अपेक्षन्ते, स्वरूपावधारणमात्र एव तेषाम् आप्तापेक्षेति

9.22

ननु नागृहीतसम्बन्धं पदं प्रत्यायकं भवति. न च पुरुषानपेक्षा सम्बन्धावगतिर् अस्ति. वेदवाक्यान्य् अपि नागृहीते पदपदार्थसम्बन्धे स्वार्थं प्रतिपादयन्ति. अतो ऽयं पदपदार्थसम्बन्धः पुरुषापेक्ष एवेति नाव्यापकत्वम्. अत आह -- सम्बन्धे ति. अयम् अभिप्रायः -- अर्थप्रतिपादने तावदनपेक्षम् एव पदं वैदिकानि च वाक्यानि. सम्बन्धानुभवश् च यथेह पुरुषापेक्षस् तथान्यत्राप्य् अनुमाने ऽसौ विलक्षणो दृश्यत एवेति. वैलक्षण्यम् एव दर्शयति -- एतस्मिन्न् इति अन्यो ऽन्तेन. एतस्मिन्न् इति. हस्तसंज्ञादौ पुरुषापेक्षः, पौरुषेयो हि समयः. अग्निधूमयोस् तु देशापेक्षः. चन्द्रोदयसमुद्रवृद्ध्योस् तु कालापेक्षः. आदिशब्देनावस्थापेक्षितां दर्शयति. तद् अनेनैतद् उक्तं भवति -- अनुमाने ऽप्य् अनेकप्रकारस् सम्बन्धावगमो देशाद्यपेक्षया भेदात्. एवम् इहापि पुरुषापेक्षो भविष्यति. अनुमाने ऽपि तदपेक्षस् सम्बन्धबोधो दृष्ट इति. अपि च परोक्ताभेदहेतुनिरासो ऽपि तैर् न कृत इत्य् आह -- उक्ता चे ति

9.23

तम् एवाभेदहेतुम् उपन्यस्यति -- आप्तवादे ति. अयम् अर्थः -- यथा धूमादिषु भेदहानेन सामान्यधर्मयोर् व्याप्तिर् अवधार्यते, एवं शाब्दे ऽप्य् आप्तवादाविसंवादसामान्ययोर् व्याप्तिर् अवगता. (?आप्तवादाविसंवादेति). एवं च विदित्वा वेदे ऽपीश्वराप्तवादत्वाद् अविसंवादो ऽनुमीयते, अतो ऽनुमानम् एवेदम्. यावत् त्व् अविसंवादो नानुमीयते तावदर्थगोचरं ज्ञानम् उत्पन्नम् अप्य् अनिश्चायकत्वाद् अप्रमाणम् एव. सामान्यशब्दः प्रत्येकम् अभिसम्बध्यते. ल्यब्लोपे पञ्चमी.{3,112}तद् अयम् अन्वयो भवति -- यद्य् अप्य् आप्तवादाविसंवादविशेषाणां भेदान् न सम्बन्धो ऽवगन्तुं शक्यते, तथापि तयोस् सामान्यप्रतीत्यानुमानता शक्यते वक्तुम्, सामान्ययोर् व्याप्तिसम्भवाद् इति

9.24

नन्व् इदम् अस्ति भेदकारणम्, अनुमानं सम्बन्धावधारणाधीनम्, शब्दास् त्व् अपूर्वादयस् सम्बन्धज्ञानानपेक्षा एव स्वार्थं प्रतिपादयन्तीति, अतो भिद्यते इत्य् अत आह -- न चे ति. गवादयस् तावत् विदितसम्बन्धा एवार्थं प्रतिपादयन्तीति तेषां दुर्वारम् अनुमानत्वम्, यदि त्व् अपूर्वादिदृष्टान्तेन तेषाम् अपि भेदो ऽभिधीयते. तन् न. शक्नोति हि वक्तुम् इतरो ऽपि तेषाम् अनुमानत्वं सम्बन्धाधीनबोधकत्वाद् धूमादिवद् इति. अपि चापूर्वशब्दा अपि नाश्वादिशब्देभ्यो विशिष्यन्ते, पदत्वेनाभेदाद् इत्य् आह -- न चे ति

9.25

किम् अतो यद्य् एवम् अत आह -- न चे ति. यतः खल्व् एतानि पदानि, न च पदम् अज्ञातसम्बन्धं प्रकाशकम् अस्ति. अतो ऽमीभिर् अपि विदितसम्बन्धैर् एवार्थो वेदनीयः, पदत्वात्. कथं पुनः प्रमाणान्तरादृष्टपूर्वेणापूर्वस्वर्गादिना सम्बन्धो ऽनुभवितुं शक्यते. न शक्येतापि, यदि प्रमाणान्तरागोचरता भवेत्. अपूर्वं तु श्रुतकर्मफलसम्बन्धाद्यन्यथानुपपत्तिप्रमाणकम्. स्वर्गश् च निरतिशयानन्दस्वभावो वैदिकवाक्यशेषेभ्यो ऽवगम्यत इति तथावगतयोस् सम्बन्धग्रहणोपपत्तिर् इति. अतो यत् परैर् उक्तं शब्दो नानुमानं सम्बन्धानपेक्षत्वाद् अक्षवद् इति तद्धेतोर् असिद्ध्या दूषितम् इत्य् आह -- सम्बन्धे ति

9.26

भेदकारणान्तरम् उपन्यस्य दूषयति -- तुल्ये ति. शब्दः प्रत्यासत्त्या तज्ज्ञानम् अर्थश् च तद्धीश् चेति विग्रहः. अयम् अप्य् अवीतहेतुर् दर्शयितव्यः. तन्निराकरणं चाध्यासनिराकणोक्तम् अनुसन्धातव्यम्. अतस् तुल्याकारत्वम् असिद्धम् इति

9.27

{3,113} अपि च विवक्षानिवृत्तेर् अनैकान्तिको हेतुर् इत्य् आह -- प्रतिबिम्बेष्व् इति. एकान्तो निर्णयः, सो ऽस्य कार्यं, तन्नास्तीत्य् अनेकान्त इति. कथम् अनेकान्तः, अत आह -- बिम्बम् इति. यादृशं हि दर्पणे बिम्बम् उपलभ्यते तादृशम् एव मुखादि बुध्यते, अतो ऽस्त्य् अत्रापि गम्यगमकयोस् सादृश्यम् इति प्रतिबिम्बेषु वर्तमानो हेतुर् अनैकान्तिको भवतीति. ननु नेदम् अनुमानम्, आदर्शतेजसा हि प्रतिहतेन नायनेन तेजसा प्रकाशितं प्रत्यक्षम् एव मुखम् अवगम्यत इति शब्दाधिकरणे वक्ष्यते. अत आह -- न चे ति. अयम् अभिप्रायः -- यदा ह्य् अयं प्रत्यक्षेष्व् अङ्गुल्यादिष्व् आदर्शवर्तिना प्रतिबिम्बेन तादृक्त्वे विदितव्याप्तिर् भवति, तदा मुखम् अप्य् आदर्शगतं बिम्बानुरूपम् अनुमिनोति. इतरथा त्व् अङ्गुलिसन्निकर्षो ऽप्य् अन्यरूपम् अन्यादृक्तया बोधयतीति सम्भावयेत्. अतो न तादृक्त्वं निश्चिनुयाद् इति

9.28

अस्तु वेदं प्रत्यक्षं, किम् इति सूक्ष्मेक्षिकया, विशदतरम् एवानुमानम् उपदर्शयामः, यत्र गम्यगमकयोस् सादृश्यम् अवगम्यत इत्य् आह -- प्रत्यक्षते ति. गतानाम् इत्य् अनुमानविषयसिद्ध्यर्थम् अप्रत्यक्षतां दर्शायतीति

9.29

यद् अपीदम् उक्तम् -- शाब्दे हि सकृदुक्तम् एव वाक्यं सहसा नानार्थान् प्रतिभासयति विरुद्धानविरुद्धांश् च, चोदनालक्षणो ऽर्थो धर्मः, श्वेतो धावतीति च यथा, नैवम् अनुमाने. धूमो हि येनैव विदितव्याप्तिस् तत्रैकत्रैवे धियम् आदधाति. अतश् शब्दानुमानयोर् भेदः. प्रयोगश् च भवति -- शब्दो ऽनुमानाद् भिन्नः, एकदा नानार्थप्रतिभासाद् अक्षवद् इति. अवीतहेतुर् वा, लिङ्गम् एकं एव{3,114}प्रकाशयति, यथा धूमादि, न च तथा शब्दः, अतो भिद्यत इति. तदुपन्यस्य दूषयति -- एकवाक्याद् इति. अनेनापि प्रकारेण न भिन्नतेत्य् अर्थ इति

9.30

किम् इति न भिन्नता, अत आह -- लिङ्गस्यापी ति. अनैकान्तिको हेतुर् इति भावः. हेतुर् हि धूमो ऽग्नित्वम् उष्णत्वं दाहकत्वम् इन्धनविकारत्वं च एकदैव प्रतिपादयति. तथा विरुद्धः -- नित्यश् शब्दः कृतकत्वाद् इति, विवक्षानुसारेण तावन्नित्यत्वां प्रतिपादयति, व्याप्तिबलेन चानित्यत्वम् अतो ऽनैकान्तिको हेतुर् इति. ननु न विरुद्धो ऽनेकम् अर्थं प्रतिपादयति, व्याप्तिबलेन हि लिङ्गं प्रतिपादकं भवति. अतः कृतकत्वम् अनित्यत्वेन व्याप्तम् इति तद् एव गमयति, विरुद्धार्थव्याप्तिस् त्व् एकस्य विरोधाद् एव न सम्भवतीति. तत् तावद् आशङ्कते -- विरोधाद् इति. उत्तरम् आह -- स्याद् इति. विवक्षितार्थप्रतिपादने हि शब्दस्य शक्तिर् अवगता, अतस् सो ऽप्य् एकदैकम् अर्थं प्रतिपादयति, अर्थान्तरे त्व् असाव् अपि विरोधाद् अनागमक एवेति

9.31

भूयसां चैकार्थानां वाक्यानां नानेन हेतुना भेदस् सिध्यतीत्य् आह -- यत्र चे ति. न केवलं विरुद्धम् अनेकं शब्दो न प्रतिपादयति, किन् तु अविरुद्धम् अपि. उक्तम् इदं - विवक्षिते शब्दः प्रमाणम् इति. सकृदुच्चरिताच् च वाक्याद् एकैव वक्तृगामिनी विवक्षोन्नीयत इति. तदनुसारेणार्थो ऽप्य् एक एव बुद्धो भवति. अतो न क्वचिद् अनेकार्थप्रतिपादनम् इत्य् असिद्धो हेतुर् इत्य् आह -- सकृद् इति

9.32

नन्व् अस्ति तावदनेकार्थप्रतिभानं शब्दात्, प्रमाणं त्व् एकत्र भवतु नाम, एतावता च सिद्धम् अनुमानाद् वैधर्म्यत आह -- यस् त्व् इति. यथा हि{3,115}न्याय्यवचनव्यक्तिपरिचयात् पूर्वं शब्दाद् अनेकार्थाः परिप्लवन्ते, तथा लिङ्गे ऽपि धूमादाव् अस्फुटविदिते ऽनेकार्थप्रतिभानं दृष्टम् एव. भवति हि दूराद् धूमो ऽयम् आहोस्विद् धूलिसन्तान इति संशयानस्याग्निवातावर्तयोर् अनवस्थितो वितर्क इति

9.33

तथा शब्दे दृष्टान्तानभिधानम् अपि धूमादौ व्यभिचारान् न भेदहेतुर् इत्य् आह -- दृष्टान्ते ति. कथं व्यभिचारः, अत आह -- प्रसिद्धत्वाद् इति

9.34

नन्व् अप्रसिद्धे तावद् अस्ति दृष्टान्तापेक्षा, शब्दे तु तद् अपि नास्तीत्य् अत आह -- अनभ्यस्त इति. अपेक्षाम् एव दर्शयति -- अत्रे ति. यत्र ह्य् अप्रसिद्धपदार्थगोचरस् संशयो भवति, तत्र यावद् अयं शब्दो ऽमुष्मिन्न् अर्थे वृद्धैर् आचरित इति चिरेण प्रणिधाय न बुध्यते, न तावत् तम् अर्थं निश्चिनुयाद् इति. तद् एवं तावद् भेदवादिभिर् न भेदहेतवस् सम्यगुक्ता इति दर्शितम्

9.38

बौद्धोक्ताभेदहेतुनिरासो ऽपि तैर् न कृत इत्य् आह -- परोक्ता इति. तान् एवाभेदहेतून् उपन्यस्यति -- शब्दानुमानयोर् इति सार्धद्वयेन. अस्यार्थः -- यथा धूमाद् अग्न्यनुमानम् अन्वयव्यतिरेकजम्, एकस्य च धूमस्य प्रत्यक्षदर्शनात्,{3,116} सम्बन्धपूर्वकं च भवति, एवं शब्दाद् अपि ज्ञानं जायमानम् एवं जायते. प्रत्यक्षाच् च तदन्यत् प्रमाणं, प्रत्यक्षादृष्टं चार्थं बोधयति, सामान्यविषयं च शाब्दं, त्रैकाल्याश्रयं च. अतो न भिद्यते. इदं च साधनवाक्यस्यार्थकथनम्. साधनप्रयोगास् त्व् एवं दर्शयितव्याः -- शाब्दं ज्ञानम् अनुमानम् अन्वयव्यतिरेकजत्वात् अग्न्यनुमानवद् इति. एकप्रत्यक्षदर्शनोत्पत्तेः, तद्वद् एव सम्बन्धपूर्वकत्वं (?वा।च) हेतुः. ताव् एव साध्यदृष्टान्तौ. न च वाच्यम् अन्वयव्यतिरेकजत्वात् सम्बन्धपूर्वकत्वं न भिद्यते, अन्वयव्यतिरेकात्मकत्वाद् अनुमानसम्बन्धस्येति. पूर्वं हि सम्बन्धविशेषजत्वं हेतुर् उक्तः इदानीं त्व् अविवक्षितविशेषं सम्बन्धसामान्यपूर्वकत्वम् इति. एवम् उत्तरेष्व् अपि त्रिषु पूर्ववत्साध्यदृष्टान्तयोजना कार्या. चतुर्थे त्व् अग्न्यनुमानं प्रदर्शनमात्रम्. भविष्यद्वृत्तवृ(?त्त्य।ष्ट्य)नुमाने अपि दर्शयितव्ये इति ॥ 35 - 37 ॥
मीमांसकैकदेशिनां भेदहेतुम् इदानीं दूषयितुम् उपन्यस्यति -- कैश्चिद् इति. विषयान्तरम् एव दर्शयति -- पूर्वाभ्याम् इति. अयम् अभिप्रायः -- यद्यदपरिच्छिन्ने प्रवर्तते तत् ततो भिद्यते, अनुमानम् इव प्रत्यक्षात्. शास्त्रं च पूर्वद्वयापरिच्छिन्ने ऽर्थे प्रवर्तते. ततस् ताभ्यां भिद्यते. किं पुनः प्रत्यक्षाद् भेदप्रतिपादनेन प्रयोजनम्, न हि तदभेदः कैश्चिद् आश्रितः, यन् निराक्रियते. उच्यते. अस्त्य् एव केषाञ्चिद् विभ्रमः, श्रोत्रव्यापाराश्रयाज् जायमानम् इदं शाब्दं श्रोत्रप्रत्यक्षम् एव, तदन्वयव्यतिरेकानुविधानात्. अत एव बधिरस्य न भवतीति. तद् अनेन प्रत्यक्षतो भेदप्रतिपादनेन निराक्रियते. एवं हि मन्यते -- विद्यमानोपलम्भनं प्रत्यक्षम् इति दर्शितम्. इदं तु शाब्दं त्रिकालार्थविषयम् अतः कथं प्रत्यक्षो ऽन्तर्भविष्यति. बधिरस् तु शब्दाश्रवणाद् अर्थं न जानाति, नार्थाश्रवणात्. प्रयोगश् च भवति -- शाब्दं प्रत्यक्षाद् भिन्नं, तदपरिच्छिन्नविषयत्वाद् अनुमानवद् इति

9.39

{3,117} तद् इमं प्रत्यक्षतो भेदम् अभ्युपेत्यानुमानाद् भेदकारणं निराकरोति -- तत्रापी ति. एवं हि मन्यते -- यद्य् अनुमानापरिच्छिन्नविषयतया भेदोभिधीयते, तर्हि पुंवाक्यानाम् अनागमत्वम्, प्रमाणान्तरपरिच्छिन्नविषयवात्, वेदवाक्यान्य् एव तु मानान्तराविषयार्थानि भिद्यन्ते इत्य् अव्यापको हेतुर् इति. किं पुनर् इदम् अनिष्टम् आपादितम्, नन्व् इष्यत एव पुंवचसाम् अनागमत्वम्, आगमो हि शास्त्रम्, अप्राप्ते शास्त्रम् अर्थवद् इति वक्ष्यति. इमानि पुनः प्रमाणान्तरप्राप्तविषयप्रतिपादकानीत्य् अनुवादवाक्यान्य् एव. अत एव शास्त्रम् एव वेदवाक्यं भिन्नतया पक्षीकृतं शास्त्रम् अर्थे प्रवर्तत इति. तद्भेदस्यैवोपयोगाद् इति भावः. तद् एतद् आह -- तथे ति. अत्र दूषणम् आह -- प्रत्यय इति. एवम् अयं पुंवचनाप्रामाण्यवादी वक्तव्यः. किम् अस्ति तेभ्यो ऽर्थप्रत्ययो न वा, न तावन् नास्ति, सर्वलोकव्यवहारोच्छेदप्रसङ्गात्. सतस् तु नानिमित्तोत्पत्तिस् सम्भवतीति विमित्तं वाच्यम्. न च शब्दाद् अन्यन्निमित्तम् अस्योपपद्यत इति जातम् असन्दिग्धम् अवाधितं च ज्ञानान्तरेण प्रमाणम् एव पुंवचनजनितं ज्ञानम् इति नास्यानागमत्वाभ्युपगमो युक्त इति. इतरस् त्व् अनुमानान्तर्भावाभिप्रायेणाह -- वक्तृबुद्धेर् इति. अयम् अभिप्रायः -- विसंवादभूयिष्ठानि हि पुंवचनानि, तन्नैतानि श्रुतमात्राण्य् एवार्थं निश्चाययन्ति. न चानिश्चितो ऽर्थो ज्ञातो भवति, निश्चयस्यैव ज्ञानत्वात्. अतः प्राङ्निश्चयोत्पत्तेर् ज्ञानाभाव एवेति किं निमित्तप्रयत्नेन. यदा तु वक्तैवम् अवधारितव्याप्तिर् भवति -- न चायम् अनवगतं ब्रवीतीति, तदा तद्वाक्याद् एव ज्ञानकार्यात् कारणभूतं ज्ञानम् अनुमाय ज्ञानस्यार्थाव्यभिचारेणार्थो निश्चीयते. तस्यां चावस्थायां ज्ञानलिङ्गावगतत्वाद् अर्थस्य वाक्यम् अनुवादकम् एव. अतो नागम इति. सिद्धान्तवादी त्व् आह -- कुतो न्वसाव् इति. अयम् अभिप्रायः -- अवगता हि बुद्धिर् अर्थं निश्चाययति. न चास्याः किञ्चिद् अवगमे कारणम् अस्तीति वक्ष्याम इति

9.40

{3,118} अतः स्वयम् एवानवगता नार्थस्य लिङ्गम् इत्य् आह -- ने ति. ननूक्तं कार्यात् शब्दाद् अनुमास्यते, अत आह -- न शब्द इति. यथा नोभयम् उभयत्र लिङ्गं, तथा दर्शयति -- विशेष इति. अनुमानं हि व्याप्तिबलेन भवति, इह च वाक्यसामान्यं ज्ञानसामान्येन व्याप्तम् अवगतम् इति ततस् तत् सिध्येद्, ज्ञानमात्राच् चार्थमात्रम्, न चेह तथा, ज्ञानार्थविशेषयोर् अनुमित्सितत्वात्. तयोश् च सम्बन्धग्रहणाभावेनाननुमेयत्वात्. ननु यत्राप्तो वाक्यं प्रयुङ्क्ते तद् एव ज्ञात्वा प्रयुङ्क्त इति विज्ञानविशेषेणैव सम्बन्धो ऽवगतः. अतस् स एवानुमास्यते. यद्य् एवम्, अवगतस् तर्हि प्राग् एव वाक्याद् अर्थः, न ह्य् अन्यथा यत्र प्रयुङ्क्त इति शक्यते वक्तुम्. अपि चाविदिते प्रथमम् अर्थे कथं ज्ञानम् अनुमातव्यम्. किम् अज्ञासीद् अयं वक्ता किञ्चिद् इति, आहोस्विद् इमम् अर्थम् इति, नाप्रतिपन्नम् इदमा शक्यते प्रतिनिर्देष्टुम्. न चार्थोपरागम् अन्तरेण ज्ञानस्य विशेषस् सम्भवति यो ऽनुमीयते. न चाकर्मकं ज्ञानमात्रम् अनुमीयते. न च ततो ऽर्थविशेषस् सिध्यति. न चानिश्चितं ज्ञानं, संशयात्मनो विज्ञानविधाया दर्शितत्वात्. न चैवं पुंवाक्येभ्यस् सन्देहः. या तु क्वचिद् व्यभिचाराद् अप्रामाण्याशङ्का सा आप्तत्वादिना निराक्रियत इत्य् उक्तम्. यदि त्व् एवं ज्ञानविशेषावगतिर् उच्यते, य एवम् अवधारितो भवति -- नायम् अनन्वितार्थानि पदानि प्रयुङ्क्ते, न चानवगतान्वयानि, तन् नूनम् अमीषाम् अनेनान्वयो ज्ञात इति. किम् इदानीं विदितपदपदार्थसङ्गतिः श्रोता पुंवाक्याद् अर्थं न बुध्यत एव. यद्य् एवम् अनुत्तरा गुरवः. जाता तु बुद्धिर् असन्दिग्धाविपर्यस्ता च न वेदवाक्यजनिताया धियो विशिष्येत. शङ्कामात्रं तु कथञ्चिद् वेदे ऽपि वाक्यत्वादिना भवतीति न तावता तदप्रामाण्यम्. ताभ्याम् इति. बुद्धिशब्दाभ्याम् इत्य् अर्थः

9.41

अतो वक्त्रभिप्रायावगतौ प्रत्यक्षादिप्रमाणासम्भवात् तदनवगमे{3,119}चार्थानुमानानुपपत्तेश् श्रोतुर् अप्राप्तपूर्वम् अर्थं प्रापयन्ती पुरुषोक्तिर् वेदवदागम एवेत्य् आह -- तेने ति

9.42

यद् अपि चेदम् उच्यते. वेदस् तावद् भिन्नविषयतया प्रमाणान्तरम् एवेति, तद् अपि मनोरथमात्रम् एवेत्य् आह -- न चापी ति. न शक्यते वक्तुम् इत्य् अभिप्रायः. किम् इति न शक्यते. अत आह -- लिङ्गम् इति. यदा पूर्वोक्तैर् हेतुभिर् अविशेषेण सर्वम् एव शाब्दम् अनुमानाद् अभिन्नम् इत्य् उक्तं, तदा कथं तद्गोचरस्याननुमेयत्वं भविष्यतीति भावः

9.43

नन्व् अर्थात्मना तावल्लिङ्गेनाननुमितपूर्वम् अर्थं वेदो बोधयतीति प्रमाणान्तरं भविष्यतीत्य् अत आह -- न चे ति. धूमवत्त्वकृतकत्वादीनां हि सत्य् अप्य् अवान्तरभेदे यथैव त्रैलक्षण्यापरित्यागेनानुमानत्वम् एवम् इहापि स्यात्. यदि तु तद् एव नास्तीत्य् उच्यते, तत् तर्हि वचनीयम्, किम् अवान्तरभेदोपन्यासेनेति

9.44

अन्ये तु प्रक्षीणशक्तयो ऽभेदम् एवाश्रित्यैकदेशिनः प्रत्यवस्थिताः, तद् दर्शयति -- एवं स्थित इति. अयं हि तेषाम् अभिप्रायः -- चोदनाप्रामाण्यं हि प्रतिज्ञातं, तच् चानुमानत्वे ऽपि वेदवचसस् सिध्यत्य् एव. यथैव हि शब्दमध्याद् वेदः प्रमाणम्. एवम् अनुमानेभ्यो वेदोनुमानम् इति किम् अतिप्रयत्नतो भेदप्रतिपादनेनेति. ननु भविष्यत्वाद् धर्मो नानुमीयते इत्य् उक्तं भाष्यकारेण. अतो ऽनुमानत्वाभ्युपगमे तद्विरोधो भवेद् अत आह -- भविष्यती ति. अर्थरूपलिङ्गाभिप्रायेण तन्निराकृतम् इत्य् अर्थः

9.46

{3,120} एतद् अपि दूषयति -- संज्ञे ति. यदि पश्चान्मानसामान्याद् अनुमानत्वं तद् अस्तु, न च तदभ्युपगमे दोष इत्य् अर्थः. लक्षणैकत्वेन त्व् अभेद इष्टे ऽनुमानलक्षणाभावात् प्रमाणान्तरानभ्युपगमाच् चाप्रामाण्यम् एव वेदवचसाम् आपद्यत इत्य् आह -- लक्षणेने ति

9.47

ननूक्तं लक्षणैकत्वम् आप्तवादाविसंवादसामान्याद् इत्य् अत्राह -- आप्तवादे ति. पुंवाक्यानाम् अनेन प्रकारेणानुमानत्वात् प्रामाण्यं सिद्ध्यति न वेदवचसाम् इति भावः

9.48

किम् इति न सिद्ध्यति. अत आह -- वेदे त्व् इति. आप्तनराभावात् तावन्नाप्तवादत्वेनाविसंवादाद् अनुमानम्. न चातीन्द्रियैर् अर्थैर् वेदानां सम्बन्धानुभवस् सिध्यतीत्य् अप्रमाणम् एव भवेयुः. नाप्तसन्दृब्धा वेदा इति वेदाधिकरणे वक्ष्यतीति

9.49

ननु प्रमाणान्तरसङ्गतार्थानि वेदैकदेशभूतानि क्षेपिष्ठादिवाक्यानि दृष्ट्वा इतराण्य् अप्य् अग्निहोत्रादिवाक्यानि वेदत्वात् सत्यार्थान्य् अनुमास्यन्ते. अतो ऽस्ति लक्षणेनानुमानत्वम् इत्य् आह -- नन्व् इति

9.50

{3,121} एतद् अपि दूषयति -- नादित्ये ति. आदित्ययूपवाक्ये वर्तमानो वेदत्वहेतुर् अनैकान्तिक इति. ननु नेदं वाक्यम् असत्यार्थम्, आदित्यशब्दो हि सारूप्याद् गौणो यूपे वर्तत इति तत्सिद्धिसूत्रे वक्ष्यते, अत आह -- तद्वद् इति. कर्मफलसम्बन्धवाक्यान्य् अपि तद्वद् एव गौणानि भवेयुर् इति. अपि च प्राक् स्वमहिम्ना वेदप्रामाण्यबलेनाप्रामाण्यानुमानानि प्रत्युक्तानि. अनुमानत्वाभ्युपगमे तुल्यबलतया तान्य् अपि दुर्वारप्रसरणानीत्य् आह -- नात इति

9.51

अतो लक्षणभेदेनैव शब्दस्य प्रमाणान्तरत्वे इष्यमाणे वेदाः प्रमाणं भवन्ति. लोकवेदयोश् च समम् एव प्रमाणता सिद्धेत्य् आह -- तस्माद् इति

9.52

लक्षणम् अपि यथा परैर् आश्रितम् -- आप्तोपदेशश् शब्द इति, तथाप्य् आप्ताभावान् न प्रामाण्यं वेदस्येति तन्नाश्रयणीयम् इत्य् आह -- तेने ति वेदा न्तेन. लोके ऽपि नाप्तत्वं प्रामाण्ये कारणम् इत्य् आह -- लोक इति

9.53

कारणम् आह -- पुरस्ताद् इति. आप्तत्वेन ह्य् अपवादाशङ्कानिराकरणमात्रम्. प्रामाण्यं तु सर्वसंविदां सहजम् एवेति स्वतःप्रामाण्यवादे वर्णितम् इति. किं तर्ह्य् आगमलक्षणम् अत आह -- तस्माद् इति. निर्दोषशब्दजनितं विज्ञानं प्रमाणम् इति

9.53

{3,122} एकञ्जातीयकस्य शब्दस्य चानुमानेन प्रामाण्यम् एव समं, न लक्षणम् इत्य् आह -- अनुमानेने ति

9.54

स्वमतेनेदानीं पदस्यानुमानाद् भेदं वदिष्यंस् तत्प्रतिपादने कारणम् आह -- पद इति. यद्य् अपि पदस्य पदार्थे प्रमाणत्वान् न तद्भेदप्रतिपादनम् उपयुज्यते, तथापि परैः पदान्य् उदाहृत्य विचारः कृत इति तद्भेदम् एव प्रतिपादयामः. अत्रे ति. पद इत्य् अर्थः

9.55

तद् इदानीं भेदकारणम् आह -- विषय इति. विषयभेदम् एव दर्शयति -- सामान्ये ति. आकृत्यधिकरणे हि पदस्य सामान्यविषयत्वं स्थापयिष्यत इति

9.56

अनुमानं तु धर्मविशिष्टधर्मिविषयम् इत्य् अनुमानपरिच्छेदे साधितम् इत्य् आह -- धर्मी ति. लिङ्गम् अस्यास्तीति लिङ्गी. तस्य विशिष्टस्य प्रसाधकं लिङ्गम् अस्तीति. नन्व् अनुमाने व्याप्तिबलेन धर्मसामान्यम् अनुमीयत इत्य् अत आह -- न तावद् इति. यावत् तदनुमानं तद्विषयं विशिष्टविषयं न भवति तावदनुमानम् एव न भवति, न धर्ममा(?त्रं।त्रविषयं) सिद्धत्वाद् इत्य् उक्तम् इति

9.57

ननु पदम् अपि विशिष्टगोचरं दृष्टं यथा -- को राजा यातीति पृष्टे परः प्रतिब्रवीति, पाञ्चालराज इति. तदा केवलाद् एव पाञ्चालराजपदात् क्रियाविशिष्टः पुरुषो ऽवगम्यते, अत आह -- सामान्याद् इति. यद् एव{3,123}किञ्चित् शाब्दे सामान्याद् अतिरिक्तम् अवगम्यते स वाक्यस्यैव विषयः. वाक्यम् एव हि तदनुषक्तयातिपदं पाञ्चालराजो यातीति. नन्व् अस्तु श्रुतस्यानुषङ्गः, अश्रुते ऽपि पदान्तरे पदाद् एकस्माद् विशिष्टबोधो दृष्टः, यथा -- द्वारम् इत्य् उक्ते विव्रियताम् इति, अत्र कथम् अत आह -- सामर्थ्याद् इति. कारकं हि क्रियया विदितव्याप्तिकम्, व्याप्तिसामर्थ्याद् एव क्रियापदम् अनुमापयति. अनुमितक्रियापदाद् वाक्याद् एव तत्रापि विशिष्टार्थप्रत्यय इति

9.58

अत्र चोदयति -- सङ्ख्ये ति. परिहरति -- न तावद् इति. यत्र हि सङ्ख्यादयो ऽवगम्यन्ते तत्र कथम् अत आह -- यत्रापी ति. सम्भवव्यभिचाराभ्यां हि विशेषणम् अर्थवद् भवति. आकृतिस् तु न तावद् एकत्वं व्यभिचरति, द्वित्वादयस् त्व् एकत्वान् न सम्भवन्तीति तदाक्षिप्ताया व्यक्तेर् एव विशेषणं सङ्ख्यादय इति

9.58

तद् एवं तावद् अनुरञ्जनेन व्यक्तेर् विशेषणम् इत्य् उक्तम्, तादर्थ्येन तु क्रियां भावनां सङ्ख्यादयो विशिंषन्ति. तत्र हि श्रुत्यादिभिर् विनियुज्यन्ते. यथा पशोर् एकत्वे ऽरुणादिषु च वक्ष्यत इत्य् आह -- पदान्तरे ति. पदान्तरत्वेनात्यन्तविप्रकृष्टविशेषणतां दर्शयतीति

9.60

यत् तर्हि वाक्यार्थवृत्तिविशिष्टविषयं गोमदादिपदं तदनुमानं भविष्यत्य् अत आह -- वाक्यार्थ इति. यद्य् अपि तावद् इदं विशिष्टार्थगोचरम्, तथापि नानुमानत्वम्. सिद्धो हि धर्मी केनचिद् धर्मेणासिद्धेन विशिष्टस् साध्यमानः पक्षो भवति. इह तु पदोच्चारणात् प्राङ् न किञ्चित् प्रतिपन्नम्. उच्चरित्रे तु पदे विशिष्टः प्रतिपन्न एवेति किं साध्यम् इति. सिद्धत्वम् एव{3,124}दर्शयति -- तावान् इति. न तावदगृहीतसम्बन्धश् शब्दाद् विशिष्टं प्रत्येति. गृहीतसम्बन्धस् तु प्रतिपद्यमानो व्युत्पत्तिकालावगतान् न किञ्चिद् अधिकं प्रत्येतीति कथम् अनुमानं भवतीति

9.61

अपि चात्र भिन्नयोर् एव प्रकृतिप्रत्ययात्मनोः पदभागयोर् भिन्नाव् एवार्थौ प्रतिपन्नौ विशेषणविशेष्यभावम् अनुभवत इति सिद्धं वैषम्यम् इत्य् आह -- भेदबुद्धेर् इति. इदं तु पाचकादिशब्देषु युक्तं वक्तुम्, तत्र हि (धातुना) पाकः प्रत्ययेन च कर्तृमात्रम् उपात्तम्. आर्थस् तु विशिष्टप्रत्ययः. गोमदादौ तु तदस्यास्तीति विशिष्ट एवार्थे तद्धितः स्मर्यत इति कुतो वैषम्यम्, उक्तम् अत्र तावान् एव हीति व्युत्पत्तिकालावगताद् अनधिकविषयत्वम्, इदं तु पाचकादिशब्दार्थ(?म् ए।ए)वोक्तम् इति. किञ्चानुमाने स्वतन्त्रगृहीत एव पर्वतादिर् विशेष्यः स्वतन्त्रस्मृतेनाग्न्यादिना विशेषणेन विशिष्टो ऽवगम्यते. शब्देनोभयोः स्वतन्त्रग्रहणम् अस्तीत्य् आह -- विशेषणे ति. ग्रहणम् उपलक्षणार्थं, स्मरणं चेत्यर्थः

9.61

वैषम्यान्तरम् आह -- विशेष्ये ति

9.62

अत्र चोदयति -- अथे ति. अत्रापि शब्दस्यैव प्रथमावगतस्यार्थविशिष्टत्वेन साध्यत्वान् न क्रमव्यतिक्रमो भविष्यतीति

9.63

अत्र दूषणम् आह -- प्रतिज्ञार्थे ति. प्रतिज्ञार्थः पक्षः, स च धर्मविशिष्टो धर्मी, विशिष्टापेक्षया धर्म्येकदेश उच्यते. स एव हेतुः प्रसज्यते. शब्दो हि धर्मितयोपात्तः स एव हेतुर् इति. ननु यदा दूराद् धूमस्याधारविशेषो न लक्ष्यते तदा धूमो ऽग्निमत्तया साध्यते, हेतुश् च भवति. तद्वद् इहापि भविष्यत्य् अत आह -- पक्ष इति. धूमविशेषो हि सम्प्रति{3,125}दृश्यमानः पक्षः पूर्वावगतस् सपक्षः तदनुगतं च सामान्यं हेतुर् इति पक्षसपक्षहेतुविभागोपपत्तिर् इति

9.64

नन्व् इहापि शब्दविशेषं पक्षीकृत्य शब्दत्वं हेतुं वक्ष्यामः, अत आह -- शब्दत्वम् इति. अर्थविशेषो ह्य् अनुमित्सितः, न चास्य शब्दत्वं गमकम् अनैकान्तिकत्वाद् इति. नन्व् अवान्तरसामान्यं तर्हि गोशब्दत्वं हेतुर् भविष्यत्य् अत आह -- गोशब्दत्वम् इति. अतो ऽत्रैकैव व्यक्तिर् अर्थेन विशेष्या हेतुतया चाभिधातव्येति दुष्परिहरं प्रतिज्ञार्थैकदेशत्वम् इत्य् अभिप्रायेणाह -- व्यक्तिर् इति

9.65

ननु व्यञ्जकभेदभिन्नैकैव व्यक्तिः पक्षीकरिष्यते इत्य् आह -- भवेद् इति. परिहरति -- न त्व् इति. नौपाधिको भेदो वस्तु भिनत्ति, तत्प्रत्ययानपायाद् इति भावः. अपि च विशिष्टता सम्बन्धे सति भवति, तद् इह कीदृशो ऽर्थशब्दयोस् सम्बन्ध इत्य् आह -- कथं वे ति. न तावत् शब्ददेशे ऽर्थो दृश्यते, मुखे हि शब्दः, भूमावर्थः. नापि शब्दकाले, कलौ कृतयुगार्थस्याभावाद् इत्य् आह -- न तावद् इति

9.66

अथार्थप्रतीत्या विशिष्टश् शब्दस् साध्यते, अस्ति हि सा शब्दकाल इति तद् एतद् आशङ्कते तत्प्रतीतिर् इति. एतद् अपि दूषयति -- परम् इति. प्रतीत्या विशिष्टे ऽनुमीयमाने सा तावत् पूर्वसिद्धा ग्रहीतव्या. सा चेत् ज्ञाता किम् अपरम् अनुमीयत इति. ननु सम्प्रत्युपलभ्यमानं द्रुतादिविशेषं पक्षीकृत्य तस्य प्रत्यायनशक्तिविशिष्टता साध्यते, सपक्षं च{3,126}व्युत्पत्तिकालावगतविशेषम्, उभयानुगतं गोशब्दसामान्यं हेतुं करिष्यामः, न प्रतिज्ञार्थैकदेशता भविष्यत्य् अत आह -- न प्रत्यायने ति अयम् अभिप्रायः -- न द्रुतादिविशेषाणां देशादिनिबन्धनो ऽर्थेन सम्बन्धो विद्यते. प्रत्यायनशक्तिविशिष्टता चापि तेषां न सम्भवतीति

9.67

किम् इति न सम्भवत्य् अत आह -- विशेषाणाम् इति. यथा पक्षीकृतस्य महतो धूमस्यैकदेशे ऽधस्तादग्निर् अस्तीति तद्विशिष्टो धूमस् साध्यो भवति. नैवं द्रुतादिविशेषाणां प्रत्यायनशक्तियोगः. तेषां व्यभिचारेणाप्रत्यायकत्वाद् इति. यत् तु तेषां सामान्यं गोशब्दस् स प्रत्यायनशक्तिविशिष्टः, तत्र च पक्षे स एव पक्षो हेतुश् चेत्य् उक्तम् एवेत्य् आह सामान्यस्येति

9.67

अतो ऽर्थविशिष्टश् शब्दो नानुमेय इत्य् उपसंहरन्न् आह -- तस्माद् इति

9.68

एवं तावत् शब्दो न पक्ष इत्य् उक्तम्. यदि त्व् अर्थं पक्षीकृत्य शब्दो हेतुर् इत्य् उच्यते. तद् अप्य् अयुक्तम्. अपक्षधर्मत्वाद् इत्य् आह -- कथं चे ति. कथं च निरूप्यत इति भावः

9.69

किम् इति न निरूप्यते ऽत आह -- न क्रिये ति. कस्याञ्चित् क्रियायां कर्तृतया सम्बद्धं किञ्चित् कस्यचित् सम्बन्धी भवति, क्रियाकारकसम्बन्धपूर्वकत्वात् शेषसम्बन्धानां स्वस्वाम्यादीनाम् इति. तत्र स्वस्वामिसम्बन्धस् तावत् क्रियाकारकसम्बन्धपूर्वक इत्य् आह -- राजे ति. प्रथमं हि भरणक्रियायां कर्तृकर्मभावम् आपन्नौ राजपुरुषौ स्वस्वामिसम्बन्धम् अनुभवत इति

9.72

{3,127} एवम् अवयवावयविसम्बन्धो ऽपि क्रियागर्भ इत्य् आह -- वृक्ष इति. वृक्षो ऽवयवी ह्य् अवयवेषु तिष्ठतीति प्रतीतिः. कदाचित् त्व् अवयवा एव शाखादयस् तस्मिन्न् इति प्रितीतिः. तद् एवं स्थितिक्रियाकर्तृभावनिबन्धनो ऽवयवावयविसम्बन्ध इति. एवं संयोगो ऽपि क्रियागर्भ एवेत्य् आह -- देश इति. अग्निमद्देशे भवने कर्ता भवन् धूमो ऽग्निमतो देशस्य संयोगी भवतीति ॥ [70] ॥
एवं कार्यकारणभावादयो ऽपि सम्बन्धाः क्रियाकारकसम्बन्धपूर्वका इत्य् आह -- कार्ये ति. किण्वं हि सुराया बीजं सुरात्मके परिणामे कर्तृभवत्सुरायाः कारणम् इत्य् उच्यते. तथा समूहसमूहिसम्बन्धो ऽपि. सेनाकार्यं प्रतिपक्षजयम् अंशेन कुर्वन् हस्ती सेनायास् सम्बन्धितयोच्यत इति. शब्दार्थयोस् तु न कश्चिद् एवम् आकारस् सम्बन्धस्यावगम्यते. न चानिरूपिताकारस् सम्बन्धो ऽस्तीति शक्यते वक्तुम् इत्य् आह -- न चे ति ॥ [71] ॥
न च सम्बन्धम् अन्तरेण पक्षस्य धर्म इति विग्रहगता षष्ठी पक्षधर्म इति च तत्पुरुषसमासो वा घटत इत्य् आह -- न चास्ती ति. वृत्तिविग्रहाव् अपि नोपपन्नाव् इति. उपसंहरति -- तस्माद् इति

9.73

अन्ये तु शब्दो ऽर्थविषय इत्य् एवं तद्धर्मताम् आहुः. यथानुपलब्धिर् अभावे प्रमेय इति वक्ष्यते. तद् एतद् उपन्यस्यति -- निवृत्त इति

9.74

{3,128} एतद् अपि नोपपन्नम् इत्य् आह -- तैर् अपी ति. न केनापि प्रकारेण विषयविषयिभावो घटत इत्य् अर्थः. यथा न घटते तद् एतद् आह -- न तद् इति

9.77

सर्वप्रकारासम्भवात् पारिशेष्येण तद्विषयबुद्धिजनकतया तद्विषयता वक्तव्या, एवं च तद्विषयबुद्धिजनकत्वस्य वाच्यवाचकभावम् अन्तरेणानुपपत्तेस् तदभ्युपगमः कार्यः. तत्सिद्धौ च न प्रतीत्यङ्गं पक्षधर्मता. न चापक्षधर्मजनिता प्रतीतिर् अनुमानम् इत्य् आह -- तस्माद् इति द्वयेन ॥ 75 -- 76 ॥
यदि तु पक्षधर्मतैव तद्विषयबुद्धिजनने हेतुर् इष्यते. ततस् तद्व्यतिरेकेण पक्षधर्मताया एवानुपपत्तेर् इतरेतराश्रयत्वम् अतो नेयम् अपि कल्पना घटत इत्य् आह -- गमकत्वाद् इति

9.78

इतश् च न पक्षधर्मतेत्य् आह -- न चे ति. अनवगतवाच्यवाचकसम्बन्धाः स्वरूपातिरेकेण न शब्दं कस्यचिद् धर्मतया जानन्ति. येन पक्षधर्मबुद्धिश् शब्दे भवेद् इति

9.79

{3,129} स्वरूपमात्रविज्ञानं तु न धूमादौ पक्षधर्मतायां हेतुः, अपि तु धर्मिसम्बन्धः. न चासाव् अस्तीत्य् अभिप्रायेणाह -- न चे ति. नन्व् अत्राप्य् अर्थेन धर्मिणा प्रथमं व्युत्पत्तिकाले सम्बन्धो ऽवगत एव, आह -- न चापी ति

9.80

पूर्वसम्बन्धनिरपेक्ष एवायम् अव्युत्पन्नसम्बन्धस्यापि पक्षधर्मसम्बन्धो भासते, न चात्र तथेत्य् आह -- धूमवान् इति मतिर् अन्तेन. यत एव तन्निरपेक्षो ऽयं पक्षधर्मसम्बन्धः, अत एव तदुत्तरस्मात् सपक्षसत्त्वलक्षणाद् भिद्यते, अन्यथा तदभेद एव स्याद् इत्य् आह -- तेने ति. त्रीणि हेतोर् लक्षणानि पक्षधर्मता सपक्षे सत्ता विपक्षाद् व्यावृत्तिः. तत्र च पक्षधर्मताया उत्तरं सपक्षसम्बन्धम् उत्तरलक्षणम् अपदिशतीति

9.82

शब्दे त्व् एवं नास्तीत्य् आह -- न त्व् अत्रे ति. पूर्वसम्बन्धापेक्षया चेयम् अवगम्यमानार्थप्रतीत्युत्तरकालम् अवगम्यते. अतो न तदङ्गम् इत्य् आह -- न चे ति ॥ [81] ॥
इतश् च न पक्षधर्मतेत्य् आह -- न च धर्मी ति. अर्थाद् अन्यस् तावद् धर्मी न प्रमीयत इति भावः

9.85

यस् त्व् असाव् अर्थो धर्मितया कल्पनीयः, यद्धर्मतयावगतश् शब्दः{3,130}पक्षधर्मो भवति, परस्ताद् अपि स तावान् एव प्रमातव्यः. तद् यदि पक्षधर्मत्वम् अवगन्तुम् असौ प्रथमम् एवावगम्यते, ततो गृहीते तस्मिन् किं परभाविना पक्षधर्मादिज्ञानेन अतो नानुमानतेत्य् आह -- यश् चे ति द्वयेन ॥ 83 -- 84 ॥
अन्वयम् इदानीं दूषयति -- अन्वय इति. कथं न निरूप्यते, अत आह -- व्यापारेणे ति

9.86

एतद् एव दर्शयति -- यत्रे ति. इह त्व् एवं नास्तीत्य् आह -- न त्व् इति

9.87

कथं नेत्य् अत आह -- न तावद् इति. इदं च पूर्वम् एवोक्तम् इति. ननु वैभवाच् छब्दस्य नित्यत्वाच् चार्थस्य शब्दार्थयोश् शक्यते ऽन्वयो दर्शयितुम् इत्य् आह -- भवेद् इति. परिहरति -- सर्वार्थेष्व् इति

9.88

किम् अतो यद्य् एवम् अत आह -- तेने ति

9.89

प्रकारान्तरेण सम्बन्धम् आशङ्कते -- अथैवम् इति

9.90

{3,131} एतद् अपि दूषयति -- नैवम् इति. कारणम् आह -- दृष्टो ही ति (अस्मा)भिर् अन्तेन. क्व दृष्टः, अत आह -- अव्युत्पन्ने ति

9.91

ननु द्वितीयादिप्रयोगे शब्दार्थप्रत्यययोर् अन्वयो ग्रहीष्यत इत्य् आशङ्कते -- द्वितीयादी ति. एतद् अपि दूषयति -- शतकृत्व इति. शतकृत्वः प्रयोगे ऽप्य् अजिज्ञासुर् न सम्बन्धं बुध्यते. अविदितसम्बन्धश् च नार्थं प्रत्येतीति

9.92

ननु ज्ञातसम्बन्धस्य तावन् न शब्दज्ञानम् अर्थज्ञानं व्यभिचरति. तस्यैव चानुमानत्वम् इष्यत इत्य् आह -- नन्व् इति. परिहरति -- यद्य् एवम् इति. यदि ज्ञातसम्बन्धस्यान्वयः, अन्य एव तर्हि सम्बन्धश् शब्दार्थयोर् अभ्युपगम्यत इति

9.93

ततः किम् अत आह -- नाङ्गम् इति. यदि नाङ्गं, किं जातम् अत आह -- अन्वये ति. असत्य् अन्वये ज्ञानं नानुमानम् इति भावः

9.94

अन्वयस् तु पूर्वावगतप्रतीतिसामर्थ्यानुसारेणैव जायमानो नार्थप्रतीतौ कारणम् इत्य् आह -- ज्ञात इति

9.95

{3,132} उपसंहरति -- तस्माद् इति. अनुमाने तु नान्वयात् पूर्वं गमकत्वसिद्धिर् इत्य् आह -- न चे ति

9.96

व्यतिरेकम् इदानीं दूषयति -- व्यतिरेक इति. न ह्य् अनवगते ऽर्थे तज्ज्ञानेन विना शब्दज्ञानं भवतीति व्यतिरेकश् शक्यते ऽवगन्तुम्. अवगतश् चेद् अर्थः किं व्यतिरेकाश्रयणेनेति

9.97

किम् इदानीम् अनुपयोगिनाव् अन्वयव्यतिरेकौ शब्दे नेत्य् आह -- सम्बन्धम् इति. शक्तिनि(ष्कर्षे त)योर् व्यापारो वाच्यवाचकरूपश् शब्दार्थयोः सम्बन्ध इति

9.98

एवं च त्रैलक्षण्यपरित्यागेनाननुमानत्वं प्रसाध्य प्रयोगेण दर्शयति -- तस्माद् इति. शब्दो नानुमानं त्रैरूप्यरहितत्वात् प्रत्यक्षवत्. तादृग्विषयवर्जनात्. तद्वद् एव तादृक्. विषयवर्जनं च सामान्यविषयत्वं हीत्यादिना वर्णितम् एवेति

9.99

इदं च पदस्यानुमानाद् भेदप्रतिपादनं प्रौढिप्रदर्शनार्थम् अस्माभिः कृतम्. न तु पदं प्रमाणम् इत्य् आह -- सती ति

9.100

{3,133} यथा न प्रमाणं तथा दर्शयति -- पदम् इति. तान् एव चतुरः प्रकारानाह -- प्रत्यक्ष इति

9.101

एष्व् अर्थेषु प्रयुक्तस्य यथा न प्रामाण्यं तथाह -- तत्रे ति

9.102

अदृष्टपूर्वे तु सम्प्रति प्रत्यक्षे ऽनुत्पत्तिलक्षणम् एवाप्रामाण्यम् इत्य् आह -- अदृष्टपूर्व इति. सम्बन्धज्ञानम् एव वा तदा जायत इत्य् आह -- सम्बन्धे ति. न च सम्बन्ध एव पदस्य प्रमेय इति वाच्यम्, तस्यार्थापत्तिप्रमेयत्वाद् इत्य् अभिप्रायेणाह -- सम्बन्ध इति. तदर्थस् तु प्रत्यक्षाद् अवगत इत्य् आह -- यो ऽर्थ इति

9.103

अननुभूतपूर्वे परोक्षे च ज्ञानानुत्पत्तिर् एवेत्य् आह -- परोक्ष इति. अनुभूते तु परोक्षे स्मृतिर् इत्य् आह -- परोक्ष इति

9.104

ननु स्मृतिम् एव जनयत् प्रमाणं भविष्यत्य् अत आह -- प्रमित इति. प्रमितविषया हि स्मृतिः, सन्निकृष्टार्थगोचरं च प्रमाणम् इति स्थितिर् इति. कथं पुनः प्रमितविषयं न प्रमाणम् अत आह -- परिच्छेदे ति. परिच्छेदफलं हि प्रमाणम्. न च स्मृत्या किञ्चित् परिच्छिद्यते, पूर्वविज्ञानमात्रोपस्थापकत्वाद् इति

9.105

{3,134} अत्र चोदयति -- तादात्विके ति. यद्य् अपि पूर्वम् असाव् अर्थो ऽवगतः, तथापि तदानीं सत्तां बोधयन्ती प्रत्यभिज्ञानवत् स्मृतिः प्रमाणं किम् इति न भवतीति

9.106

परिहरति -- यावान् इति. उत्पद्यते स्मृतिर् अन्यदा, न तु प्रत्यभिज्ञानवत् तदनीं वस्तुनस् सत्तां निश्चाययति, पूर्वज्ञानानुसारित्वाद् इति

9.107

ननु पूर्वसंस्कारमात्रजा हि स्मृतिः, इदं तु प्रत्युत्पन्नकारणकं पदात् पदार्थज्ञानं ग्रहणम् एव, कथं स्मृतिर् उच्यते. अत आह -- पदम् इति. मा भूत् स्मरणं, ग्रहणम् अपीदम् अनधिकविषयम् एवाधिकप्रतिभासाभावात्, अतो न पदं स्मारकेभ्यस् सदृशादृष्टादिभ्यो विशिष्यत इत्य् अप्रमाणम् इति. ननु क्रियाकारकयोर् अन्यतरोच्चारणे ऽवश्यम् अन्यतरस्यान्यतरव्यतिषङ्गो बुद्धौ भवति. अतः कथम् उच्यते नाधिक्यम् अवगम्यत इत्य् अत आह -- यदाधिक्यम् इति. पदान्तरस्यैवासौ प्रसादो न पदस्यैकस्यैवेत्य् अर्थः

9.108

इदं चास्माभिस् सौहृदमात्रेण शिष्येभ्यः कथ्यते न पदं प्रमाणम् इति. न तु तत्प्रमाणत्वे वाक्यार्थो नागमार्थो भवति. तेन हि प्रमाणेनापि भवतावश्यं पदार्थे भवितव्यम्. अतः प्रमाणान्तरानधिगतम् अर्थं गमयद्वाक्यं प्रमाणम् एव. एवम् अनुमानान्तर्गतत्वे ऽपि पदस्य न काचित् क्षतिः, वाक्यार्थस्याननुमेयत्वाद् इत्य् आह -- प्रमाणम् इति

9.109

{3,135}आह वाक्यार्थज्ञानस्यैव कथम् अननुमानत्वं, तद् अप्य् आलोचितानुगमनम् अनुमानम् एवात आह -- वाक्यार्थ इति. अगृहीतसम्बन्धा एव पदार्थाः वाक्यार्थं गमयन्ति. अतो न वाक्यार्थज्ञानम् अनुमानम्. एवञ् च दर्शयितव्यं वाक्यार्थबुद्धिर् अनुमानाद् भिन्ना सम्बन्धानुभवादृते जायमानत्वाद् अक्षबुद्धिवद् इति

9.110

कथं पुनर् अप्रतिबद्धम् अर्थान्तरस्य प्रतिपादकम्, एवं ह्य् अतिप्रसङ्गः. अतो ऽसिद्धो हेतुर् अत आह -- वाक्ये ति. ये च परैः पदार्थबुद्धेर् अनुमानाद् अभेदहेतव उक्ताः, ते तावद् बहवो वाक्यार्थबुद्धावसिद्धा इत्य् आह -- सर्वेषाम् इति. वाक्यार्थबुद्धिर् हि न तावद् अन्वयव्यतिरेकजा. नापि सम्बन्धपूर्विका. नैव प्रत्यक्षदर्शनप्रभवा. पदाद् अवगतानां पदार्थानां तत्कारणत्वात्. सामान्यविषयत्वम् अप्य् असिद्धं विशिष्टविषयत्वात्. प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधने तूपमानादीनि प्रसाध्य नैकान्तिकीकार्ये. तददृष्टार्थबोधनं चानुमानाभासैर् अप्य् अनैकान्तिकम्. एवं त्रिकालविषयम् अप्य् अनुमानाभासेनैव. एवम् एव पदार्थबुद्धाव् अपि दर्शयितव्यम्. अन्वयव्यतिरेकजत्वं तु तत्राप्य् असिद्धम् एव. उक्तं हि शब्दशक्तिनिर्धारणे तयोर् व्यापारो न बुद्धिजन्मनीति. सम्बन्धपूर्वकत्वं तु यद्य् अविशेषितं तत् प्रत्यक्षेणैवानैकान्तिकम्, तद् अपि हीन्द्रियार्थसम्बन्धपूर्वकम् एव. अथानुमानाङ्गसम्बन्धपूर्वकत्वं, तदसिद्धम्, व्याप्तिर् हि तदङ्गम्. न च पदात् पदार्थज्ञाने व्याप्तिः कारणम्. सामान्यविषयत्वं चाभासेनैवानैकान्तिकम् एव प्रत्यक्षदर्शन(प्रभवत्व)प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधनानि तूपमानादिभिर् अपीति

9.111

यत एवैवं वाक्यार्थबुद्धिस् सहार्थैर् अदृष्टेष्व् अपि वाक्येषु पदार्थमात्रविदो जायते. अतो ऽस्याः स्फुटतरम् अनुमानाद् भेदं पश्यन्तस् सौगतास् ततो ऽवतीर्यागमस्यानुमानव्यतिरेकात् बिभ्यतः पदाभेदविचारणायाम् एव क्लिष्टाः. एवं हि{3,136}मन्यन्ते. अस्तु तावत्पदम् अप्य् अनुमानाद् अभिन्नम्. एतावतापीह शब्दानुमानयोर् ऐक्यम् इति वाक् प्रवर्तत एवेति सोपहासम् आह -- वाक्येष्व् इति

9.3

इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
शब्दपरिच्छेदः समाप्तः ॥
007 उपमानपरिच्छेद
अथोपमानपरिच्छेदः
उपमानम् अपि सादृश्यम् असन्निकृष्टे ऽर्थे बुद्धिम् उत्पादयति. यथा गवयदर्शनं गोस्मरणस्येति भाष्यम्. अस्यायं तात्पर्यार्थः -- उपमानम् अपि न परीक्षणीयम्, एवं लक्षणकत्वेनाव्यभिचाराद् इति. अवयवार्थस् त्व् एकत्र दृश्यमानं सादृश्यं प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयासन्निकृष्टे ऽर्थे यां बुद्धिम् उत्पादयति एतत्सादृश्यविशिष्टो ऽसाव् इति, सोपमानम् इति यत्तदोरध्याहारः. न च वाच्यं विषयविशेषानुपादानात् कथं सादृश्यविशिष्टविषया बुद्धिर् अवगम्यत इति, प्रसिद्धप्रमाणानुवादेन ह्य् अत्रापरीक्षा प्रतिपाद्यते. लोके च सादृश्यविशिष्टविषयैव{3,137}बुद्धिर् उपमानम् इति प्रसिद्धम्. अतो न दोषः. दृश्यमानविशेषणम् एकदेशदर्शनाद् इतिवद् अनुपात्तम् इति चेद् न. उदाहरणे उपादानात्. एवं ह्य् आह -- यथा गवयदर्शनं गोस्मरणस्येति. अस्यार्थः -- दृश्यते ऽस्मिन्न् इति दर्शनं, अधिकरणे ल्युट्. गवयो दर्शनम् अस्येति गवयदर्शनम्. सादृश्यम् अन्यपदार्थः. एतद् उक्तं भवति -- गवये दृश्यमानं सादृश्यम् इति. अत्रोदाहरणानुसारेण लक्षणवाक्ये ऽपि दृश्यमानम् एव सादृश्यम् अभिमतम् इति गम्यते. गोस्मरणस्येति च नन्दिग्रही(पा 3.1.134)त्यादिना कर्तरि ल्युः. गां स्मरतः प्रमातुः. यथा गवये दृश्यमानं सादृश्यम् एतत्सदृशा गौर् इति बुद्धिम् उत्पादयतीति. सङ्गतिस् तु प्रसिद्धिबाहुल्यात् शाब्दानन्तरम् उपमानम् इति प्राग् एवोक्तम्. अत्र चोदयति -- प्रसिद्धप्रमाणानुवादेनात्रापरीक्षा प्रतिपाद्यते. अतो यथा नैयायिकोक्तम् उपमानं प्रमाणम् आश्रीयते, एवं तद् उक्तम् एवोपमानलक्षणम् आश्रयितुम् उचितम्. एवं हि तैर् उक्तं - प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् इति. अस्यार्थः -- प्रसिद्धेन गवादिना साधर्म्यात् साध्यस्याप्रसिद्धस्य गवयादेः कञ्चिद् अनभिज्ञं प्रति साधनं प्रज्ञापनं यादृशो गौस् तादृशो गवय इति वाक्यं, तज्जनिता वा बुद्धिर् उपमानम् इति. तद् एतत्परिहारेण लक्षणान्तरप्रणयने कारणं वाच्यम् इत्य् अत आह -- कीदृग् इति द्वयेन. सत्यं नैयायिकैर् इदम् उक्तम्. न तु युक्तम्. अनन्तरोक्तागमाबहिर्भावात्. शब्दविज्ञानाद् धीदम् असन्निकृष्टे ऽर्थे विज्ञानम्. अतो ऽन्यथैव शाबरे तन्त्रे उपमानं वर्णितम् इति ॥ 1 -- 2 ॥
नैयायिकागमलक्षणानुसारेणाप्य् अस्यागमत्वम् अवगम्यत इत्य् आह -- पुरुषे ति. एवं हि नैयायिकानां शाब्दलक्षणम् आप्तोपदेशश् शब्द इति. अत्रापि चाप्तपुरुषप्रत्ययेनैवापरिदृष्टे गवयादौ सादृश्येन सम्प्रत्ययो भवति. नानाप्ता(?द् धि।द् वि)संवादात्. अत आप्तस्यैवेदं वचनम् अव्यभिचारीति मत्वा तद्बलभावी निश्चयो जायते, तेषाम् अप्य् आगम एवेति

9.4

{3,138} ननु शाबरे ऽपि सदृशदर्शनात् सदृशान्तरे ज्ञानम् उपमानम् इति वर्णितम्. एतद् अपि स्मरणाबहिर्भावाद् अप्रमाणम् एव. यथा हि किञ्चिद् ध्यायतः स्मरणं भवति, एवं सदृशदर्शिनो ऽपि सदृशान्तरे स्मरणम्, अतो न ध्यानादिजन्मना स्मृत्या सहास्याः कश्चिद् विशेषः. अतो ऽप्रमाणम् इत्य् आह -- सदृशाद् इति. नैयायिकलक्षणं तावदागमाबहिर्भावि. शाबरं त्व् अप्रमाणम् एव सङ्गृहातीति

9.5

ननु स्मृतिसम्भिन्नम् अपि देशादिभेदेन जायमानं प्रत्यभिज्ञानं प्रमाणं दृष्टम्. एवम् इहापि गां नगरे दृष्टवतो वने गवयदर्शिनस् तद्भानं प्रमाणं भवत्य् अत आह -- देशकालादी ति. न खलु देशादिभेदस् सन्मात्रतया प्रामाण्ये कारणम्, अपि तर्हि प्रमेयतया, न चेह देशान्तरादिविशिष्टो गौः प्रमीयते, अपि तु नगरावगतस् सम्प्रत्य् अपि तत्स्थ एव स्मर्यत इति

9.6

नैयायिकैकदेशिनां मतम् उपन्यस्यति -- श्रुते ति. येन किलातिदेशवाक्यं श्रुतं यादृशो गौस् तादृशो गवय इति, तस्य श्रुतातिदेशवाक्यस्य वनं प्राप्तस्य यत् स्वयम् असौ गोसदृशो गवय इति सादृश्यानुरञ्जितं गवयज्ञानम् इदम् उपमानम् इति

9.7

{3,139} एतद् अपि दूषयति -- प्रत्यक्ष इति. गवयस् तावदिन्द्रियसन्निकर्षात् प्रत्यक्षेण प्रतीयते. गोसादृश्यम् अप्य् अतिदेशवाक्याद् अवगतं स्मर्यत इति नोपमेयम् अस्तीति. अत्र चोदयति -- नन्व् इति. अयम् अभिप्रायः -- गोसादृश्यविशिष्टो ह्य् अत्र गवयो ऽवगम्यते. न च तत्प्रत्यक्षं, गोर् अप्रत्यक्षत्वात्. तद्विशिष्टो गवय उपमानस्य विषयः. न ह्य् असौ प्रत्यक्षेणावसीयते, गवयमात्रविषयत्वात् तस्य. न चागमाद् अवगतः स्मर्यते, सामान्यविषयत्वाद् आगमस्य. इह चायम् असाव् इति विशेषप्रतिभानाद् इति

9.8

एतद् अपि विकल्प्य दूषयति -- पूर्वे ति सार्धेन. इदम् अत्र विकल्पनीयम् -- अतिदेशवाक्याद् अवगतात् किञ्चिद् अधिकम् अवगम्यते न वा, यदि नेत्य् आह, ततः स्मरणाद् अविशिष्टा सङ्गतिर् इयम् अप्रमाणम्. यथा पदात् पदार्थज्ञानं प्रत्युत्पन्नकारणजत्वेनास्मरणम् अप्य् अनधिकविषयत्वाद् अप्रमाणम्, एवम् इहाप्य् अतिदेशवाक्यावगतगोसादृश्यविशिष्टगवयज्ञानम्. यदि तु सामान्यावगताद् विशेषावगमे ऽस्ति विशेष इत्य् उच्यते, स तर्हि प्रत्यक्षाद् एव लभ्यत इति न प्रमाणान्तरावकाश इति

9.9

ननूक्तम् असन्निहिते गवि तत्सादृश्यस्याप्रत्यक्षत्वान् न तद्विशिष्टो गवयः प्रत्यक्षेणावगन्तुं शक्यत इति सावकाशं प्रमाणान्तरम् इत्य् अत आह -- यावद् धी ति. यावदिन्द्रियव्यापारानन्तरम् अपरोक्षं भासते तन् नः प्रत्यक्षम्. तथा च सादृश्यविशिष्टो गवय इति कथम् अप्रत्यक्षो भविष्यति. प्रतिजाति कृत्स्नपरिसमाप्तम् एव जातिबत् सादृश्यम् इत्य् अप्रत्यक्षे ऽपि गवि तत्सादृश्यविशिष्टगवयप्रत्यक्षम् उपपद्यत एवेति भावः

9.10

{3,140} न च शब्दादिस्मरणसम्भेदाद् अप्रमाणता, गृह्यमाणस्मर्यमाणयोर् विवेकस्य सविकल्पकसिद्धौ फणितत्वाद् इत्य् आह -- स्मर्यमाणस्ये ति. विवेके सति नाप्रमाणतेत्य् अर्थः. श्रुतातिदेशवाक्यविशेषणोपादानस्यापि न फलम् उपलभ्यत इत्य् आह -- श्रुते ति

9.11

कथं नोपयुज्यते -- ये ऽपी ति. गोसादृश्यविशिष्टगवयदर्शनं चेद् उपमानम् अभिमतं तदाश्रुततद्वाक्यानाम् अपि नगरे गां दृष्टवतां वने गवयं पश्यताम् अस्त्य् एवेति मन्दं विशेषणफलम् इति

9.12

नन्व् अश्रुतातिदेशवाक्यानाम् अयम् असौ गवय इति संज्ञानुसन्धानं नास्ति, इतरेषाम् अस्तीत्य् अयम् अस्ति विशेष इत्य् आह -- अथे ति. परिहरति -- न नामे ति. यदुपमानस्य प्रमेयम् अभिमतं तत्तावत्ते ऽपि जानन्ति. संज्ञित्वं मा नामानुसन्धीयताम् इति

9.13

स्यान् मतम् -- संज्ञासंज्ञिसम्बन्ध एवोपमानस्य विषयः. यथोक्तं न्यायविस्तरे समाख्यासम्बन्धप्रतिपत्तिर् उपमानार्थ इति. विवृतं च -- यथा गौर् इव गवय इत्य् उक्ते गवा समानार्थम् इन्द्रियसन्निकर्षाद् उपलभमानो ऽस्य गवयशब्दस् संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यत इति. न चाश्रुतातिदेशवाक्यस्य शब्दम् अविदुषस् समाख्यासम्बन्धप्रतिपत्तिस् सम्भवतीति{3,141}फलवद्विशेषणम् अत आह -- न चे ति. कारणम् आह -- सादृश्ये ति. अतिदेशवाक्याद् एव गोसादृश्येन गवयशब्दवाच्ये ऽर्थे ऽवधारिते व्यक्तिरूपेणानवगतो ऽपि शब्दार्थसम्बन्धो ऽवगत एव. एतद् धि तदावगतं गोसदृशं वस्तु गवयशब्दवाच्यम् इति. एतावच् च सम्बन्धस्य स्वरूपम्, अतस् सूक्तं विशेषणानर्थक्यम् इति

9.14

ननु ज्ञातस्यापि सम्बन्धस्य प्रत्यभिज्ञाने प्रामाण्यम् अविहतम् एवात आह -- न चे ति. अत्र कारणम् आह -- शक्त्योर् इति. वाच्यवाचकशक्तिनियमो हि शब्दार्थयोस् सम्बन्धः. स चातीन्द्रियत्वान् नेह प्रत्यभिज्ञायते. पूर्वावगत एवान्यूनानतिरिक्तः स्मर्यते. किम् इदानीम् अतीन्द्रिये नैव प्रत्यभिज्ञानम् अस्ति, यद्य् एवम् अनुमानेन कथं पूर्वानुभूतम् अग्न्यादि प्रत्यभिज्ञायते. आह च -- गृहीते ऽपि देशादिभेदभिन्ने पुनः प्रमाप्रत्यभिज्ञानुमानात् स्यात् प्रत्यक्षवद् अवधारिते ऽपीति. इहापि च वक्ष्यति --
येन नाम प्रमाणेन ग्रहणं बुद्धिकर्मणोः ।
इति. सत्यम्. न ब्रूमः परोक्षं न प्रत्यभिज्ञायत इति, यद् एतद् अयम् असौ गोसादृश्यविशिष्टो गवय इतीन्द्रियजम् अपरोक्षावभासं प्रत्यभिज्ञानम् --
अस्य शब्दार्थसम्बन्धश् शक्तिरूपो न गोचरः ।
गोसादृश्येन विज्ञातपूर्वो गवय एव तु ॥
इति. अत एव न चास्येति सम्बन्धस्य प्रत्यभिज्ञानविषयत्वं निराकरोति. गवयस् त्व् इह गोसादृश्येनावगत पूर्वः प्रत्यभिज्ञायत इति न किञ्चिद् अनुपपन्नम् इति

9.15

अथोच्येत (?वृ।प्रत्य)क्षाद् व्यावर्तयितुं विशेषणोपादानम्. श्रुतशब्दोल्लिखितम् इदं गवयज्ञानम् अतो न प्रत्यक्षस्य विषय इत्युपमानस्य भविष्यतीत्य् अत आह -- शब्दे ति. शब्दानुविद्धबोधे ऽपि{3,142}हीन्द्रियसम्बन्धानुसारि ज्ञानं न शब्दशक्तिपरामर्शजम् एवेति प्रत्यक्षम् एवेति वर्णितम् इत्य् अतो नैकत्रापि लक्षणे उपमानस्य प्रमेयम् अधिकं पश्याम इति वाच्यम् अस्यापूर्वं प्रमेयम् इत्य् उपसंहरति -- तस्माद् इति

9.16

यदि तूच्यते -- प्रतियोगिसापेक्षं सादृश्यग्रहणम् अतो न प्रत्यक्षम्, अर्थेन्द्रियसामर्थ्यमात्रजं हि प्रत्यक्षं ज्ञानं, न तत्पूर्वम् अपरं वानुसन्धत्ते. अतः प्रत्यक्षे ऽपि धर्मिणि परोक्षम् एव सादृश्यम् इति न तद्विशिष्टस्य प्रत्यक्षत्वम् इति सावकाशम् उपमानम् इत्य् अत आह -- व्यवसाये ति. बौद्धानाम् अयं सिद्धान्तः -- यदविकल्पकम् आपातजं प्रत्यक्षम् इति. नैयायिकास् तु व्यवसायात्मकप्रत्यक्षवादिनः. अतो जात्यादिवत्सादृश्यम् अपि तेषां किं न प्रत्यक्षेण प्रमीयत इति

9.17

निर्विकल्पकवादिनाम् अपि नेदं प्रमाणान्तरं, प्रत्यक्षाभासत्वाद् इत्य् आह -- प्रत्यक्षे ति. एवं तावत् सादृश्यस्य वस्त्वन्तरत्वम् अङ्गीकृत्य तत्प्रत्यक्षतयोपमानस्य विषयाभावेनाप्रामाण्यम् उक्तम्. इदानीं बौद्धमतेन सादृश्यापलापम् आह -- प्रमेये ति. निर्विकल्पकप्रत्यक्षवादिनाम् अपि सादृश्यप्रमेयाभावाद् उपमानस्य प्रमाणता नाभिप्रेता. अतस् तेषु स्पर्धमानेषु कथम् उपमानं प्रमाणम्. अयं च तेषाम् अभिप्रायः -- सादृश्यं हि न तावदाश्रयेभ्यो भिन्नम् अनुपलम्भात्. अभेदे चाश्रयात् तन्मात्रापातात्. कथं चाश्रयेषु वर्तते. न तावत् कार्त्स्न्येन भेदप्रसङ्गात्, न ह्य् एकम् अत्र कार्त्स्न्येन वृत्तम् अन्यत्रापि तथैव वर्तत इति साम्प्रतम्. न च भागशः, तदभावात्. किञ्चेदं सादृश्यं न तावद् द्रव्यगुणकर्मणाम् अन्यतमम्, पदार्थपण्डितैस् तेष्व् अनुपसंख्यातत्वात्. न हि नवसु द्रव्येषु चतुर्विंशत्यां गुणेषु पञ्चसु वा कर्मसु सादृश्यम् अन्तर्गतं पश्यामः. न च सामान्यम् एव सादृश्यं, तद् धि तद्बुद्धौ करणं, तद्वद्बुद्धिवेद्यं च सादृश्यं, तत्सादृश्ये च गोत्वादाव् अपि तथात्वप्रसङ्गः.{3,143}अवयवसामान्यानि सादृश्यम् इति चेद्. न. तेष्व् अप्य् ऐकैकश्येन सादृश्यबुद्धेर् उपजननात्.[729]भूयांसि सादृश्यम् इति चेद्. न. भूयस्स्व् अप्य् एकत्र समाहृतेषु प्रतियोग्य(?न्यतरा)नपेक्षेषु सादृश्यबुद्धेर् उपजननात्.[730]सन्ति खलु तान्य् एकत्र समाहृतानि वस्तूनि, न च सादृश्यबुद्ध्या गृह्यन्ते, न ह्य् अनपेक्षितप्रतियोगिभेदं सदृशो ऽयम् इति गां जानाति. प्रतियोग्यपेक्षया सामान्यानि सादृश्यम् इति चेत्. किम् इदानीम् आपेक्षिकं सादृश्यम्. बाढम्. यद्य् एवम् अपेक्षया तदभिव्यज्यते जन्यते वा. न तावज् जन्यते द्वित्वम् इवापेक्षाबुद्ध्या, सहजसिद्धत्वात्. अभिव्यञ्जकानि त्व् आलोकेन्द्रियादीनि सन्तीति किम् अन्यद् अपेक्षते. यदि चावयवसामान्यानि सादृश्यं, यमयोस् तु तदभावाद् अभावप्रसङ्गः. तत्रापि तदभ्युपगमे तन्नाशे सामान्यनाशात् सिद्धान्तहानिः. चित्रादौ च पारिणामिकानाम् अवयवानां करशिरऋप्रभृतीनाम् अभावात् सामान्याभावे सादृश्याभावः. एवम् एव गन्धादिष्व् अपि प्रसङ्गो दर्शयितव्यः. अवयवानां कर्णादीनाम् अवयवान्तराभावाद् असादृश्यम्. अथ
मतम्, सत्यं नावयवसामान्यानि सादृश्यम्. किन् तु तत्त्वान्तरम् एवेदं द्रव्यजातिगुणकर्मभ्यो व्यतिरिक्तं गुणभेदो वा. यथाह गुरुः -- न सामान्यं सादृश्यम्. किं तर्हि. तद् एव तत्, गोत्वादेर् एकत्वाद् इति. एवं चोपपन्नो भवति सदृशसम्भावनम् एव तत्र विध्यर्थः श्येनचिच् चोदनार्थः. श्येनव्यक्तिजात्योस् स्वभावनिर्मितपक्षत्वग्रसमांसलोहितास्थिशिरऋपृष्ठपादोदराद्यवयवारब्धावयविसमवायित्वेनेष्टकाभिर् अशक्यसम्पादनत्वात्. यदि चावयवसामान्यानि सादृश्यम् इष्यन्ते ततस् तेषाम् इहाभावात् सादृश्यम् अपि दुस्सम्पादनम् इति सो ऽनारभ्यो ऽर्थः प्रतिज्ञातो भवेत् श्येनचितं चिन्वीतेति. एवं चानवयवेष्व् अपि गन्धादिषु सादृश्यसंविदुपपत्स्यत इति. तच् च नैवम्. तत्त्वान्तरे हि सादृश्ये गाम् अनपेक्ष्यापि गवयं सदृशम् इति जानीयुः. तत्र हि तन्निरवशेषम् एव सादृश्यं परिसमाप्तम् इति किम् अन्यद् अपेक्ष्यते. कथम् अनपेक्षिते गवि तत्सादृश्यविशिष्टो ऽवगम्यत इति चेत् कस् तस्य गवा सम्बन्धः. समवाय इति चेत्, सो ऽपि तर्हि गवयवद् गोसदृशतया ज्ञातव्यः. अपि च समवेतं नाम तत्सादृश्यं गवयगतसादृश्यग्रहणे ऽपि किम् इत्य् अपेक्ष्यते. न हि गोत्वं शाबलेये समवेतम् इति{3,144}बाहुलेये तद्बोधे ऽपि तदपेक्षा दृष्टा. तथेदं गवि गवयसादृश्यम् इति न तदपेक्षाहेतुर् उपलभ्यत इति. अपि चापेक्षतां नाम गौः, दूराद् गाम् उपलब्धवतो ()विदितावयवसामान्यविभागस्यापि गोसदृशगवयज्ञानं भवेत्. अवयवसामान्यान्य् अपि तद्बोधे ऽप्य् अपेक्ष्यन्त इति चेत्. वक्तव्यो ऽपेक्षार्थः. यदि मतम्, अभिव्यञ्जकानि तस्यावयवसामान्यानीति, तानि तर्हि गवयवर्तीनि तस्याभिव्यञ्जकानि, सन्ति च तानि गवे(?वि) इति किं गोगततद्वेदनेन, अतो गव्यवगते ऽनवगतेषु चावयवसामान्येषु गोसादृश्यज्ञानं जायेत. जात्योर् हि तत्सादृश्यम्, अवगते च ते इति किम् अन्यद् अपेक्ष्यते. यच् चेदम् अवयवसामान्यानां बाहुल्ये सदृशत्वम्, इदं च न स्याद् अर्थान्तरत्वे सादृश्यस्य सर्वत्र तावत्त्वात्. स्यान् मतम् व्यञ्जकानि तानि तस्य. भवति चाभिव्यञ्जकप्रकर्षे ऽभिव्यङ्ग्यबुद्धिप्रकर्षः. यथा घटादौ तद्वद् इहापि भविष्यतीति. तन् न. न हि बुद्धिमात्रम् अत्र प्रकृष्यते. अपि तर्हि वस्त्व् एव सातिशयम् उपालभामहे. अत एव मुख्यापचारे सदृशोपादित्सया सुसदृशं प्रतिनिधीयते. न मन्दसदृशम् इत्य् एतद् अपि यत् किञ्चित्. अतः कल्पनामात्रकल्पितं
द्विचन्द्रालातचक्रादिवद् भ्रान्तिकारणं सादृश्यं न प्रामाणिकम् इति. प्रमेयाभावाद् अपि नोपमानाङ्गम् अन्यद् वा सादृश्ये प्रमाणम् इत्य् आपेक्ष इति

9.18

__________नोतेस्__________
[729] रूपजननापातात् इति भाव्यम्.
[730] रूपजननापातात् इति भाव्यम्.
अत्र समाधिम् आह -- सादृश्यस्ये ति. अयम् अभिप्रायः -- नेदं कल्पनामात्रकल्पितं, मिथ्यात्वहेतुद्वयासम्भवात्. द्विचन्द्रादिप्रत्यया हि कुतश्चिद् दोषाद् उत्पन्नाः कालादिभेदेषु बाध्यन्ते. सादृश्यं तु जात्यादिवदबाधितबुद्धिवेद्यं कथम् अन्यथा भविष्यति. यथा चासाधारणप्रत्यक्षवादिनां तत्सत्यम् एवं सादृश्यम् अपीति किम् अपह्नूयते. तद् इदम् अवगतम् असंशयितम् अबाधितं च देशान्तरादिष्व् अपीत्य् अस्ति तावत् सादृश्यं, प्रमाणबलेन यथा तदुपपद्यते तथा कल्पनीयम्. न हि दृष्टे ऽनुपपन्नं नाम किञ्चिद् अस्तीति.
तत्र यत् तावद् उक्तं किम् अस्य स्वरूपम् इति. तत्रोत्तरम् आह -- भूयोवयवेति. अस्यार्थः -- भूयोभिर् अवयवसामान्यैर् यो जात्यन्तरस्य योगः{3,145}तत् सादृश्यम्. जात्यन्तरावयवसामान्यग्रहणम् उपलक्षणार्थम्, व्यक्तिसादृश्यम् अपि यमादिषु दृष्टम् एव. एवम् अवयवसामान्यैर् विनापि गुणकर्मादिसामान्ययोगेनापि सादृश्यं दृष्टम् एव, यथा चित्रादिषु. एतेन यद् उक्तं चित्रादौ कथं सादृश्यम् इति तत् परिहृतम्. एवम् अग्नाव् अपि संस्थानपरिमाणसामान्यं दर्शयितव्यम्. यमयोस् त्व् अवयवसामान्याभ्युपगमे यान् उपपत्तिर् उक्ता, असौ परिहरिष्यत एव. गुणानां त्व् असत्य् अप्य् अवयवसामान्ये ऽवयवगुणसामान्यम् एवावयविगुणानां सादृश्यम् इति दर्शयितव्यम्. कर्मणां च सौर्यादीनां द्रव्यदेवतादिधर्मसामान्यम् एव सादृश्यम्, अवयवसामान्यस्योपलक्षणार्थत्वाद् इति. तत्त्वान्तरवादिनां चेदम् आश्रयपारतन्त्र्याद् गुणान्तर्गतम् एवास्थेयम्. न पञ्चमम् अलौकिकत्वात्. जातिद्रव्यगुणक्रियाः पदार्था इति लोकसिद्धम्. अतो ऽस्य गुणस्य सतो गुणकर्मणोर् अनुपपन्न एव समवायः. अथ द्रव्यसमवेतम् एव गुणकर्मणी अपि सदृशतया बोधयति, एकार्थसमवायात्. यथावयवसमवेतं सामान्यं गोगवयजात्योर् असमवेतम् अपि ते सदृशतया बोधयति, एकार्थसमवेतसमवायाद् इत्य् उच्यते. न. द्रव्यसमवाये प्रमाणा भावात्, अवयवसामान्यानि हि कर्णादीनि व्यक्तिसमवेतानि प्रत्यक्षाणि. सादृश्यं तु सदृशबुद्ध्या ग्रहीतव्यम्. न च गन्धादिसदृशं द्रव्यम् इति प्रत्ययो ऽस्ति. अतः कथं तद्वर्तिना सादृश्येन गन्धादीनि सदृशानि भवेयुः. अतो ऽवयवसामान्यम् एव सादृश्यम् इति. नन्व् एकत्रैव भूयसाम् अवयवसामान्यानाम् उपलम्भात् सादृश्यबोधप्रसक्तिर् इत्य् उक्तम्, परिहृतम् इदं जात्यन्तरस्येति वदता. जात्यन्तरसमवायिनां जात्यन्तरे समवायात् सादृश्यम्, न स्वरूपमात्रम्, न च भूयस्त्वम्. एतच् चोपरिष्टाद् विवरिष्यत एव. अतो जात्यन्तरग्रहणम् अपेक्षितव्यम्. यत् तु न तेन तज्जन्यत इति. सत्यम्. अभिव्यज्यते तु तत्. यथोक्तम् --
सामान्यानि च भूयांसि गुणावयवकर्मणाम् ।
भिन्नप्रधानसामान्यव्यक्तं सादृश्यम् उच्यते ॥
इति. यद् धि यस्योपलब्धौ निमित्तं, तत्तदभिव्यञ्जकम्. अत एकैकत्रापि स्वरूपमात्रेण सामान्यानि गम्यन्त एव. जात्यन्तरसमवायात्मना{3,146}तु तानि सादृश्यम्, समवायात्मा च नाप्रतिसंहिते जात्यन्तरे ऽभिव्यक्तो भवतीति युक्तैव तदपेक्षा. न च यदर्थान्तरापेक्षप्रतिभासं तदवस्तु भवति. न हि देवदत्तस्य पितृत्वं पुत्रापेक्षया प्रतीयत इति, तद् अवस्तु. अतः आपेक्षिकाण्य् एवञ्जातीयकानि न चालयितुं शक्यन्ते. अत एवावयवसामान्यप्रचयाप्रचययोस् सुसदृशादिबोधोपपत्तिः. अतः सिद्धं जातिव्यक्त्यन्तरावच्छिन्नानि गुणावयवादिसामान्यानि सादृश्यम् इति

9.19

ननु पद्मदलाक्षीयमङ्गनेति पद्मावयवेन दलेनाङ्गनायाश् चक्षुर् उपमीयते, यदि चावयवसामान्यं सादृश्यं, न तद् इह सम्भवति, स्वयम् एवावयवत्वात्, न हि चक्षुषश् चक्षुराद्यवयवान्तरम् अस्ति. अत आह -- सदृशे ति. नावश्यं महावयविनो यो ऽवयवस् तत्सामान्यं सादृश्यम्. अवयवसामान्यानि तु सादृश्यम् इत्य् उक्तम्. तच् चावयवानाम् अपि चक्षुरादीनां स्वावयवसामान्यभूम्ना सम्भवत्य् एवेति युक्तो ऽङ्गनादीनां सदृशावयवबोध इत्य् आह

9.20

अस्तु तावद् अवयवेष्व् अवान्तरावयवसामान्ययोगात् सादृश्यम्, विनापि तु तानि तत्र तत्र सदृशबोधो दृष्टः. स कथम् उपपद्यते अत आह -- एवम् इति. नेदम् अवयवसामान्यग्रहणं तन्त्रम्. यद् एव तु किञ्चिद् गुणादिसामान्यं सदृशधियम् उपजनयति तद् एव सादृश्यम् अतो नात्रैकरूप्यम् एव. विचित्रता तु सादृश्यस्य यथादर्शनम् अङ्गीकर्तव्यम्. तद् यथा -- जातिसादृश्यम् अग्निर् वै ब्राह्मण इति, अग्निसदृश इत्य् अर्थः. किम् अनयोस् सादृश्यम्, एकस्माद् ब्रह्मणो मुखाज् जातिर् उत्पत्तिर् इत्य् अर्थः. इदं च तद्सिद्धिसूत्रे वक्ष्यते. कुतः पुनर् अनयोस् समानाभिजननत्वम् अवगम्यते. श्रुतेः. एवं ह्य् आह -- प्रजापतिर् मुखतस् त्रिवृतं छन्दसां निरमिमीत अग्निं देवतानां ब्राह्मणं मनुष्याणाम् इति. लोके च समानाभिजननयोर् दर्शयितव्यम्. गुणसामान्यं तु चित्रादौ सुप्रकाशम् एव लोके, वेदे च आदित्यो यूप इति.{3,147}द्रव्यसादृश्यं समालङ्कारधारिणोर् लोके, वेदे च लोहितोष्णीषा ऋत्विजः प्रचरन्तीति. क्रियासादृश्यम् अध्ययनादिसामान्याल् लोके, वेदे च यज्ञविहङ्गमयोर् निपत्यादानसामान्यात्. एवं ह्य् आह -- यथा वै श्येनो निपत्यादत्ते, एवम् अयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते इति. शक्तिसादृश्यं तु भीमो मल्ल इति लोके, वेदे च सोमपूतीकयोः. अवगम्यते हि पूतीकानां सोमशक्तिर् अर्थवादात्. तत्कार्यत्वेनावगमात्. कार्यस्य च कारणानुविधायिशक्तिकत्वात्. उक्तं च -- सोमस्य यो ऽंशः परापतत् स पूतीको ऽभवद् इति. स्वधर्मसादृश्यं केचित् त्रिशिखाः केचित् पञ्चशिखा इति लोके त्रिशिखादीनाम् अन्योन्यसादृश्यं, वेदे च वसिष्ठात्र्यादीनां नराशंसो द्वितीयः प्रयाज इति. धर्मनियम एव हि तत्र सादृश्यम्, प्रकृतिविकृतिकर्मणोश् च धर्मसामान्यम् एव सादृश्यम् इत्य् उक्तम् एव. एते च जात्यादय एकैकशो द्विशस्त्रिशस् समस्तशश् च समाना भवन्तस् सादृश्यस्य विचित्रताम् आपादयन्तीति

9.21

ननु यत्र सादृश्यं समवैति तत्सदृशबुद्ध्या गृह्यते. यदि चावयवसामान्यानि सादृश्यं, तानि तर्ह्य् अवयवेषु समवयन्तीति तेष्व् एव सदृशधियं जनयेयुः. अथ तेषां भूयस्ता, सा चावयवसामान्येष्व् इति तान्य् एव सदृशानि स्युः. कथं जात्यन्तरे सदृशबुद्धिर् अत आह -- न धर्मा इति. सत्यम्. अत एव हेतोर् न धर्माख्यावयवसामान्यानि तद्भूयस्ता वा सादृश्यं, तेषु सादृश्यबुद्ध्यनुत्पत्तेः. यद् एव हि तेषां भूयस् तया युक्तं जात्यन्तरं गवयादि व्यक्त्यन्तरं वाग्नेयसौर्यादि, तद् एव सदृशबुद्ध्या गृह्यते. अतो जात्यन्तरसमवाय एव तेषां सादृश्यम्. स्वरूपतस् त्व् एकैकशस्तानि सामान्यानि प्रधानसामान्यवदेकत्वबुद्धिनिबन्धनम् एव. पिण्डितानि तु जात्यन्तरसमवायोपहितानि सादृश्यम्, अयं च भूयो ऽवयवसामान्येत्य् अस्यैव प्रपञ्च इति

9.22

{3,148} अत्र चोदयति -- यमयोर् इति. जात्यन्तरस्येति यावच्छ्रुतग्राहिणः परिचोदनम् इदम् -- यदि जात्यन्तरस्य भूयो ऽवयवसामान्ययोगतस् सादृश्यं कथं यमयोर् व्यक्तिसादृश्यम् इति. इतरस् तु -- प्रदर्शनमात्रं जात्यन्तरस्येति केयम् अत्रैवास्था, तद् अयम् अर्भको वराक इत्य् अपहसति -- दृष्टत्वाद् इति. यत्रैव सादृश्यं दृश्यते जातौ व्यक्तौ वा, तत्रैव तदाश्रयणीयम्. किम् एकत्रैवास्थां बध्नासीति. स्याद् एतत्. एकस्वभावा हि भावा जात्यादयः. तद् इदं सादृश्यम् अपि तथैव युक्तम्. यदि तावदल्पवृत्तिस्वभावं व्यक्त्योर् एव युक्तम्, अथ बहुवृत्तिस्वभावं ततो जात्योर् एव. अर्धवैशसं त्व् अवस्तुताम् आपादयतीति, अत आह -- क्वचिद् धी ति. प्रतीत्यविसंवादाद् उभयोपपत्तिर् इति भावः

9.23

ननु सामान्यानि सादृश्यं, तानि च व्यक्तिनाशेन नश्येयुः. अतो नित्यं सामान्यम् इति सिद्धान्तहानिर् अत आह -- सामान्यानी ति. एतानि तावन्नाशीनि भवन्तु, सामान्यान्तराणि गोत्वादीनि नित्यान्य् एवेति न कश्चिल् लोकविरोध इति

9.24

कः पुनस् सामान्यान्तरेषु विशेषः, अत आह -- अनन्ते ति. अनन्तो हि गोत्वादीनाम् आश्रयः. तदेकस्य नाशे ऽप्य् आश्रयान्तरे प्रत्यभिज्ञानान्नैकान्तिको नाश इति. नित्यसामान्यवादो ऽपि न नस् सार्वत्रिक इत्य् आह -- तेने ति

9.25

{3,149} अथवावयवसामान्यानाम् अपि नात्यन्तिको नाशो ऽस्तीत्य् आह -- सामान्यस्ये ति. कारणम् आह -- सर्वस्ये ति

9.26

यद्य् अस्ति तत्रापि सादृश्यधिया भवितव्यम् अत आह -- तेषाम् इति. भूयस् तया तेषां सादृश्यम् अतिरिक्तं भवति, न त्व् एकैकशो न सन्तीति. न केवलं सामान्यम् अनश्वरम् इति देशान्तरादिष्व् आश्रयसद्भावः कल्प्यते. अपि तु प्रत्यक्षे ऽपि क्वचिद् अर्थे तान्य् उपलभ्यन्त एवेत्य् आह -- तानी ति

9.27

नन्व् अक्ष्यादीनां स्वावयवसामान्यभूम्ना सादृश्यम् उक्तं, तदवयवानां तु कथं सादृश्यं भविष्यत्य् अत आह -- सदृशे ति. यथा महावयविनो ये ऽवयवाः स्वावयवसामान्यैस् सदृशा भवन्ति, एवं यत्र नामावयवेष्व् अपि सदृशावयवत्वम् अवगम्यते ते ऽप्य् अवान्तरावयवसामान्यैस् सदृशा भवन्तीति न काश्चद् दोष इति

9.28

तावच् चैवं दर्शयितव्यं यावन्निर्भागा भागा इत्य् आह -- एवम् इति. ततः परं परमाणुत्वम् एव केवलं सामान्यम् इत्य् आह -- तत इति

9.29

ननु यदि सामान्यानि सादृश्यं गोत्वादौ प्रसङ्गः, तत्त्वाभेदाद् इत्य् अत आह -- प्रधानानाम् इति. अयम् अभिप्रायः -- संविन्निष्ठा हि नो{3,150}वस्तुव्यवस्थितयः, अतो यत्सदृशबुद्धिम् उत्पादयति तत्सादृश्यम्. प्रधानावयविनां तु यत्र गोत्वादिसामान्यम् एकं प्रतीयते, तत्र स एवेति प्रतिभासो भवति, न स इवेति. अतः प्रधानसामान्यं न सदृशबुद्धेर् हेतुर् इति न सादृश्यम्. तद्भेदे प्रधानसामान्यभेदे गोगवययोस् सादृश्यबुद्धिर् भवति, न च तयोर् इतरेतरसादृश्यबुद्धिः. अतो यत्र गोत्वादिसामान्यं वर्तते न तत्र सदृशबुद्धिः. यत्र सदृशबुद्धिर् न तत्र तद्वर्तत इति तद्वर्तीन्य् अवयवसामान्यान्य् एव पिण्डितानि सदृशबुद्धेर् हेतुत्वात् सादृश्यम् इति सिद्धम्. एवं च यन्निबन्धनकारेण सादृश्यस्य तत्त्वान्तरत्वे कारणम् उक्तं गोत्वादाव् अपि प्रसङ्ग इति, तत् प्रत्युक्तम् इति

9.30

चित्रादाव् अवयवसामान्याभावात् सादृश्यानुपपत्तिर् इति चोदयति -- चित्रादाव् इति. परिहरति -- तत्रापीति. पारिणामिकावयवसमवेतसामान्याभावे ऽपि पृथिव्यंशे शुक्लादयो वर्णविशेषाः परिमाणश् च तैस् सादृश्यम् उपपादितम् इति. किं पुनर् इदं जातिसादृश्यं व्यक्तिसादृश्यं वा. नेदम् उभयम् अपि सम्भवति, उभयाभावात्. न हि चित्रादौ नरत्वादिजातयस् तद्व्यक्तयो वा सम्भवन्ति. स्वभावनिर्मितपाण्याद्यवयवसमवायित्वाद् व्यक्तेः, तत्समवायित्वाच् च जातेः. उच्यते. व्यक्तिर् एवात्र सदृशी. यद्य् अपि चात्र नरत्वं नास्ति, द्रव्यत्वं त्व् अस्तीति तद्व्यक्तिस् सदृशतया प्रतीयते. प्रायेण चाकृतिसादृश्यम् एव तत्रावगम्यते. कुशलस् तु चित्रकारो व्यक्तिसादृश्यम् उन्मीलयतीति

9.31

ननु पिण्डितान्य् एवावयवसामान्यानि सादृश्यम्. एवं गुणसामान्यान्य् अपि मिलितानि सादृश्यम् इत्य् उक्तम्. चित्रादौ तु रूपमात्रम् एव समानं न गन्धादयः. अत आह -- रूपे ति. रूपादीनां मध्ये कस्यचिद् एकस्यापि{3,151}तुल्यतया सादृश्यं भवत्य् एव. उक्तम् असकृत् यथा दर्शनं तदाश्रीयत इति. तद् इह चित्रादौ वर्णसामान्यम् एव. कुसुमादिगन्धविशेषाणां गन्धसामान्यं, क्षीरशर्करादौ रससामान्यं सादृश्यम्. अवश्यं सर्वगुणसामान्यसमवायो नानुसर्तव्य इति

9.32

परिहारान्तरम् आह -- पृथिव्यादिष्व् इति. एवं हि सत्कार्यवादिनो वदन्ति -- नात्यन्तम् असत्कर्तुं शक्यं, गगनकुसुमवत्, अतो ऽसतः कार्यत्वं निवृत्तं सत्तां गमयति. अतो नराद्यवयवसामान्यान्य् अपि नात्यन्तम् असन्ति जायन्ते. किन् तु सन्त्य् एव स्वकारणेषु पृथिव्यादिषु भूतेषु परिणामाद् अभिव्यज्यन्ते. सा च तेषां पारिणामिक्यभिव्यक्तिर् यथादर्शनम् एवावधारयितव्या. यथा च तानि पाण्यादिमत्सु देवदत्तादिषु दृश्यन्ते, एवं चित्रादिभागेष्व् इतीति तत्र किम् इति नाभ्युपगम्यन्ते. अतो ऽवयवसामान्यान्य् एव चित्रादाव् अपि सादृश्यम् इति

9.33

प्राक्सत्त्वे कारणम् आह -- न ही ति. इदं च प्राग् एवोक्तम् इति. यत् तु सादृश्यं भिन्नम् अभिन्नं वेति विकल्प्यावस्तुत्वम् आपादितम्, तत्रोत्तरम् आह -- धर्माणाम् इति. सर्वधर्माणाम् एव जात्यादीनां न धर्मिणो नानात्वम्, अथ चावान्तरस्थितिर् अपि धर्मधर्मिकृतास्त्य् एव. एवं सादृश्ये ऽपि. अतो नानेन तदपलपितुं शक्यते. सर्वत्रानैकान्त एव प्रतीत्य् अविसंवादात् समर्थनीय इति

9.34

तद् एवं सादृश्यस्य वस्तुत्वे सिद्धे चक्षुषा सम्बद्धस्य सतोर् द्वयोर् धर्मिणोर् युगपदीक्षमाणस्यैकत्र वा प्रत्यक्षत्वं सिद्धम् इत्य् आह -- वस्तुत्वे इति

9.35

{3,152} वृत्तिपरिचोदनायाम् उत्तरम् आह -- सामान्यवद् इति. कारणम् आह -- प्रतियोगी ति. जात्यादिवदुपपत्तिर् इति

9.36

प्रत्येकं कृत्स्नसमवाये चासन्निहिते ऽपि गोत्वे स्मृतिस्थे गवयस्थस्य सन्निहितस्य सादृश्यस्येन्द्रियगोचरता सिद्धेत्य् उपसंहरन्न् आह -- तत्रे ति

9.37

स्वमतेनेदानीम् उपमानस्य प्रमेयं दर्शयति -- तस्माद् इति. यथा विवक्षं विशेषणविशेष्यभाव इति

9.38

ननु गौः स्मर्यते सादृश्यं च प्रत्यक्षेण गम्यत इति न प्रमेयम् उपमानस्य पश्यामः. अत आह -- प्रत्यक्षेणे ति

9.39

अत्र दृष्टान्तम् आह -- प्रत्यक्षे इति

9.40

का पुनर् अत्र व्यभिचारशङ्का, यन्निराकरणार्थं लक्षणप्रणयनम्, अत आह -- यत्र त्व् इति

9.41

{3,153} आभासेतरविवेके कारणम् आह -- बाधके ति. अत्रोदाहरणम् आह -- यथे ति

9.42

कथं पुनस् तदाभासत्वम् अत आह -- समीपस्थ इति. बाधकं हि तत्र ज्ञानम् उत्पद्यत इति भावः. नेति प्रत्ययाभावे तु परमार्थसादृश्यम् इत्य् आह -- न बाध्यत इति

9.43

सर्वम् एवालोचितानुगमनम् अनुमानम् इति मन्यमाना ये ऽस्यानुमानान्तर्भावम् इच्छन्ति तान् प्रत्याह -- न चे ति. पक्षधर्माद्यसम्भवम् एव दर्शयति -- प्राग् इति. धूमादिर् हि प्रमेयस्य पर्वतादेर् धर्मतयानुमानोत्पत्तेः प्रागवगतः पक्षधर्मो भवति. इह च गौः प्रमेयः. न चोपमानोत्पत्तेः प्राक् तद्धर्मतया सादृश्यं गृह्यते. अतस् तावन् न पक्षधर्मः. गवयशृङ्गित्वादीनां तु पक्षधर्मतोपरिष्टान्निराकरिष्यत इति

9.44

गवयगतम् अपि सादृश्यम् अपक्षधर्मत्वान् न सादृश्यविशिष्टानां गवाम् अनुमापकम् इत्य् आह -- गवय इति. गोगतं च प्रतिज्ञार्थैकदेशत्वान् लिङ्गम् इत्य् आह -- प्रतिज्ञार्थे ति

9.45

{3,154} गवयो ऽप्य् अपक्षधर्मत्वान् न सादृश्यविशिष्टस्य गोर् लिङ्गम् इत्य् आह -- गवयश् चे ति. अन्वयो ऽपि तस्य सादृश्यविशिष्टेन गवा नावश्यं विदितपूर्व इत्य् आह -- सादृश्यम् इति. द्वेधाप्य् उपमानस्य प्रमेयं सादृश्यविशिष्टो वा गौस् तद् वा गोविशिष्टम्, उभयस्यापि गवयान्वयो न दृष्टपूर्व इति

9.47

ननु युगपद् उभयं पश्यतां सादृश्यगवययोस् सम्बन्धो ऽवगत एवात आह -- एकस्मिन्न् इति. सत्यम् अवगतं, न तु सर्वेणेत्य् उक्तम् अस्माभिः. यदि चान्वयो ज्ञानाङ्गं स्यात्, एकस्याप्य् अगृहीतान्वयस्य ज्ञानं न स्याद् इति ॥ [46] ॥
यदि तु शृङ्गित्वादेर् गवा सम्बन्धो ऽवगतः, अतस् तद्गवये गृह्यमाणं गवि लिङ्गं भविष्यतीत्य् उच्यते. तन् न. तेषाम् अवयवभूतानां गवयावयविज्ञानव्यापारं प्रत्युपक्षीणत्वाद् इत्य् आशङ्कया सहाह -- शृङ्गित्वादेर् इति

9.48

यदि तु गवयज्ञानं प्रत्यनुपक्षीणानि स्वरूपेणैव शृङ्गित्वादीनि लिङ्गम् इष्यन्ते, ततस् तेभ्यः पूर्वावगतसम्बन्धानुसारेण निस्सादृश्यम् एव गोस्मरणं स्याद् इत्य् आह -- यदी ति. कथं निस्सादृश्यम् इत्य् अत आह -- न गौर् इति

9.49

अयं तु प्रतीतिक्रम इत्य् आह -- सदृशे ति. शृङ्गादिप्रत्ययात्{3,155}परावर्तिनं सादृश्यप्रत्ययम् अपेक्ष्य गोसादृश्यविशिष्टगवयप्रत्ययाद् एव पुनस् तत्सादृश्यविशिष्टगोज्ञानम् उपजायते, न पुनः शृङ्गादिप्रत्ययमात्राद् इति

9.50

ननु शृङ्गादयो ऽपि परस्परसदृशा एवेति कथं तेभ्यो निस्सादृश्या प्रतीतिर् उच्यते. अत आह -- सदृशे ति. यदि गवयादीनां सदृशावयवत्वम् अवगम्यते, न तर्हि ते सदृशतया प्रमीयन्ते. किन् त्व् अवयवा एव परस्परं सदृशतया. अतो न सादृश्यविशिष्टगोप्रमितौ शृङ्गित्वादीनां लिङ्गत्वम्. निस्सादृश्यं तु तेभ्यो गोस्मरणमात्रं स्याद् इति. अपि चानुमाने यद् एकदेशतया धूमादिर् अवगम्यते प्रमेयम् अप्य् अग्न्यादि तदेकदेशतयैव. इह तु शृङ्गित्वादयो गवयैकदेशतया प्रमीयन्ते. न च तदेकदेशो गौर् अप्य् अनुमीयत इत्य् आह -- न चे ति

9.51

यदि तु कश्चिद् वैयात्याद् एवम् एवानुमास्यत इति ब्रूयात्, तं प्रत्याह -- इत्थम् इति. भ्रान्तिर् इयम् अभावविरोधाद् इति. नगरस्थगोज्ञानम् अविशेषितं सादृश्येन स्मृतिर् एवेत्य् आह -- नगरस्थम् इति. विषयतात्स्थ्याद् ज्ञाने ऽपि तात्स्थ्यव्यपदेशः तदधीनत्वात् तस्येति

9.52

कः पुनर् उपमानस्य वेदार्थ उपयोगः. यदि प्राकृतानां धर्माणां विकृतौ प्राप्तिर् उच्यते, तन् न. अनुमानाद् एव तत्सिद्धेः. प्राकृतं लिङ्गं धर्मैस् सम्बद्धं किञ्चिद् विकृतौ दृष्टं तेषाम् अनुमापकं भविष्यति. जैमिनेर् अप्य् एतद् एवाभिमतम् इति लक्ष्यते. यद् एवम् आह -- यस्य लिङ्गम् अर्थसंयोगाद् इति. अत्र हि व्यक्तम् एव लैङ्गिकीं धर्मप्राप्तिम् अपदिशति. अत आह -- भिन्ने ति.{3,156}अयं भावः -- प्रतिबन्धदर्शिनो हि प्रतिबन्धकज्ञानम् अनुमानम्. न चेह सौर्यादिवाक्यानाम् आग्नेयादिविध्यन्तेन प्रतिबन्धो ऽवगतः. न च द्रव्यदेवतयोः. न कर्मणः. अतः कथं तज्ज्ञानम् अनुमानम् इति. प्रमाणान्तराद् एवोपमानात् प्राकृतविध्यन्तप्राप्तिर् अध्यवसातव्या. वैकृतानि हि प्रधानान्य् अश्रुतविध्यन्तानि न तम् अन्तरेण पर्यवस्यन्ति. यत् किञ्चिद् विध्यन्तापेक्षां द्रव्यदेवतादिसादृश्यदर्शनोत्थापितोपमानपर्यवस्थापिताग्नेयविध्यन्तानि इतिकर्तव्यताम् आपाद्य कृतार्थानि भवन्ति. यथेहैव तावत् सौर्याग्नेययोर् एकदेवतात्वेन तद्धितदेवतानिर्देशेनौषधद्रव्यकतया च सादृश्याद् उपमानेनाग्नेयधर्मास् सौर्य उन्नीयन्ते. अयं चावयवार्थः -- इयम् उपमा(नुमा)नाद् भिन्नोक्ता अग्न्यादियुतम् इतिकर्तव्यताजातं सादृश्यमात्रात् कथं नु प्रत्याययोदित्य् एवम् उपयुज्यते. इतरथा सौर्यादिवाक्यैस् सह तस्यादर्शनान् नानुमानं सम्भवतीत्य् अप्राप्तिर् एव स्यात्. अग्न्यादियुतम् इति. अग्न्यादिना देवतयाग्नेयादिकर्म लक्षयति. आग्नेयादिना कर्मणा युक्तम् इतिकर्तव्यतामात्रम् इत्य् उक्तं भवतीति

मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc