मीमांसाश्लोकवार्त्तिक · अध्याय 8
__________नोतेस्__________
[728] व्यवहारि
इदानीं लक्षणभाष्यव्याख्यानावसरे प्राथम्याद् अनुमानलक्षणम् अनुसन्धास्यति. तत्र च ज्ञातसम्बन्धस्येत्य् उच्यते. तत्र न विद्मः को ज्ञातसम्बन्धसमासार्थ इति. न तावत् पुरुषस् सम्बन्धी समुदायो वा. अनुपादानात्. न ह्य् अनुपात्तान्यपदार्थको बहुव्रीहिर् भवति. ननु बुद्धिसम्बन्धोपस्थापितः पुरुषस् समुदायिद्वयाक्षिप्तस् समुदायो वा विशेष्यते. बुद्धिर् हि स्वशब्दाद् अवगता तद्वन्तम् अन्तरेणात्मानम् अलभमानोपस्थापयति स्वाश्रयम् इति नानुपादानदोषः. नैतद् एवम्. गम्यमानस्याविशेषणात्. न खलु धूमशब्दार्थाविनाभावाद् अवगतो ऽग्निर् ज्वलतीति विशेष्यते. वक्ष्यति च --
गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
इति. स्यान् मतम्. सत्यम्. अनुपात्तं न विशेष्यते. उपात्त एव त्व् इह सम्बन्धी. तथा हि अयम् अत्र पदान्वयः. अनुमानम् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् इति. अतः कस्यैकदेशस्येत्य् आकाङ्क्षायां स एवैकदेशो ज्ञातसम्बन्धस्येति विशेष्यते. ननु दर्शनोपसर्जनत्वाद् एकदेशो न विशेषणम् अर्हति. न ह्य् उपसर्जनं पदं पदान्तरेण सम्बध्यते. न हि भवति पुरुषं प्रत्युपसर्जनीभूतस्य राज्ञः ऋद्धस्य राजपुरुष इति विशेषणम्. उच्यते. नोपसर्जनत्वाद् असम्बन्धः. आकाङ्क्षितं हि पूरणसमर्थम् उपसर्जनेनापि सम्बध्यत एव. अत्रैकदेशदर्शनाद् इत्य् उक्ते ऽस्ति कस्यैकदेशस्येत्य् आकाङ्क्षा. अर्थसम्बन्धे ऽप्य् आकाङ्क्षैव हेतुः. उपसर्जनसंज्ञा तु उपसर्जनं पूर्वम् (2.2.30) इति पूर्वप्रयोगसिद्ध्यर्थैव. अत एव हि कस्य गुरुकुलम् इति व्यवहारोपपत्तिः. तत्र हि कुलोपसर्जनस्यैव गुरोः कस्येति विशेषणम्. अपि च दर्शनक्रियाकर्मणो दृश्यस्यैकदेशस्य प्राधान्यम् अप्रधानस्य सापेक्षस्यापि पदान्तरेण सम्बन्धो दृष्टः, यथा राजपुरुषश् शोभन इति. अत उपपन्नं ज्ञातसम्बन्धस्यैकदेशदर्शनाद् इति. नोपपन्नम्. उक्तं हि गुरुणैव -- नोपसर्जनं पदं पदान्तरेण सम्बध्यते ऋद्धस्य राजपुरुष इतिवत् इति. न च परिहृतम्. उपसर्जनविशेषणे{3,3}हि ऋद्धी राजानं विशिष्यात्. यत् तूक्तम् -- आकाङ्क्षा सम्बन्धे हेतुः इति तद् अयुक्तम्. आकाङ्क्षावतो ऽप्य् अयोग्यस्य पदान्तरानन्वयात्. इह च दर्शनोपसर्जनत्वाद् अन्वयायोग्यत्वम् उक्तम्. अथोच्येत एकवाक्यतायाम् अयं दोषः एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् अनुमानम्. अतः पर्यवसिते वाक्ये कस्येइकदेशस्येत्य् आकाङ्क्षायां वाक्यगतम् एकदेशस्येति पदं ज्ञातसम्बन्धस्येति विशेष्यत इति. तन् न. आकाङ्क्षावाक्यस्याश्रवणात्. स एवानुपात्तान्यपदार्थदोषः. यत्र तूपादानं तत्रोपसर्जनत्वाद् अयोग्यत्वम् उक्तम्. अपि च वाक्यभेद एवात्र दोषः. यच् च दर्शनं दृश्यप्रधानम् इत्य् उक्तं, तद् अप्य् अयुक्तम्. उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्य. न च वास्तवं गुणप्रधानभावम् आश्रित्य पदान्तरसम्बन्धो दृष्टः. राजपुरुषे ऽदर्शनात्. ननु शाब्दम् एवैकदेशस्य प्राधान्यं गम्यते. कृद्योगलक्षणा हीयं कर्मणि षष्ठी. न. अश्रवणात्. न हि समासे षष्ठी श्रूयते. न चाश्रूयमाणा स्वार्थम् अभिधत्ते. किन् तु निषादस्थपतिवल्लक्षणया
तदर्थो ऽवगम्यते. श्रुत्या तु दृश्यावच्छिन्नं दर्शनम् एव प्रधानतयावगम्यते. उत्तरपदार्थप्रधानानुशासनम् अप्य् अत एव. समासात् तथैवावगतेः. न च वास्तवं प्राधान्यम् उपसर्जनस्य पदान्तरसम्बन्धे सापेक्षसमासे वा हेतुः. कस्य गुरुकुलम् इति नित्यसापेक्षत्वाद् गुरुशब्दस्य नासामर्थ्यं दोषः न ह्य् अनन्तर्भाव्य प्रतिसम्बन्धिनं गुर्वर्थो ऽवगम्यते. सम्बन्धिशब्दत्वात् तस्य. अतो ऽपेक्षितार्थान्तर एवासौ वृत्ताव् अनुप्रविशतीति न दोषः. न त्व् एवम् एकदेशशब्द इति वैषम्यम्. अतो दुरधिगमो ज्ञातसम्बन्धसमासार्थः.
अत आह -- प्रमाते ति. अयम् अभिप्रायः -- सत्यम्. एकदेशो नान्यपदार्थः. किन् तु प्रमातैव बुद्धिसम्बन्धोपस्थापितो ज्ञातसम्बन्ध इति निर्दिश्यते. गम्यमानम् अपि चाव्यभिचारिणा चिह्नेनोपस्थापितं विशेष्यत एव. न हि नमः पिनाकपाणय इत्य् अन्यपदार्थानुपादानं दोषाय. अपि च ऐन्द्रवायवं गृह्णातीति बहुव्रीहिसमासार्थो देवतातद्धितः कथम् आहृत्यानुपात्ते सोमरसे वर्तते. अथ सोमं क्रीणाति अभिषुणोति पावयति.{3,4}धारया गृह्णातीति प्रकरणावगतस् सोमरसो ऽन्यपदार्थ इत्य् उच्यते. इहापि बुद्ध्यविनाभावावगतस्य प्रमातुर् बहुव्रीह्यर्थत्वं नानुपपन्नम्. पूर्वपक्षस्थितेन वार्तिककृता गम्यमानं न विशेष्यत इति यद् उक्तं तद् एव दुर्लभलब्धम् इव मन्वानैः कैश्चिद् वल्गितम् इत्य् उपेक्षणीयम् एव. सिद्धान्ते हि गम्यमानाया एव व्यक्तेर् गावौ शुक्लो गौर् इति च विभक्त्या शब्दान्तरेण च विशेषणं भविष्यति. मञ्चाः क्रोशन्तीति च. आह च --
जातेर् अस्तित्वनास्तित्वे न हि कश्चिद् विवक्षति ।
नित्यत्वाल् लक्ष्यमाणाया व्यक्तेस् ते हि विशेषणे ॥
इति. धूमो ऽयं ज्वलतीति न भवति. अनभिधानात्. न हि लोकः पर्यनुयोक्तुम् अर्हति. यस् तु वैयात्याद् धूमशब्देनाग्निं लक्षयित्वा तथा प्रयुयुङ्क्षति न तं निवारयामः. नन्व् एवं प्रमातरि ज्ञातसम्बन्धे सति नैकदेशो विशेषित इति व्यापकैकदेशदृशो व्याप्यस्मृतिर् अनुमानम् आपद्येत. न त्व् एतद् इष्टम्. व्याप्याद् धि व्यापकज्ञानम् अनुमानम्. ज्ञातसम्बन्धस्यैकदेशस्येति सम्बन्धे स्याद् अपि विशिष्टैकदेशलाभः. तत्र हि ज्ञातसम्बन्धस्येति षष्ठ्या व्याप्य एव सम्बन्धी प्रतिपाद्यते. सर्वत्र हि व्याप्य एव हि षष्ठी दृष्टा. उच्यते. उक्तम् अस्माभिर् नेदम् अलौकिकं किञ्चित् प्रमाणानां स्वरूपम् उपवर्ण्यते. लोकप्रसिद्धम् एव त्व् अपरीक्षाप्रतिपादनार्थं स्वरूपम् अनूद्यते, लोके हि नियाम्यैकदेशदर्शन एव नियामकैकदेशज्ञानम् अनुमानम् इति प्रसिद्धम् इति. अस्त्य् अपि हि विशेषणे विशिष्टैकदेशो लभ्यते. अपि चासन्निकृष्टे ऽर्थ इति वदति. न च व्यापकदृशस् साहचर्यमात्रात् व्याप्यस्मृतिर् असन्निकृष्टविषया. पूर्वप्रमाणानधिकार्थाविषयत्वात् स्मृतेः. व्याप्याद् एव त्व् अनुभूतपूर्वनियमाद् व्यापकविशिष्टः पर्वतादिर् अवगम्यते. अत उपपन्नो विशिष्टैकदेशलाभ इति. यत् तु ज्ञातसम्बन्धस्यैकदेशस्येत्य् अत्र षष्ठ्या विशेषप्रतिपादनम् उक्तम्. तद् अयुक्तं व्यापकाद् अपि षष्ठ्युत्पत्तेः. भवति हि कृतकत्वम् अनित्यताया हेतुर् इति व्यवहारः. व्यापिका चानित्यता कृतकत्वस्य. तस्माद् अविशेषितोपादाने ऽपि व्याख्यानतस् सम्बन्धविशेषाद् (एक)देशविशेषलाभो नानुपपन्नः. भवति हि व्याख्यानतो विशेषप्रतिपत्तिर् न तु सन्देहाद् अलक्षणम् इति सूक्तं प्रमाता ज्ञातसम्बन्ध इति.
{3,5} व्याख्यानान्तरम् आह -- एकदेशी ति. एकदेशौ हि नैकदेशिनम् अन्तरेण स्याताम् इति आक्षिप्तस्यैकदेशिनो युक्तम् अन्यपदार्थत्वम्.
नन्व् एवं ज्ञातसम्बन्धस्यैकदेशिनो य एकदेशस् तस्यैकदेशस्य दर्शनाद् इत्य् उच्यमाने स एव दर्शनोपसर्जनत्वाद् एकदेशस्यैकदेशिनः सम्बन्धस् सम्बन्धिविशेषापेक्षस्य वा समासदोषः प्रसज्यते. भवेद् एतद् एवम्. यद्य् एकदेशव्यतिरेकजनिता षष्ठी स्यात्. इयं त्व् एकदेशदर्शनव्यतिरेकजनिता षष्ठी तद् अपि परम्परया वाजपेयस्य यूप इतिवदेकदेशिनो भवत्य् एव. कः पुनर् अत्रैकदेशी ज्ञातसम्बन्धः पक्षस् सपक्षो वा. न तावत् पक्षः ज्ञायमानसम्बन्धत्वात्. न च सपक्षः सिद्धत्वेनाननुमेयत्वात्. नैष दोषः. व्याप्तिर् हि न सकृद्दर्शननिर्ग्राह्या. भूयोभिस् तु दर्शनैः पूर्वपूर्वावगतसकलदेशकालविविक्तधूमवन्मात्रस्याग्निमत्तया व्याप्तिर् अवधारिता. न पुनर् अत्रायम् इदानीं वा धूमवान् अग्निमान् इति. अतः पक्षैकदेशिनो ऽपि सामान्यतो धूमवत्तौपाधिकसम्बन्धो ज्ञात इति स एव ज्ञातसंबन्धः. सामान्यतो गृहीते ऽपि देशादिभेदेन प्रत्यक्षप्रत्यभिज्ञानवन्नानुमानप्रत्यभिज्ञानम् अनुपपन्नम् इति न प्रमेयाभावः. एकदेश्यैकदेशौ चाश्रयाश्रयिणाव् अभिमतौ. न पुनर् अवयवावयविनाव् इति द्रष्टव्यम् इति
कर्मधारयसमासो वायम् इत्य् आह -- कर्मधारये ति. अयम् अर्थः -- ज्ञातश् चासौ संबन्धश् चेति कर्मधारयो ऽयम्. अत्र च पक्षे संबन्धिनि गम्ये गमके चैकदेशता. कथं सम्बन्ध्याधारस्य सम्बन्धस्य सम्बन्धिनाव् एकदेशौ. न हि भूधराधारस्य धूमस्यैकदेशो गिरिः. आधेयम् एव तु धूमस् तदेकदेशतया मन्यते. उच्यते. भवत्याधारांशे ऽप्य् एकदेशवाचोयुक्तिः. यथा अवयव्याधारेष्व् अवयवेषु च समूहिष्व् इति निरवद्यम्
द्वयं वान्यपदार्थ इत्य् आह -- द्वयं वे ति. सम्बन्धगरहणकाले परस्परसम्बन्धम् उपलब्धं व्याप्यव्यापकद्वयं ज्ञातसम्बन्धम् उच्यते, तस्य च स मुदायिनाव् एकदेशौ. यथा चैतद् एवं तथा प्राग् एवोक्तम् इति. किं{3,6}पुनः कर्मधारयपक्षे द्वयान्यपदार्थत्वे वा प्रमेयम्. न तावत् सम्बन्धसमुदायाव् एव. तयोः पूर्वम् एवावगतत्वात्. अधुना च धर्मधर्मिविभागेनानवगमात्. न चान्य एकदेशी. तस्यानुपादानात्. न चैकदेशाभ्याम् आक्षेपः. सम्बन्धसमुदायनिराकाङ्क्षत्वात्. न च स्वतन्त्रैकदेशदर्शनात् स्वतन्त्रैकदेशान्तरे ज्ञानम् अनुमानं, सिद्धत्वात्. वक्ष्यति हि न धर्ममात्रं, सिद्धत्वाद् इति. अत्राभिधीयते -- अयम् अत्रार्थो ज्ञातस्य सम्बन्धस्य ज्ञातसम्बन्धस्य वा द्वयस्य क्वचिद् एकदेशदर्शनात् तत्रैवैकदेशान्तरे बुद्धिर् अनुमानम् इति. कुत एतत्. असन्निकृष्टग्रहणात्. न हि स्वतन्त्रैकदेशो ऽसन्निकृष्टः. क्वचिद् एव पर्वतादाव् एकदेशो ऽसन्निकृष्टो भवति. तत्रानवगतपूर्वत्वाद् इति किम् अनुपपन्नम् इति.
कः पुनर् अत्र सम्बन्धो ऽनुमानाङ्गम् इष्यते. अविनाभावस् तादात्म्यतदुत्पत्तिनिमित्तक इति केचित्. एवं हि तैर् उक्तम्.
कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमो ऽदर्शनान् न न दर्शनात् ॥
इति. न हि विपक्षसपक्षयोर् अदर्शनाद् दर्शनाद् वाविनाभावसिद्धिः. तेनानियतस्यापि तत्र वृत्तेः सम्भवात्. किञ्चिद्विपक्षव्यावृत्त्या च सर्वविपक्षव्यावृत्त्यसिद्धेः. सर्वविपक्षाणां च युगपद् ग्रहीतुम् अशक्तेः. किन् तु अग्न्यादौ सति धूमादेर् भावाद् असति चाभावात् तदायत्तस्वभावो धूमादिर् इति विदिते तदविनाभावस् सिद्ध्यति. तत्कार्यस्य तम् अन्तरेणात्मलाभाभावात्. तद् अत्राग्नौ दर्शनम् इतरत्रादर्शनं तदुत्पत्तौ हेतुः. ततो ऽविनाभावसिद्धिः. तादात्म्ये ऽपि तत्सिद्धिः तं विना भवतस् तादात्म्यानुपपत्तेः.
नन्व् एवंविधान्वयविरहिणो गन्धान् न रूपरसादयो ऽनुमीयेरन्. न च खलु तस्य रूपम् आत्मा. न च कारणम् इति कथं ततस् तत्सिद्धिः. श्रूयतां यथा सिद्ध्यति. रसाद् एव हि स्वहेताव् अग्नाव् इव धूमाद् अनुमीयमाने समसामग्रीकेन्धनविकारवद्रूपावगतिर् इति नानुपपत्तिः. यथाहुः --
एकसामग्र्यधीनस्य रूपादेर् रसतो गतिः ।
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥
{3,7}इति. ननु युक्तेन्धनविकारे तस्य धूमस्य चैकाग्निकारणत्वाद् अवगतिः. न तु रूपरसाव् एककारणकौ. कारणरसा हि कार्ये रसम् आरभन्ते. कारणरूपाणि च कार्ये रूपम्. तत् कुतस् समानकारणता. नैककारणतयैकसामग्र्यधीनत्वम्. किन् तु रसाद् रसहेतुर् अनुमीयमानः प्रवृत्तिरूपजननशक्तिरूपोपादानकारणसहकृतो ऽनुमीयते. तथाविधस्यैव कारणत्वात् प्रवृत्तिशक्तिना च कारणेन रूपं जन्यत इति रूपसिद्धिः. तद् इदम् अनुपपन्नम् यत् तावत् कार्यं कारणेन विना न भवतीति ततस् तज्ज्ञानम् उक्तम्. तद् अयुक्तम्. कथं हि कारणेन विना कार्यम् एव न भवति इत्य् एतद् एवावसेयम्. तद् विना भवतो नित्यं सत्त्वम् असत्त्वं वा स्यात्. ततश् च कार्यतैव हीयेत. उक्तं हि तैः --
नित्यं सत्त्वम् असत्त्वं वा हेतोर् अन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥
इति. अपेक्षातः कादाचित्कत्वम् अनपेक्षं तु सदसद् वा स्यात्. गगनशशविषाणवद् इति चेत्. यद्य् एवम् अन्यो ऽयं कार्यकारणभावात् स्वभावनियमः यदनपेक्षं तन्नित्यं सदसद् वा भवतीति. यच् च रसाद् रूपावगतिर् एकसामग्र्यधीनत्वाद् इत्य् उक्तम्. तद् अप्य् अयुक्तम्. यद्य् अपि प्रवृत्तिशक्तिरूपोपादानकारणसहकृतो रसहेतुर् अवगतः स्वकार्याद्, रूपं तु कुतो ऽअवगम्यते. प्रवृत्तिसामर्थ्यात् कारणाद् इति चेत्. ननु नादो रूपस्य कार्यं नात्मेति कथं तदवगमे हेतुः. प्रवृत्तिशक्तेः कारणस्य कार्याव्यभिचाराद् इति चेत्. न. तर्हि कार्यतदात्मनोर् एवाविनाभावः कारणे ऽपि (?भावाद्।भवेत्). भवत्व् इति चेत्. न. अग्नेर् अपि धूमानुमानप्रसङ्गात्. अस्त्व् इति चेत्. अतन्त्रं तर्हि कार्यत्वम् अनुमाने. स्यान् मतम्. न प्रवृत्तिसामर्थ्यात् कारणाद् रूपानुमानम्. अपि तर्हि रूपवद्रूपकारणसहकारिणा रसकारणेन रसो जन्यते. सहकारिकारणम् अपि सविशेषणं कारणम् एवेति रसाद् इतरेतरानुगृहीतं कारणचक्रम् अनुभास्यत इति. तन् न. कार्यकारणयोर् अयौगपद्याद् रूपकारणस्य तद्वत्तानुपपत्तिः. पारिशेष्याद् (?दूष्याद्) रूपम् एव सहकारीति वाच्यम्. तत्र च वृथा तत्कारणानुमानपरिश्रमः. रूपं सहकारीत्य् अपि नानिर्णीतरूपरसाविनाभावो ऽनुभवितुम् उत्सहते. प्राग् एव तु तन्निर्णये वृथारूपतद्धेत्वोस् सहकारित्वकल्पना.{3,8}अपि चानुभवविरुद्धम् एवेदम्. न खलु रसम् उपलभ्य तद्धेत्वनुमानमुखेन रूपावगतिर् लौकिकानाम्. अपि तर्हि रूपरसयोस् साहित्यनियमात् सहसैव रसाद् रूपम् अनुमीयते. अपि च कार्यकारणभूतयोर् एव बहुलम् अनुमानव्यवहारो दृश्यते इत्य् अनादृत्यं कार्यत्वम् अव्यभिचारे. तादात्म्यम् अपि मेयाभावप्रसङ्गाद् धेयम् एव. किं हि वृक्षात्मनि शिंशपात्वे विदिते मेयम् अवशिष्यते. निर्भागत्वात्. ऐकात्म्ये ऽपि वस्तुनः काल्पनिको भेद इति चेत्, न तावन्निर्भागं वस्तु, भागावग्रहाणां देशादिभेदे ऽप्य् अबाधितानां सम्यक्त्वात्. काल्पनिकभेदाश्रयत्वाच् चानुमानस्य वास्तवम् ऐकात्म्यम् अनङ्गम्. वृक्षव्यवहारो ऽनुमीयत इति चेद् कथम् अनात्मव्यवहारश् शिंशपात्वाद् अनुमीयते. तादात्म्ये वृक्षवदननुमानप्रसङ्गात्. व्यवहारयोग्यतायाम् अप्य् एवम् एवेति यत् किञ्चिद् एतत्. एवम् एव वैशेषिकादिसमयसिद्धा अपि कार्यकारणभावादयस् सम्बन्धप्रकाराः प्रत्युक्ता वेदितव्याः. ते ऽपि ह्य् अनियताननुमानोत्पत्तिकारणम्.
अस्तु तर्हि नियमो वानुमानाङ्गम्. न. प्रमाणाभावाद् अनवगतेः. न तावदापातजं प्रत्यक्षम् अस्यावधारणक्षमम्. ईक्षते खल्व् अयं विस्फारिताक्षस् सहसा महानसे धूमम् अग्निना सहितम्. न तु जानाति नियतो ऽयम् अनेनेति. दुरधिगमो हि सर्वभावानां स्वभावनियमः. न तम् उन्नेतुम् उत्सहन्ते झट् इति महान्तो ऽपि. न हि निर्विकल्पकागोचरे विकल्पः प्रमाणम्. तत्पुरस्सरत्वात् तस्य. स्याद् एतत्. देशादिभेदेष्व् अव्यभिचारात् स्वभावनियमो ऽवधार्यत इति. केनावधार्यते सर्वदर्शनानाम् अन्वयमात्रे व्यापारात्.
अथ पूर्वपूर्वज्ञानजनितभावनासचिवम् अन्तिमम् अनेनायं नियत इति भवत्य् आलोचनाज्ञानम्. ततो विकल्पाः प्रवर्तिष्यन्त इति. नैतद् एवम्. इन्द्रियव्यापारसापेक्षं हि प्रत्यक्षम्. न च सहभावदर्शनाद् अन्यत्र बहिर् इन्द्रियव्यापारः. न च बहिर् विषयवेदने तन्निरपेक्षम् अन्तःकरणं प्रवर्तते. अपि च निरूपितरूपा अपि भावा देशादिभेदेष्व् अन्यथाभवन्तो ऽनुभूयन्त इति न स्वभावनियमं प्रत्याश्रयितुम् उचितं प्रामाणिकानाम्. तदाहुः --
देशकालादिरूपाणां भेदाद् भिन्नासु शक्तिषु ।
भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥
{3,9}इति तस्माद् वक्तव्यो ऽनुमानाङ्गभूतस् सम्बन्धः. अत आह -- सम्बन्ध इति. व्याप्तिर् हि साहित्यनियमम् अपदिशति. तद्दर्शिनो ह्य् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् उत्पद्यते, अतस् सामान्यवचनो ऽपि सम्बन्धशब्द उपरितनसमभिव्याहाराद् अत्रानुमानलक्षणग्रन्थे विशेषपरो भवति. उपरि चास्यावधारणे प्रमाणं वक्ष्यत इति
यदि ज्ञातसम्बन्धस्यानुमानं स तर्हि सम्बन्धो द्व्याश्रय इत्य् उभयानुमाने लिङ्गं स्याद् अत आह -- व्याप्ये ति
अत्र कारणम् आह -- यो यस्ये ति द्वयेन. सः -- समन्यूनदेशकालो हि व्याप्यो भवति. पूर्वं तावद् यत्रोभयोर् अपि धर्मयोर् व्याप्यव्यापकत्वं. यथा परस्ताद् उदाहरिष्यते. उत्तरस् तु यथा धूमादिः, स हि प्रायेणाग्निदेशकालवर्त्ती भवति. सत्य् अपि चाग्नावभवंस् ततो देशकालाभ्यां न्यूनो भवति. यावन्ताव् अग्नेर् देशकालौ तावन्तौ नास्येति न्यूनत्वं. अत एव चासाव् अग्नेर् व्यापको न भवति. सकलतदीयदेशकालाव्याप्तेः. व्यापकस् तु समाधिकदेशकालः. अत्रापि पूर्वोक्त एव पूर्वः. उत्तरस् तु यथाग्नेर् एव धूमस्य. स हि तस्य देशकालौ तावद् व्याप्नोत्य् एव. असत्य् अपि धूमे भवन् देशकालाभ्याम् अधिको ऽप्य् अभिधीयते. यतश् चानयोर् ईदृशं स्वरूपं नान्यथा व्याप्यव्यापकतात्मकता, तेन कारणेन व्याप्य एव गृहीते व्यापकस्य ग्रहणं भवति यद् असौ तं विनापि न भवत्य् एव. न ह्य् असाव् अग्निर् इव धूमस्याग्नेर् देशकालाव् अतिक्रम्यापि भवति. येन तं विनापि भवस् तं न गमयेत्. अग्निस् त्व् अनेवंविध इति नासौ धूमस्य गमको भवति. ननु चायं विशेषो{3,10} ज्ञातसम्बन्धशब्दान् नावगम्यते. स हि सम्बन्धज्ञानमात्रम् अङ्गतया दर्शयति, न व्याप्यताम् इति कुतो विशेषलाभः. उक्तम् अत्र लौकिकलक्षणानुवादेनापरीक्षाप्रतिपादनार्थम् इदं भाष्यम्. लोके च व्याप्यैकदेशदर्शिन एव व्यापकज्ञानम् अनुमानम् इति सिद्धम्. न ह्य् अन्यथेति चापकृष्य पूर्वेण योजयित्वा तेनेति तदुपजीवनेन व्याख्येयम् इति
ननु व्यापकाद् अपि व्याप्यसंवित्तिर् दृष्टा. अनित्यत्वाद् इव कृतकत्वस्य. भवति हि भावानाम् अनित्यत्वात् कृतकत्वानुमानम्. व्यापकं चानित्यत्वं कृतकत्वस्य. अतो व्यापकं गम्यं व्याप्यं गमकम् इत्य् अव्यापकम् अत आह -- व्यापकत्वे ति. अयम् अभिप्रायः. सत्यं व्यापकस्य गमकत्वम्. न तु व्यापकत्वगृहीतस्य. तेन हि रूपेण गृहीतो ऽसौ व्याप्याद् देशकालाधिक्ये ऽपि न विरुध्यते. न चाधिकदेशकालः प्रतिपादको भवति. तं विनापि भावाद् इत्य् उक्तम् एव. ननु व्याप्यतापि तस्यास्ति. अस्तु नाम, वस्तुतस् तत् तु रूपं न गृहीतम् इति कथं गमकत्वम्. अवगते तु ताद्रूप्ये तेनैव गमकत्वं न व्यापकतया. अतो व्याप्यतैवानुमानाङ्गं न व्यापकतेति सूक्तम् इति
व्याप्यत्वम् अङ्गं न व्यापकत्वम् इत्य् एतद् एवासङ्कीर्णोदाहरणेन दर्शयति -- विस्पष्टे ति. यत्र व्याप्यव्यापकभावो न सङ्कीर्यते, तत्र विस्पष्टम् एवैतद् उपलक्षितम्. यथा व्याप्यं गमकं व्यापकं गम्यम् इति. गोविषाणित्वयोर् हि व्याप्यं गोत्वं व्यापकं विषणित्वम् अनुमापयति न तु विषाणिता गोत्वम्. व्यापिका हि सा. मितौ -- अनुमाने. गोविषाणित्वयोर् अयं गम्यगमकविवेको दृष्ट इत्य् अर्थः
{3,11} एवम् असङ्करे गम्यगमकविवेकाद् यत्रापि व्याप्तिसङ्करो भवति तत्रापि व्याप्यत्वम् एव गमकत्वे कारणम् इति निष्कृष्यत इत्य् आह -- तेने ति
ननु व्याप्तिर् अनुमानाङ्गम् इत्य् उक्तम्. कस्य पुनर् इयं संयोगिनस् समवायिनस् सम्बन्धिसम्बन्धिनो वा. न ह्य् अत्र व्यवस्थाम् उपलभामहे. सर्वेषाम् अप्य् अनुमापकत्वात्. तद् यदि संयोगी व्याप्यः. रसाद् रूपानुमानं न स्यात्. अथ समवायी धूमाद् अग्न्यनुमानम्, सम्बन्धिसम्बन्धिनश् च पित्रोर् ब्राह्मणत्वात् पुत्रस्य ब्राह्मणत्वानुमानम् इत्यादि दर्शयितव्यम्. अपि च व्याप्तिर् इत्य् अन्वयो ऽभिधीयते. उपश्लेष इति यावत्. न चासौ भूमौ प्रतिष्ठितेनाग्निना गगनगतस्य धूमाग्रस्य सम्भवति. न च भूमिष्ठां शङ्कुच्छायां दिवि वर्तमानः ऋक्षोदयो ऽन्वेति. व्याप्तिश् च कस्यचित् केनचिद् भवन्ती देशतो वा स्यात् कालतो वा. पूर्वस्मिन् कल्पे भाविनस् सवितुर् उदयस्याद्यतनार्कस्यैवोदयात् अष्टौ यामानतिक्रम्यानुमानं न स्यात्. परस्मिन् धूमाद् अग्न्यनुमानम् इत्यादि पर्यनुयोक्तव्यम्. अत आह -- तेने ति द्वयेन. येन खल्व् अपि विवक्षितावान्तरविभागं व्याप्यतामात्रम् अनुमानाङ्गम् तेन कारणेन यस्यैव संयोगादीनाम् अन्यतमस्य, येनैव तेषाम् अन्यतमेन, यादृशी उपश्लेष्टेनेतरेण वा व्याप्यता प्रागवगता, सैवानुमाने कारणं भवति. न ह्य् उपश्लेषो व्याप्तिः. उक्तं हि -- सम्बन्धनियमो ऽसाव् इति. स चानुपश्लिष्टेनापि भवति. यो हि यस्मिन् सति भवति, असति च न भवति, तेन नियम्यत इत्य् उच्यते. किम् अत्रोपश्लेषेण. न चात्र देशादीनाम् अन्यतमविवक्षा. यावति हि देशे काले वा वर्तमानस्य यस्य व्याप्यता निरूपितपूर्वा, यावद्देशकालभाविना व्यापकेन तस्य व्यापकांशस्य तावत्य् एव देशादौ वर्तमानस्य स व्याप्यांशस् तादृग् एव, गगनादिवर्त्तिधर्म्यन्तरे दृष्टान्तधर्म्यपेक्षया साध्यधर्मिणि दृष्टस् सन् प्रतिपादको भवति.{3,12} नियमो ह्य् अनुमानाङ्गम्. स च सर्वेषाम् अविशिष्ट एव किम् अवान्तरविभागेन. देशे यावतीत्य् अनतिदूरम् अधिरूढस्य धूमादेर् दूरतरवर्त्तिनो ऽपि नदीपूरस्य व्याप्तिं दर्शयति. शङ्कुच्छायायाश् च नितान्त(दूर)वर्तिना ऋक्षोदयेन. यावति काल इति च भाविनस् सवितुर् उदयानुमानादाव् अपि व्याप्तिं दर्शयतीति
नन्व् अस्यां व्याप्तौ न किञ्चित् प्रमाणम् अस्तीत्य् उक्तम् अत आह -- भूयोदर्शने ति. कथं पुनर्भूयोदर्शनगम्या व्याप्तिः. किं हि तत्र प्रत्येकम् एव भूयांसि दर्शनानि प्रमाणम् आहोस्विद् दर्शनसङ्घातः पूर्वतनदर्शनाहितसंस्कारसचिवम् अन्तिमं प्रमान्तरं वा भूयोदर्शनप्रभवम्. तत्र न तावत् प्रत्येकसन्दर्शनसमधिगम्या व्याप्तिर् इत्य् अवसितम् एव. नो खल्व् अस्य सहसाग्निधूमाव् अग्निशरणे विलोकयमानस्याग्निना व्याप्तो धूम इति मतिर् आविरस्ति. न चाननुभूतम् अविकल्पकेन सविकल्पकेनापि विषयीक्रियते. न चानेकदर्शनारब्धो दर्शनसमुदायः कश्चिद् अस्ति, तस्य दर्शनातिरेकेणाभावात्. निरुद्धानागतप्रत्युत्पन्नानां चासंहन्यमानत्वात्. पुरस्तनानेकदर्शनाहितसंस्कारसहायम् अन्तिमं तु दर्शनं कतरत् प्रमाणम् इति चिन्तनीयम्. न तावत् प्रत्यक्षम्. तद् धि द्वेधा विभक्तम्. आलोचनाज्ञानं तत्प्रभवं च विकल्पसम्भिन्नम्. न तावत् पूर्वं व्याप्तेर् अवधारणे समर्थम् अप्रतिसन्धानात्. व्याप्तेश् चायम् अनेन प्रतिबद्ध इति प्रतिसन्धानात्मकत्वात्. न च तदनपेक्षम् उत्तरम् आत्मानं लभते. यच् चेदं संस्काराणां साचिव्यम्, इदम् अपि न चतुरश्रम्. संस्काराः खलु यद्वस्तुरूपोपलम्भसम्भावितात्मानो भवन्ति, तत्रैव स्मृतिमात्रम् आदधति. न पुनरर्थान्तरग्रहणाय कल्पन्ते. प्रत्यक्षे च व्याप्तिप्रमाणे कथम् अतद्विषयाणां व्याप्तिसिद्धिः. भवति हि यथायथं दृष्टानुमितश्रुतेभ्यः कर्मफलेभ्यः पुंविशेषेषु वैदिककर्मानुमानम्. न च तत्तत्कर्मनियमस् तस्य तस्य पश्वादेः फलस्यापरोक्षम् ईक्ष्यते अतीन्द्रियत्वात्. यच् चेदम् अध्वरे{3,13}वितते वैदिकाद् अङ्गात् प्रधानाच् चापूर्वानुमानम्, तद् अपि न स्यात्. व्याप्त्यवधारणे प्रमाणाभावात्. मेघाभावाच् च वृष्ट्यभावानुमानम् इत्यादि दर्शयितव्यम्. अतो न तावत् प्रत्यक्षा व्याप्तिः. न चानुमानिकी. प्रमाणाभावाद् एव तदधीनात्मलाभस्य तस्यानुपपत्तेः. शब्दस् त्व् अनागतोत्पाद्यभावविषयो न सिद्धव्याप्तिकॢप्तये प्रभवति. उपमानम् अपि प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयं न वस्तुनस् सत्तां प्रमिणोति. अर्थापत्तिर् अप्य् अन्यथानुपपद्यमानार्थविषया दर्शनप्रभवा. न च सहितावधारितयोर् असत्यां व्याप्तौ किञ्चिदनुपपन्नं नाम.
ननु कार्यता नोपपद्यते. कथं हि कार्यम् असति कारणे भवति. भूयोदर्शनसमधिगम्यं च कार्यत्वम् इति भूयोदर्शनप्रसूतकार्यत्वावगमान्यथानुपपत्तिप्रमाणिका कारणव्याप्तिसिद्धिः. कथम् इदानीम् अकार्यकारणभूतेषु व्याप्तिस् सेत्स्यति. भूयांसि दर्शनान्य् एवासत्यां व्याप्तौ नोपपद्यन्त इति चेत्, किं हि तेषां व्याप्तिम् अन्तरेण न सम्भवति स्वरूपं, तावच् च कारणसामग्रीकं हि वस् सिद्धम्. स्वगोचरप्रकाशनम् अपि स्वत एव विषयस्यापि स्वप्रमाणपरिच्छिन्नस्य न किञ्चिदनुपपन्नं पश्यामः. न चासौ प्रमाणान्तरेण प्रतिहन्यते. यन्नोपपद्येत. न च भावस्वरूपा व्याप्तिर् अभावेन प्रमीयत इति साम्प्रतम्. तत्रासाव् अभावप्रमाणिका न स्याद् एव.
स्यान् मतम् -- केयम् अन्या धूमस्याग्निना व्याप्तिर् अनग्निनिवृत्तेः. सा चाभावरूपत्वाद् अभावेन प्रमीयत इति युक्तम् एव. तन् न. वस्तुरूपत्वात्. वस्तुरूपो हि स्वभावो धूमादेः केनचिन् नियतः. इतरया व्यावर्तते खल्व् अयं शशविषाणाभावाद् अपीति शशविषाणेनापि नियम्येत. कथम् असता नियम्यत इति चेत्. को दोषः. व्यावृत्तिर् हि नियमः, सा चास्तीति किं शशविषाणस्य सत्त्वासत्त्वाभ्याम्. यदि मतं विपक्षव्यावृत्तिर् नियम इति. को यं विपक्षो नाम. यो हि येन नियम्यते तस्य तत्परिपन्थी विपक्षः. व्याप्यते च शशविषाणेन तदभावान् निवृत्तो धूम इत्य् अनग्निर् इव तदभावो ऽपि विपक्ष एव. अपि चाशेषविपक्षाणाम् उपलब्ध्ययोग्यत्वान् न तेभ्यो निवृत्तिर् अभावेन शक्यते ऽवगन्तुम्. योग्यप्रमाणाभावो{3,14}ह्य् अभावे प्रमाणम् इति वक्ष्यते. अतो न किञ्चिद् व्याप्तौ प्रमाणम्. मानसम् इति चेत्. न. बहिरस्वातन्त्र्यात्. तत्रैतत् स्याद् -- यद्य् अप्य् बहिरिन्द्रियाण्य् अतीतानागतादिभिर् भावभेदैर् व्याप्तिं ग्रहीतुम् असमर्थानि, मनस् तु सकलातीतादिविषयपरिच्छेदसाधारणं प्रतिबद्धसामर्थ्यं क्वचिद् इति तद्बलभाविना प्रत्यक्षेण व्याप्तिर् ग्रहीष्यत इति. तच् च नैवं, बहिरस्वातन्त्र्यान् मनसः. नो खल्व् अपि बहिर्विषयबोधे मनस्स्वतन्त्रम् इति वर्णितम्. तथा हि. मनसस् सार्धम् इत्य् अत्र. स्वतन्त्रे हि बहिरिष्यमाणे मनसि सर्वस् सर्वदर्शी स्यात्. संस्कारतो व्यवस्थेति चेत्. न. स्मृतिहेतुत्वात्. तत्रैतत् स्यात् -- यद्य् अपि केवलम् अस्वतन्त्रं मनो बहिर्विषयावधारणे, तथापि पूर्वपूर्वानुभवजनितसंस्कारसनाथं बहिर् अपि वर्तीष्यते चक्षुराद्यनुगृहीतम् इव रूपादौ. अतो नाव्यवस्था. तच् च नैवम्. स्मृतिहेतुत्वात्. स्मृतिमात्रहेतवो हि पूर्वानुभवप्रभावितास् संस्कारा नोत्सहन्ते मनसो बहिरवग्रहे ऽनुग्रहम् आधातुम्. स्मृतिविषयान्तराणाम् अपि ग्रहणप्रसङ्गात्. अस्ति हि तत्रापि स्मृतिहेतुस् संस्कारः. स चेद् ग्रहणे क्वचिन् मनसस् सहायी भवतीति किं न स्मृतिविषयान्तराण्य् अपि ग्राहयतीति यत् किञ्चिद् एतत्.
यस् तु वदति -- साहित्यम् अग्निधूमयोस् सम्बन्धः. स च प्रथमसमधिगमसमय एव संविदितः. अनवच्छिन्नदेशकालश् चाग्निधूमयोस् सम्बन्धो भासते. न हीदानीम् अत्र वा तयोस् सम्बन्ध इति भवति मतिः. अपि तर्हि सन्निहितवर्तमानयोर् एवेदन्तया प्रतिभासमानयोर् देशकालौ सम्बन्धश् च तयोर् विशेषणम् इमौ सम्बद्धाव् इति. नेदानीम् अत्र वा सम्बन्ध इति. तद् एवम् अनवच्छिन्नरूपः स्वाभाविक एव संबन्धः सिद्धो भवति. स्वाभाविकत्वे च न व्यभिचाराशङ्कोपपत्तिमती. किम् इदानीम् अनङ्गभूतम् एव भूयोदर्शनम्. नानङ्गम्. अङ्गं त्व् औपाधिकाशङ्कानिराकरणेन. वह्निर् हि धूमेन संयुक्तस् संवेदितो ऽपि कदाचिद् विधूमो दृश्यते. तत्रार्द्रेन्धनादिर् उपाधिर् अनुप्रविशति. न तु स्वाभाविको ऽग्नेर् धूमेन संबन्ध इति निश्चीयते. तद्दर्शनाच् च धूमे ऽपि भवति शङ्का. कदाचिद् औपाधिकः पावकेनास्यापि संबन्ध इति. सा भूयोदर्शनेन निवर्त्यते. बहुशो ऽपि दृश्यमानस्य धूमस्य नाग्निसंबन्धे कश्चिद् उपाधिर् उपलभ्यते. प्रयत्नेनापि चान्विष्टो न दृष्ट उपाधिर् नास्तीति निश्चीयते. तद् एवं{3,15}धूममात्रानुबन्ध्यग्निर् इति सिद्धं भवति. ततश् चानौपाधिकस्य न व्यभिचाराशङ्केति. स वक्तव्यः किम् इदानीं साहित्यमात्रम् अनुमानाङ्गं तन्नियमो वा. यदि साहित्यमात्रं तत् तर्हि प्रथमदर्शन एव समधिगतम् इति पुनर्धूमदर्शिनो ऽविदितव्याप्तेर् अप्य् अनुमानं स्यात्. अथ तन्नियमः, तस्यैवेदं प्रमाणम् अनुस्रियते कुतस् सिध्यतीति. न हि प्रथमदर्शिनो ऽयम् अनेन नियत इति मतिर् आविर्भवन्ती दृश्यते. अनवच्छिन्नदेशकालतयावगतस् संबन्धः स्वाभाविको भवति, ततो नियम इति चेत्. स तर्हि तथाविधः प्रथमम् एवावगत इति भूयोर् दर्शनं नापेक्षेत. तथा दृष्टस्याप्य् अग्नेर् धूमसंबन्धो व्यभिचरति. तद्दर्शनाच् च धूमे ऽपि व्यभिचाराशङ्का जायते. तन्निराकरणायासकृद्दर्शनापेक्षेति चेत्. यद्य् अनवच्छिन्नस्यापि देशतः कालतो वा कदाचित् कस्यचिद् वियोगो दृश्यते. कस् तर्हि इतरत्रापि समाश्वासः. नन्व् इयम् आशङ्का भूयोदर्शनेन निराक्रियत इत्य् उक्तम्. कथं निराक्रियते. यदा शतशो ऽपि धूमवान् अग्निर् अवगतो विधूमो दृश्यते. न चात्र प्रतिनियमः इयद्भिर् दर्शनैर् अव्यभिचारः सिध्यति इति.
ननु धूमस्याप्य् अग्निसंबन्धे न कश्चिद् उपाधिर् उपलभ्यते अग्नेर् इव धूमसंबन्धे. अतः कथम् असौ सत्य् अपि धूमे न भविष्यति. न. देशादेर् एवोपाधित्वेन शङ्क्यमानत्वात्. अग्नौ धूमसंबन्धव्यभिचारम् उपलभ्याशङ्कते -- कदाचिद् धूमस्याप्य् अग्निसम्बन्धे देशकालाद्युपाधिः स्याद् इति. दृष्टं हि क्वचिद् देशे खर्जूराणां पिण्डखर्जूरफलत्वम्. वृश्चिकदंशनस्य च मरणकारणत्वम्. तद्देशान्तरे न भवति. तद्वत् धूमो ऽपि जातु जायेतान्तरेणापि हुताशनं क्वचिद् इति शङ्कमाना न तस्य नियमम् अग्निनाध्यवस्यन्ति शतांशेनापि. विपक्षाद् व्यावृत्तिश् शङ्क्यमाना अनुमानोदयं प्रतिबध्नातीति कतरच् चेदं प्रमाणम्, अनौपाधिको ऽग्निर् धूममात्रानुबन्धीति. न तावत् प्रत्यक्षम्. साहित्यमात्रोपक्षीणत्वात्. नानुमानम्. तस्यासत्यां व्याप्तावसम्भवात्. व्याप्तिसिद्ध्यर्थं चापरापरानुमानकल्पनायाम् अनवस्थापातात्. प्रमाणान्तराणि निराकृतपूर्वाण्य् एव. अतो व्याख्येयम् अनुमानाङ्गसम्बन्धावधारणे प्रमाणम्, तद् व्याख्यायते.
{3,16} इदं तावत् प्रमाणाभाववादी वक्तव्यः. किं खलु व्याप्तिगोचरं ज्ञानं न जायत एव, सन्दिग्धं वा जायते, विपर्येति वा. त्रेधा हि परीक्षकैर् अप्रामाण्यं विभक्तम्. प्रकारान्तरासम्भवात्. न तावदाद्यः पक्षः. संविद्व्यवहारविरोधात्. दृश्यते हि बहुलं धूमम् अग्नाव् उपलभमानो ऽयम् अनेन नियत इत्य् अवधारणपुरस्सरं ततो ऽग्निम् अनुमाय तदनुरूपं व्यवहरमाणः. तन्नासत्यां व्याप्तिसंवित्ताव् उपपद्येत. व्यवहारदर्शनाद् एव संशयविपर्ययौ निराकार्यौ. ताभ्याम् एवंविधव्यवहारासम्भवात्. अतो न तावद् अप्रामाण्यम्. प्रामाण्यं तु षोढा विभज्यते. तद् यथायोग्यं कस्यचित् कस्याञ्चित् व्याप्तिसंवित्तौ व्यवस्थापयामः. यथैव तावद् धूमस्याग्निना व्याप्तौ प्रत्यक्षस्य. न हीह प्रमाणान्तराणि सम्भवन्तीति वर्णितम् एव.
ननु प्रथमदर्शने ऽनवगमात् प्रत्यक्षासम्भवो ऽप्य् उक्त एव. अत एव भूयोदर्शनावगम्यत्वम्. ननु तान्य् अपि विकल्प्य दूषितानि प्रत्येकसाहित्ययोर् असम्भवात्. सत्यम्. न प्रत्येकं व्याप्तिर् अवगम्यते. न च दर्शनानि संहन्यन्ते. प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि चकास्ति धूमस्य वह्निनियतस्वभावत्वं, रत्नतत्त्वम् एव परीक्षमाणस्य, शब्दतत्त्वम् इव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणतम् एव मातापितृसम्बन्धस्मरणसहकृतस्य, तैलाद् विविक्तम् इव विलीनाज्यं रसगन्धसहकृतेन्द्रियस्य. न ह्य् एतत् सर्वम् आपातान् न प्रतिभातम् इति परस्ताद् अपि भासमानम् अन्यथा भवति. न च प्रमाणान्तरत्वम् आपादयति. ननूक्तं न स्मृतेर् अन्यत्र संस्कारा व्याप्रियन्त इति. केन वा संस्काराणां स्मृतेर् अन्यत्र व्यापार उपेयते. स्मारयन्त एव तु ते पूर्वपूर्वावगतम् अग्निसम्बन्धं धूमस्य व्याप्तिसंविदं जनयितुम् अभिप्रवृत्तस्येन्द्रियस्य सहायीभवन्ति. आन्तरालिकस्मृतिव्यवहितम् अपि चेन्द्रियसम्बन्धानुसारि प्रत्यक्षम् इति वर्णितम्. इन्द्रियसम्बन्धफलापरोक्षाव् अभासानुसारात्. न च यत् सहसा न प्रतिभाति तत्पशाद् अपि प्रतिभासमानं प्रत्यक्षतां जहाति. यथोदाहृतेष्व् एव तावत् ब्राह्मणस्वम्.
ननु न तावद् आपातजं प्रत्यक्षं व्याप्तौ प्रमाणम् इति भणितम्. तत्पूर्वकं च सविकल्पकम् इति कथं तस्यापि प्रामाण्यम्. अस्ति वा ब्राह्मणादिप्रत्यक्षे{3,17}निर्विकल्पकावस्थायां वृद्धादाव् इव नरान्तरविविक्ताकारप्रतिभासः. येन परस्तात् सविकल्पकं प्रवर्तते. यथा तु तत्र पिण्डमात्रदर्शिनः स्मृतयोनिसम्बन्धस्य ब्राह्मणो ऽयम् इति प्रत्यक्षं जायते, एवम् इहापि बहुशो ऽग्निधूमदर्शिनो ऽन्तिमे दर्शने निर्विकल्पकावृत्तधूमस्वलक्षणस्याग्निना नियतो ऽयम् इति धूमस्वभावगोचरं प्रत्यक्षम्, एतावद् एव सविकल्पकस्य निर्विकल्पकपूर्वत्वम्, यत् तज्जन्मपूर्विका प्रवृत्तिः, संज्ञादिस्मरणार्थं हि तत् प्रथमम् अर्थ्यते. तच् चेह व्यक्तिदर्शन एव पूर्वसंस्कारोद्बोधात् सिद्धम् इति नावश्यमनयोस् समानविषयता. अत एव तैलविविक्तविलीनाज्यबोधे तैलम् इदम् इति विपर्यस्यतो गन्धसहकृतेन्द्रियस्य (स)विकल्पकप्रत्यक्षत्वसिद्धिः. न हि तत्रासङ्कीर्णा घृताकारा संविद् आसीत्. तैलम् इदम् इति विपर्ययात्. अतः परस्ताद् एव सहकारिवशात् निर्विकल्पकोपदर्शितव्यक्तिविषयं घृतम् इदम् इति सविकल्पकं प्रत्यक्षम् आविरस्ति. एवम् इहापीति न दोषः.
किं पुनर् इह सविकल्पकेन विषयीक्रियते. नियतो ऽयम् अनेनेति नियमः. अस्य हि बहुलं धूमम् अग्नाव् उपलभमानस्यानग्नौ च व्यतिरेकम् अन्ते भवति विमर्शः -- अपि स्याद् व्याप्तो ऽयम् अनेनेति. कथम् अपरथा जाङ्गलादिभेदभिन्नानेकदेशपरित्यागेन सायमादिभेदभिन्नानेककालपरिहारेण च तृणदारुगोमयेन्धनादिसमवधानविशेषं प्रत्यनादृतो ऽग्निम् एवानुधावत्यनग्नौ च न भवति. ततः परं च यथाग्निर् धूमभास्वरत्वादिपरित्यागेनापि (?दु।कु)कूलालातादौ वर्तमानोष्णत्वम् अजहत् तन्नियतो भवति. एवम् अग्निना धूम इत्य् अपरोक्षनिश्चयो जायते. यत् तु देशान्तरादौ व्यभिचार इति, तन् न तावद् दृष्टपूर्वं नापि श्रुतम् इति नाशङ्काम् अधिरोहति. एवम् अपि तु शङ्कमानस्य सर्वप्रमाणेष्व् अनाश्वासः क्वचिद् व्यभिचारदर्शनात्. यत् त्व् अवधारितो ऽपि स्वभावनियमो देशान्तरादाव् अन्यथा भवति वृश्चिकादेर् इति. तन् न. अवान्तरजातिभेदात्. न हि यद् येन नियतम् अवगतम् अबाधितं च तदन्यथा भवति. अवान्तरजातिभेदात् तु शक्तिसदसद्भावकृता कार्यव्यवस्थेति न क्वचिद् व्यभिचारः.
ननु अनुमानम् एव किं नेष्यते. यद् औपाधिकं तद् व्यभिचरति. अग्निर् इव धूमम्. न च तथा धूमो ऽग्निम् इत्य् अनौपाधिक इति. भवत्व् एवम्.{3,18}अव्यवस्था तूपस्थिता. अर्थापत्तिस् तर्हि भवतु. इदम् एव चाग्नौ दर्शनम् अनग्नौ चादर्शनम् अनुपपद्यमानम् अग्निना नियमं प्रतिपादयति. किम् अत्र नोपपद्यते. दर्शनं तावत् तत्र भवतीत्य् एतावतैवोपपन्नम्, न हि यद् एकत्र भवति तेनान्यत्र न भवितव्यम्. अन्यत्र भवतो ऽदर्शनम् अनुपपन्नम् इति चेत्. न. विप्रकृष्टानाम् अन्येषाम् अप्य् असन्निकर्षाद् अदर्शनोपपत्तेः. सन्निहितेष्व् अनग्निष्व् अदर्शनम् अनुपपन्नम् इति चेद् अभावाद् उपपत्तेः. तेषु ह्य् असौ नास्त्व् एव, कथम् उपल(?भ्यते।भ्येत). तत्र सताप्य् अन्यत्रापि न भवितव्यम् एवेति किम् अत्र प्रमाणम्. अतो दर्शनादर्शनसहकृतेन्द्रियस्यैव वस्तुस्वभावावधारणम् अपरोक्षं जायत इत्य् एवं समर्थनीयम्. नन्व् एतद् एव न विद्मः. कीदृशो ऽसौ वस्तुनः स्वभावो ऽवधार्यत इति. उक्तम् असकृद् धूमो ऽग्निना नियत इति. एतद् उक्तं भवति -- यदा यत्र धूमस् तदा तत्राग्निर् इति.
ननु सन्निहितवर्तमानदेशकालमात्रसम्बन्धो ऽस्तु प्रत्यक्षः. अनागतादिसम्बन्धस् तु कथम्, अतिप्रसङ्गो हि तथा (सति) स्यात्. न. सन्निहितरूपमात्रोपलम्भात्. रूपम् एव तु तादृशं धूमादीनां यद् एवम् उन्नीयते, स्थिरम् इव रूपं कुड्यादीनाम्. अस्ति हि तेषु विध्युदादिविलक्षणकालान्तरस्थायिरूपप्रकाशः. सन्निहितावान्तरसम्बन्धो न प्रत्यक्ष इति तद्रूपम् अप्रत्यक्षं भवति. अप्रत्यक्षे हि तस्मिन् नेदं रजतम् इति पूर्वानुभूतरजतबाधो न स्याद्, भिन्नविषयत्वात्. स्वकाले हि पूर्वविज्ञानेन रजतं विषयीकृतं न भविष्यद्बाधकज्ञानक्षण इति कथं तत्राप्रसक्तं बाध्यते. कालान्तरसम्बन्धो ऽपि तेन रूपेण पूर्वज्ञानावधारितं भविष्यज्ज्ञानकालम् अपि व्याप्नोतीति भवति समानविषयताम् आसाद्य बाधः.
ननु यद् वस्तुनो रूपं तत्परानपेक्षम् अवगम्यते, अग्नेर् इवोष्णत्वम्. न च धूमस्यागृहीतप्रतिसम्बन्धिना तद्रूपम् अवगम्यत इति कथं वस्तुरूपत्वम्. मैवम्. सम्बन्धो ह्य् असौ, कथम् अनवगते प्रतिसम्बन्धिन्य् अवसीयते. यथाह --
नियमो नाम सम्बन्धः स्वमतेनोच्यते ऽधुना ।
इति. अतो यद् एतद् अग्निना धूमस्य नियतत्वं भावात्मकम् इदं तत्प्रत्यक्षेणावगम्यत इति किम् अनुपपन्नम्. यथा चानग्निनिवृत्तिर् न नियमः तथा वर्णितम् एव. विपक्षव्यावृत्त्या तु विधिरूप एव नियमः परीक्षकैर् व्याख्याय परेभ्यः प्रतिपाद्यते.{3,19}ननु नियम्यत्वम् अपि कर्मकारकत्वं, तच् च शक्तिरूपं कथं प्रत्यक्षम्. न. कारकान्तरप्रत्यक्षवद् उपपत्तेः. कारकान्तरशक्तयो ऽपि हि न प्रत्यक्षाः, अतो ऽसत्य् एव शक्तिप्रत्यक्षत्वे कारकं प्रत्यक्षम् एषितव्यम्. एवम् इहापि नियम्यः प्रत्यक्षो भविष्यतीति किम् अनुपपन्नम्. अतस् सिद्धं तावत् प्रत्यक्षत्वम्. आगमिकेषु चार्थेषु तस्य तस्य फलस्य तेन तेन वेदवेद्येन कर्मणा समन्वयात्, कर्मान्तरान्वयस्य चानवगमाद् अनेनैव कर्मणेदं फलं व्याप्तम् इति शास्त्राद् अवगम्यते. नियतसाध्यत्वावगमात्. मेघाभाववृष्ट्यभावयोश् च स्वतन्त्राभावप्रतीत्यसम्भवाद् भावयोर् एव कथञ्चिद् व्याप्तिसंवेदनम्. मेघाभावो नाम नभस एवावस्थाविशेषः. जलधरनिरोधनिर्मुक्तस्य निर्वातस्तिमितमहार्णवप्रतीकाशम् आकाशस्य वपुस् संलक्ष्यते. वृष्ट्यभाव इति च पृथिव्या एव निबिडकठोरपाण्डुरादिभावः. तच् च रूपम् उभयस्यापि प्रत्यक्षसमधिगम्यम् एवेति तद् एव तत्र व्याप्तिप्रमाणम्. एवम् अन्यत्रापि दर्शयितव्यम् इति. भवतु तावद् अन्यद् व्याख्यास्याम इति समधिगतं तावद् व्याप्तेस् स्वरूपं प्रमाणं च. इदं तु चिन्तनीयम्. कस्य केन व्याप्तिर् इति. न ह्य् एकत्र विदिताव् अग्निधूमविशेषौ प्रदेशान्तरे दृश्येते. यत् तयोर् एकस्यैकेनान्वयव्यतिरेकसमधिगम्या व्याप्तिर् भवेत्, अतो वाच्यं व्याप्तेर् अधिकरणम्. अत आह -- सामान्ये ति. सत्यं न विशेषयोर् व्याप्तिः, सामान्यात्मनोर् एव तु कस्यचिद् धर्मिणो धर्मयोस् तत्तद्भेदपरित्यागेन व्याप्तिर् अवगम्यते धूमाकृतिर् अग्न्याकृत्या नियतेति. अतो न कश्चिद् दोष इति. इदं तु प्रायिकम्, स्थायिनोस् तु विशेषयोर् अपि क्वचिद् व्याप्तिर् भवत्य् एवेत्य् आह -- क्वचिद् इति
अत्रैवोदाहरणम् आह -- कृत्तिकोदयम् इति. यत्र हि कृत्तिकोदयं दृष्ट्वा रोहिण्यासत्तिः कथ्यते -- अनन्तरम् उदेष्यति रोहिणीति, तस्मिन्न् अनुमाने विशेषस्यैव विशेषेण व्याप्तिः. न हि तयोस् सामान्यम् अस्ति. व्यक्तिभेदे प्रमाणाभावात्. प्रत्यभिज्ञायते हि सैवेयं कृत्तिका, सैवेयं रोहिणीति. कथम् अन्या भविष्यति. अतस् सिद्धं विशेषयोर् एवात्र व्याप्तिर् इति.
यदि तर्हि व्याप्तिर् अनुमानाङ्गम्, अस्ति खल्व् असौ हिंसात्वस्याधर्मत्वेन बाह्यहिंसास्व् इत्य् अतः क्रताव् अपि हिंसात्वाद् अधर्मत्वम् अनुमीयते. तत्र{3,20}दैक्षपशुहिंसादीनाम् अधर्मत्वं प्रसज्येतेत्य् अत आह -- व्याप्तेश् चे ति द्वयेन. अयम् अभिप्रायः -- सत्यम् आपाताद् भवति भ्रमः, यथा किल हिंसात्वमात्रानुबन्ध्यधर्मत्वम् इति. न त्व् एतद् एवम्. निर्ज्ञातेन ह्य् अधर्मत्वेन हिंसात्वं व्याप्यते. न च शास्त्रादृते तज्ज्ञानोपायस् सम्भवति. न च हिंसात्वमात्रम् अनर्थसाधनम् इति शास्त्रम् अस्ति. विशेषहिंसाया विहितत्वात्. विध्यवरुद्धविषये च प्रतिषेधानवकाशात्. प्रतिषेधम् अन्तरेण चानर्थसाधनत्वज्ञानोपायाभावात्. अतः परिहृत्यापवादविषयम् उत्सर्गो ऽभिनिविशत इति हिंसान्तराणि न हिंस्याद् इति प्रतिषेधो ऽवलम्बते. एवं च यद्य् अपि बाह्यहिंसासु हिंसात्वाधर्मत्वयोस् साहित्यम् अवगतं, तथापि न हिंसात्वम् अधर्मत्वप्रयोजकम्. किन् तु निषिद्धत्वम्. असत्य् अपि हिंसात्वे निषिद्धत्वमात्रेण सुरापानादाव् अधर्मत्वसिद्धेः. अतो य एवास्मिन् सत्य् एवास्य भवितुं शक्तिर् अस्ति इत्य् अनेन रूपेण निरूप्यते. व्याप्यतयावगम्यत इति यावत्. स एव धर्मः प्रयोजक इत्य् उच्यते. परप्रयुक्तव्याप्त्युपजीविनस् तु हिंसात्वादयः, न तैर् अधर्मत्वादिव्यापकांशो ऽवधारयितुं शक्यते. न हि बाह्यहिंसा हिंसेत्य् एवाधर्मः, किन् तु निषिद्धेति. अतो न क्वचिद् विहितानां दैक्षपश्वादिहिंसानाम् अधर्मत्वम् इति
ये त्व् एवंजातीयकान् अप्य् अप्रयोजकान् हेतून् प्रयुञ्जते, ते सुलभैः प्रतिहेत्वादिदोषैश् चिरं भ्राम्यन्ति. शक्यते हि प्रतिहेतुर् दर्शयितुं, दैक्षपशुहिंसा धर्मः विहितत्वाद् अग्निहोत्रादिवद् इति. प्रयोजके हि हेताव् एवंजातीयका दोषा नास्पदं लभन्ते. अप्रयोजके तु सुलभा एव. तद् एतद् आह -- ये त्व् इति. विस्रब्धम् इति क्रियाविशेषणम्. यथा विश्वासो भवति तथा प्रयुञ्जत इत्य् अर्थः
{3,21} प्रतिहेत्वादिदोषैर् भ्राम्यन्तीत्य् उक्तम् तान् एव दोषानुपन्यस्यति -- तेष्व् इति. प्रतिहेतुस् तावद् अस्माभिर् उक्त एव. आगमविरोधो ऽप्य् एवंवादिनाम् आपद्यत एव, आगमैकप्रमाणत्वाद् धर्माधर्मयोः. क्वचिद् इष्टविघातः क्वचिद् अलौकिकविवाद इति
आगमविरोधोदाहरणं तावद् आह -- निषिद्धत्वेने ति. इदं चानागतावेक्षणन्यायेन प्राग् एवास्माभिर् व्याख्यातम् इति
इष्टविरोधोदाहरणम् आह -- हेतुद्वये ति. बाधकारणदोषाधीनं हि सर्वत्र मिथ्याबुद्धीनां मिथ्यात्वम्, न च ज्ञानत्वेनोत्पत्तिमत्त्वेन वा प्रयुज्यते, सत्यमिथ्यात्वसाधारणत्वाद् अनयोः. ज्ञानत्वाद् एव तन्मिथ्यात्वं साधयतो बौद्धस्येष्टविघातकारी हेतुः, धर्मधर्मिस्वरूपस्वविशेषयोर् अपि प्रतिक्षेपात्. सर्वलोकप्रसिद्धपृथिव्याद्यपलापाच् चालोकिकविवादो ऽप्य् अत्रैव दर्शयितव्यः, न हि सर्वविज्ञानानि मिथ्येत्य् एवंविधं विवादं लौकिकास् सहन्ते. सहसैव ह्य् एवंविधविवादश्राविणाम् उद्वेगो जायते. यथा -- अचन्द्रश् शशीत्यादौ. अतो ऽयम् अलौकिको विवादः. तथा चोक्तम् --
सर्वलोकप्रसिद्ध्या च पक्षबाधो ऽत्र ते ध्रुवम् ।
इति
अपरम् अप्य् आगमविरोधस्योदाहरणं दर्शयति -- त्रैवर्णिके ति. सन्ति खलु स्वर्गकामो यजेतेत्य् एवं विहितानि सोमादीनि कर्माणि. तेषु किं{3,22}चतुर्णां वर्णानाम् अधिकारः, उतापशूद्राणां त्रयाणाम् इति संशये चतुर्णाम् इति प्राप्तम्, चत्वारो ऽपि हि वर्णाः स्वर्गं कामयन्त इति स्वर्गकामपदेनाभिधीयन्ते. स्वर्गकामश् चात्राधिकारितया ज्ञायत इति प्राप्ते उक्तम् -- अपशूद्राणाम् अधिकार इति. विद्याग्निसाध्या हि ते क्रतवः. अनग्निर् अविद्वांश् चान्तिमो वर्णः. कथम् असौ वैतानिके कर्मण्य् अधिक्रियते. ननु श्रुत्यर्थावगताधिकारसामर्थ्याद् एव शूद्रस्याप्य् अग्निविद्ययोर् आक्षेपो भविष्यति. न. अविधानात्. त्रैवर्णिकस्यैव अष्टवर्षं ब्राह्मणम् उपनयीत वसन्ते ब्राह्मणो ऽग्रीनाद् अधीत इत्य् एवमादिभिर् अग्निविद्ये विहिते. न चानियमेनैव ते शूद्रस्यापि भविष्यत इति शक्यते वक्तुम्. को हि प्रतिलब्धविद्याग्निसम्बन्धस् त्रैवर्णिकाधिकारसम्पादितासु कामश्रुतिषु नियतकालवयोवस्थम् उपनयनमाधानं वा जधन्यवर्णस्योपकल्पयितुम् उत्सहते. अतस् त्रैवर्णिकत्वप्रयुक्तम् एव यागादीनां स्वर्गहेतुत्वम्. न मनुष्यत्वमात्रेण शूद्रसमवायिना प्रयुज्यते. तद् यदि कश्चिद् अनुमानकुशलः प्रयुङ्क्ते शूद्रकृतो यागः स्वर्गहेतुः मनुष्यकृतत्वात् त्रैवर्णिकाचरितयागवद् इति. तस्यागमविरोधः. नन्व् आगमविरोध उदाहृत एव, किं पुनस् तदुदाहरणेन. उच्यते. पूर्वम् अधर्मत्वानुमानस्य वैदिकहिंसाविषयस्य साक्षादागमविरोधो वर्णितः, व्यक्तम् एव दैक्षपशुहिंसा विधीयमानत्वाद् अर्थसाधनम् इत्य् एतद् अवगम्यते, कथम् असाव् अधर्मो भविष्यतीति, चोदनालक्षणस्यार्थस्य धर्मत्वात्. इह तु शूद्रकृतस्य यागादेः स्वर्गहेतुता न साक्षादागमेन प्रतिक्षिप्यते. किन् तु त्रैवर्णिकाधिकारलाभाद् अर्थाद् इतरनिरास इति विशेषः
अप्रयोजकोदाहरणच्छलेनेदानीं परोपालम्भनार्थम् उदाहरणान्तराणि दर्शयति -- कृते ति द्वयेन. प्रयत्नानन्तरज्ञानसदृशाः प्रत्ययानवस्थानादयो ऽभिमताः तैश् शब्दगोचरैस् तस्य विनाशिता न प्रयुज्यते. कृतकत्वादिप्रयुक्ता ह्य् असौ. न च कृतकत्वम् एव प्रयत्नानन्तरदर्शनेन साधयितुं शक्यम्. आकाशादिभिर् व्यभिचारात्. यदि तर्हि सावयवत्वप्रयुक्ता विनाशिता,{3,23}किम् इदानीं नश्वराणि भुवनानि भुवनसन्निवेशाश् च महीमहीधरोदधिप्रभृतयः. सत्यम्. सर्वम् एव सावयवं विनाशधर्मकम्, महीमहीधरादयो ऽपि समासादितस्वावयवसंयोगविभागविशेषा भागशो नश्यन्त्य् एव. निरन्वयम् तु विनाशं न कस्यचिद् अभ्युपगच्छामः. एवं महाभूमेर् अप्य् आवापोद्वापभेदान् नाशो दर्शयितव्यः. तथा यद् अपि वैशेषिकैर् जातिमत्त्वाद् ऐन्द्रियकत्वाच् च शब्दानित्यत्वम् अनुमितं, तद् अप्य् अयुक्तम्. एतद् धि जातिमत्त्वादि वस्तुसन्मात्रनिबन्धनम् एव नित्यानित्यसाधारणम्, नानेनानित्यता साध्यते. किम् इदं वस्तुसन्मात्रनिबन्धनम् इति, परमार्थसन्निबन्धनम् इत्य् उक्तं भवति. परमार्थसन्त एव घटाकाशात्मादय इन्द्रियविषया जातिमन्तश् च, न भ्रान्तिसंविदिताः शशविषाणादय इवेति
एवम् अप्रयोजकस्यासाधकत्वम् उक्तम् उपसंहरति -- तस्माद् इति. अयम् अर्थः -- य एव निषिद्धत्वादिर् अर्थो यस्याधर्मत्वादेस् साधनशक्तियुक्तत्वेनावगतः. अस्मिन् सत्य् अमुना भवितव्यम् इतीदृश्या शक्त्यावधार्यत इति यावत्. नियम्यशक्तिर् एव हि साधनशक्तिर् इत्य् आख्यायते, नियतावगतो हि नियामकं शक्नोति (गमयितुं) नान्य इति, (स) नियम्य एव गमको न प्रसङ्गान्वितो हिंसात्वाधिः. निषिद्धत्वेनान्वेतुम् अभिप्रवृत्तेनाधर्मत्वेन प्रसङ्गाद् धि हिंसात्वम् अप्य् अन्वितम् इति प्रसङ्गान्वितं हिंसात्वं नाधर्मत्वस्य गमकं भवतीति
एवं तावत् सर्वप्रकारो ऽनुमानाङ्गभूतस् सम्बन्धपदार्थो व्याख्यातः. इदानीम् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् इति व्याख्येयम्. तत्र चैतद् एव तावद् वक्तव्यम्. स्वतन्त्रैकदेशदर्शनात् तथाविधैकदेशान्तरे ज्ञानम् अनुमानम् इत्य् आपद्येत. तच् चायुक्तम्. स्मरणं हि तत्, कथम् अनुमानं भवेत्.{3,24}अथैकदेशदर्शनाद् एकदेशान्तरविशिष्ट एकदेश्यनुमानस्य विषय इष्यते. तन् न. अनुपात्तत्वात्. न ह्य् अत्रैकदेशी केनचिच्छब्देनोपात्तः. अतस् तदनुपादानान् न्यूनं लक्षणम् इत्य् आशङ्क्याह -- उपात्त इति. यद्य् अपि स्वशब्देन नैकदेश्युपात्तस् तथाप्य् एकदेशशब्दाभ्याम् एवार्थाद् आक्षिप्यत इति न न्यूनत्वदोष इति
अर्थाक्षेपे कारणम् आह -- अपरार्थ इति. न हि धूमादिस्वरूपमात्रम् अपरार्थीभूतम् एकदेशपदास्पदं भवति. न च परस्परापेक्षयैकदेशवाचोयुक्तिर् उपपद्यते. न ह्य् अग्न्यैकदेशो धूम इति कस्यचित् प्रतिपत्तिर् अस्ति. न चागृहीते ऽग्नौ तदेकदेशतया धूमो ऽवगन्तुं शक्यते. गृहीते च तस्मिन्न् अनुमेयाभावः. अत एकदेशत्वानुपपत्त्यैव तदाश्रयः कश्चिद् एकदेश्य् अवगम्यत इति सिद्धम् इति
नन्व् आक्षिप्यताम् एकदेशशब्दाभ्याम् एकदेशी. तद् एकत्वं तु कुतो वगम्यते. अतः क्वचिद् एव धूमं दृष्ट्वा क्वचिद् एकदेश्यन्तरे ऽनुमानं न स्यात्. ऐकाधिकरण्यं त्व् एकदेशयोर् न सिध्यति, अनुपादानाद् इत्य् अत आह -- स एवे ति. पूर्वप्रकृतम् एकदेशवान् इति विवक्षितैकसङ्ख्यम् एकदेशिनं प्रत्यवमृशति स एवेति. स खल्व् एक एवैकदेशी गम्यगमकरूपः उभयात्मकत्वात्. तस्य हि तौ नाम वक्ष्यमाणात्मानौ स्तः, यद्द्विरूपत्वम् अर्हति. नन्व् एकत्वं नैकदेशिनो ऽनुपात्तं लभ्यत इत्य् उक्तम्. न. ज्ञातसम्बन्धस्येत्य् एकवचनेनैवोपादानात्. एकदेशिनि ह्य् अन्यपदा(?र्थैकस्यै।र्थे ए)कत्वम् एकवचनेनोपात्तं, प्रमातृपक्षे ऽपि प्रथमोच्चरितेनैकदेशशब्देन स्वाश्रय एकदेशिन्य् आक्षिप्ते द्वितीयापेक्षाक्षणे ऽपि स एव बुद्धौ विपरिवर्तमानस् तदाश्रयत्वेनावगम्यते नान्यः. तत्परित्यागे कारणाभावात्, तथा व्युत्पत्तिदर्शनाच् च. यथा देवदत्तस्यैकत्र करे कङ्कणम् अङ्गुलीयकं करान्तर इति न भिन्नः कराश्रयो ऽवगम्यते. अपि तर्हि देवदत्त एक एव. अतस् सिद्धम् एक एवैकदेशी गम्यगमकरूप इति
{3,25} उभयात्मा सन् गम्यगमक इत्य् उक्तम्. ताव् एवोभयात्मानौ दर्शयति -- असिद्धेने ति. यदि ह्य् असाव् एकदेश्यसिद्ध एव स्यात् सिद्धो वा, तदा न द्विरूपतां लभते. स तु धूमवदादिना रूपेण प्रत्यक्षसिद्धो ऽग्निमदादिना चासिद्ध इति द्व्यात्मकत्वाद् उभयोपपत्तिर् इति. आह -- अस्त्व् अर्थाद् उपात्त एकदेशी. स चैको गम्यो गमक इति. स तु कथं प्रमातृभिर् उपादातव्य इति. न च तदुपादानप्रकारः कश्चिद् भाष्यकारेणोपात्तः. अतः पुनर् अपि न्यूनत्वम् इत्य् अत आह -- आत्त इति. तत्र नाम विशेषोपादानम् आश्रीयते, यत्र विशेषविवक्षा. न त्व् इह विशेषो विवक्षितः. स ह्य् एकदेशी प्रमातृविवक्षावशेन पृथगभिन्नो वैकदेशशब्दाभ्याम् उपात्तो भवतु. उभयथानुमानव्यवहारदर्शनाद् इति
तम् एवोभयथा व्यवहारं दर्शयति -- अनित्य इति. निगदव्याख्यातो ग्रन्थः
एकदेशी गम्यो गमको भेदाभेदाभ्याम् उपात्त इति दर्शितम्. कियति पुनर् अनुमानस्य व्यापार इति भवति संशयः. भवति हि विशिष्टार्थप्रतीताव् अपि विशेषणमात्रपर्यवसायि प्रमाणम्. यथा शब्दः. स खल्व् आकृतिविशिष्टायां व्यक्तौ धियम् आदधाति, अथ चान्वयव्यतिरेकाभ्याम् आकृतिमात्रपर्यवसायीति निश्चीयते. तद् इहापि यदि तद्वद् एव विशेषणमात्रपर्यवसायि प्रमाणम् इष्यते, ततस् सिद्धसाध्यत्वम्. सिद्धं हि सम्बन्धज्ञानकाले ऽग्निमात्रम्. किं तदनुमानेन. यदि तु द्विखण्डदण्ड्यादिशब्दवद्विशिष्टम् एवानुमानं गोचरयतीतीष्यते. तत्र सम्बन्धग्रहणाभावाद् अ(न)नुमेयत्वम्. न ह्य् अग्निमद्विशेषेण पर्वतादिनान्वितो धूमो दृष्टः. न च समस्ताग्निमत्साधारणं{3,26}सामान्यं किञ्चित् समस्ति. तद्भावे ऽपि पुनर् अपि सिद्धसाध्यतैव. अत एवाहुः --
अनुमाभङ्गपङ्के ऽस्मिन् निमग्ना वादिदन्तिनः ।
विशेषे ऽनुगमाभावस् सामान्ये सिद्धसाध्यता ॥
इत्य् अत आह -- एकदेशे ति. अयम् अभिप्रायः -- दण्ड्यादिशब्दवद् विशिष्टविषयम् एवानुमानम्. न च सम्बन्धग्रहणाभावः. सकलोपाधिपरित्यागेन धूमवन्मात्रस्याग्निमत्तया सम्बन्धावगमाद् इत्य् उक्तम् अस्माभिः. असत्य् अपि सामान्ये केनचिद् एकेनोपाधिनानन्तानाम् अपि भावानां सम्बन्धो गृह्यत एव. यद्य् अपि धूमवान् अग्निमान् इति सामान्यतो ऽवगतम्, तथाप्य् अयम् असाव् इति विशेषरूपेण प्रत्यभिज्ञानात् प्रमाणविषयत्वम् अप्य् उपपन्नम् इत्य् उक्तम् एवेति. कस्मात् पुनर्विशेषणमात्रपर्यवसाय्य् एव प्रमाणं नेष्यते, अत आह -- न ही ति
असम्भवम् एव दर्शयति -- न धर्मे ति. धर्ममात्रं हि सम्बन्धग्रहणकाले सिद्धम् इति भवतैवोक्तम् इति. एवम् एव धर्मिमात्रानुमाने स्वतन्त्रोभयानुमाने वा सिद्धसाध्यता दर्शयितव्येत्य् आह -- तथे ति
धर्मधर्म्युभयेष्व् एवानुमेयेषु यथासङ्ख्यं दूषणान्तराण्य् आह -- एकदेशस्ये ति
{3,27} एतद् एव विवृणोति -- अनित्यत्वादय इति. पक्षैकदेशो हि लिङ्गं बह्वति. न चानित्यत्वाख्यस्य धर्मस्य स्वतन्त्रपक्षीकृतस्य कृतकत्वं धर्म इति कथम् अपक्षधर्मो लिङ्गं भविष्यति. एवं ध्वनिमात्रे ऽपि स्वतन्त्रे पक्षीकृते न कृतकत्वस्य तेनानुगमश् शक्यो दर्शयितुम्. न हि यत्र यत्र कृतकत्वं तत्र तत्र ध्वनिर् इति नियमस् सम्भवति. तथोभयस्य ध्वन्यनित्यत्वात्मकस्योभयेन पक्षधर्मत्वानुगमात्मकेन न सम्बन्ध इत्य् अनागतं सम्बन्धशब्दं पूर्वापराभ्यां सम्बन्ध्य तन्त्रेण व्याख्या कर्तव्येति. समधिगतं तावद् धर्मधर्म्युभयेषां व्यस्तसमस्तानां न साध्यत्वम् इति
अथ कस्माद् धर्मधर्मिसम्बन्ध एव साध्यो न भवतीत्य् अत आह -- सम्बन्ध इति. मिताव् इति साधनवाक्यम् अपदिशति. न खलु परीक्षकस् साधनवाक्ये सम्बन्धवाचिना केनचिन् नाम्ना षष्ठ्या वा सम्बन्ध उपादीयते. न ह्य् एवं प्रयुज्यते, अग्निपर्वतयोर् अस्ति सम्बन्धः धूमवत्त्वाद् इति. नापि पर्वतस्याग्निर् इति. देशम् एव त्व् अग्न्यादिना विशिष्टम् अनुमिमाना दृश्यन्ते. यद् एवं प्रयुञ्जते, अग्निमान् पर्वत इति. सम्बन्धो ऽपि नानुमीयत इत्य् अतीतेन सम्बन्ध इति. न परं प्रतिज्ञायां नोपादीयते, उदाहरणे ऽपि न तेनानुगमो लिङ्गस्य निर्दिश्यते. न हि भवति दर्शनं, यत्र यत्र धूमस् तत्र तत्राग्निसम्बन्ध इति. भवति तु यो यो धूमवान् स सो ग्निमान् इति देश एव निदर्शनं, तद् एतद् आह -- न चापी ति. इहेति मितिं प्रत्यवमृशति. एतद् उक्तं भवति -- न साधनवाक्ये सम्बन्धस् साध्यतयोपादीयते नापि दृष्टान्ततया निर्दिश्यते न चायथाप्रतिभासं परीक्षकाणां वक्तुम् उचितम् इति
{3,28} अपि चायं सम्बन्धस् साध्यमानस् सन्मात्रतया वा साध्यते, केनचिद् वा धर्मेण विशिष्टः. न तावद् वस्तुसत्तामात्रम् अनुमानस्य विषयः. न च पर्वतादिवत् सिद्धसाध्यरूपम् आकारद्वयं सम्बन्धो वहति, येनानुमानस्य विषयो भवेत्. तस्मान् न कथञ्चित् सम्बन्धस् साध्य इत्य् आह -- न चे ति. नन्व् असति सम्बन्धे विशिष्ट एव साधयितुं न शक्यते. नास्ति नाम स प्रकारः, यदसम्बन्ध्यमान एवाग्निना पर्वतस् तद्विशिष्टो भवतीत्य् अत आह -- तस्माद् इति व्यान्तेन. न(नु) सत्यम् असति सम्बन्धे विशिष्टो न भवति, न त्व् एतावता सम्बन्धसाध्यता सिध्यति, विशिष्टसाध्यत्वान्यथानुपपत्त्यैव त्व् अर्थगृहीता मतुबर्थस्य सम्बन्धस्य साध्यता न पुनः स्वतन्त्रस्येति. अत्रैव दृष्टान्तम् आह -- यथे ति. दण्ड्यादिशब्दा हि दण्डादिविशिष्टम् एवाभिदधानास् सम्बन्धम् अप्य् अर्थाद् उपाददते, न त्व् अभिदधति. तद्वद् इहापि पर्वतो ऽग्निमान् इति साध्यमाने ऽर्थगृहीतो ऽग्निसम्बन्धः, न पुनस् स एव साध्यते. यथा दण्ड्यादिशब्दतो विशिष्टार्थप्रतीतौ सत्यां सम्बन्धो नान्तरीयको भवति, एवम् अत्रापि विशिष्टे साध्यमाने नुनिष्पादी भवतीत्य् अर्थः.
इदं तु चिन्तनीयम्. कथं दण्ड्यादिशब्दा विशिष्टवचना इति. मत्वर्थीयप्रत्ययान्ता हि ते. स चास्यास्मिन् नास्तीति सम्बन्धे स्मर्यते, अतस् सम्बन्ध एवात्र प्रत्ययार्थः. स च प्रधानः. प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः प्राधान्येन इति स्मृतेः. इदं हि भेदेनैवोभयोर् अभिधाने प्राधान्यप्रतिपादनार्थं वचनम्. प्रधानं च शब्दार्थः. अतस् सम्बन्धवचना एव दण्ड्यादिशब्दा इति युक्तम्. अपि च नागृहीतविशेषणा विशेष्यते बुद्धिर् उत्पद्यत इति विशिष्टाभिधित्सायाम् अवश्यम् भावि प्रथमतरं विशेषणाभिधानम् आपतति तत एव विशिष्टावगाहसिद्धेर् न तद्यावच्छब्दस्याभिधानशक्तिर् उपकल्पयितुं{3,29}शक्यते. अत एवाकृतिविशिष्टव्यक्त्यभिधानम् आकृत्यधिकरणे निराकरिष्यते. किञ् च -- कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम् इति स्मरति. कथं च ताभ्यां तद्धितवृत्तौ सम्बन्धो ऽभिधीयते. यदि तद्धिताभिधेयो न स्यात्. अभिधेयनिष्कर्षे हि तयोः स्मरणं, यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तदभिधाने त्वतलाव् इति. तद् यदि दण्डपुरुषसम्बन्धो दण्डिशब्दस्याभिधेयः, तथा सति तन्निष्कर्षे दण्डित्वं दण्डितेति त्वतलोर् अनुशासनम् उपपद्यते. यथा गोशब्दाभिधेयं सामान्यं गोत्वम् इति त्व् अप्रत्ययेन निष्कृष्यते. अतस् सम्बन्ध एव दण्ड्यादिशब्दानाम् अभिधेय इति साम्प्रतं कथम् उच्यते नान्तरीयकस् सम्बन्ध इति.
अत्राभिधीयते -- न तावत् स्मृत्यनुसारेण सम्बन्धवाच्यत्वम् अध्यवसातुं शक्यते. शब्दानुशासनमात्रं हि तद् अस्यास्त्य् अस्मिन्न् (5.2.94) इति, न पुनरर्थानुशासनम्. अपि च वृत्तिविग्रहयोर् अन्यथान्यथा गुणप्रधानभावो दृश्यते. यथा चित्रगुर् इति चित्राभिर् गोभिर् विशिष्टो देवदत्तादिर् एव वृत्तौ प्रधानतयावगम्यते. विग्रहे तु चित्रा गावो यस्येति गवाम् एव देवदत्तादिर् विशेषणतया गुणभूतः. ताश् च प्रधानम्. वेदे ऽपि रथन्तरसामा सोम इति. तद् यद्य् अपि स्मृतिकारेण त(द् अ)स्येति विग्रहे सम्बन्धः प्रधानतया षष्ठ्या निर्दिष्टः, तथापि गोमदादितद्धितवृत्तौ तद्वान् एव प्रधानं भवति, तथा प्रतीतेः. गोमच्छब्दो हि पुरुषप्रधानो भासते न सम्बन्धप्रधानः. पाणिनेर् अपि भगवतस् सम्बन्धाभिधानद्वारेण विशिष्टवाच्यतैव प्रतिपादयितुम् अभिमता. वृत्तौ विगृह्यमाणायाम् अवर्जनीय एव षष्ठीप्रयोगः. तावता च तदर्थः प्रधानतया वाच्यत्वेन निर्दिष्ट इति भ्रान्तिर् उपजायते. अतो न तावत् स्मृत्यनुसारेण सम्बन्धस्य वाच्यता.
यत् तु प्रथमतरं विशेषणम् अभिधेयम् इति. सत्यम्. न त्व् इह सम्बन्धो विशेषणम्. दण्डो हि दण्डिनो विशेषणं न सम्बन्धः. स च प्रकृत्या प्रथमम् अभिहित एव. अत एव नानेकाभिधानशक्तिकल्पनादोषः. निर्भागशब्देषु हि गवादिषु विशिष्टप्रतीताव् अपि विशेषणमात्रम् अभिधीयत इति युक्तम्. तत्र ह्य् एकस्यैवोभयाभिधानशक्तिकल्पनादोषो भवति. दण्ड्यादिशब्दास् तु भागवन्तः. तेषु भिन्नाभ्यां प्रकृतिप्रत्ययाभ्यांभिन्नौ{3,30}विशेषणविशेष्याव् अभिधीयेते इति किम् अनुपपन्नम्. अतः प्रकृत्यभिहितप्रथमतरावगतदण्डविशिष्टः पुरुषो दण्डिशब्देनाभिधीयते. नन्व् असति सम्बन्धे दण्डो विशेष्टुम् एव नरं न शक्नोति. सत्यम्. न त्व् एतावता सम्बन्धो वाच्यो भवति. न हि पृथिव्याम् अनवस्थिता गावो न तद्वन्तं विशिंषन्तीति पृथिव्य् अप्य् अभिधीयत इति युक्तम् अभिधातुम्. यत एव त्व् असति सम्बन्धे विशिष्टावगतिर् अनुपपन्ना, अत एव सम्बन्धो ऽप्य् अर्थाद् अन्तर्भाव्यते. न त्व् अभिधीयते. यत् तु सम्बन्धाभिधाने त्वतलोर् अनुशासनम् असति सम्बन्धवाच्यत्वे ऽनुपपन्नम् इति, तद् अयुक्तम्. न ह्य् अभिधेयनिष्कर्षे गोमदादिषु भावप्रत्ययानुशासनम्, अपि तर्हि अभिधेयनिष्कर्षे हि यस्य गुणस्य हि भावाद् इति त्व् अभिधेयनिष्कर्षार्थम् एव स्मरणम्. इतरथा त्व् अनेनैव गतार्थत्वात् कृत्तद्धितसमासेष्व् इत्य् अवचनीयम् आपद्येत. अतः प्राक् प्रतीते एकनिमित्तसम्बन्धिविशिष्टे ऽपरस्मिन् सम्बन्धिन्य् अभिहिते ऽर्थगृहीतस् सम्बन्धो नाभिधेयपक्षे निक्षिप्यते. सर्वयौगिकानाम् अपि चैषैव दिग् दर्शयितव्या. आह च --
सर्वत्र यौगिकैश् शब्दैर् द्रव्यम् एवाभिधीयते ।
न हि सम्बन्धवाच्यत्वं सम्भवत्य् अतिगौरवात् ॥
इति. अतो ऽनुमेयान्तरासम्भवाद् विशेषणविशेष्यभूतौ धर्मधर्मिणाव् एवानुमानसमधिगम्याव् इति ॥ 32 -- 33 ॥
उपसंहरति -- विशेषणे ति गम्याव् इत्यन्तेन. स चायम् अङ्गाङ्गिभावः कैश्चिद् विकल्पेनाश्रितः. एवं हि मन्यन्ते. सर्वथा हि धर्ममात्रे धर्मिणि वा स्वतन्त्रे प्रमीयमाणे सिद्धसाध्यतादिदोषो भवति न विशिष्टप्रमायाम्. विशिष्टता तु कदाचित् कस्यचिद् यथाभिप्रायं भवतु नाम, न किञ्चिद् दुष्यति. सर्वथा तावत् धर्मिण एव पर्वतादेर् अग्न्यादिधर्मस् तद्धर्मेणैव धूमादिनावगन्तव्यः. स तु धर्मो विशेषणभूतो विशेष्यभूतो{3,31} वावगन्तव्य इति न कश्चिद् विशेषः. उभयथापि स्वतन्त्रानुमानाभावाद् इत्य् आह -- अङ्गे त्य् अवधार्यते ऽन्तेन ॥ 34 -- 35 ॥
अत्र दूषणम् आह -- अत्रे ति. अयम् अभिप्रायः -- लौकिकानि हि प्रमाणानि लक्षणकारैर् अपि यथालोकम् एवानुगन्तव्यानि. न तु विपरीतम्. न ह्य् अग्निः पर्वतविशिष्ट इति लोको बुध्यते. अपि तु पर्वतो ऽग्निमान् इति. तथा स्वयम् अनुमानेन प्रतिपन्नम् अर्थं तेनैव परं प्रतिपादयन्तो लौकिका धर्मिणा विशिष्टम् एव हेतुं प्रयुञ्जाना दृश्यन्ते, यथाग्न्यनुमान एव धूमवत्त्वाद् अग्निमान् इति. तच् चेदम् अग्नौ देशेन विशिष्टे नुमीयमाने नोपपद्यते. विशेषणतया हि पर्वतविशिष्टो ऽग्निर् इति धर्मिण्य् उपात्ते धूमवत्त्वाद् इति हेतुधर्मेण तस्य सम्बन्धो न स्फुटं प्रकाशते. धर्मधर्मितयावगतस्य हेतुत्वम्. न च गुणभावोपात्तो धर्मी हेतुधर्मसम्बन्धम् अर्हति, गुणानां परस्परासम्बन्धात्. अतो ऽस्मात् परार्थहेतुप्रयोगविशेषाद् एव लौकिकानाम् ईदृशी प्रतिपत्तिर् उन्नीयते. यत् स्वयम् अपि धर्मविशिष्टम् एव धर्मिणं बुध्यते न विपरीतम् इति
यदि तर्हि धर्मिणो हेतुधर्मेण सम्बन्धो न स्फुटः केन तर्हि प्रसज्यत इत्य् अत आह -- प्रधानत्वाद् इति. ध्वनिविशिष्टम् अनित्यत्वं कृतकत्वाद् इत्य् उच्यमाने ऽनित्यत्वाख्येन धर्मेणैव साध्यतया प्रधानभूतेन कृतकत्वादिहेतुस् सम्बध्येत न ध्वनिना गुणभूतेन. सर्वस्य ह्य् एकवाक्यगतस्य प्रधानान्वय एव युक्तः. प्रधानसम्बन्धे च हेतोर् अपक्षधर्मत्वम्. न हि कृतकत्वम्{3,32}अनित्यत्वस्य धर्मः, किं तर्हि ध्वनेः. अतो धर्म्य् एव धर्मविशिष्टः स्वयं प्रमातृभिर् अवगम्यते. तथैव परस्मै प्रतिपाद्यत इति युक्तम् इति. यदि तूच्यते, सत्यं प्रधानतया धर्मेण हेतोस् सम्बन्धो वाक्याद् अवगम्यते, लिङ्गबलीयस्त्वेन तु वाक्यं बाधित्वा धर्मिणैव सम्बन्धः कल्पयिष्यते. हेतुधर्मस्य हि धर्मिणैव सम्बन्धयोग्यता न धर्मेण, अतो धर्मसम्बन्धाभावाद् धर्मिणैव सम्बन्धो भविष्यतीत्य् अत आह -- तत्रे ति. अयम् अभिप्रायः -- सत्यम् एवं धर्मिणा सम्बन्धः सिध्यति. किं त्वयम् एव क्लेशो यद्वाक्यस्वरसभङ्गो नाम. अत एवाह -- कल्प्यो ऽसाव् इति. अन्यथाप्रतिपन्नस्यान्यथाकल्पनैव दोष इति भावः
ध्वनेः कृतकत्वाद् इति वा पुनर्धर्म्युपादानेन हेतुर् विशेषणीयः, न चैवं प्रयोक्तारः प्रयुञ्जाना दृश्यन्त इत्य् अभिप्रायेणाह -- ध्वनेर् इति. यस् तु वदति धर्मिण्य् अपि विशिष्टे साध्ये ऽन्वयोपदर्शनवेलायां यत्र यत्र कृतकत्वम् इत्य् उक्ते ध्वनिर् एव प्रधानतया सम्बध्येत नानित्यत्वं गुणभूतत्वाद् इति तं प्रत्याह -- अन्वयस्ये ति. अन्वयोपदर्शनकाले हि भेदेनैव धर्मम् उपाददते. यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वम् इति न तत्र प्रधानसम्बन्धाशङ्का. अतः प्रतिज्ञावस्थायां धर्मविशिष्टे धर्मिणि साध्यमाने यो गुणभाव आसीत्. नासौ दृष्टान्तवाक्ये दुष्यति. हेतुस् त्व् अविशिष्ट एव तार्किकैः प्रयुज्यत इत्य् उक्तम्. तत्राविशेषित एव प्रयुक्ते भवति प्रधानभूतधर्मसम्बन्धाशङ्केति. यस् तु वदति षष्ठ्यन्तेन ध्वनिनानित्यत्वं विशेष्यते ध्वनेर् अनित्यत्वम् इति. एवं च कृतकत्वाद् इत्य् अस्याविपरिणतविभक्तिकेन ध्वनिनैव सम्बन्धः स्फुटो भवति. धर्मसम्बन्ध एव यथावद् विभक्तिविपरिणामेन स्यात्. स चान्याय्य इति स वक्तव्यः. निराकृतो ऽयं पक्षो वार्तिककृतैव --
सम्बन्धो ऽप्य् अनुपादानान् नाम्ना षष्ठ्य् अपि वा मितौ
इति. षष्ठीनिर्देशे हि सम्बन्ध एव साध्यो भवेत्. तस्य च साध्यता निराकृतैव. विशिष्टसाध्यपक्ष एव स्थित्वा धर्मिविशिष्टता अधर्मस्येदानीं{3,33}निराक्रियते. किम् अत्र सम्बन्धसाध्यत्वं पुनर् उपक्षिप्यते. तदलम् अनेन बालभाषितेनेति
अपि च अग्नेर् देशविशिष्टत्वे साध्यमाने वक्ष्यमाणसमस्तपक्षप्रकाराणाम् असम्भवो ऽपीत्य् आह -- अग्नेर् इति. दूषणान्तरसमुच्चये चकारः. एतद् इति वक्ष्यमाणलक्षणप्रतिनिर्देश इति. तान् एव पक्षप्रकारान् वक्तुं संक्षिप्य प्रतिजानीते -- विशिष्टे ति
इदानीं विभज्य तान् एव दर्शयति -- यो ऽग्निर् इत् ईत्य् अन्तेन. निगदव्याख्यातो ग्रन्थः. विवेकस् तु पक्षाणां प्रणिहितैर् अवगम्यत इति. इहचाद्ययोर् द्वयोः पक्षयोस् सिद्धसाध्यता दोषः. सिद्धो हि क्वचिद् अग्निः, दृष्टपूर्वो ऽपि पूर्वदेशाधिकरणस् सिद्ध एव किं तत् प्र(सा)धानेन. परेषु तु पञ्चसु पक्षेषु प्रमाणान्तरविरोध इत्य् आह -- इह त्व् इति. सिद्धसाध्यता सुप्रकाशैव ॥ 40 -- 42 ॥
विरोधं प्रपञ्चयति -- व्याप्तिर् इति. यत् तावत् यो ऽग्निः सो ऽनेन युक्त इत्य् उक्तं तद् अयुक्तम्. न ह्य् अनेन देशेन सर्वाग्नयो व्याप्यन्ते देशस्यावैभवात् सर्वाग्नीनां चात्रासन्निधानात्, तद्भावो ह्य् अत्राभावेन विरुध्यत इति
{3,34} यो दृष्टो ऽनेन सो ऽथवेति यद् उक्तं तद् दूषयति -- नापि पूर्वस्ये ति. दृष्टस्याप्य् अग्नेर् अनेन देशेन व्याप्तिर् न विद्यत इत्य् अर्थः. यो ऽयं स देशमात्रेणेत्य् अत्र दूषणम् आह -- नापी ति देशैर् अन्तेन. न ह्य् एष पुरःस्थितो वह्निः सर्वैर् देशैर् विशेष्यते सर्वत्र तस्याभावाद् इति. पूर्वेण वाप्य् अयम् इत्य् अत्र विरोधम् आह -- पूर्वेणे ति. पूर्वेण देशेनास्याग्नेर् विशेष्यता नास्त्य् एव, पूर्वदेशस्यात्राभावात्, अस्य च तत्र. पूर्वानुभूतस्य त्व् अग्नेर् देशमात्रेण सम्बन्धः पुरःस्थितवह्नेः सर्वदेशसम्बन्धनिराकरणेनैव तुल्यन्यायतया निराकृत इति न पृथगुपन्यस्य दूषित इति
एवं सप्तसु पक्षेषु निराकृतेष्व् अष्टमः पक्षो ऽवशिष्यते एतद् देशविशिष्टो वा यो ऽयम् अग्निर् इति तन्निराकरोति -- एतद् इति. अयं पुरःस्थितो ऽग्निर् अनेन देशेन विशिष्ट इति नैतत् साधयितुं शक्यम्. न ह्य् अप्रत्यक्षदेशो वह्निर् अयम् इति निर्देष्टुं शक्यः, नितरां विशिष्टतया साधयितुम्. यस् तु वदति स्मृत एव वह्निर् अनेन विशिष्टः साध्यत इति, स वक्तव्यः. स्वदेशकालवर्त्त्य् एव स्मरणेन विषयीकृतः कथम् असाव् अनेन देशेन विशेष्टुं शक्यः. तद् एवंवादिना नापि पूर्वस्येत्य् अपि नालोचितम्. अनवच्छिन्नस्मृताव् अपि च धर्मो धर्मिणो विशेषणम् इति नेदं युक्तिसाध्यम्. धर्माणां धर्मिविशेषणतयैव सर्वदावगतेर् इत्य् अलम् अनेनेति. देश एव तु पूर्वावगतो विशेष्यताम् अर्हतीत्य् अभिप्रायेणाह -- अग्नेर् इति ॥ 44 -- 45 ॥
यदि चाग्निर् विशेष्यो भवेत् ततस् तस्यैवायम् आद्यो ज्ञानकालो भवेत्, प्रसिद्धस्याप्रसिद्धेन विशेषणात्. इह त्व् आदौ पर्वत एव ज्ञायते. कथम् असौ पश्चात् प्रत्येष्यमाणस्याग्नेर् विशेषणं भवतीत्य् आह -- तज्ज्ञाने ति. तद्वृत्तेनाग्निं निर्दिशति. अग्नेर् ज्ञानकाले हि स एव देशो बुद्धः, नाग्निः, अतः कस्य{3,35}देशो विशेषणं भवति. प्रमितं हि वस्त्वप्रमितेन धर्मेण प्रमित्सितं भवति कीदृग्धर्मो ऽयम् इति. तथा च देश इति स एव प्रमित्स्यते, प्रमीयते च, न पुनरग्निर् इति. ननु देशो ऽपि प्रत्यक्षावगत एवेति कथम् असाव् अनुमानस्य विषयो भविष्यतीत्य् अत आह -- देशस्ये ति. स्वरूपमात्रम् एव हि देशस्य प्रत्यक्षेणावगतम्, अनुमानेन तु पावकादिविशिष्टता तस्यानुमीयत इति न गृहीतग्राहित्वम् इति. अतो धर्म्य् एव धर्मविशिष्टः प्रमेयः न धर्मो धर्मि विशिष्ट इत्य् आह -- तस्माद् इति ॥ 46 -- 47 ॥
एवं च देश एवाग्निविशिष्टः प्रमेयो ऽवतिष्ठते. स हि धर्मी, तदाश्रयत्वाद् अग्नेः. न त्व् अग्निः, अतदाश्रयत्वाद् देशस्येत्य् आह -- सा देशस्ये ति. अन्ये तु पूर्वावगतधूमम् अप्य् अग्निविशिष्टम् अनुमानस्य प्रमेयं मन्यन्ते. तद् अपि साध्व् एवेत्य् अभिप्रायेणाह -- धूमस्यान्यैश् च कल्पिते ति. सा प्रमेयतेति सम्बन्धः. अत्र चोदयति -- नन्व् इति. विशिष्टो ऽनुमानस्य विषय इत्य् उक्तम्. नागृहीतविशेषणन्यायेन लिङ्गम् अपि शब्दवद् विशेषणमात्रपर्यवसाय्य् एव युक्तम्. शब्दो हि विशेषणमात्र एव वर्तत इत्य् आकृत्यधिकरणे वक्ष्यत इति
परिहरति -- नैवम् इति. कारणम् आह -- न ही ति. अनेकशक्तिकल्पनाभयेन हि शब्दस्य विशेषणमात्रपर्यवसानम् इष्टम्. लिङ्गं तु पूर्वावगतप्रतिबन्धबलेन प्रतिबन्धकधियम् उपकल्पयति. तद् यावतैव प्रतिबद्धम् अवगतं तावत्य् एव प्रतिबन्धके धियम् आदधाति. सर्वोपाधिपरित्यागेनाग्निमन्मात्रेण धूमवत्त्वं प्रतिबद्धम् अवगतम् इत्य् अग्निमत्त्वम् एवानुमापयतीति न कश्चित् दोष इति. न च विशेषणमात्रम् अनुमेयं सिद्धसाध्यत्वाद् इत्य् उक्तम् इत्य् अभिप्रायेणाह -{3,36} न चे ति. विशेष्यो ऽपि पर्वतादिस्वरूपेणावधारितः सो ऽपि नानुमेय इत्य् आह -- विशेष्य इति
अतो विशिष्टत्वेनैव रूपेणाज्ञानात् तस्यैवानुमेयत्वम् इत्य् आह -- विशिष्टत्वेने ति. अत्र चोदयति -- नन्व् इति. धूमो ऽप्य् अग्निविशिष्टो ऽनुमीयत इत्य् उक्तं, तद् अयुक्तम्. प्रतिज्ञार्थैकदेशत्वाद् इति
परिहरति -- नैतद् इति. सामान्यविशेष्यात्मा हि धूमः, तत्र विशेषात्मना पक्षीकृतस्य सामान्यात्मना हेतुत्वम् इति न पक्षैकदेशतेति. समधिगतं तावदनुमानस्य विशिष्टो विषय इति, स्वरूपम् एव किम् अस्येति न ज्ञायते. तद् यदि धूमतज्ज्ञानादीनाम् अनुमानत्वम् इष्यते, ततः प्रमाणफलयोर् विषयभेदः स चायुक्तः. अत एव भिक्षुणा एकम् एव ज्ञानं प्रमाणफलरूपम् इति प्रत्यक्षम् उक्त्वा तद् एवानुमाने ऽप्य् अतिदिष्टं पूर्ववत् फलम् अस्येति. यदि त्व् अनुमेयज्ञानम् एव प्रमाणम् इष्यते ततो ऽप्य् अतिरिक्तफलाभावः. अतो वक्तव्यम् अनुमानस्य स्वरूपम् इत्य् अत आह -- धूमतज्ज्ञाने ति. यत् तावत् भिक्षुणा प्रमाण(?फल)म् एव फलम् इत्य् एकविषयत्वलाभाद् आश्रितं, तत् प्रत्यक्षवद् इहापि प्रतिषेद्धव्यम्. न हि साध्यसाधनयोर् अभेदं लौकिका मन्यन्ते. को हि वृक्षच्छिदया सार्धं परशोर् एकत्वम् आतिष्ठते. विषयभेदपरिहारस् तु प्रत्यक्षोक्त एवेहाप्य् अनुसन्धातव्यः. यथा हीन्द्रियादिप्रमाणपक्षे यत्र फलं निष्पद्यते तद्विषयव्यापारात् समानविषयत्वम् उपपादितम्. एवम् इहापि धूमादिप्रमाणपक्षे तद्व्यापाराद् एव पुरोदितं विषयैकत्वम् अतिदेष्टव्यम्. अतो धूमस् तज्ज्ञानं वा सम्बन्धस् तत्स्मरणं वा प्रमाणम् अस्तु, विवक्षाधीनत्वात् प्रमाणफलभावस्येति. यत् तु बुद्धेः{3,37}प्रमाण(?फल)त्वे फलाभाव इत्य् उक्तम्. भाष्यकारो हि बुद्धिर् एव प्रमाणम् इति दर्शयति यत् कारणम् असन्निकृष्टे ऽर्थे बुद्धिर् इति वदति. न च फलाभावः, हानादेर् एव फलत्वात्. न च सजातीयम् एव फलम् इति राजाज्ञा. उपयोगाद् धि सजातीयम् असजातीयं वा फलं भवत्य् एव. अस्तु वा सजातीयम् एव फलं हानादिबुद्धिः फलं भविष्यति. उपकारादिस्मृतिर् वेत्य् अभिप्रायेणाह -- प्रमेयधीर् इति
यदि भाष्यकारः प्रमेयधियः प्रामाण्यं मन्यते, कथं तर्हि धूमादिप्रमाणत्वाभ्युपगमः अत आह -- प्रत्यक्षे ति. उक्तम् अस्माभिर् विवक्षाधीनं प्रमाणत्वम् इति. तद् यदा धूमादीनाम् एव प्रकृष्टसाधनत्वम् अवगम्यते, तदा तद् एव प्रमाणम्. भाष्यकारेणापि बुद्धिर् वा जन्म वेत्यादिना प्रत्यक्षानियमं दर्शयता सर्वत्रैवानियमस् तुल्यया दर्शित एव. अतो न धूमादिप्रामाण्याभ्युपगमे भाष्यविरोध इति
तच् चेदम् अनुमानं द्वेधा बौद्धा विभजन्ते स्वार्थं परार्थं चेति. यदाहुः --
अनुमानं द्विधा स्वार्थं त्रिरूपाल् लिङ्गतो ऽर्थदृक्
परार्थम् अनुमानं तु स्वदृष्टार्थप्रकाशकम् ॥
इति. तद् इदं द्वैविध्यम् अनुपपन्नम् इत्य् अभिप्रायेणाह -- अनुमाने ति. अस्यार्थः -- गुरुशिष्यसहाध्यायिविरोधिप्रतिवादिभ्यः परेभ्यो ऽनुमानगृहीतस्यार्थस्य तेनैवानुमानेन प्रतिपादनं वाञ्छता यथा पूर्वम् अस्माभिः प्रतिपादितः पक्षो विशिष्टो धर्मी प्रमीयत इति स वक्तव्यः. इदम् अत्राकूतम्. स्वयम् अनुमानेन गृहीतम् अर्थं परं प्रतिपादयितुं साधनवाक्यम् एव प्रयुज्यते. परस् तु ततो वाक्यात् त्रिरूपं लिङ्गम् अनुसन्धाय स्वयम् एव साध्यं वस्तु{3,38}बुध्यते, तद् अस्य स्वार्थम् एवानुमानम्. वक्तुर् अपि स्वयम् अर्थं प्रतिपन्नवतः स्वार्थानुमानम् एव, कतरद् अत्र परार्थानुमानम् इति न विद्मः. वचनं परार्थम् इति चेत्. न. अननुमानत्वात्. वचनं परार्थम् इति तु मृष्यामहे. यद् वदति दर्शनस्य परार्थत्वाद् इति, न तु तदनुमानम्, अत्रिरूपलिङ्गजनितत्वाद् अनर्थदृक् च. त्रिरूपाल् लिङ्गतो ऽर्थदृगनुमानम् इति वस् सिद्धान्तः, अतः कथं वचनम् अनुमानम्. अथानुमानगोचरीकृतार्थप्रतिपादनसमर्थवचनपारार्थ्याद् अनुमानं परार्थम् इत्य् उपचर्यते, ततः प्रत्यक्षप्रतिपन्नम् अप्य् अर्थं बोधयद् वचः परार्थम् इति प्रत्यक्षम् अपि परार्थम् आपद्येत. यदि तु स्वलक्षणविषयत्वात् प्रत्यक्षस्य तस्य चाशब्दगोचरत्वान् न प्रत्यक्षं परार्थम् इत्य् उच्यते. तद् अयुक्तम्. एवं हि प्रत्यक्षगृहीतार्थविपरीताभिधायिनां तद्विरोधोद्भावनवचनं न युज्यते. यो हि प्रत्यक्षविरुद्धम् अर्थं प्रतिजानीते नाग्निर् उष्ण इति, स वचनेन तं प्रत्यक्षविषयम् अर्थं प्रतिपाद्य निराक्रियते. प्रत्यक्षविषये तु शब्दागोचरे तन्नोपपद्येत, अतः प्रत्यक्षविषयम् अपि शब्दो वदतीत्य् अभ्युपगन्तव्यम्. एवं च प्रत्यक्षविषयवचनपरार्थतया कः प्रत्यक्षपरार्थतां वारयतीति द्वैविध्यानुपपत्तिः. अतो यथोदितः पक्ष एव वाच्य इत्य् उक्तवान्.
इदं तु वक्तव्यम् -- को ऽयं पक्षो नाम, तद् उच्यते, प्रतिज्ञार्थः पक्षः. का प्रतिज्ञा. साध्यसमर्पकं वचनम्. यदाहुः -- साध्यनिर्देशः प्रतिज्ञेति. अतः साध्यः पक्ष इत्य् आचक्ष्मह इति वाच्यः पक्ष इत्य् उक्तम्. तद्वचनम् इदानीम् उपन्यस्यति -- तत्रे ति. तत्र पक्षे धर्मिणं प्रथमम् उद्दिश्य साध्यधर्मो ऽग्न्यादिर् विधीयते. यो ऽयं पर्वतः सो ऽग्निमान् इत्य् उक्तं भवति. इदं तु पक्षवचनं प्रतिज्ञापरनामानम् एके नानुमन्यन्ते. वदन्ति च किम् अनेनानर्थकेन, अन्तरेणापि पक्षवचनम् अपेक्षितं सिध्यत्य् एव. हेतुर् हि साध्यसाधकः. न पक्षस्य वचनम्. न ह्य् अयम् आगमिको ऽर्थः, हेतुवचनानर्थक्यप्रसङ्गात्. आप्तानुसारेण पक्षवचनाद् अर्थनिश्चये हेत्वभिधानम् अनर्थकं स्यात्. वक्तृगुणदोषावधारणप्रवण एव प्रतिवादी भवेत्. हेत्वधीने तु निर्णये तच्छक्तिर् एव निरूपयितुम् उचिता, किं प्रतिज्ञावचनेन. हेतोश् च सामर्थ्यं साध्यान्वयप्रदर्शनेनैव सिद्धम्. अतो यत् कृतकं तद् अनित्यं शब्दश् च कृतक इत्य् उदाहरणोपनयमात्राद् एव साध्यसिद्धेर् अनर्थिका प्रतिज्ञा. हेतोर् एव तु त्रैरूप्यं दर्शयितव्यम्. तच् च दृष्टान्तद्वयेनोपनयेन च कथ्यत इति कृतम् अतिविस्तरेण.
{3,39} यदि तु विवादम् आवेदयितुं प्रतिज्ञावचनम् इत्य् उच्यते. तन् न. अव्यापकत्वात्. यो हि मन्यते -- यदा खल्व् अयं शब्दो नित्य इति प्रतिजानीते तदेतरो ऽनित्यवादी व्युत्थितो भवति ततो जल्पः प्रवर्तत इति. तच् च नैवम्, अव्यापकत्वात्. नेदं प्रतिज्ञावचनस्य व्यापकं प्रयोजनम्. वादे असम्भवात्. शिष्यविषयो हि सः. स च तत्त्वम् एव बोधयितव्यः, अतो हेतुशक्तिम् एव प्रतिपाद्य तत्त्वं बोध्यत इति युक्तम्, किं विवाद आद्रियते, न हि तेन सह विवदितव्यम्. जल्पे स्याद् इति चेद्, न. अन्यथासिद्धेः. तत्रैतत् स्यात् -- जल्पे खलु विवादम् आजिहीर्षुः प्रतिज्ञां प्रणयतीति, तच् च नैवम्. अन्यथासिद्धेः, असत्य् अपि हि पक्षवचने लक्ष्यत एव यथा ध्वनिम् अनित्यम् अनुमिनोतीति, यत् कारणं, यत् कृतकं तद् अनित्यं यथा घट इत्य् उक्त्वा कृतकत्वं ध्वनेर् उपनयति शब्दश् च कृतक इति. ततो जल्पः प्रवर्तिष्यत एव. वितण्डा तु यथा तथा वादे दर्शिते प्रवर्तत एव. न हि वैतण्डिकस्य किञ्चित् परनिग्रहाद् अन्यद् साध्यम् अस्ति. यद् असौ प्रतिज्ञावचनेन क्वचिद् अर्थे साध्यमाने स्वविपरीतसिद्धिं मन्वानो जातोद्वेगो विवदेत्. अतः प्रतिज्ञावचनं कथात्रये ऽप्य् अनुपयुज्यमानम् उपेक्षणीयम् इत्य् आक्षिपन्ति.
अत्राभिधीयते -- स्वदृष्टार्थप्रकाशनं परार्थम् अनुमानम् इति भवद्भिर् एवोक्तम्. स्वयं च कुतश्चिद् धेतुविशेषात् किञ्चित् केनचिद् धर्मेण विशिष्टम् अवगतम् इति परस्मा अपि तथैव कथ्यत इति युक्तम्. असत्यां तु प्रतिज्ञायाम् अनाश्रयहेत्वादय आकाशपतिता इव भवेयुः. ननु नायं पक्षवचनपुरस्सरम् अज्ञासीत् साध्यम् इति कथं परस्मै तथा कथयति. मैवम्. यद्य् अपि शब्दो ऽनित्य इति स्वप्रतिपत्तौ नोच्चारितं तथापि सविकल्पकत्वाद् अस्या बुद्धेर् अस्त्य् एवात्र प्रमातुर् विशिष्टो विकल्पः, उच्चारणं तु परार्थम् इति तन्मात्रं स्वप्रतिपत्तौ नासीत्. परस् तु नानुच्चारितेन शब्देन प्रतिपादयितुं शक्यत इत्य् उच्चार्य प्रतिपाद्यत इति शब्दोच्चारणमात्रम् अधिकम्. यत् तु वादे ऽनुपयोग इत्य् उक्तम्, तन् न, सुतराम् उपयोगात्. जल्पवितण्डे हि विजिगीषमाणयोर् द्वयोः प्रवर्तत इति परं भ्रामयितुं प्रतिज्ञावचनं न प्रयुज्येत. अविवादे तु शिष्यो न व्यामोहनीय इति विशदतरम् एव{3,40}प्रतिज्ञावचनेन साध्यत इति युक्तम्. न हि न शब्ददारिद्र्यं, यद् एनं तत्त्वं बुभुत्समानम् उपसन्नम् अविशदवचनेन परिक्लेशयाम. न चैव जल्पे ऽनुपयोग इति. उक्तम् इदम् असति हि प्रतिज्ञावचने ऽनाश्रया हेत्वादयो न प्रवर्तेरन्न् इति. गुणभूता हि ते प्रधानभूतसाध्यापेक्षायां सम्बध्यन्ते. तच् च नासति साध्यनिर्देश उपपद्यते. निर्दिष्टे हि साध्ये कुत इत्य् अपेक्षायां हेतुः सम्बध्यते. ततः कथम् अयम् अव्याप्तो ऽस्य साधक इत्य् अपेक्षिते व्याप्तिवचनम्. इतरथा त्व् ऐकार्थ्याभावाद् एकवाक्यतैव न संवर्तेत. तथा हि -- यत् कृतकं तद् अनित्यम् इत्य् उक्ते कृतकत्वम् अनित्यतया सम्बद्धम् इत्य् अनूदितम्. पुनश् च शब्दः कृतक इति शब्दस्य कृतकतया सम्बन्धो ऽनूदितः. परस्परसम्बन्धे तु न प्रमाणम्. असम्बद्धम् इदं वाक्यद्वयम् इत्य् आशङ्क्येत, कृतकं तावद् अनित्यं शब्दो ऽपि कृतक इति स्वरूपानुवादमात्रम् उभयोर् इति शङ्का जायेत, अर्थान्तरं वापद्येत. यथा चानित्यत्वधर्मा कृतकस् तथा शब्दात्मको ऽपीति, तद् अत्र सर्वे कृतकाश् शब्दात्मान इति साधुसम्पादितम् आपद्येत. अतः प्रधानवाक्यावयवप्रतिज्ञा यद् अपह्नूयते तन् नास्तिकानाम् एव सर्वापलापवादिनां शोभते नेतरेषाम्. सा हि सर्वव्यवहाराणां सारः. यद् आहुः --
सारं तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥
इति सूक्तो वादिवचनप्रकारो धर्मिणम् उद्दिश्य साध्यधर्मो विधीयत इति ॥ 53 --54 ॥
नन्व् एवं साध्यविशिष्टे धर्मिणि विधीयमाने केवलसाध्यान्वयावगमाद् धर्मान्तरव्युदासो भवेत्. ततश् चानित्यश् शब्द इत्य् उक्ते ऽनित्य एवेत्य् अवधारणाद् अम्बरगुणत्वादयो ऽपि तद्धर्मा न भवेयुः. एवं च हेतोर् अपि प्रतिक्षेपात् साध्यसिद्धिर् अपि दुर्लभैव. असत्य् अवधारणे नित्यो ऽपि स्याद् इति नेष्टसिद्धः. अथ कथम् एको नित्यो ऽनित्यश् चेत्य् अर्थात् प्रतिपक्षप्रतिक्षेपः. सत्यम्, अत एव तन्निवृत्त्यर्थम् अवधारणे क्रियमाणे इतरनिवृत्तिर् अपि भवेद् अत आह -- नियम इति. साध्यधर्मविवक्षापेक्षयैव नियमः कल्प्यते, न{3,41}पुनरविरोधिनो ऽपि धर्मान्तरात्. अतो ऽग्निमान् इति साध्यमाने ऽग्न्यभावमात्रम् एव निराकृतं भवति, न पुनः धर्मान्तरम्. यथा शुक्लः पट इत्य् उक्ते तद्विरोधिनस् तदभावस्यैव निवृत्तिर् भवति, नाविरोधिनां सूक्ष्मत्वादिधर्माणाम् इति. अत्र चासन्निकृष्टे ऽर्थ इत्य् उच्यते तस्य को ऽर्थः. यद्य् अनवगतपूर्वम् एवार्थम् अनुमानं गोचरयतीति, तन् न. सम्बन्धज्ञानकाल एव हि यावद्धूमादिभावितयाग्न्यादिसम्बन्धो ऽवगत एव. अन्यथा नियम एवावधारितो न स्यात्. न चात्र देशकालसम्बन्धो ऽधिक इति वक्तव्यम्. धूमस्य हि देशादिसम्बन्धो भासते नाग्नेः. धूमोपलक्षिताशेषदेशसम्बन्धस्य सम्बन्धसमधिगम एवावसायात्. अत एव कैश्चित् स्मरणाभिमाननिरासार्थम् असन्निकृष्टपदं व्याख्यातम्. स्मरणं हि सन्निकृष्टावमर्शोल्लिखितम् एव प्रायशो भवति, स इति हि तत् प्रवर्तते. न चैवम् अनुमानम्. अतो नेदं स्मरणम्. नन्व् असत्य् अपि तदुल्लेखे स्मरणम् उत्पद्यत एव. यथा प्रमोषे. मैवम्. ग्रहणकारणाभाषाद् धि तत्रानुभवाकारप्रवृत्तम् अपि ज्ञानं स्मृतिर् इत्य् आस्थितम्. न ह्य् असन्निहितरजताद्यवभासकारणत्वम् इन्द्रियाणां प्राप्यकारिणां सम्भवति. स्मृतिहेतुस् तु प्राचीनानुभवप्रभाविता भावना समस्तीति स्मृतिर् एव प्रमुषिततदवमर्शा सेत्य् आश्रितम्. इदं तु प्रत्युत्पन्नलिङ्गादिकारणबलाद् उत्पद्यमानं लैङ्गिकज्ञानम् अनुभवाकारप्रवृत्तं न तद्भावाद् उत्तारयितुं शक्यम्. अनुभूतिश् च नः प्रमाणम्. अतः प्रमाणम् अनुमानम् इत्य् आख्यायते. यद्य् एवम् अस्तु तर्हीदम् एवासन्निकृष्टपदस्य प्रयोजनम्. न. फलाभावेनाप्रामाण्यप्रसङ्गात्. अधिकपरिच्छेदफलं प्रमाणं भवति. परिच्छेदमात्रस्य तु फलत्वे स्मृताव् अपि प्रसङ्गः.
सापि हि स्वगोचरपरिच्छेदात्मिकैव जायते. स्यान् मतम् -- अनपेक्षं हि नः प्रमाणम्. अपेक्षते च स्मरणं ग्रहणम्. अतो न प्रमाणम् इति. तन् न. लैङ्गिके प्रसङ्गात्. तद् अपि ह्य् एकदेशदर्शनादिसापेक्षम् एव. स्वविषयग्रहणापेक्षं स्मरणं नेदम् इति चेन् न. इहापि तदपेक्षणात्. लैङ्गिकम् अपि हि प्राचीनाग्निज्ञानसापेक्षम् एव. न ह्य् अनवगताग्नेर् अविदितसम्बन्धस्याग्निर् अत्रेति मतिराविर् अस्ति. न च ग्रहणं प्रमाणम् एवेति राजाज्ञा. भ्रान्ताव् अपि प्रसङ्गात्. विपरीतावग्रहो ऽपि ग्रहणम् एव. न च प्रमाणम्. न चासौ नास्तीति यथार्थायथार्थज्ञानविभागं व्याचक्षाणैर् अस्माभिर् उक्तम् एव. अपि च अर्थे ऽनुपलब्ध इति सूत्रयता सूत्रकारेण{3,42}सर्वम् अनुपलब्धार्थविषयम् एव प्रमाणम् इति सूत्रितम्. एतद् अपि तद्व्याख्यानावसरे वर्णितम् एव. अतो व्याख्येयम् असन्निकृष्टार्थग्रहणम् अत आह -- असन्निकृष्टे ति. अस्यार्थः -- द्वेधा हि सन्निकृष्टं भवति तद्रूपप्रमितं विपरीतनिरूपितं वा. तदुभयजिहासयेयम् असन्निकृष्टवाग् इति. किं पुनस् तन्निराकरणम् अत आह -- प्रमितस्ये ति. व्यवहारार्थं ह्य् अप्रमितपरिच्छेदाय प्रमाणम् अपेक्ष्यते न व्यसनेन. स च सकृत्प्रमाणव्यापाराद् एव सिद्ध इति न प्रमाणान्तरापेक्षेति ॥ 55 -- 56 ॥
किं पुनः प्रमितस्य प्रमाणान्तरापेक्षा न जायेत. अत आह -- ताद्रूप्येणे ति. वर्णितम् इदं - द्वेधा हि प्रमितं भवति ताद्रूप्येण वैपरीत्येनेति. तत्र तावत् ताद्रूप्यपरिच्छेदे न परं प्रमाणं फलवत्. पूर्वपरिच्छेदाद् एव तदर्थसिद्धेः. वैपरीत्यपरिच्छेदे तु प्रमाणान्तरम् अनवकाशम् एवेति तदुभयनिराकरणार्थम् असन्निकृष्टग्रहणम् अर्थवत्. नन्व् एवम् अप्रमाणम् एवानुमानं सन्निकृष्टविषयत्वाद् इत्य् उक्तम् एव. न. अधिकारविषयत्वात्. यद्य् अपि पूर्वावगतो धर्मः स्मृतिविषयः. धर्मी च गिरिर् अनुभवसिद्धः, तथापि विशिष्टम् अनुमानेन विषयीक्रियत इति वर्णितम् असकृत्. नन्व् अग्निविशिष्टो ऽपि सम्बन्धसमय एव संविदितः. एवं ह्य् अनेन व्याप्तिग्रहणकाले ऽवगतं धूमवन्मात्रम् अग्निमद् इति. तद् अस्य धूमवन्मात्र एवापेक्षा. विदिते तु तस्मिन्न् अग्निमत्ता प्रमितपूर्वैवानुभूयते. सत्यम्. किन् तु धूमवान् अग्निमत्तया प्रमितपूर्वो ऽपि सम्प्रत्यनुमानेन प्रत्यभिज्ञायते. प्रत्यभिज्ञानं चेदं प्रमाणम् एव प्रत्यक्षप्रत्यभिज्ञानवत्. पूर्वं हि धूमवत्त्वोपलक्षितेन रूपेणाग्निमत्तया देशो निर्ज्ञातः. सम्प्रत्ययम् असाव् अग्निमान् इति विशेषतो ऽनुमानेन प्रत्यभिज्ञायत इति किम् अनुपपन्नम्. अवश्यं चैवम् अभ्युपगन्तव्यम्, अन्यथा कथम् अग्निमान् इति विदित्वा व्यवहाराय घटते. एष हि पक्तुकामो ऽग्निमत्ताम् अनुमायाग्नये धावतीति पश्यामः.{3,43}तत् कस्य हेतोः, न यदि पूर्वानुभवाद् अद्य विशेषः, अवागमत् खल्व् अयं धूमवान् अग्निमान् इति, न चाग्नये धावतीति. कथम् अनाश्रयप्रतिपन्ने ऽग्नौ व्यवहरतीति चेत्. न. प्राग् अपि धूमवदाश्रयत्वेनावगमात्. पर्वतमधुना प्रत्यक्षेण विशेषतो ऽवगम्याग्नये व्यवहरतीति चेत्. किम् अस्याग्न्यर्थिनः पर्वतप्रत्यक्षेण. तद् अयम् अग्निमत्तया बोध एव पूर्वबोधाद् विलक्षणो ऽभ्युपगन्तव्यः. यत् कृतो व्यवहारविशेष इत्य् अगृहीतविषयत्वाद् अनुमानं प्रमाणम् इति वक्तव्यम्. तद् इदम् असन्निकृष्टग्रहणेनोक्तम्. ये तु स्मृत्याशङ्कानिराकरणम् अस्य प्रयोजनम् आहुः, तेषां बाधितविषयम् अप्य् अनुमानम् आपद्येत. न हि तन्निराकरणम् अवयवान्तरेण लक्षणग्रन्थे कृतम् उपलभ्यते. अतो ऽसन्निकृष्टग्रहणम् एवोभयविधसन्निकृष्टार्थनिराकरणार्थम् इति साध्वी व्याख्येति
वैपरीत्यपरिच्छिन्ने परम् अनवकाशम् इत्य् उक्तम्. तत्र कारणम् आह -- मूल इति. व्याप्तिस्मरणादि ह्य् अनुमानस्य मूलम्, तद् यावद् उत्तरं तत्तद्व्यापारव्यग्रतया विलम्बते तावच्छीघ्रभाविना पूर्वेण विषयापहाराद् विप्रकृष्टसाधनस्योत्पत्तिर् एव निरुध्यत इत्य् अनन्तरम् एव वक्ष्यत इति. कथं पुनर् अनुमानं बाध्यते. तद् अपि हि प्रमाणं कथं प्रमाणान्तरेण बाधितुं शक्यते. बाधे वा न क्वचिद् आश्वासो भवेत्. आभासो बाध्यत इति चेत्, कथम् आभासत्वम्. यदि बाधाद् एवेतराश्रयं तर्ह्य् अस्तु वा ज्येष्ठप्रमाणेन प्रत्यक्षेणानुमानबाधः. न तु ततो ऽपि जघन्यैर् अपरैर् बाध्यते, तत् कस्य हेतोः अत आह -- प्रत्यक्षादेर् इति स्याद् अन्तेन. अयम् अभिप्रायः -- न प्रमाणं नाम क्वचित् बाध्यते. अवधारणात्मकं ह्य् एवैतद् इति ज्ञानं प्रमाणम्. तद् यत्र कस्यचिद् अर्थस्य केनचिद् आत्मनावधारणं भवति तत्र तेनोत्पन्नस्योत्पत्स्यमानस्य वा ज्ञानस्य बाधो ऽभिधीयेत. तद्द्विविधो हि बाधः प्राप्तबाधश् चाप्राप्तबाधश् चेति. प्राप्तबाधो हि यथा -- शुक्तिकारजतज्ञाने. तत्र हि पूर्वोपमर्दनेनैवोत्तरम्{3,44}आत्मानं लभत इति तत् तस्य बाधकम्. उत्तरं च देशादिभेदे ऽप्य् अबाधितं स्वभावतश् च प्रमाणं पूर्वम् आभासीकरोति. तद् एवं प्राप्तबाधे तावद् येनोत्तरेणार्थो ऽवधारितः. त्रिविधम् अप्य् अप्रामाण्यम् अवधारितपदेन व्युदस्यति. न ह्य् अज्ञातस् सन्दिग्धो विपर्यस्तो वार्थो ऽवधारितो भवतीति त्रिविधम् अप्य् अप्रामाण्यं यस्य नास्तीत्य् उक्तं भवति. तद् एवमात्मना ज्ञानेन पूर्वम् आभासीकृतम् इति तत्राभास एव बाध्यत इति नातिप्रसङ्गः. अप्राप्तबाधे तु यावत् क्लिष्टसाधनम् अनुमानं स्वगोचरे सामान्यशास्त्रं वा क्वचिद् विशेषविषये प्रवर्तितुम् आरभते तावत् प्रत्यक्षेणानुमानेन वा सिद्धसर्वाङ्गकेनागमेन वा विशेषविषयेण शीघ्रजन्मना येनैवार्थो ऽवधारितो भवति तेनैवोत्तरस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति. न हि बलवता शीघ्रभाविना प्रमाणेन निरुद्धमुखम् उत्पत्तुम् अर्हति. तद् एवमप्राप्तबाधे परम् अनुत्पन्नम् एव प्राप्तिसम्भावनया तु बाध्यत इत्य् उच्यते श्रुत्य् एव लिङ्गम् इति न क्वचित् प्रमाणबाधः. यत् तु जघन्येन मुख्यबाधो न युक्त इति. तन् न. न हि प्रत्यक्षादीनां विनियोगप्रमाणानाम् इव पारदौर्बल्यनियमः. यद् एव
तु शीघ्रभावि पूर्वोपमर्देन वात्मानं लभते तद् एव बाधकम् अभिदध्महे. इतरच् च बाध्यम् अत एव तेनैव तस्य बाधं ब्रूमः. प्राप्तबाध इव प्रत्यक्षस्य तेनैवानुमानेन च सिद्धाङ्गकेन साध्याङ्गकस्य विशेषशास्त्रेण सामान्यशास्त्रस्य. अतस् सर्वप्रमाणाविरुद्धम् एव पक्षम् अभिधास्यामः. न चानाश्वासः. आभासबाधात्. स्वतः प्रमाणेन चावधारणात्मना ज्ञानेनेतराभासीकरणात्. तद् इदम् अवधारितपदेनोक्तम् इति. ननु च बलवतापि नावश्यं दुर्बलं बाध्यते. असति हि सम्भवे बाधस् सम्भवति. अतो विषयव्यवस्थाया विकल्पेन समुच्चयेन वोभयम् उपपादयिष्यते विनात्यन्तिकबाधाश्रयणेन, अत आह -- विकल्पादेर् इति. नात्रोक्ता विकल्पादयस् सम्भवन्ति. न तावत्परस्परविरुद्धं रूपद्वयम् एकत्र समुच्चीयते. न हि श्रावणो ऽश्रावणश् च नित्यो ऽनित्यश् चेति सम्भवति. न च विकल्पः. विधिनिषेधविषयत्वात् तस्य सिद्धे वस्तुन्य् असम्भवात्. न च विषयव्यवस्था, वर्णात्मनाम् एव नित्यानित्यत्वसाधनात्. अतो ऽसम्भवाद् एव बाधम् अभिदध्मह इति. एवम् उपपादितो बाध उदाहरणैर् दर्शयितव्यः. तत्र प्रत्यक्षबाधम् एव तावद् दर्शयति अग्राह्यतेति. इमं तु प्रत्यक्षबाधं न बुध्यामहे. स्वगोचरविपरीतार्थं हि प्रमाणं{3,45} प्रत्यक्षेण बाध्यत इति युक्तम्. न च ग्राह्यता प्रत्यक्षविषया ग्राह्यग्रहणसम्बन्धविषयत्वात् तलः. तस्य च प्रत्यक्षागोचरत्वात्. शब्दो हि प्रत्यक्षः न ग्राह्यता. अत एव ह्य् अश्रावणतापक्षो ऽपि न प्रत्यक्षेण विरुध्यत इति वक्ष्यते. अत्रोच्यते. सत्यम्, नेन्द्रियविषयो ग्राह्यता, ग्राह्यस् तु तद्विषयः. तद् इह ग्राह्यापलापस्यैव प्रत्यक्षविरोधो दर्शितः. निरालम्बनानुमानस्येति यावत्. प्रत्ययस् त्व् अग्राह्यपदाद् उपपन्नस् तस्यैवाभावम् अभिधत्ते. कश् च ग्राह्यस्य भावो ऽन्यद् अतो भावात्. इयं हि शशविषाणस्याग्राह्यता यन् न भवति. तदभावाद् एव तत्राग्राह्यताभिधानप्रत्ययौ. तद् अनेन प्रकारेण शब्दाभावपक्षस्यैव प्रत्यक्षविरोध उपदिष्ट इति न किञ्चिद् अनुपपन्नम् इति ॥ 58 -- 59 ॥
अनुमानविरोधोदाहरणम् आह -- तेषाम् इति. तेषाम् एव शब्दादीनाम् अश्रावणत्वाद्यनुमानविरुद्धं यो ह्य् अश्रावणम् अनित्यं वा शब्दं पक्षम् इच्छति तस्यासौ शीघ्रभाविना विपर्ययानुमानेन बाध्यत इति. इदं तु प्रत्यक्षविरोधम् अन्ये मन्यन्ते. तान् निराकरोति -- न ही ति. शब्दो हि प्रत्यक्षः न तच्छ्रावणता ग्राह्यग्राहकसम्बन्धो हि शब्दस्य श्रावणस्य च त्वतल्भ्याम् उच्यते. कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम् इति स्मृतेः. स च न प्रत्यक्षेण समधिगम्यः. अपि च अतीन्द्रियं श्रोत्रं, कथं तत्सम्बन्धश् शब्दस्य प्रत्यक्षो भविष्यति. न ह्य् ऐन्द्रियानैन्द्रियाधारस् सम्बन्धः प्रत्यक्षो भवति वायुवनस्पत्योर् इव. अतो नायं प्रत्यक्षविरोध इति
किंप्रमाणिका तर्हि श्रावणता. अत आह -- से ति. अबधिरादिषु शब्दोपलब्धेर् बधिरादिषु चानुपलब्धेर् अन्वयव्यतिरेकौ दृश्येते. तथा हि श्रोत्रोपघातमात्रेण चक्षुरादिमतो बधिरस्य शब्दबुद्धिर् न दृश्यते. श्रोत्रे च दृढे चक्षुरादिष्व् असम्भवे ऽपि शब्दग्रहणं दृष्टम्, अत आभ्याम् अन्वयव्यतिरेकाभ्याम् इदं श्रावणत्वं गम्यत इति. नन्व् एवं कथम् अनुमानविरोधः, न ह्य्{3,46}अन्वयव्यतिरेकाव् अनुमानम्, तत्प्रभवस् तु मानसःश्रावणत्वविकल्पः, अतो मानसप्रत्यक्ष एवायम् इति कश्चित् भ्राम्यति स वक्तव्यः. न बहिर्विषयबोधे मनः स्वतन्त्रम् इति वर्णितम् असकृत्. यद् यदीयन्वयव्यतिरेकाव् अनुविधत्ते तत्तत्कारणकम् इति सर्वकार्येषु समधिगतम्, अनुविधत्ते च शब्दज्ञानं श्रवणम् इति तत्तत्कारणकम् इति. इदम् एव च शब्दस्य श्रावणत्वम्. यत् तु ज्ञानस्य श्रवणजन्यत्वम् अतो ऽनुमानम् एवेदम्. नन्व् अन्यत्राप्य् अन्वयव्यतिरेकानुविधायिनः कथं तत्कारणकत्वम् अवगन्तव्यम्, यन् न मानसं प्रत्यक्षम् आश्रीयते, श्रूयताम्. पश्यामो हि वयं कुम्भकारव्यापारानन्तरं कुम्भसम्भवम् उदीक्षमाणाः कार्यकारणभावं चक्षुषैव. इदं हि कुम्भस्य तत्कार्यत्वं या तदनन्तरसम्भूतिः. स च कुम्भस् तत्सम्भवश् चोभयं चाक्षुषम् एवेति किम् अत्र मनसा. अतो यद् यस्मिन् सति भवति, असति च न भवति, तत्तत्कारणकम् इति प्रत्यक्षतो विदितव्याप्तेर् अनुमानम् उपपन्नम् एव. एवं च प्रयोगः -- श्रवणप्रमाणप्रकाश्यश् शब्दः तस्मिन् सत्य् एवोपलभ्यमानत्वात्. यद् एवं तत्तत्प्रकाश्यं सन्तमस इव घटः प्रदीपप्रकाश्य इति. इदं च प्रत्यक्षपूर्वकार्थापत्तिपूर्वकम् अनुमानं तया श्रावणत्वसिद्धेः. इदं च सिद्धसर्वांगत्वाद् अश्रावणत्वानुमानाद् बलवत्. यावद् धि गुणत्वस्याश्रावणत्वेन व्याप्तिर् ग्रहीतुम् इष्यते, तावच्छीघ्रजन्मना श्रावणत्वानुमानेन व्याप्तिसंविदं प्रतिबन्धता तस्योत्पत्तिर् एव निरुध्यते. एवम् एवानित्यत्वानुमानम् अपि. यत् कृतकत्वादिहेतुकं तद् अप्य् असिद्धिव्यभिचारादिदोषान् न शीघ्रम् उपजायत इति सिद्धावयवैश् शीघ्रजन्मभिर् नित्यत्वानुमानैर् बाध्यते. यथा देशकालादिभिन्ना गोशब्दबुद्धयस् समानविषयाः गौर् इत्य् उत्पद्यमानत्वात् सम्प्रत्युत्पन्नगोशब्दबुद्धिवद् ह्य् अस्तनोच्चरितो वा गोशब्दो ऽद्याप्य् अस्ति गोशब्दत्वाद्,
अद्योच्चरितगोशब्दवद् इत्यादिभिर् इति
शब्दविरोधप्रकारम् इदानीं प्रतिजानाति -- त्रिधे ति. प्रतिज्ञाविरोधादयो हि शब्दविरोधतया प्रसिद्धा इति ते तथाभिधीयन्ते. न त्व् एते शब्दविरोधाः. यत्र हि क्वचिद् अर्थे प्रतिष्ठितेन शब्देन प्रतिज्ञान्तरं बाध्यते, तत्र शब्दविरोधो भवति. न च स्ववाग्विरोधे शब्दस्य क्वचिद् अर्थे प्रतिष्ठास्ति व्याहताभिधानात्. पूर्वसञ्जल्पविरोधे ऽपि पूर्वापरन्यायबलाबलानुसार्य् एव निर्णय{3,47} इति न शब्दविरोधः. न हि तत्र शब्दप्रमाणतो ऽर्थः न्यायगम्यत्वात्. लोक प्रसिद्धिस् तु न शब्दो न प्रमाणान्तरम्. अपि अतु प्रत्यक्षाद्यन्तर्गतैवेति तद्विरुद्धपक्षप्रदर्शनेनैव प्रदर्शितेति न शब्दविरोधे ऽन्तर्भावयितुम् उचिता. न ह्य् अचन्द्रश् शशीति पक्षश् शब्देन विरुध्यते. न हि चन्द्रशब्दश् शाङ्कयोस् सम्बन्धं शब्दो वदति येनातद्वाच्यपक्षस्य शब्दविरोधो भवति सम्बन्धवाच्यत्वे हीतरेतराश्रयं भवेत्. अभिधानात् सम्बन्धः सम्बन्धाच् चाभिधानम् इति. तस्मान् नैते शब्दविरोधाः. पूर्वोत्तरशब्दसामर्थ्यपरामर्शेन त्व् एकपरित्यागेनेतरपरिग्रहाच् छब्दविरोधतया प्रसिद्धा इति तन्त्रान्तरप्रसिद्धिविभागस् त्रिधा शब्दविरोध इत्य् उच्यते. परमार्थेन तु वेदार्थवचनविपरीतार्थप्रतिज्ञैव शब्देन विरुध्यते. तत्र हि प्रतिष्ठितं शब्दस्य प्रामाण्यं शक्नोति विपरीतप्रतिज्ञो वारयितुम्. तच् चानन्तरम् इहैव वक्ष्याम इति
तान् एव त्रीन् प्रकारान् दर्शयति -- प्रतिज्ञे ति. तत्र प्रतिज्ञाविरोध एवैकस् त्रिधा भिद्यत इत्य् आह -- यावद् इति सार्धेन. अयम् अर्थः -- प्रतिज्ञाविरोधो हि स्ववाग्विरोधः. स च त्रेधा भिद्यते. उच्चारणधर्मधर्मिभेदात्. यावज्जीवम् अहं मौनीति पक्षः प्रतिज्ञयैव बाध्यते. न ह्य् अनुक्ता सती प्रतिज्ञा भवति. उक्तिमात्रेण च मौनं बाध्यते. अतः प्रतिज्ञाशरीरान्तर्गतेनोक्तिमात्रेण बाधाद् भवति प्रतिज्ञया बाधः. सर्ववाक्यमृषात्वपक्षस् तु धर्मोक्त्या बाध्यते. सर्वमृषात्वे हि प्रतिज्ञावचनम् अपि मृषेति नेतरन्मृषा भवेत्. तदमृषात्वे वा न सर्वमिथ्यात्वम्. तद् इह प्रतिज्ञान्तर्गतधर्मसंसर्गासम्भवपरामर्शात् पक्षबाध इति धर्मोक्तिविरोधाभिधानम्. पूर्वत्र त्व् अविशिष्टमुक्तिमात्रम् एव मौनं बाधते इत्य् उक्तिमात्रेणेत्य् उक्तम्. आत्मबाधनम् इति. धर्मबाधनम् इत्य् अर्थः. धर्म एवायुक्त आत्मानं बाधत इति यावत्. वन्ध्या मे जननीति पक्षो धर्म्युक्त्या बाध्यते. जननीत्वे ह्य् उद्दिष्टमात्रे न{3,48}वन्ध्यात्वम् आस्पदं लभते. न च गौणो जननीशब्द इत्य् अपि वक्तव्यम्. अहं यतो जात इति विशेषणात्. एवं विशेषिते पक्षे धर्म्युक्तिविरोध इत्य् उक्तं भवति. एतच् चाभ्युपगमवादेनोक्तम्. न तु श्रुतिस्मृत्यतिरेकीणि जल्पाकवचनानि गौणत्वादिभिस् समीकर्तुं शक्यन्ते. सर्वदूषणोच्छेदप्रसङ्गात्. प्रमादाज्ञानजान्य् एव हि दूषणानि भवन्ति. तेषु कथञ्चित् समाधीयमानेषु न किञ्चिद् दूषणं नाम भवेद् इति ॥ 62 -- 63 ॥
पूर्वसञ्जल्पविरोधम् उदाहरति बौद्धस्येति. अनित्यश् शब्द इति बौद्धेनोक्ते कथं क्षणिकाद् अगृहीतसम्बन्धाद् अर्थप्रत्यय इत्य् अनुयुक्तेन तेनैव यदा पुनर् उच्यते नित्यस् तर्हीति तदा तस्य पूर्वाभ्युपगमविरोधः. यद्य् अपि चात्र न्यायबलाबलानुसारी बाध्यबाधकभावः, तथाप्य् एवंविधा पूर्वापरविरुद्धा प्रतिज्ञैवात्मानं न लभत इति न न्यायावतारम् अपेक्षते. सम्भावितो हि प्रतिज्ञायाम् अर्थो न्यायेन साध्यते. असम्भाविते तु नायापेक्षा नास्त्य् एव, स्वरसभङ्गुरत्वात्. अतश् शब्दविरोध एवैनम् अन्तर्भावयति. शब्दसन्दर्भ एव हि तादृशः पूर्वापरविरुद्धः पक्षं विनाशयतीति तेषाम् अभिप्राय इति. सर्वलोकप्रसिद्धिविरोधस्योदाहरणम् आह -- चन्द्रे ति. अत्रापि महाजनविपरीतार्थश् शब्दसंसर्गः स्वरसाद् एव भज्यते न प्रमाणं यावदपेक्षत इति शब्दबाध उदाहृत इति
उपमानविरोधोदाहरणम् आह -- ज्ञाते ति. येन हि नगरे गवाकारो दृष्टः सम्प्रति चारण्ये गवयाकारः, तं प्रति गौर् गवयसदृशो न भवतीति पक्ष उपमानेन विरुध्यत इति.{3,49}परोक्षे गवि सादृश्यम् उपमेयम्. प्रत्यक्षे तु प्रत्यक्षम् एव. अत एव ज्ञातगोगवयाकारम् इति क्रमो विवक्षित इति
अर्थापत्तिविरोधम् इदानीं विवक्षन् भाष्यकारानुसारेणाभावपूर्विकायास् तावदुदाहरणम् आह -- गेहे ति
प्रत्यक्षपूर्विकाम् उदाहरति -- अग्नाव् इति. अदाहक इति. अतच्छक्तियुक्त इत्य् अर्थः. अनुमानपूर्विकाम् उदाहरति -- शब्दे चानभिधायक इति. शब्दश्रवणानन्तरम् अर्थप्रतीतिं चेष्टयानुमाय तत्र शब्दः कारणम् इत्य् उन्नीयते. अतस् सर्वकारकाणां क्रियाविनाभावाद् अभिधाभिधानो व्यापारः, तदनुपपत्त्या चार्थापत्त्या तच्छक्तिसिद्धिर् इति
तथेन्द्रियापलापपक्षो ऽपि प्रत्यक्षपूर्विकयार्थापत्त्या विरुध्यत इत्य् आह -- श्रोत्रे ति. यद्य् अपि प्रत्यक्षपूर्विकोदाहृतैव तथापि पक्षदोषोद्भावनच्छलेनेन्द्रियापलापपक्षस्याप्य् अयं दोष इति विवक्षता पुनस्तद्विरोधो ऽभिहितः. अत्रैवादिशब्देनोपमानपूर्विकया विरोधो दर्शयितव्यः -- यथा गवयोपमिताया गोस् तज्ज्ञानग्राह्यशक्त्यपह्नव इति. अर्थापत्तिपूर्विकया विरोधम् उदाहरति -- शब्दे ति. अर्थाभिधानान्यथानुपपत्त्या हि वाचकशक्तिम् अर्थापत्त्या प्रमाय पुनस्तदनुपपत्त्यार्थापत्त्यन्तरेण शब्दनित्यत्वम् अवगम्यत इति
शब्दपूर्विकार्थापत्तिविरोधम् उदाहरति -- श्रुतार्थापत्तिबाध इति. किं पुनर् अर्थापत्तिः प्रपञ्चेनोदाह्रियते, तद्विरोधप्रतिपादनं हि ययाकयाचिद् एकयापि सिध्यत्य् एव. तथा च प्रमाणान्तरविरोधेषु प्रपञ्चो न दर्शितः. अर्थापत्तिवद् वा प्रमाणान्तरविरोधो ऽपि प्रपञ्चेन वाच्यः. सत्यम्. षोढा भिन्नैर् एव षड्भिर् अत्र विरोधो वार्तिककारस्य विवक्षितः, तत्प्रदर्शनार्थम् एव षट्प्रमाणप्रसूतार्थापत्तिर् उदाहृता. तेनैव तु मार्गेण प्रमाणान्तरेष्व् अपि प्रपञ्चो दर्शयितव्यः.{3,50}यथा तावत् प्रत्यक्षबाध एवानुभूतिस्मृत्यनुमानादिभिः षष्ठवर्जं षोढा भिद्यते. स्वेद्यमानस्य वादिनो ऽनुष्णो वह्निर् इति प्रतिज्ञा अनुभवस्थेनैव प्रत्यक्षेण विरुध्यते. अनासन्नाग्नेस् तु सैव प्रतिज्ञा स्मृतिस्थेन प्रत्यक्षेण विरुध्यते, यदा खल्व् अयं वादकाले ऽनुष्णो वह्निर् इति प्रतिजानाति तदैनम् इतरः स्मारयति किं न स्मरसि पूर्वानुभूतम् अग्नेर् उष्णत्वं यद् एवम् आत्थेति, स तत् स्मृत्वा ततः प्रत्यक्षान्निवर्तत इति भवति स्मृतप्रत्यक्षबाधः.
अनुमितप्रत्यक्षबाधस् तु यत्राप्तमुखे चेष्टाविशेषादर्शनेन तदवगततिक्तादिर् असनिवारणं प्रतिज्ञायते, मुखवैरूप्येण हि तस्य तिक्तानुभवो ऽनुमीयते अतस् तद्विपरीतपक्षस्यानुमितप्रत्यक्षबाधः.
श्रुतप्रत्यक्षबाधस् तु यत्र केनचिद् अर्थे कस्मिंश्चिद् अपह्नुते साक्षिभिर् दृष्टो ऽयम् अर्थ इति साक्षिप्रत्यक्षेण बाधो ऽभिधीयते. न चैष शब्दबाधः. न ह्य् अत्र तैर् अर्थो ऽभिधीयते. किन् तु दर्शनम्. अतस् तद्दर्शनानुसार्य् एव निर्णयः. दर्शनं तु तैः स्वशब्देन प्रत्याय्यत इति शब्दावगतप्रत्यक्षविरोध एवायम्.
उपमानं तु प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयम् इत्य् अन्यतस् सिद्धस्य सादृश्यं गोचरयति. यथा दात्रादिप्रत्यभिज्ञायां यादृशी स्वात्मनि चेष्टा दृष्टा तां परत्रापि दृष्ट्वोपमिनोति ममेवास्यापि दात्रादिप्रत्यभिज्ञा प्रत्यक्षम् उत्पन्ना, कथम् अन्यथा पूर्वेद्युर् अर्धकृतकर्मसमापने परेद्युः प्रवर्तते. इह च चेष्टया तदनुरूपं परगोचरम् अनुमाय स्वज्ञानसादृश्यं तत्रोपमीयते. यद्य् अपि चात्रानुमानावगतप्रत्यक्षबाध एव शक्यो दर्शयितुम्, तथापि स्वज्ञानसादृश्यपरिच्छेदे शक्यं दर्शयितुम् इति तदवगतप्रत्यक्षबाधो ऽभिधीयते. प्रत्यक्षसत्तैवोपमानेन प्रमीयते. अर्थापत्त्यवगतप्रत्यक्षबाधस् त्व् एवं दर्शयितव्यः. यदा हि बहुषु गच्छत्सु तोयार्थिषु तटाकम् एकस् तदाहरणाय प्रस्थितो विलम्बते तदा तद्विलम्बनान्यथानुपपत्त्या तदीयं तोयप्रत्यक्षम् अर्थापत्त्या प्रमीयते. तत्र तद्विपरीतो निस्तोयतटाकपक्षो ऽर्थापत्तिसिद्धेन प्रत्यक्षेण बाध्यते. अभावेन तु भावरूपं प्रत्यक्षं नावगम्यत इति तदनवगतप्रत्यक्षविरोधो नेहोदाह्रियते. षोढा विभक्तम् अनुमानबाधमतःपरम् अनुसन्धास्यामः -- धूमावगतवह्निप्रतिषेधे तावत् प्रत्यक्षपूर्वानुमानबाधः. धूमानुमिताद् एव बह्नेर् उष्णत्वे ऽनुमिते तद्विपरीतपक्षो ऽनुमितानुमानेन बाध्यते. यत्र तु देवस्य त्वेति निर्वपति{3,51}इति प्रतीतविनियोगान् मन्त्रशेषे ऽनुमिते तद्विपरीतः पक्षो गृह्यते, तत्रागमानुमानबाधः.
नित्ये तु कर्मणि प्रवृत्ते व्रीहीणाम् अपचारे तत्सदृशेषु नीवारेषूपमितेषु व्रीहिभिर् यजेतेति चोदना नीवारविषयत्वेनानुमीयते. व्रीह्यवयवा हि तद्विषयतया ज्ञातसम्बन्धास्ताम् अनुमापयन्ति. न हि तस्याः स्वरूपेण व्रीहयो विषयभूताः, तदवयवास् तु चूर्णीभूता व्रीहिशास्त्रार्थः. ते च नीवारेष्व् अपि सन्तीति व्रीह्यवयवसामान्योपमितनीवारगामिनी व्रीहिचोदनानुमीयते. तद् इहातद्गोचरत्वपक्षस्योपमानपूर्वकानुमानबाधः.
अर्थापत्तिपूर्वकानुमानबाधस् तु श्रावणत्वपक्षे ऽभिहित एव. यत्र दूराद् वृक्षाभावं विदित्वा तच्छायाभावो ऽनुमीयते तत्राभावपूर्वकानुमानेन छायासद्भावपक्षो बाध्यते. प्रत्यक्षशब्दबाधस् तु त्रिधा दर्शित एव. अन्यो ऽपि श्रुतिस्मृतिभ्यां दर्शयितव्यः. अष्टकादीनाम् अधर्मत्वपक्षस् तु कर्तृसामान्यानुमितशब्दविरुद्धः स्मृत्यधिकरणे दर्शितः. शक्यं ह्य् अष्टकादयः शब्दमूलाः शास्त्रस्थार्यावर्तनिवासिकर्तृकत्वाद् अग्निहोत्रादिवद् इत्य् अनुमातुम्. आगमिकशब्दबाधस् तु यत्र शाखान्तरगतश्रुतिविषयविवादे स्मृतिनिबन्धनकाराणां वचनेन श्रुतिसद्भावो निश्चीयते, तत्र ह्य् आप्तागमावगतनित्यागमविरोधो विपरीतपक्षस्य सम्भवति. उपमितशब्दविरोधस् तु मन्वादिस्मृतिभ्यो ऽर्थापत्त्या वैदिकं किम् अपि मूलम् अस्तीति कल्पिते स्मार्तवाक्यसदृश एव मूल उपमिते र्थवादमूलत्वपक्ष उपमितशब्देन बाध्यते. विश्वजिदफलत्वपक्षस् तु श्रुतार्थापत्तिसिद्धशब्दविरुद्धः. अभावेन तु शब्दभावो ऽवगन्तुं न शक्यत इति शब्देयत् तावधारणे तस्य व्यापारः तत्राभावावधारितविधिकार्त्स्य्ने ज्योतिष्टामे प्राकृतेतिकर्तव्यताप्राप्तिपक्षो बाध्यते. यथा वक्ष्यति -- कृत्स्नविधानाद् अपूर्वस् सोम इति. व्रीह्यभावे तु नीवाराणाम् अग्राह्यतापक्षः प्रत्यक्षजोपमानविरुद्धः. अनुमानपूर्वकोपमानबाधस् तु यदा ह्य् आदित्यस्य देशान्तरप्राप्त्या गतिम् अनुमाय संवत्सरादिमध्यान्तेषु तस्यास् सादृश्यम् उपमीयते. यादृश्य् एकत्र संवत्सरादौ तन्मध्ये वान्ते वा सूर्यगतिः तादृशी वत्सरान्तेष्व् इति तत्र गतिवैसादृश्यपक्षो ऽनुमानपूर्वकोपमानेन बाध्यते. पूतीका न सोमसदृशा इति तु पक्षश् शब्दपूर्वकोपमानविरुद्धः. सामपूतीकयोर् हि सादृश्यं न प्रत्यक्षम्. न{3,52}चानुमेयम्. शब्देनैव तु सोमांशुजातत्वं पूतीकानां प्रतिपादयता कार्यकारणयोर् औचित्येन सारूप्यं प्रतिपादितम् इति शब्दावगतकार्यकारणप्रभवत्वात् पूतीकानां सोमसादृश्योपमानस्य तद्विपर्ययः शब्दपूर्वकोपमानविरुद्धो भवति. ज्योतिष्टोमिका हि धर्मास् सत्राहीनेषु न भवन्तीति पक्ष उपमानोपमानेन बाध्यते. ज्योतिष्टोमोपमानेन हि ते द्वादशाहं गच्छन्ति द्वादशाहोपमानेन च सत्राहीनाव् इति. यदा त्व् आत्मेन्द्रियसादृश्यविशिष्टानि
परेन्द्रियाण्य् उपमीयन्ते तत्र तन्निषेधो ऽर्थापत्त्युपमानेन बाध्यते. वेदकारनास्तिता शशशृङ्गाद्यभावसदृशी न भवतीति पक्षो ऽभावपूर्वकोपमानेन बाध्यते. द्वयोर् अप्य् अभावेनाभावे ऽवगते सादृश्यम् उपमीयते. अर्थापत्तिविरोधस् तु षड्विधो वर्णित एव. अभावविरोधं त्व् अनन्तरम् एव वक्ष्यामः
अभावविरोधम् इदानीम् उदाहरति -- शशशृङ्गादी ति. अयं च प्रत्यक्षाभावविरोधः. यदा त्व् अमुं राशिं सूर्यो गतो न वेति चिन्त्यमाने गणितकुशलेन गणितानुमानाभावान् न गत इत्य् अवगते भ्रान्तो गत इति वदति. तत्रानुमानाभावविरोधः. चैत्यवन्दनादिधर्मत्वपक्षस् तु श्रुत्याद्यागमाभावविरुद्धः. पूर्ववन्तो दर्वीहोमा इति तूपमानाभावेन विरुध्यते, न हि तेषां केनचित् कर्मणा सादृश्यं कथञ्चिद् अवगम्यत इति. पलालकूटकुञ्जरयोस् तु सादृश्यास्तितापक्ष उपमानाभावेन विरुध्यते. तथा शब्दे श्रोत्रदेशम् अनागच्छति श्रोत्रे च शब्ददेशं ध्वन्यागमनमात्रेणैव शब्दश्रवणोपपत्तेर् यो ऽर्थापत्या शब्दश् शब्दान्तरम् आरभते ततः क्रमेणान्त्यः श्रोत्रेण गृह्यते इत्य् अन्यथानुपपत्त्या प्रतिजानाति तत्प्रतिज्ञा अर्थापत्त्यभावेन बाध्यते. अभावाभावस् त्व् एवं दर्शयितव्यः -- यदा हि कर्त्रभावेन वेदानां दोषाभावो वगतो भवति तदा दोषवत्पक्षस्याभावाभावेन बाध इति
एवं तावद् धर्मसम्बन्धबाधः षोढा प्रपञ्चितः. धर्मधर्म्युभयस्वरूपस्वविशेषबाधमतःपरं वक्ष्याम इति संक्षिप्य सुखग्रहणार्थं श्रोतृबुद्धिसमाधानार्थं{3,53}च वृत्तवर्तिष्यमाणयोस् सङ्कीर्तनं करोति -- एवम् इति सार्धेन. श्रुत्यर्थाक्षिप्तयोर् इति. स्वरूपं तावत् सर्वत्र श्रुत्यर्थ एव. तद्विशेषो ऽप्य् अर्थाक्षिप्तः. धर्मधर्मिणोर् हि स्वरूपं येन विशेषेण व्याप्तं तम् आक्षिपति. तच् चानन्तरम् एव वक्ष्यत इति. श्रुत्यर्थश् चाक्षिप्तश् चेति विग्रह इति
तत्र धर्मस्वरूपबाधो वर्णित एवेति तम् अकृत्वैव तद्विशेषणबाधम् उदाहरति -- तृणादी ति. यो हि तृणादिविकारदर्शनाद् अग्निमद्धिमं साधयति तस्याभावेन तावद्धर्मस्वरूपबाधो भवत्य् एव. तद्विशेषणम् अप्य् उष्णत्वम् अर्थाक्षिप्तं प्रत्यक्षावगतेन शैत्येन बाध्यते. न च वाच्यम् अनुष्णो ऽपि वह्निः प्रभासु दृष्ट इति कथम् अर्थाक्षिप्तो विशेष इति. प्रभास्व् अप्य् एवं वह्निर् उष्ण एव, अभिभूतत्वात् तु स्पर्शो न गृह्यते, न पुनरुष्णतां जातु जहाति, स्वाभाविकी हि सा तस्य. न च हिमे ऽप्य् अभिभूतत्वाद् अग्रहणम् इति वाच्यम्. तद्विपरीतशैत्योपल्म्भात्. हेतूपन्यासस् तु पक्षदोषाभिधानावसरे तद्बीजमात्रप्रदर्शनार्थं सो ऽयम् अभावेन धर्मविशेषबाध इति
धर्मिणस् तु द्विप्रकारो ऽपि बाधो ऽनुक्त एवेति उभयथा तद्बाधोदाहरणम् आह -- अधर्म इति सार्धेन. हिंसा किलाधर्म इति सामान्यतो ऽवगतम्. तद् यदा विहितो ऽधर्मो दैक्षपशुहिंसादिर् यद् दुःखं करोतीत्य् अनूद्य तदल्पम् इति साध्यते, तदापि विहितत्वेनाधर्मतैव बाध्यते तद्विशेषो ऽपि दुःखनिमित्तत्वं यदर्थाक्षिप्तं तद् अपि तेनैव बाध्यते. न हि विहितं नाम किम् अपि दुःखस्य निदानं भवति. पुरुषार्थैकसाधनत्वाद् विधेः. सो ऽयम्{3,54}आगमेन धर्मिस्वरूपस्वविशेषबाधः. न चात्र श्रुत्युपात्त एव स्वविशेष इति चोदनीयम्. अर्थाक्षिप्तस्याल्पतया विधानार्थम् अनुवादाद् इति
उभयस्योभयविरोधम् उदाहरति -- अयथार्थे ति. यदा हि सर्वज्ञानानि मिथ्येति साध्यते तदा धर्मधर्मिग्राहिणोर् अपि ज्ञानयोर् मिथ्यात्वात् तद्विशेषणग्राहिणोश् च मिथ्यात्वाद् भवत्य् उभयस्यैवोभयबाध इति. अयं च धर्मोक्त्योभयबाध इति शब्दबाध एव निवेशनीय इति समधिगतं तावद् उभयोः स्वरूपबाध इति
कौ पुनस् तद्विशेषाव् अर्थाक्षिप्तौ बाध्येते. अत आह -- क्षणिके ति. बाध्येते इति विपरिणम्य सम्बन्धो दर्शयितव्य इति. तत्र चैकदेशदर्शनाद् इत्य् उच्यते. तत्र च दर्शनग्रहणम् अतिरिच्यते. एकदेशाद् इत्य् एव वक्तव्यम्. तद् धि लिङ्गं न पुनर्दर्शनम् अतो व्याख्येयम् एकदेशदर्शनाद् इत्य् अत आह -- दर्शनाद् इति. अयम् अर्थः. नैकदेशस् सत्तामात्रेण लिङ्गम्. किन् तु स्वप्रतिपत्तौ ज्ञातः परप्रतिपादने च ज्ञापितः. तद् इदम् उभयम् उपादातुं दर्शनग्रहणम्. शक्नोति चोभयम् उपादातुम्, णिज्भावाभावयोर् अपि निर्देशसाधारण्यात्. स्वप्रतिपत्तौ तावद् एकदेशे दृष्टे बुद्धिर् अनुमानम् इत्य् अर्थः. परार्थप्रयोगे तु णिजन्तदर्शनपदम् एकदेशं दर्शयित्वा या बुद्धिर् जायते सानुमानम् इत्य् उक्तं भवति. तद् इदं तत्रोच्चरितदर्शनपदम् अर्थद्वये व्याख्येयम्. अनेन च यत्रैकदेशे वादिप्रतिवादिनोर् अकस्योभयोर् वा संशयो ऽधीर्विपर्ययो वा भवति सो ऽसिद्धाभिधानो हेत्वाभासो व्युदस्यते. न ह्य् असौ तादृशः परस्मै दर्शयितुं शक्यते.{3,55}स्वयं वा दृष्टो भवति. अधीरज्ञानम् इत्य् अर्थः. तत्र द्वयविपर्यस्तोदाहरणम् आह -- शैत्याद् इति. वह्निशब्दयोर् द्वयोर् अपि शैत्यचाक्षुषत्वे वादिप्रतिवादिनोर् विपर्याद् असिद्ध इति ॥ 75 -- 76 ॥
अन्यतरासिद्धोदाहरणम् आह -- कृतकत्वे ति. यदा वैशेषिको याज्ञिकं प्रति शब्दो ऽनित्यः कृतकत्वात् गुणत्वाद् वेति हेतुं प्रयुङ्क्ते, तदासौ स्वरूपेण तस्यासिद्धो भवति. यदा तु स्वयम् एवंप्रकारं हेतुं परं प्रति वदति तदा तस्यासिद्धिः. यथा नित्यः शब्दः द्रव्यत्वाद् आकाशवद् इति. न हि वैशेषिकाश् शब्दं द्रव्यम् अभ्युपगच्छन्ति गुणत्वाभ्युपगमात्. एवंप्रकार इति. परासिद्धप्रकार इत्य् अर्थः
सन्दिग्धासिद्धम् उदाहरति -- बाष्पादी ति स्याद् अन्तेन. यदा हि धूमो बाष्पादिभावेन सन्दिह्यते द्वाभ्याम् एकेन वा किंस्विद् अयं रजसामुद्गमो बाष्पो वा धूमो वेति तदा द्वयोर् अप्य् अन्यतरस वा सन्दिग्धासिद्धो भवति. एवं तावत् सन्देहविपर्ययाभ्याम् असिद्धतोदाहृता. अज्ञानेन त्व् अप्रसिद्धार्थपदप्रयोगे दर्शयितव्या. त्रिधेति. वादिप्रतिवाद्युभयैस् त्रयः प्रकारा इति. एवं तावत् स्वरूपतो हेतुर् असिद्धो भवतीत्य् उक्तम् इत्य् आह -- एवम् इति
आश्रयासिद्धताप्य् एतैर् एव ज्ञानादिभिर् वादिप्रतिवाद्युभयापेक्षैस् त्रिधा भिद्यत इत्य् आह -- एत एवे ति
ननु स्वरूपासिद्ध्या हेतुर् दुष्येत् आश्रयासिद्ध्या तु कस् तस्य दोषः अत आह -- ज्ञाते ऽपी ति. अयम् अभिप्रायः -- न स्वरूपेण हेतुर् गमकः, अपि तु{3,56}पक्षधर्मतया ज्ञातः. न चाप्रसिद्धाश्रयस् तद्धर्मतया ज्ञातुं शक्यते. शैत्यचाक्षुषत्वयोर् अपि पक्षधर्मत्वासिद्ध्यैवाहेतुत्वम्. सिद्धं हि स्वरूपेण जले शैत्यं रूपरूपिरूपैकार्थसमवायिषु च चाक्षुषत्वम्. शब्दा(दौ) हि पक्षधर्मतया तु तयोर् असिद्धत्वम् इति तद्धर्मरूपाभिप्रायेण स्वरूपासिद्धवचनम्. अत आश्रयासिद्धाव् अपि पक्षधर्मत्वासिद्धेर् अहेतुत्वं युक्तम् एवेति
ताम् इदानीम् आश्रयासिद्धिम् उदाहरति -- सर्वत्रे ति असिद्धा न्तेन. यदा हि बौद्धं प्रति सर्वत्र कार्योपलम्भाद् आत्मनस् सर्वगतत्वं मीमांसकास् साधयन्ति, तदान्यतरासिद्धाश्रयो हेतुर् भवति. बौद्धस्यात्मनो ऽसिद्धेर् इति. यस् तु प्रमाणगतिम् अजानानो लौकिकः कश्चिद् आत्मनि संशेते, तस्मिन्न् एव हेताव् उच्यमाने सन्दिग्धाश्रयो हेतुर् इत्य् आह -- लौकिकादेर् इति. आत्मनि संशय इत्य् अर्थः. आदिशब्देन सतीर्थिकानाम् अपि येषाम् आत्मनि संशयः त उपाद्रियन्ते. एवं संशयविपर्ययाभ्याम् आश्रयासिद्धिर् उक्ता. अज्ञानेनाप्य् आश्रयासिद्धिर् अप्रसिद्धपदप्रयोगे दर्शयितव्या. यस्य हि पक्षवचनश् शब्दो न प्रसिद्धस् तं प्रत्येवंजातीयके हेताव् उच्यमाने ऽज्ञानेनाश्रयासिद्धिर् इति
ननु यद्य् अन्यतरासिद्ध्या हेतुर् दुष्यति, एवं तर्ह्य् अमूर्तत्वाद् आत्मा निष्क्रिय इत्येवमादेर् अपि हेतुत्वं न स्यात् दिगम्बराणाम् आत्मनो ऽमूर्तत्वासिद्धेः. मूर्तं हि ते शरीरपरिणामम् आत्मानं मन्यन्ते. अकर्तृकत्वान् नित्यो वेद इति च बौद्धानां तदसिद्धेर् अहेतुः. शब्दो ऽनित्यः कृतकत्वाद् इति मीमांसकानाम् असिद्धेः. तद् एव हेतुर् नाम न कश्चित् व्यवतिष्ठते. अत आह -- वाङ्मात्रे ति. अयम् अर्थः -- नासिद्धो ममेति वाङ्मात्राद् धेतुर् असिद्धो भवति. तथा सति न कश्चिद् अनुमानव्यवहारः प्रकल्पेत. द्वाभ्यां तु वादिप्रतिवादिभ्याम् असत्त्वेनावधारितो{3,57}सिद्धोभवति, तस्यैव तथाविधस्यासिद्धतावचनं वादिनो दूषणं भवति नासिद्ध इति वाक्प्रवृत्तिमात्राद् इति
ननु किम् इदं द्वयोर् असिद्धो ऽसिद्ध इति, न हि विवदमानयोर् एकत्रार्थे सम्प्रतिपत्तिर् भवति, न हि जन्मसहस्रेणापि बौद्धो वेदानाम् अकर्तृकत्वं मन्यते, मीमांसको वापि कण्ठगतप्राणो ऽपि कृतकतां शब्दस्य. तद् एवमादाव् उभयसम्प्रतिपतेर् अभावान् न हेतुभावो ऽवतिष्ठते. अत आह -- इतरद् इति, अयम् अभिप्रायः -- न द्वयोर् असंप्रतिपत्तिर् इत्य् एतावतैव साधनदूषणयोर् अनवकॢप्तिः. यदि वादिना प्रयुक्ते साधने प्रतिवादिना चासिद्धत्व उद्भाविते वादिना तत्साधनं साध्यते, ततो भवति साधनम्. यदि तु परमार्थोपपत्त्यभिधानेन प्रतिवादिना निराक्रियते ततस् तस्य दूषणं सिध्यति. तत्प्रमाणतस् सिद्धिर् एवात्रोपयुज्यते नोभयाभ्युपगमः. द्वाभ्यां यो ऽसत्त्वतो ज्ञात इत्य् अपि प्रमाणसिद्ध्यभिप्रायेणोक्तम्, नाभ्युपगममात्रापेक्षया. यद् धि प्रमाणेन साध्यते बाध्यते वा तत्र प्रायेणोभयसम्प्रतिपत्तिर् दृष्टेति. असत्त्वतो ज्ञातापेक्षयेतरच्छब्दः. यद् वादिना सत्त्वेन ज्ञातं भवति प्रतिवादिना च वैपरीत्येन, तद्वादिना साध्यमानं साधनं भवति. एतच् च जल्पन्याये स्थित्वोक्तम्. वादे तु द्वयोर् अपि सम्प्रतिपत्तिर् भवत्य् एवेति. न चैवम् अन्यतरासिद्धिर् अदूषणम्, यावत् तु यादी न साधनं साधयति, तावद् अन्यतरासिद्ध्या निगृह्यते, साधिते तु तस्मिन् दूषणं परिहृतं भवतीति
दर्शितं तावदसन्निकृष्टैकदेशशब्दयोर् व्यावर्त्यं, ज्ञातसम्बन्धपदस्येदानीं व्यावर्त्य दर्शयति सन्देहेति वचनान्तेन. सन्देहविपरीतहेत्वोर् हि न संबन्धो ज्ञातो भवति, न हि साधारणस् संशयहेतुः प्रमेयत्वं नित्यत्वेन ज्ञातसम्बन्धम् इति शक्यते वक्तुम्, धटादिष्व् अनित्यतयापि ज्ञातसम्बन्धत्वात् नापि कृतकत्वं नित्यतया, तेष्व् एवानित्यतया सम्बन्धसंवित्तेः. अतस् तज्जातीयम् उभयं न ज्ञातसंबन्धम् इति ज्ञातसंबन्धपदेन व्युदस्यति. अत्र चासन्निकृष्टपदात् प्रभुति प्रातिलोम्येन वार्तिककृता लक्षणग्रन्थे विशेषणोपादानफलम् उक्तम् उ,{3,58} तत् कस्य हेतोः. प्रतीतिक्रमानुसारेण. प्रभाता हि प्रथमं पक्षं प्रत्येति, ततो हेतुम् अपेक्षते, ततो दृष्टान्तवचनम्, अतो ऽसत्पक्षनिराकरणार्थं प्रयुक्तम् असन्निकृष्टपदम् एव तावद् उपवर्णितम्. ततो हेतुपदम् एकदेशदर्शनाद् इति, ततो ज्ञातसम्बन्धस्येति दृष्टान्तवचनम्. दृष्टान्ते हि हेतोस् सम्बन्धो ज्ञायते. अत एव दृष्टान्तदोषा अपि साध्यहेतुविकलत्वादयो ऽनेन निराक्रियन्ते. तद्वैकल्ये ऽपि स्वयं सम्बन्धो ज्ञातुं परस्मै प्रतिपादयितुं शक्यत इति. कियन्तः पुनस् संशयहेतवः, अत आह -- त्रय इति
तान् एव त्रीन् प्रकारान् दर्शयति -- सन्न् इति. साध्यतदभावयोस् सन् साधारणो ऽभिधीयते. यथा प्रमेयत्वं नित्यानित्यत्वयोः. द्वाभ्यां साध्यतदभावाभ्यां व्यावृत्तो ऽसाधारणः क्षितेर् एव गन्धवत्त्वम्. व्यावृत्तं हि तत् सकलसजातीयविजातीयद्रव्यान्तरगुणकर्मभ्यः. द्वौ विरुद्धार्थसम्बन्धाव् इति. यौ विरुद्धाव्यभिचारीति परैर् अभिहितौ, तौ चानन्तरम् एवोदाहार्याव् इति नेह व्याख्यायेते इति
तत्र साधारणं तावदुदाहरणैः प्रपञ्चयति -- प्रमेये ति. एते च धर्मास् साध्यतदभावयोस् साधारणा इत्य् अर्थः
केषु पुनस्साध्येषु तेषां साधारण्यम् अत आह -- नित्ये ति नित्येष्व् अन्तेन. कथं पुनर्वैषम्ये यथासङ्ख्यम् अत आह -- द्विरनित्यते ति. अनित्यता स्वस्थाने द्विः पठितव्या. अतो यथासङ्ख्योपपत्तिः. तद् अयम् अर्थः -- यदा नित्यश् शब्दः प्रमेयत्वाद् इति प्रयुज्यते तदा प्रमेयत्वं साध्यतदभावयोर् दृष्टम् इति साधारणत्वान् नैकान्ताय प्रभवति. अतो नैकान्तिकम् इत्य् उच्यते. अत एव च संशयहेतुः. संशयो हि सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश् च भवति. यथा स्थाणुपुरुषयोर् आरोहपरिणाहसामान्यदर्शनाद्{3,59}भेदकधर्मानवधारणाश् च विशेषस्मृत्यपेक्षः किंस्विद् अयं स्थाणुर् आहोस्वित् पुरुष इत्य् अनवधारणज्ञानात्मकस् संशयो जायते. एवं प्रमेयत्वम् अपि नित्यानित्ययोस् सामान्यं विदितवतस्तद्विशेषणस्मरणापेक्षस् तयोर् एवानिर्धारणात्मकः प्रत्ययस् संशयापरनामा जायत इति प्रमेयत्वं संशयहेतुः. अयं च कृत्स्नोभयव्यापीसंशयहेतुः. तथायत्नोत्थश् शब्दः अनित्यत्वाद् इत्य् अयम् अपि साधारण एव. अयत्नोत्थेषु केषुचिद् विद्युदादिषु गतत्वाद् यत्नोत्थेषु च सर्वेषु घटादिषु वृत्तेः. तद् अयं सकलविपक्षव्यापी सपक्षैकदेशगत इति वेदितव्यम्. तथा यत्नोत्थश् शब्दः अनित्यत्वाद् इति, यत्नोत्थेषु सर्वेष्व् एवानित्यता दृष्टा. तदभावे ऽपि क्वचिन् मेघादौ दृष्टा, न व्योमादौ इति, सकलसपक्षव्यापी विपक्षैकदेशवर्ती चायं साधारण इत्य् अवसातव्यम्. उभयैकदेशगतस् तु यथा नित्यश् शब्दः अमूर्तत्वाद् इति. अमूर्तता हि न सर्वनित्यव्यापिनी व्योमादिषु भावाद् अणुषु चाभावाद् अनित्यम् अपि न सर्वं व्याप्नोति घटकुड्यादिष्व् अभावात् कर्मादिषु भावात्. सर्वत्र चात्र द्वयवृत्तित्वम् एव हेतोस् संशये कारणम् अवृत्त्यंशस् तु सन्न् अपि न कारणम् इत्य् अतन्त्रम्. अत एव साधारणस्य चतुर्धा विभागं वदन्ति ये तेषाम् असाव् अनुपयोग्य् एव साधनदूषणयोर् इत्य् उपेक्षणीयम्, न हि साधनवचनकाले तथाविधं हेतुं परित्यजतो वादिनस् सपक्षविपक्षयोर् अवृत्त्यंशः क्वचिद् उपयुज्यते. अण्वापि हि मात्रया विपक्षे वर्तमानो हेतुर् अत्याज्य एव. दूषणवादिनो ऽपि विपक्षवृत्तिमात्रं वचनीयम् इति किं तदवान्तरविशेषाश्रयणेन. वार्त्तिककारेणापि सर्वसाधारणेषु
द्वयवृत्तित्वम् एव संशयकारणम् इति दर्शयितुम् उदाहरणप्रपञ्चो दर्शितः, न पुनश् चातुर्विध्यम् अभिप्रेत्य. यथाह --
न त्व् एकस्योपयोगो ऽस्ति दूषणोद्भावनं प्रति ।
त्यज्यते साधने चैवं साधारण्याद् विशेषतः ॥ इति
प्रपञ्चितस् साधारणः, असाधारणम् इदानीं संशयहेतुम् उदाहरति -- नित्या भूर् इति. गन्धो हि पृथिव्याः स्वासाधारणो गुणः, न तां विहाय नित्यम् अनित्यं वा भावान्तरम् आश्रयतीत्य् असाधारण इति गीयते.{3,60} आह -- अस्त्व् असाधारणं गन्धवत्त्वं, कथं तु संशयहेतुः, युक्तं हि पक्षद्वयाव् अलम्बी साधारणो द्वयोर् अनवस्थाधियम् आदधानो यत्संशयहेतुर् इति, असाधारणस् तु द्वाभ्यां व्यावृत्तो नैकत्रापि धियम् उपजनयितुम् अलम् इति कथम् अस्य संशयहेतुभावः, अत आह -- निश्चये ति. हेतोर् हि निश्चयजनने ऽन्ययव्यतिरेकाव् अङ्गम् अन्यतरापीये ऽपि न निश्चयाय हेतुः पर्याप्तो भवति. तद् यथा साधारणो ऽन्वयसनाथो ऽपि विनाकृतो व्यतिरेकेण न निश्चयाय प्रभवति, एवम् एवासाधरणो ऽपि निश्चयस्यैकेनान्वयनाम्नाङ्गेन विकलस् तम् अकुर्वन् संशयहेतुतां प्रतिपद्यत इति
ननूक्तं साधारणो द्वयगामी द्वये बुद्धिं जनयन् संशयए हेतुर् इति. असाधारणस् तु न किञ्चिद् ज्ञापयतीति नासाव् एकाङ्गविकलतामात्रेण संशयहेतुर् इति युक्तम् अत आह -- साधारण इति द्वयेन. अयम् अभिप्रायः -- साधारणो ऽपि नोभयत्र बुद्धिजननात् संशयहेतुः, किन् तु विरुद्धोभयप्रतिपादनमुखेन, विरुद्धे ह्य् उभयस्मिन् प्रतिपादिते तयोर् एकत्र समवायासम्भवाद् व्याघाताद् एव संशयो भवति. तच् चासाधारणे ऽप्य् अविशिष्टम्, असाधारणो ऽपि ह्य् उभयस्माद् व्यावृत्तेस् तदभावं गमयन् द्वयाभावासम्भवाद् एव संशयं जनयति. न हि सम्भवति नित्यम् अनित्यं च वस्तु न भवतीति, धर्मद्वन्द्वैर् एव हि नित्यानित्यत्वादिभिस् सर्वं जगदवस्थितम्. अत उभयाभावो विरुध्यते. न चोभयभावः, विरोधाद् एव. नचान्यतरपरिग्रहो ऽविशेषात्. तम् इमं सङ्कटम् आसाद्य प्रामाणिकस् संशेते. अयं चात्रावयवार्थः -- यथा प्रमेयत्वादिस् साधारणो दृष्टस् सन् बुद्धिद्वयनिमित्तकः. बुद्धिद्वयं संशये निमित्तम् अस्थास्तीति बहुव्रीहिः, निमित्तशब्देन च बुद्धिद्वयस्य निमित्तमात्रतां कथयति. साध्यतदभावविषयं हि बुद्धिद्वयं निमित्तीकृत्य विरुद्धैकानवाप्तेर् एव साधारणेन संशयो जन्यते. न हि परस्परविरुद्धाभ्यां नित्यानित्यत्वाभ्याम् एकश् शब्दो व्याध्यते, धर्मिभेदनिबन्धनौ{3,61}हि विरुद्धधर्माध्यासो दृष्टः. यथा नित्यं व्योम अनित्यं कार्यद्रव्यम् इति. अतो ऽस्मात् प्रतीति???आताद् एव साधारणेन संशयो जन्यते. स चायम् असाधारणस्यापि समानः. सो ऽपि हि यत्र नित्ये ऽनित्ये वा नास्ति तदभावं प्रतिपाद्य तन्मुखेन द्वयसत्त्वविरोधम् आपादयन् संशयकारणं भवतीति. इदं चासाधारणस्य संशयहेतुत्वं नानुमन्यन्ते. अव्यवस्थया ह्य् उभयस्मिन् मनसि विपरिवर्तमाने संशयो भवति. न चासाधारणेन किञ्चिद् बुद्धावाधीयते, तस्य केनचिद् अन्वयाभावात्. अपि च परिमितेष्व् एव भावेषु संशयो दृष्टः. निवृत्तिमुखेन तु संशयजनने सर्वतो निवृत्तेनासाधारणेन सर्वतोमुखस् संशयो जन्येत. न च सर्वविषयः संशयो दृष्टचरः. तस्य बुद्धाव् अनारोहात्. न च क्वचिन् निवृत्तिमात्रेण सर्वत्राभावश् शक्यते ऽवगन्तुम्, यन्मुखेन संशयो भवेत्. न ह्य् अनुवृत्ताव् अदृष्टायां व्यावृत्तिस् सिध्यति. अग्नाव् अनुवर्तमानो
हि धूमो दृष्टव्यतिरेको ऽग्निनियतस्वभावत्वेनावगतो ऽर्थाद् अदृश्यमानेभ्यो ऽनग्निभ्यो व्यतिरिच्यत इत्य् अवगम्यते. यस् तु न केनचिद् अन्वितस् तस्य कथम् अनुपलब्धियोग्यात् सर्वतो व्यतिरेकः प्रतीयेत. ततो नानेन प्रकारेणासाधारणस्य संशयहेतुत्वम्. यदि त्व् असाधारणधर्माणो भावा नित्यानित्यभावभाजो दृष्टा इति क्षितिम् अपि तद्धर्मिकाम् उपलभ्य नित्या वा स्याद् अनित्या वेति संशयो भवतीत्य् उच्यते. एवं तर्ह्य् असाधारणधर्मत्वाद् एव बहुसाधारणात् संशयो नासाधारणात्, अन्यो ह्य् असाधरणधर्मः अन्यथा च बहुसाधारणी तद्वत्ता. तद् यद्य् असौ संशयकारणं जाता किं जातम् असाधारणस्य. हन्तैवं साधारण एव संशयहेतुर् अभ्युपगतो भवतीति सिद्धम्. नासाधारणस्य संशयहेतुत्वम्. अन्यन् मतम् -- अनध्यवसायहेतुर् एवायम् इति. अस्ति किलानध्यवसायो नाम ज्ञानस्य प्रकारः. सो ऽनेन जन्यते. भवति हि तादृग्धर्मदृशः किम्भूतस्यास्य धर्मो ऽयम् इत्य् अनध्यवसिताव् अभासप्रत्ययः. न चैव प्रमाणम्, अनिश्चयात्मकत्वात्. न च संशयः पक्षद्वयासंस्पर्शात्. सो ऽयम् एवंविधान् अध्यवसायो ऽसाधारणेन जन्यत इति. न त्व् एतद् घटते. न ह्य् अनध्यवसायो नाम कश्चिद् ज्ञानस्य प्रकारः, यम् अयं जनयेत्. अध्यवसायाभावो ऽनध्यवसायः. स च प्रागभावरूपत्वान् न जन्यः. अथान्यमात्रवचनो नञ् अग्राह्यणादिवद् इष्यते ततो ऽध्यवसायाद् अन्यस् संशय{3,62}एव तच्छब्दवाच्यो भवेत्. न च तद्धेतुर् असाधारण इति फणितम् एव. अथाधर्मादिवद् विपरीतवचनो नञ्, एवं सति विपर्ययवाच्यो ऽनध्यवसायशब्दो भवेत्, न च विपरीतावग्रहो ऽसाधारणेन जन्यत इति. यदि तु न मे ऽस्मिन् वस्तुन्य् अध्यवसायो ऽस्तीत्य् अध्यवसायाभावावधारणम् एवानध्यवसायः, स तर्हि प्रमाणाभावेनैवाध्यवसायाभावो ऽवगम्यते. तत्र हेतोर् न व्यापारः. अतो जिज्ञासामात्रहेतुर् असाधारण इति समर्थनीयम्. भवति हि तद्दर्शिनः कीदृग्धर्मो ऽयम् इतो धर्माद् भावो भवेद् इति जिज्ञासा. यद्य् अपि चासौशुद्धधर्मिदर्शनाद् अपि कदाचिद् भवत्य् एव तथापि धर्मद्वारेणापि तावद् भवत्य् एवेति न तद्धेतुत्वम् अनुपपन्नम्. आह च --
तेनाज्ञानम् असिद्धेभ्यो जिज्ञासानन्यगामिनः ।
सामान्यात् संशयो युक्तस् तथा स प्रतिसाधनात् ॥ इति.
यत् त्व् इहासाधारणस्य संशयहेतुत्वम् उक्तं तत्परमतम्. ज्ञातसम्बन्धपदस्य हि व्यावर्तनीयम् अत्र दर्शयितुम् अभिप्रेतम्, तत् संशयहेतुत्वे ऽप्य् असाधारणस्य घटत एव. भवतु तावद् अयं यस्य कस्यचिद् धेतुः. सर्वथा ज्ञातसम्बन्धपदेन व्युदस्यत इति तात्पर्यम्. शाक्यास् तु संशयहेतुम् असाधारणं मन्यन्ते, उदाहरन्ति च शब्दानित्यत्वे साध्ये श्रावणत्वम्. यथोक्तम् --
अनैकान्तिकम् एवैनं शाक्याः प्रायेण मन्वते ।
उभयस्मान् निवृत्तत्वाद् उभयत्रानुवृत्तिवत् ॥
इति. इदं च वार्त्तिककृतैव प्रदेशान्तरे स्वयम् उपन्यस्य यथोक्तदूषणैर् दूषितम् एवेति
किं पुनरुदाहृतानां स्वाभाविकम् एव संशयहेतुत्वं नेत्य् आह -- सन्दिग्धे ति
कारणम् आह -- निर्णयस्ये ति लब्ध्वा न्तेन. क्व द्र्ष्टम् अत आह -- निष्क्रिये ति. अमूर्तता हि नित्यत्वे साध्ये नित्यानित्यव्योमकर्मसाधारणी संशयहेतुर् आसीत्, सैव तु निष्क्रियत्वे साध्ये लब्ध्वान्वयव्यतिरेकौ हेतुतां{3,63}प्रतिपद्यते. व्याप्तं ह्य् अमूर्तत्वं निष्क्रियत्वेन. न ह्य् अमूर्तं गगनम् आत्मा वा परिस्पन्दते. न चैवं तद्वतां रथादीनाम् अमूर्तत्वं दृष्टम् इति
असाधारणस्य निर्णये हेतुत्वं दर्शयति -- क्षित्येकदेशे ति. गन्धविशेषदर्शिनो हि विदितव्याप्तेः क्षित्येकदेशसिद्धत्वे भवत्यानुमानिको निर्णय इति
द्वौ विरुद्धार्थसम्बन्धाव् एकत्रैकदेशिनि संशये हेतुर् इत्य् उक्तम्. तत्रोदाहरणम् आह -- यत्रे ति. यत्र हि न साक्षात्कारिज्ञानविषयो वायुः अरूपत्वाद् इत्य् एकस् साधयति. अपरो ऽपि स्पर्शात् तद्विपर्ययम्. तत्रासौ विरुद्धाव्यभिचारिता भवतीति शाक्यैर् अभिहितम्. तत्र तुल्यबलोभयहेतुसन्निपातात् संशयः. द्वयोर् अपि साधनयोः प्रसिद्धावयवत्वाविशेषात्. अरूपं ह्य् अरूपिसमवेतम् अप्रत्यक्षम् इति काणादा मन्यन्ते. तथा च वायुः. अतो न प्रत्यक्षः. कर्मस्वरूपम् अपि रूपैकार्थसमवायाच् चाक्षुषम् आचक्षते. एवं स्पर्शो ऽपि वायोः प्रसिद्ध एव. प्रसिद्धव्याप्तिकश् चापरोक्षत्वेन. अतस् तुल्यबलत्वम्. ततश् च संशयः, विरुद्धयोर् एकत्रोपानपातासम्भवात्, समुच्चयानुपपत्तेः, सिद्धे च वस्तुनि विकल्पासम्भवात् बाध्यबाधकम् आवस्यापि तुल्यकक्ष्यत्वात्. अतो ऽनवस्थयोभयस्मिन् परिप्लवमाने भवति संशयः. तादात्म्यात्. तस्य बलाबलविशेषे त्व् अनुमानविरोधो वर्णित एव. यथा सर्वज्ञो ऽस्तीति बुद्धवचनं सम्यक् तदुक्तत्वाद् क्षणभङ्गादिवाक्यवद् इत्य् एकेनोक्ते ऽपरः प्रब्रवीति बुद्धो ऽसर्वज्ञ इति मद्वचनं सम्यक् मदुक्तत्वात् यथा ज्योतिर् उष्ण?आपो द्रवा इति. अत्र मदुक्तत्वम् उभयोर् अपि सिद्धम्. बुद्धोक्तता तु न नः प्रसिद्धा, अतो ऽप्रसिद्धाङ्गकत्वात् पूर्वं साधनं बलवता प्रसिद्धाङ्गकेन बाध्यते. यत् तु विरुद्धाव्यभिचारीति द्वयोर् एकवचनान्तम् अभिधानं त???????न्यामहे. विरुद्धाव्यभिचारी संशये हेतुर् इति शाक्या वदन्ति. न??कस्य संशयहेतुत्वम् अन्यतरपरिच्छेदात्. न च समुदायाभिप्रायम् एकवचनम्. तस्य विरुद्धत्वाव्यभिचारिपदानास् पदत्वात्. स ह्य् अंशाभ्यां व्यभिचार्य् एव. द्वौ तु विरुद्धाव्यभिचारिणाव् इति वक्तव्यम्. न त्व् एकवचनेन. यदि प्रतिहेतु{3,64}विरुद्धम् अर्थम् एकैको न व्यभिचरतीति विरुद्धाव्यभिचारीत्य् उच्यते. तद् अस्तु. न त्व् एकः संशये हेतुर् इत्य् उक्तम्. अत एव वार्तिककारेण द्वौ विरुद्धार्थसम्बन्धौ संशयहेतू इति द्विवचनान्तेनैव नाम्नां संशयहेतुभावो दर्शितः. इहापि विरुद्धाव्यभिचारितेत्य् एतावद् एवोक्तम्. न तु विरुद्धाव्यभिचारी संशयहेतुर् इति. तद् अत्र योग्यतयानयोर् विरुद्धाव्यभिचारितेति व्याख्येयम्. द्वौ विरुद्धाव्यभिचारिणाव् इति यावद् इति
इमां च विरुद्धाव्यभिचारितां संशयहेतुं साधारणासाधारणाभ्यां जात्यन्तरम् एके वर्णयन्ति. अपरे पुनस् समुदायस्यांशाभ्यां साधारणपक्षनिक्षेपम्. अन्ये तु समस्तम् इदं मिलितम् उभयं नैकत्राप्य् अनुगतम् इत्य् अनन्वयम् असाधारणम् एवास्थिषत इत्य् आह -- केचिद् इति. अत्र च प्रदेशान्तरे वार्तिककृता साधारण्य एवास्था दर्शिता. यदाह --
साधारण्यान् न नैतस्य भेदः कश्चन विद्यते ।
अंशाभ्यां समुदायो हि साधारणपदे स्थितः ॥
इति. न च वाच्यं द्वयस्यानन्वयाद् असाधारण एवायम् इति. यदि ह्य् एकेन द्वयं प्रयुज्येत ततो भवेद् अप्य् एवं, प्रत्येकम् अन्वितौ दृष्टौ द्वाभ्यां प्रयुक्तौ नानन्विताव् इति शक्यते वक्तुम्. अपि चासाधारणत्वे संशयहेतुभावो नोपपद्येतं. तस्य निराकृतपूर्वत्वात्. अतस् साधारण एवायम् इति. वयं तु जात्यन्तरम् एव साधीयो मन्यामहे. यथा हि न द्वयम् एकेन प्रयुक्तम् इति नासाधारणत्वम्. एवं साधारणत्वम् अपि न स्याद् एव. किं खल्व् अत्र साधारणम्. एकैकस्यैकैकेन व्याप्तस्यैकैकेन प्रयोगात्, अंशतस् साधारणस्य च समुदायस्याप्रयोगात्. अत एव चात्र साधारणाद् भेदेन प्रतिहेतु विरुद्धयोस् संशयहेतुत्वम् उक्तम्. इतरथा तेनैव गतत्वान् न पृथगुपादीयेत. संशयजननप्रकारो ऽपि चात्र भिद्यत एव. साधारणो ह्य् उभयदृष्टस् तु प्रतीतिमादधानस् संशयहेतुर् इमौ त्व् एकैकश्येनोभयम् उपस्थापयन्तौ संशयहेतू इति वार्तिककारेणापि साधारणपदे स्थित इत्य् उक्तम्, न साधारण एवेति
{3,65} कथं पुनर् एवंजातीयके विषये निर्णयः, अत आह -- प्रतिज्ञे ति निर्णया न्तेन. पक्षबाधोक्तैः प्रत्यक्षादिभिः प्रमाणैर् यस्य साधनवाक्यावयवप्रतिज्ञा बाध्यते तत्पराजयेनेतरस्य निर्णयः कार्यः. यथेहैव तावत् उदाहरणे त्वगिन्द्रियव्यापारेण वायावपरोक्षम् अनुभूयमाने तेनैवानुभवेन परोक्षतापक्षो बाध्यते. न हि नस् त्वगिन्द्रियभुवस्तोयप्रत्यक्षाद् वायुप्रत्यक्षं विशिष्यते. न हीहानधिष्ठानं स्पर्शमात्रम् अनुभूयते. अपि तु तदधिकरणं द्रव्यम् अपि. न हि प्रबलेन मरुताभिहन्यमानस्य जलं वा श्लिष्यतस् संविद् विशिष्यते. अतो ऽक्षसम्बन्धफलानुसारात् प्रत्यक्षो वायुर् इति निश्चीयते. क्वचिच् चागमेन विषयापहारो भवति. यथा शुचि नरशिरःकपालं, प्राण्यङ्गत्वात्, शङ्खशुक्तिशकलवद् इति पाशुपतेनोक्ते ऽन्यो ऽशुचीति साधयति, प्राण्युद्भूतत्वाद् उच्चारादिवद् इति. तत्र पूर्वप्रतिज्ञाया आगमेन विषयापहाराद् उत्तरेणार्थनिर्णयो भवति. शुचीतरविवेके ह्य् आगम एव शरणम्. तस्मिन् परिपन्थिनि न शुचित्वानुमानम् आत्मानं लभते. स्मरन्ति हि --
नारं स्पृष्ट्वास्थि सस्नेहं सवासा जलम् आविशेत् ।
इति. रुद्रो हि महाव्रतं चचार स एतच्छवशीर्षम् उपदधारेति त्व् अर्थवादमात्रं न शवशिरोधारणविधिः. अत्र च प्रत्यक्षादीन्य् एव यथास्वम् अर्थं साधयन्तीति साधनपदेनोच्यन्त इति. कथं पुनः प्रत्यक्षादीन्य् एव प्रतिज्ञाबाधनायोत्सहन्ते. तेष्व् अपि सामान्यतो दर्शनेन बाधस्य शङ्क्यमानत्वाद् अत आह -- बाधवर्जनाद् इति. न तावत् तेषु बाधो दृश्यते, कदाचिद् बाधसम्भावना तु न तेषां प्रामाण्यम् उत्सारयतीति
अत्र भिक्षुणा पक्षधर्मस् तदंशेन व्याप्तो हेतुर् इत्य् एकवचनेन विवक्षितैकसङ्ख्य एक एव हेतुर् इति दर्शितम्. अत एव विरुद्धाव्यभिचारिणोर् न हेतुत्वम् अनेकत्वात् तयोर् इति. न चैतत् घटते. न हि प्रतिहेतु{3,66}विरुद्धयोर् अनेकत्वं संशयहेतुत्वे हेतुः, अपि तर्हि परस्परविरुद्धार्थोपप्लावकत्वम् एव. विरुद्धौ हि द्वाभ्यां द्वाव् अर्थाव् एकत्रोपप्लाविताव् इति तत्र संशेरते, न तु हेत्वनेकत्वात्. संशयहेत्वोर् अपि प्रत्येकम् अवगतयोर् उभयसमावेशाद् एव क्वचिन् निर्णयो दृष्टः. यथा ऊर्ध्वताकाकवत्त्वयोः. केवला ह्य् ऊर्ध्वता स्थाणुपुरुषसाधारणी नान्यतरनिर्णयाय प्रभवति. काकनिलयनसहकृता तु सैव स्थाणुर् अयम् इति निश्चाययति. तद् अत्रैकस्यैव संशयहेतुत्वं द्वाभ्याम् एव तु निर्णय इत्य् अप्रयोजकं संशयहेतुत्वे द्वित्वं, विरुद्धानेकसाध्यत्वम् एव संशयहेतुः. यथा खल्व् एक एव साधारणस् सपक्षविपक्षयोर् वर्तमानस् संशयहेतुर् भवति. एवं विरुद्धार्थस्यापि हेतुद्वयस्यांशाभ्याम् उभयवृत्तिर् एव संशये कारणम् इति न तद्द्वित्वेन हेतुत्वनिराकरणं युक्तम् इत्य् आह -- क्वचिद् इति. ननु युक्तं तावदूर्ध्वतया स्थाणुपुरुषसन्देहो भवतीति, काकवत्तामात्रेण न संशयो दृष्टपूर्वः. सत्यम्. यस् तु काकवत्तामात्रेण स्थाणुं सिषाधयिषति तस्यासौ केवला संशयहेतुः, ऊर्ध्वतासनाथा तु निर्णायिकेत्य् एतावद् एव विवक्षितम् इत्य् अदोष इति. अपि च अविरोधिनोः प्रत्येकं संहतयोर् अपि क्वचिद् अर्थे साध्ये हेतुभावो दृश्यते. यथैकस्मिन्न् एव शाब्दस्य ज्ञानस्यानुमानत्वे न्वयव्यतिरेकजत्वप्रत्यक्षान्यप्रमाणत्वयोः, शक्यते हि ताभ्याम् ऐकैकश्येन समस्ताभ्यां चानुमानत्वं साधयितुम्. द्वित्वे च हेत्वाभासत्वकारणे नैकस्मिन् साध्ये ऽनेकहेतवः प्रयुज्येरन्. प्रयोक्तारस् त्व् एकम् एव साध्यं किञ्चान्यद् इतश् चेति नानासाधनैस् साधयन्तो दृश्यन्ते. तस्माद् विरोधनिबन्धन एव संशयः, न तु नानात्वनिबन्धन इत्य् अभिप्रायेणाह -- प्रत्येकम् इति. पूर्वं तु प्रत्येकं संशयहेत्वोर् एव मिलितयोर् निर्णयहेतुत्वम् उक्तम्. अत्र तु प्रत्येकं गमकाव् अपि संहतौ च गमकाव् इति प्रतिपादितम् इति
तस्माद् विरुद्धार्थाव् एव भिन्नौ संशयहेतुत्वेन दर्शनीयौ. यथास्माभिर् उक्तं न तु भिन्नतामात्रेणेत्य् आह -- तस्माद् इति. व्याख्यातस्त्रिप्रकारो{3,67}पि संशयहेतुः विपरीतप्रकारान् प्रतिजानाति - षढा विरुद्धताम् आहुर् इति. धर्मधर्मिस्वरूपस्वविशेषोभयस्वरूपस्वविशेषैः षट्प्रकारां विरुद्धताम् एके ब्रुवत इत्य् अर्थः. अन्ये तूभयविरोधयोः प्रत्येकपक्षानतिरेकात् चातुर्विध्यं प्रतिपन्ना इत्य् आह -- चतुर्धा वे ति. वयं तु इष्टविघातमात्रेणैकम् एव प्रकारं सङ्गिरामह इत्य् आह -- एकधापि वेति. पूर्वोक्तपक्षद्वयनिवृत्ताव् अपि वाशब्दः. अपि वा शेषभाजां स्याद् इति पक्षबाध एव विरुद्धत्वे कारणं किम् अवान्तरभेदोपन्यासेनेति. त्रिष्व् अपि च प्रकारेषु श्रुत्यर्थोपात्तस्य प्रतिज्ञातार्थस्य बाधायां विरुद्धताम् आहुर् इत्य् आह -- श्रुत्यर्थोक्तस्ये ति. धर्मधर्म्युभयस्वरूपं श्रुत्युक्तं, तद्विशेषास् तु प्रायेणार्थोक्ताः. ते च स्वरूपस्वविशेषाः प्रतिज्ञार्थशब्देनोपादीयन्ते. सर्वे हि ते वक्तुर् अभिप्रेताः. न तु धर्मादिविशेषास् साक्षात् प्रतिज्ञायाम् अन्तर्गताः. तद् अस्मिन् प्रतिज्ञार्थे हेतुना बाध्यमाने हेतोर् विरुद्धता भवतीति. तत्पुनर् इदं विप्रतिषिद्धम् इव मन्यामहे. कथं हि प्रतिज्ञार्थे हेतुना बाध्यमाने हेतुर् विरुद्धो भवति. स हि प्रतिज्ञार्थं विरुणद्धीति विरोद्धेति वक्तुम् उचितः, बाधक इति वा. न चायम् एव प्रतिज्ञार्थेन बाध्यते यद्विरुद्धो भवेत् प्रसिद्धत्वादस्य. प्रसिद्धं हि घटस्य कृतकत्वं, न तदप्रसिद्धया नित्यतया बाधितुं शक्यम्. अतो बाधक इत्य् एवायं वक्तव्यः. वार्तिककृता तु परप्रसिद्धिमात्रेण विरुद्ध इत्य् उक्तम् इति वेदितव्यम् इति. तत्र धर्मस्वरूपबाधेन तावद् विरुद्धताम् उदाहरति -- नित्यत्वे इति
धर्मविशेषबाधस् त्व् एवं प्रयुक्ते भवतीत्य् आह -- बाध इति. तम् एव प्रयोगं दर्शयति -- अर्थवद् इति पादत्रयेण. स्वरूपाभिधानवादिनो ह्य् आहुः -- गौर् अयम् इति शब्दाकारविशिष्टो ऽर्थो ऽवगम्यते. न च विशेषणम् अनभिधाय विशिष्टो ऽभिधातुं शक्यत इति स्वरूपम् एव तावद् आदौ शब्दो{3,68}भिधत्ते ततो विशिष्टम्. अपि चार्थशब्दो व्यभिचरति, अज्ञातसम्बन्धस्य तदनवगतेः. स्वरूपं तु न कदाचिद् व्यभिचरति सम्बन्धावधारणात् प्राग् अपि तदवगमात्, अव्यभिचारी च शब्दार्थ इति युक्तम्. अतः स्वरूपं तावदवश्याभिधेयं शब्दानां, तदभिधानोत्तरकालं तु विशिष्टाभिधानम् अपि भवतु नामेति. एवं प्रसाध्यान्ते प्रयोगम् आहुः -- शब्दस्वरूपं सम्बन्धावधारणात् प्रागर्थवद् विभक्तिसम्बन्धात्, अगृहीतसम्बन्धो ऽपि हि स्वादिविभक्तियुक्तान् शब्दानवगच्छति. यदा च विभक्तियोगः तदार्थवत्त्वं दृष्टं यथा सम्बन्धग्रहणात् पश्चाद् इति. कथं पुनर् एवं प्रयुज्यमाने धर्मविशेषबाधो भवत्य् अत आह -- स्वरूपेणेति चाश्रित इति. यदा हि स्वरूपेणार्थेनार्थवत्त्वं प्रथमम् आश्रित्यार्थवत्तामात्रविशिष्टं साध्यते, तदार्थाद् इदम् अवगम्यते -- स्वरूपार्थवत्त्वम् अस्य सिषाधयिषितम् इति. एवं च भवत्य् अर्थाक्षिप्तस्य धर्मविशेषस्य बाध इति. कथं पुनस् स्वरूपेणेति चाश्रिते धर्मविशेषो बाध्यते. अत आह -- अस्वरूपे ति. विभक्तिमत्त्वं हि स्वरूपातिरेकेणार्थान्तरेणार्थवत्त्वम् अविनाभावबलेन शब्दस्यावगमयति, सम्बन्धग्रहणात् पश्चाद् अर्थान्तरस्य दर्शनात्. अतो व्याप्तिबलेन तद् एव विभक्तिमत्तया साध्यते. अतो ऽर्थवत्ताया विशेषं स्वस्वरूपार्थवत्त्वं हेतुर् अयं विरुणद्धीति भवति धर्मविशेषबाध इति
धर्मिस्वरूपबाधोदाहरणम् आह -- इहप्रत्यये ति. यदा हि समवायं धर्मिणं कृत्वा तस्य द्रव्यादिव्यतिरेकस् साध्यते, इहप्रत्ययहेतुत्वं च हेतुर् उच्यते इहायं घट इति संयोगो दृष्टान्तः, तदा धर्मिस्वरूपबाध इत्य् अभिप्रायः
{3,69} कथं पुनर् अत्रोदाहरणे धर्मिस्वरूपबाधः, अत आह -- अत्रापी ति. अत्राप्य् उदाहरणे धर्मिस्वरूपस्य समवायात्मनो वैपरीत्यापादनाद् धेतोर् विरुद्धता भावति. इहप्रत्ययहेतुत्वं ह्य् असमवायात्मन एव दृष्टम् इति ताद्रूप्यं विरुन्ध्याद् इति धर्मिस्वरूपबाध इति
अस्मिन्न् एव च धर्मिविशेषबाधो ऽपि दर्शयितव्य इत्य् आह -- यच् चे ति. समवायो हि सत्तासामान्यवदेकरूप इति काणादा मन्यन्ते. सो ऽप्य् अस्य विशेषः संयोगवद्भेदापत्तेर् बाध्यत इति भवति धर्मिविशेषविरुद्धो हेतुर् इति
उभयस्वरूपबाधायाम् उदाहरणम् आह -- नित्यम् आत्मास्तिते ति. यदा कश्चित् सौत्रान्तिकं प्रत्येवं साधयति -- आत्मा नित्यः निरवयत्वात् व्योमवद् इति, तदा धर्मधर्मिद्वयस्य बाधनं भवति. सौत्रान्तिकस्य ह्य् अवयवाभावो व्योम्न्यभावेनैव सम्बद्धो ऽभिमत इत्यात्मनो ऽपि तद्वदभावं गमयेत्, आवरणाभावमात्रं हि नभः, न पुनस् तत्त्वान्तरम् इति बौद्धा मन्यन्ते. अतो ऽनवयवत्वाद् आत्मनः स्वरूपस्य तद्धर्मस्य च नित्यत्वस्य बाधाद् उभयबाध इति
उभयविशेषबाधस् त्व् एवं साध्यमाने भवतीत्य् आह -- तदे ति. यदा हि परार्थाश् चक्षुरादयस् सङ्घातत्वात् शयनादिवद् इति साध्यते, तदोभयविशेषबाध इत्य् अर्थः. कथं पुनर् अत्रोभयविशेषबाधः, अत आह -- शयन इति. शयनीये{3,70}हि खट्वादौ महाभूतसंहतशरीरपारार्थ्येन सङ्घातत्वाद् इति हेतुर् व्याप्तो दृष्ट इति संहतपारार्थ्यम् एव साधयेत्. आत्मानं च प्रति पारार्थ्यं साधयितुम् अभिमतम्, तन् न सिध्येत्. सो ऽयं तावत् पारार्थ्यस्य धर्मस्य यो विशेषो ऽभिमत आत्मपारार्थ्यं स तावद् बाध्यते. चक्षुरादेर् अपि धर्मिणो यो विशेष आहङ्कारिकत्वं नाम सो ऽप्य् अनेनैव हेतुना बाध्यते. संहतात्मकत्वं हि शयनादावनाहङ्कारिकत्वेन व्याप्तं दृष्टम्, भौतिका हि ते, अतस् तन्निदर्शनेन चक्षुरादयो ऽपि भौतिका भवेयुः. आहङ्कारिकाणीन्द्रियाणीति कापिलास् सङ्गिरन्ते, तेषां चायं प्रयोगः. तद् अयम् अर्थः -- संहतपारार्थ्यभौतिकत्वाभ्यां व्याप्तो हेतुर् यस्मिन् शयने तत्रात्मपारार्थ्यम् असिद्धम् इति धर्मविशेषबाधनं तावद् भवति. धर्मिविशेषबाधो ऽपि भौतिकव्याप्त्या सूत्रितो ऽनन्तरम् एव विवरिष्यत इति न केवलम् आत्मपारार्थ्यं न सिध्यति, असंहतरूपात्मपारार्थ्ये चेष्टे व्याप्तिबलेनात्मनो ऽपि संहतता प्राप्नोतीत्य् आह -- असंहते ति. अनेन चानिष्टान्तरापत्तिर् आपादितेति वेदितव्यम्. एतद् उक्तं भवति. नानेन हेतुनासंहतरूपात्मार्थता सिध्यति. प्रत्युत संहततैवात्मनो भवेद् इति
धर्मिविशेषबाधं विवृणोति -- अनाहङ्कारिकत्वम् इति. व्याख्यातचरं चेदम्
एवं तावद् ज्ञातसम्बन्धपदव्यावर्तनीयो विरुद्धः प्रपञ्चितः. इदानीं तद्व्यावर्त्या एव दृष्टान्ताभासा दर्शयितव्याः. तैर् हि नानुमानाङ्गसम्बन्धो ज्ञापयितुं शक्यते. अतस् ते ऽपि ज्ञातसम्बन्धपदेनैव व्यावर्त्यन्ते. इदं चास्माभिः प्राग् एवोक्तम्. अन्यत्राप्य् आह --
ज्ञातसम्बन्धवाचा च त्रयो ऽत्रानियतादयः ।
हेतुदृष्टान्तयोर् दोषा भाष्यकारेण वारिताः ॥
{3,71}इति. अतस् तन्निराकरणार्थं दृष्टान्तवचनम् एव तावद् अवतारयति -- गमकस्ये ति. व्याप्तिप्रदर्शनाय द्विविधो दृष्टान्तस् तावद् साधनवाक्ये दर्शयितव्यः. साध्यः पक्षः तत्साधर्म्यवैधर्म्याभ्यां यो दृष्टान्तः स प्रतिपाद्यत इत्य् अर्थः
तत्र साधर्य्यदृष्टान्तप्रकारम् आह -- तत्रे ति. अस्यार्थः -- उदाहरणसाधर्म्याल् लिङ्गस्य प्रसाधकत्ववचनं हेतुः. यदाहुः --
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः ।
इति. साध्यस्य प्रज्ञापनवचनम् इति यावत्. तस्य चार्थो लिङ्गम् एव. तच् चोद्दिश्य साध्योपादानं साधर्म्यदृष्टान्त इष्यते. यो यो धूमवान् स सो ऽग्निमान् इति यावद् इति. किम् एवम् उपादीयमाने सिध्यत्य् अत आह -- उद्देश्य इति. उक्तं व्याप्तिप्रदर्शनाय दृष्टान्तवचनम् इति. एवं चोपादीयमान उद्देश्यो धूमादिर् व्याप्यतया कथितो भवति. इतरश् चोपादेयो ऽग्न्यादिर् व्यापकतयेति व्याप्त्यानुगुण्यात् सफलम् एवम् उपादानम् इत्य् उद्देश्योपादेययोर् व्याप्यव्यापकत्वं भवतीत्य् उक्तम्
कीदृशं तु तयोस् स्वरूपम् अत आह -- यद्वृत्ते ति. यद्वृत्ततद्वृत्ताभ्यां यत्तत्परिनिष्पन्नानां यो य इत्यादिशब्दानाम् उपादानम्, तद् अयम् अर्थो भवति. यद्यद् यद्वृत्तेन संयुक्तं प्रथमं प्रयुज्यते प्रधानं च तदुद्देश्यं, तत्तद्वृत्तयुक्तं च पश्चात् प्रयुज्यमानं स सो ऽग्निमानेवेति चैवकारेण युक्तं तदुपादेयम्. सर्वेष्व् एव च ग्रहव्रीह्यादिसम्मार्गावघातादिषूद्देश्योपादेयेष्व् अयम् एव विवेक इति वेदितव्यम् इति
{3,72} किं पुनर् एवं प्रयोगनियमे प्रयोजनम्, विवक्षापरतन्त्रा हि शब्दाः, ते यथा तथा वा प्रयुक्ता यथाभिप्रायं वर्तिष्यन्त एव. अत आह -- वदती ति. न वक्त्रभिप्रायपरतन्त्राः शब्दाः, स्वाभाविक्यैव तु शक्त्या केचिद् एव क्वचिद् एवार्थे वर्तन्ते, अतो न विवक्षानुसारेणेष्टसिद्धिर् भवतीति वाच्य एव दृष्टान्तवचनविन्यासप्रकार इति
यदि तर्हि स्वतन्त्राश् शब्दाः अतथास्थिते ऽप्य् अर्थे शब्दानुसारिणीष्टसिद्धिर् भवेद् अत आह -- साध्यहेतुत्वम् इति. अयम् अभिप्रायः -- नार्थशक्तिश् शब्दशक्तिम् अनुरुध्य प्रवर्तते, न च शब्दशक्तिर् अर्थशक्तिम्, अतो न यथा वक्त्रभिप्रेतार्थानुसारिणी शब्दशक्तिः, एवं न शब्दानुसारिण्यर्थव्यवस्थेति, अर्थादीनां कृतकत्वानित्यत्वादीनां व्याप्तिशक्त्यनुरोधाद् एव साध्यहेतुभावो भवति न शब्दानुरोधाद् इति
वक्त्रनपेक्षया स्वशक्त्यैव शब्दे ऽर्थम् आचक्षाणे यत्तावद् आपद्यते तद् दर्शयति -- तत्राज्ञानाद् इति सार्धद्वयेन. यदा हि दृष्टान्तं वक्तुम् अनभिज्ञो वक्ता साध्यहेत्वोस् सहभावमात्रं विवक्षति. यथा -- शब्दो ऽनित्यः कृतकत्वाद् इति प्रयोगे, यथा घटे कृतकत्वनाशित्वेस् त इति. विपरीतावग्रहेण वा न हेतोर् व्याप्यतां विवक्षति. सत्याम् अपि विवक्षायां कुतश्चिद् भ्रमनिमित्तात् न व्याप्तियोग्यं शब्दं वदति. सहभावमात्रम् एव तु पूर्ववद् वदेत्, विपरीतं वा भ्रान्तः यथा नाशिता कृतकत्वेन व्याप्तेति, तदा तावन् न केवलम् इष्टं न सिध्यति अनिष्टम् एव तु व्याप्तिविपर्ययाद् आपद्यते. इष्टस्य{3,73}कृतकत्वस्य हेतुत्वं न स्यात्. अनिष्टस्यैव तु नाशित्वस्य भवेद् इत्य् एवंजातीयकानिष्टप्रयोगनिवारणाय युक्तो दृष्टान्तप्रयोगनियम इति. एतद् एवोपसंहरति -- तस्माद् इति. हेतुत्वसम्मतः कृतकत्वादिव्याप्यत्वरूपेण वाच्य इत्य् अर्थः
अर्थानां शब्दतन्त्रत्वे यद् भवति तद् दर्शयति -- यदेतिपादरहितद्वयेन. अस्यार्थः -- यदा हि व्याप्तिशक्त्यनुसारेणैवार्थानां साध्यहेतुत्वं तदा यद्य् अपि वक्त्रा न सहभावमात्रं दर्शितं, किन् तु सम्यग् एव दृष्टान्तवचनम्, अर्थास् तु न तदनुरूपव्याप्यव्यापकभावेनावस्थिता इति दृष्टान्ताभासता भवेद् इति वक्ष्यमाणेन सम्बन्ध इति. यथा -- नित्यो ध्वनिर् अमूर्तत्वाद् इति प्रयोगे कर्मवत् परमाणुवद् घटवद् व्योमवद् इति दृष्टान्तेषु यथासङ्ख्यं परमार्थतस् साध्यहेतूभयव्याप्तिशून्यतया. कर्म खल्व् अनित्यम् इति तत् साध्यभूतया नित्यतया शून्यं, हेतुस् त्व् अमूर्तत्वाद् इति तत्र विद्यत एव. परमाणवस् तु मूर्ता इति तेषु हेतुशून्यता, साध्यं तु नित्यत्वं तेषु विद्यत एव. घटे तु न साध्यं नित्यत्वं नाप्य् अमूर्तत्वं हेतुर् इत्य् उभयशून्यता. व्योम्नि तु दृष्टान्ते व्याप्तिशून्यताम् उत्तरत्र स्वयम् एव विवरिष्यति. अत्रैव च व्योमवद् इति दृष्टान्ते तदसद्वादिनं सौत्रान्तिकं प्रति प्रयुज्यमाने धर्म्यसिद्ध्या दृष्टान्ताभासता भवतीत्य् आह -- तदसद्वादिनम् इति
व्याप्तिशून्यतां विवृणोति -- तत्सद्भावे ऽपी ति. यद्य् अपि च{3,74}व्योम्नः सद्भावो भवेत्, तच् च हेतुसाध्यद्वययुक्तं नित्यत्वाद् अमूर्तत्वाच् च. तथापि कर्मादिष्व् अमूर्तेषु अनित्येष्व् आलोच्यमानेषु हेतोर् व्याप्तिर् नास्तीति ईदृशस्यापि दृष्टान्तस्य वर्जनम् एव. अयम् अपि न साध्यसिद्धये समर्थो यत इति
व्याख्यातः साभासस् साधर्म्यदृष्टान्तः. वैधर्म्यदृष्टान्तमतः परं व्याख्यास्यति. तत्रैतद् एव तावत् प्रथमं वक्तव्यम्. किं सर्वदैव साधर्म्यवद् वैधर्म्यवचनं कार्यं न वेति. तत्र तावद् व्यतिरेकप्रधानवादिनस् सर्वदा वाच्यम् इति ये वदन्ति. तान् प्रत्याह -- व्याप्त्या साधर्म्य उक्त इति. एवं हि मन्यते -- व्याप्तिप्रज्ञापनाय हि दृष्टान्तवचनम्, सा चेत् साधर्म्यवचनेन ज्ञापिता किं वैधर्म्यवचनेन. साधर्म्यं चावश्यम् एव वचनीयम् अन्वयप्रज्ञापनाय, तत्प्रधानत्वाद् अनुमानस्य. व्यतिरेकस्यापि तन्मुखेनैव सिद्धेः. इतरथा दुरधिगमत्वात्. अतो यदि व्याप्त्या सहितं साधर्म्यम् उक्तं, अलं वैधर्म्यवचनेनेति. कदा तर्हि वैधर्म्यं वाच्यम् अत आह -- सहभावित्वदृष्ट्ये ति पादत्रयेण. यदा हि वक्त्रा सम्यग् एव दृष्टान्त उक्ते परः श्रोता जानाति -- यथा हेतुसाध्ययोस् साहित्यमात्रम् अनेनोक्तं न व्याप्तिर् इति, तदा साध्याभावे हेत्वभावं ज्ञापयितुं वैधर्म्येणेष्टसाधनम् इति वक्ष्यमाणेन सम्बन्ध इति. यदा खल्व् अभ्यस्तवैधर्म्यस् तम् एवापेक्षते न साधर्म्यदृष्टान्तं तदा च वैधर्म्येणेष्टसाधनम् इत्य् आह -- तं वा नापेक्षते यदे ति. यदा वा वक्ता सुशिक्षितवैधर्म्यस् साधर्म्यं वक्तुम् अजानानस् तेन साधर्म्यदृष्टान्तेन सहभावमात्रम् एव शुद्धं व्याप्तिहीनं कथयति, तदापि पर्यनुयुक्तेन तेनैव वैधर्म्येणेष्टसाधनं कार्यम् इत्य् आह -- वक्ता वे ति
यदा वा भ्रान्तो विपरीतम् अन्वयं दर्शयति, तदापि तत्समाधानेच्छया पूर्वविपरीतज्ञानोपमर्दनेन वैधर्म्येणेष्टसाधनम् इत्य् आह --{3,75} विपरीतान्वयम् इति. नन्व् अन्वयवैपरीत्ये स एव यथावत् प्रतिपाद्यतां किं वैधर्म्यवचनेन. सत्यम् एवम् अपीष्टं सिध्यत्य् एव, किन् तु भ्रान्तैर् इदम् अस्माभिर् उक्तं साध्याभावे हेत्वभावो विवक्षित इति वैधर्म्येणापि तावद् इष्टसाधनं भवत्य् एवेति. यत् तु तत्पूर्वं साहित्यमात्रम् उक्तं तद्वैधर्म्य एवोपयुज्यते तस्यैवेष्टं साधयतो ऽनुग्रहे वर्तते इत्य् आह -- साहित्यमात्रम् इति
एवं तावद् वैधर्म्यवचनस्यावसरो दर्शितः, तद्वचनप्रकारम् इदानीं दर्शयति -- व्याप्यव्यापकभावो ही ति
वैपरीत्ये कारणम् आह -- धूमभाव इति. यदा हि धूमभावो ऽग्निभावेन व्याप्तो भवति तदानग्निर् अग्न्यभावस् ततो धूमात् प्रच्युतस् सन्नधूमे धूमाभाव एव भवतीत्य् एवं तावद् व्याप्तो भवति. यो हि यस्मिन् सति भवति असति च न भवति स तन्नियतस् तद्व्याप्त इत्य् उच्यते. यथा धूमो ऽग्नाव् एव भवन्नग्निना व्याप्त इति सिद्धो ऽभावयोर् व्याप्तिविपर्यय इति
यत एव चाभावयोर् ईदृशो व्याप्यव्यापकभावः अत एव भावयोर् अभिमतव्याप्तिसिद्धिर् इत्य् आह -- तथानग्नाव् इति. अनग्नाव् अग्न्यभावे धूमाभावेन व्याप्ते धूमस् तत्र विरोधिव्याप्तेर् अलब्धावकाशो ऽग्नाव् एव भवतीत्य् एवं तद्व्याप्यता तस्य सिध्यति. तथेति. यथा भावव्याप्त्यपेक्षयाभावव्याप्तिः एवम् अभावव्याप्त्यपेक्षया भावव्याप्तिर् इत्य् अर्थः. न चैवम् इतरेतराश्रयता, बीजाङ्कुरवदनादितयोपपत्तेर् इति
{3,76} किं पुनरभावयोर् व्याप्तिविपर्ययाश्रयणे प्रयोजनम् अत आह -- व्यापकौ त्व् इति. यदा हि य एव भावो व्यापकस् तदभाव एव व्यापकतया वैधर्म्यदृष्टान्त उच्यते तदा ततो व्याप्याद् धूमादेर् नैव विपक्षस्यानग्न्यादेः प्रच्युतिः कथिता भवेत्. तत्कथनार्थं च वैधर्म्यवचनं (स) प्रयोजनं भवेत्. न हि यत्र धूमस् तत्राग्निर् इतिवत् यत्र धूमाभावस् तत्राग्न्यभाव इति कथ्यमाने व्याप्याद् धूमाद् अनग्नेर् विपक्षस्य निवृत्तिर् दर्शिता भवतीति. अतो धूमेनाग्निं सिषाधयिषता वैधर्म्यदृष्टान्तेनाग्निधूमाभावयोर् व्याप्तिविपर्ययो वाच्य इत्य् आह -- तस्माद् इति वाच्यो ऽन्तेन. यत्राग्निर् नास्ति तत्र धूमो नास्तीत्य् एवं यद्वृत्ततद्वृत्ताभ्याम् उद्देश्योपादेयभावो दर्शयितव्य इत्य् अर्थः. स चानग्निर् अधूमेन व्याप्त उच्यमानो नान्यथा वाच्यः, किन् तु साधर्म्योक्तेनैवोद्देश्योपादेयप्रकारेणेत्य् आह -- न चान्यथे ति. प्रकारश् चानन्तरम् एवोक्त इति ॥ 124 -- 125 ॥
अन्यथावचने दोषम् आह -- अनग्न्यधूमसाहित्य इति. यथैव साधर्म्यदृष्टान्ते स्वशक्त्या शब्दो ऽर्थं वदति नार्थशक्तिम् अनुरुध्यत इति साहित्यमात्रवचने व्याप्तिविपर्यये वा नेष्टं सिध्यतीत्य् उक्तम्, एवम् इहापि भवतीति भावः
एवं (?तद्व।ताव)द् इहाप्य् अर्थो न शब्दवशवर्तीति यत्रार्थो दृष्टान्तरूपो द्वाभ्यां हेतुसाध्याभावाभ्याम् एकेन वा तयोश् शून्यो भवति तत्रापि न प्रस्तुतोपकारो भवति अन्यद्वानिष्टं प्रसज्यत इत्य् आह यत्रापी ति. सम्यक् प्रयुक्ते ऽपि वाक्ये ऽर्थस्यातदायत्तत्वान्नेष्टसिद्धिर् इति भावः. अत्रोदाहरणम् आह -{3,77} यद् इति. नित्यो ध्वनिर् अमूर्तत्वाद् इत्य् अत्रैव प्रयोगे यदैवं वैधर्म्यम् उच्यते यन्नित्यं न भवति तदमूर्तम् अपि न भवति यथा परमाणुर् इति तदा साध्याभावशून्यो दृष्टान्तः. परमाणोर् नित्यतया तदभावस्य तत्र दर्शयितुम् अशक्यत्वात्. बुद्धिवद् इति तु दृष्टान्ते हेत्वभावशून्यता. बुद्धेर् अमूर्ततया तदभावस्य वक्तुम् अशक्यत्वात्. खवद् इति तूभयाभावशून्यता, नित्यामूर्ते तस्मिन्न् उभयाभावो दुरधिगमो यत इति
एवं साधर्म्यदृष्टान्तवद्व्याप्तिवैकल्ये ऽप्य् आभासता दर्शयितव्या. तत्सिद्ध्यर्थं हि विपक्षाद् धेतोर् व्यतिरेकः कथ्यते. यस्य तु विपक्षैकदेशाद् अपि व्यतिरेको नास्ति, नासौ साध्येन व्याप्तो भवतीत्य् असत्यां व्याप्ताव् अनर्थकं तादृशस्य वैधर्म्यस्य वचनम् इत्य् अभिप्रायेणाह -- साध्येने ति
यतश् चैवञ्जातीयको न साध्येन व्याप्यते तेन क्वचिद् अभावयोस् साहित्ये दृष्टे ऽपि न सर्वत्र गम्यगमकभावो भवतीत्य् आह -- तेने ति. यद्य् अपि यन्नित्यं न भवति तदमूर्तम् अपि न भवति, यथा घटः कुड्यं वेति, क्वचिद् अभावयोस् साहित्यं शक्यते दर्शयितुम्. तथापि न सर्व(ः) शब्दादि(ः) नित्यतया विशिष्टो ऽनेन हेतुना गम्य इष्यते. किञ्चिद् ध्य् अमूर्तं नित्यम् आकाशादि, किञ्चिद् अनित्यं कर्मादीति भावः
किम् इति नेष्यते अत आह -- सहदृष्टिर् इति. विपक्षैकदेशनिवृत्त्या हि सहभावमात्रं हेतोस् सिध्यति. न च तन्मात्रसम्बन्धो ऽनुमानाङ्गम्. किं तर्हि, व्याप्तिः. न चासाव् एतावता साहित्यमात्रेण सिध्यतीति. एतद् एवोदाहरणेन दर्शयति -- मूर्तानित्यत्वयुक्ते ऽपी ति. इदं च प्राग् एव व्याख्यातम् इति
अत्र बौद्धा वदन्ति -- किम् इदं -
{3,78} व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यम् अपेक्ष्यते ।
इत्य् उच्यते, न हि शतांशेनापि हेतोर् विपक्षाद् व्यतिरेके शङ्क्यमाने गमकत्वम् अस्तीत्य् अशेषविपक्षो ऽनुमातुर् व्यतिरेकं ग्रहीतुम् अपेक्षितः. न चासौ दुरधिगमः, एकदेशस्थस्यापि सर्वादर्शनसौकर्यात्. दर्शनं हि सर्वविपक्षाणां दुष्करम्, तदभावस् तु सौकर्यप्राप्त एव. न चायोग्यानुपलम्भान् नेदम् अदर्शनं हेतोर् व्यतिरेकाय प्रभवतीति वाच्यम्. न हि नो विपक्षादर्शनाद् अविनाभावनियमः. किन् तु तादात्म्यतदुत्पत्तिनिबन्धनः. विपक्षदर्शने तु हेतोः परिपन्थिन्यविनाभावो ग्रहीतुम् अशक्यो भवति. तच् चैकदेशस्थस्यापि तावन्नास्त्य् एवेति परिपन्थिनि वृत्तिमात्रे दर्शनं व्याप्रियते. अतो यदैवाग्निकार्यो धूम इत्य् अवगतं तदैव तदायत्तात्मलाभो नासति तस्मिन् भवतीति ज्ञायते. न चान्वयज्ञानम् एव व्यतिरेकबुद्धौ निबन्धनम्, असाधारणेषु तदसम्भवात्. न हि महानसपरिदृष्टयोर् अग्निधूमस्वलक्षणयोस् तत्रैव निरुद्धयोर् अन्यत्र दर्शनम् अस्ति, येनान्वयो ऽनुभूयेत. तत् कुतो ऽन्वयः कुतस्तरां च तन्निबन्धनो व्यतिरेकः. न च विशेषेषु सामान्यं नाम किञ्चिद् अनुगतं स्वरूपम् अस्ति, यन्नियम्यनियामकतयावसीयेत, विकल्पाकारत्वात् तस्य. अतो विशेषा एव केचित् कयाचिद् व्यावृत्त्योपलक्षिताः कञ्चिद् विशेषं विपक्षव्यावृत्तिमुखेन गमयन्तीति तत्प्रदर्शनार्थं वैधर्म्यवचनम् एव न्याय्यम् इति. तान् प्रत्याह -- अशेषे ति युक्तिर् अन्तेन. अयम् अभिप्रायः -- यद्य् अपि व्यतिरेको ऽनुमानाङ्गम्. स तु नादर्शनमात्रात् सिध्यति. तद्देशागमनाद् अपि च तस्योपपत्तेः. न च कार्यत्वावधारणाद् असति कारणे ऽभावः, तस्यैवासति व्यतिरेके दुरधिगमत्वात्. यद् धि यस्मिन् सति भवति असति च न भवति तत्तत्कार्यम्. अतो ऽसत्यभावो{3,79}वगन्तव्यः. ततः कार्यता तदधीने(ति) तु तस्मिन्न् इतरेतराश्रयता. अस्तु वादर्शनमात्राद् व्यतिरेकः, तस्य च सौकर्यं, नैतावतानुमां प्रति युक्तिर् अनङ्गम्. युक्तिर् योगस् सम्बन्धो ऽन्वय इत्य् अनर्थान्तरम्. नान्वयो ऽनङ्गम् इति यावत्. तन्मुखेनैव सर्वप्रमातॄणाम् अनुमानोत्पत्तेः. अतस् तत्कथनार्थं साधर्म्यदृष्टान्तो ऽपि वाच्य एव. नासाव् एकान्तेन प्रत्याख्यातुं शक्यते. इदं चान्वारुह्य वचनम्. यथोक्त एव सिद्धान्तः सम्यक् साधर्म्यप्रयोगे न वैधर्म्यम् अपेक्षणीयम् इति. अन्वयस्यैव प्राधान्यात् तम् अन्तरेण व्यतिरेकासिद्धेः. अवगते हि धूमस्याग्निना सम्बन्धे ऽर्थाद् अनग्निनिवृत्तिस् सिध्यति. अतस् स तावद् विधिमुखेन
प्रथमं दर्शयितव्यः, अवसरे तु वैधर्म्यम् अपि कदाचिद् उच्यते. अनङ्गत्वम् इति तु पठताम् इयं व्याख्या -- इदं हि लिङ्गस्यानुमायाम् अङ्गत्वम् यदन्वयव्यतिरेकौ, ताभ्यां हि तदङ्गं भवति. अतो यथा व्यतिरेको ऽङ्गत्वम्, एवम् अन्वयापरनामा युक्तिर् अपीति. ननु लिङ्गे ऽपि शब्दात्मके प्रतीत्य् उत्तरकालभाव्यन्वयो ऽनङ्गम् एवात आह -- शाब्दे ऽभिधास्यत इति. शाब्दे ह्य् अनुमानाद् भिन्ने प्रतीत्य् उत्तरकालभाविनी युक्तिर् अनङ्गम् इति वक्ष्यते. यथा वक्ष्यति --
नाङ्गम् अर्थधियाम् एषा भवेद् अन्वयकल्पना ।
इति. अनुमाने तु सर्वत्रैवान्वयः प्रतीत्य् अङ्गम् इति. ये तु तावता नानङ्गत्वम् अन्वयस्येत्य् अध्याहृत्यात्रैवार्थे शब्दे युक्तिर् वक्ष्यते इति व्याचक्षते, तेषाम् अश्रुतान्वयाध्याहार एव तावदुपालम्भः. न चान्वयस्यानुमानाङ्गत्वे शाब्दे युक्तिर् वक्ष्यते. अत्रैव ज्ञातसम्बन्धपदेन तस्योक्तत्वात्. अत एवान्वयाधीनत्वम् अनुमानस्य च स्थितम् इति वक्ष्यति. तस्माद् यथोक्तैव व्याख्येति
यत् तु भेदानाम् एवानुमाने गम्यगमकत्वं तेषां चान्वयो न सम्भवतीत्य् उक्तम्, तत्राह -- बोधप्रसङ्ग इति. न भेदानाम् अनुमानबोधे गम्यगमकतायाः प्रसङ्गः. तेषां सर्वदेशकालाव्याप्तेर् एकैकत्र निरुद्धत्वात्. न चाप्य्{3,80}अविनाभावेनापरस्य तथाविधस्यैव नियमश् शक्यते ऽनुभवितुम्. न चासति तस्मिन्नानुमानाङ्गं सम्भवतीति तेषाम् अन्वयाभावो न दोषायेति. यदि न भेदानां बोधप्रसङ्गः. कस्य तर्हि दर्शितम् इदं, न भेदानुगतम् एकं किम् अपि पारमार्थिकं रूपम् अस्ति. तस्य विकल्पाकारत्वात्. यद्य् अपि च व्याप्तिसमयसंविदितरूपारोपेणैवाधुनानुमानम् उपजायते. तथा हि तस्य निपुणतो निरूप्यमाणस्यासम्भवाद् विभ्रम एवायम्. यद्य् एवम् असद्रूपारोपप्रवृत्तम् अनुमानम् अप्रमाणम् एव. सत्यम्. प्रतिबन्धबलेन तु किञ्चिद् एव स्वलक्षणं केनापि विकल्पाकारेण सामान्यात्मना समधिगतं यद् अपरं विकल्पाकारोल्लिखितम् एव स्वलक्षणं प्रतिलम्भयति तत्प्रमाणम् इत्य् आख्यायते. अविसंवादो हि नः प्रामाण्ये कारणम् अर्थक्रियास्थितिश् चाविसंवादः. यदाहुः -- प्रमाणम् अविसंवादि ज्ञानम् अर्थक्रियास्थितिः. अविसंवाद इति. भवति चानुमाने ऽर्थक्रियासमर्थवस्तुलाभो वस्तुनिर्भासपुरस्सरो ऽपीति प्रमाणम् अनुमानम्. यथोक्तम् --
अतस्मिंस् तद्ग्रहाद् भ्रान्तिर् अविसंवादतः प्रमा इति ।
अतो भेदानाम् एव गम्यगमकत्वम्. ते च न भाजनम् अन्वयस्येति युक्तम् एवोक्तम् अत आह -- अस्ती ति. अस्यार्थः. भवेद् एवं यदि न भेदातिरिक्तं किञ्चित् सामान्यं वस्तु भवेत्. अस्ति तु तद् इत्य् आकृतिग्रन्थे सकलपरोक्तदोषपरिहारेणोपपादयिष्यते. तस्य चानेकदेशकालव्यापिता गम्यत इति नाभाजनम् अन्वयस्य. न चातस्मिंस् तद्ग्रहः, पारमार्थिकत्वात् तस्य. एवं च यदनुमानप्रामाण्यसिद्ध्यर्थं परैः किम् अपि काशं कुशम् अवलम्ब्यते, तद् अपि मन्दप्रयोजनम् एवेति
अन्यन् मतम् व्याप्त्यापि साधर्म्यदृष्टान्त उक्ते वैधर्म्यम् अपि वाच्यम् इति, तत्तावद् उपन्यस्यति -- केचिद् इति पादत्रयेण. किं पुनस् तदिच्छायां कारणम् अत आह -- व्यावृत्तिनियमेच्छये ति
एतद् एव विवृणोति -- हेताव् इति. एवं हि मन्यन्ते. यदा हि{3,81}साधर्म्यदृष्टान्ते यत्र धूम इत्य् उद्दिश्य तत्राग्निर् एवेति सैवकारम् उपादीयते, तदा हेतौ साध्येनैवाग्निनावधारिते सर्वतो ऽग्नेर् अन्यमात्राद् व्यावृत्तिः प्राप्नोति, न चैतत् सम्भवति. साध्यधर्माधिकरणादेर् अप्य् अभावप्रसङ्गाद् अपक्षधर्मत्वापत्तेः. पक्षाभावप्रसङ्गाच् च. अतस् साध्याभाव एव व्यावृत्तिं नियन्तुं सर्वदैव वैधर्म्यवचनम् अर्थवत्. सति हि तस्मिन्न् अग्न्यभावे धूमो न भवतीत्यावेदितं, भवतीति
एतद् अपि दूषयति -- तत् तु मन्दफलम् इति. तद् इदं वैधर्म्यवचनम् एवं क्रियमाणं मन्दफलम् इत्य् अर्थः. कथं मन्दफलम् अत आह -- यस्माद् इति. किं निरूपितम् अत आह -- व्यापकाभावमात्रं ही ति. अग्निमान् पर्वत इति पक्षवचने निरूपितम् इदम्, यथा नियमस् तद्विपक्षाच् च कल्प्यते नाविरोधिन इति. अतस् साधर्म्यदृष्टान्ते ऽपि व्याप्याद् धूमादेर् व्यापकाभावनिवृत्ति मात्रम् एव दर्शयितव्यम्, नान्यमात्रनिवृत्तिर् इति
एतद् एव दृष्टान्तवचनेनोपपादयन्न् उपसंहरति -- तस्माद् इति. तद् इह --
प्रतिज्ञाहेतुसाधर्म्यदृष्टान्ताख्यास् त्रयो मताः ।
वाक्यस्यावयवाः प्रायो मीमांसकमते सताम् ॥
एतच् च भाष्यकारेण स्वयम् एवोपदर्शितम् ।
दृष्टान्तहेतुसाध्यार्थपदत्रयनिबन्धनात् ॥
इति
अत्र भाष्यम् -- तत् तु द्विविधं प्रत्यक्षतो दृष्टसम्बन्धं सामान्यतो दृष्टसम्बन्धं च. तत्र प्रत्यक्षतो दृष्टसम्बन्धं यथा -- धूमाकृतिदर्शनाद्{3,82}अग्न्याकृतिविज्ञानं, सामान्यतो दृष्टसम्बन्धं च यथा -- देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिम् उपलभ्यादित्ये ऽपि गतिस्मरणम् इति. अनेन प्रमेयद्वैविध्याद् अनुमानद्वैविध्यम् उक्तम् इति. अत्र केचिन् नीतिज्ञम्मन्या अवधृतस्वलक्षणम् एव क्वचिद् अनुमानेन सामान्यतो गृह्यत इति मन्यन्ते. तद्भ्रमापनयाय भाष्यकारेणेदम् उक्तम् -- तत् तु द्विविधम्, अदृष्टस्वलक्षणविषयम् अप्य् अनुमानम् अस्ति क्रियादिष्व् इति. कथं पुनर् अदृष्टस्वलक्षणेन सम्बन्धदर्शनम्, उत्पत्तिमतः फलस्य दर्शनात्. यद्य् अप्य् अनवधृतस्वलक्षणेन वस्तुना विशेषतस् सम्बन्धो ऽनवगतः, सामान्यतस् तु दृश्यते. सर्वं हि कादाचित्कं फलं कुतश्चिद् आगन्तुकाद् उत्पत्तिमतो जायमानं दृष्टम्, तन्तुसंयोगेभ्य इव पटः. अतो देवदत्तस्य भूतपूर्वपूर्वोत्तरदेशविभागसंयोगौ कदाचिद् उपलभ्यागन्तुकः को ऽपि हेतुर् अनुमीयते. तद् इदं सामान्यतो दृष्टसम्बन्धम् अनुमानम् आचक्षते प्रत्यक्षानुपलक्षितपूर्वस्वलक्षणविषयत्वात्. अग्न्यादिषु तु प्रत्यक्षतः स्वलक्षणावधारणात् प्राक् प्रत्यक्षतो दृष्टसम्बन्धम् अनुमानम् आहुः. न च द्रव्यम् एव संयोगविभागयोः कारणम् इति वक्तव्यम्. सत्य् अपि तस्मिन्न् अभावात्. न च द्रव्यान्तरागम एव शक्यते कल्पयितुं, तस्य पूर्वद्रव्यप्रत्यभिज्ञया बाधितत्वात्. न च सदृशापरापरोत्पत्तिविप्रलब्धा भेदं न बुध्यन्त इति साम्प्रतम्, देशादिभेदे ऽपि तद्बुद्धेर् अविपर्ययात्. उक्तं च विवरणकारेण -- क्षणभङ्गस् तु प्रत्यभिज्ञानान् निराक्रियत एव. अतो दृष्टकारणासम्भवाद् अदृष्टं किम् अपि संयोगविभागयोः कारणम् अनुमीयते. तच् च कर्मेत्य् आख्यायते. अत एव प्रदेशान्तरेष्व् अपि कर्माप्रत्यक्षम् एवेति. भाष्यकारो दर्शयति -- यथा वक्ष्यति न हि ते प्रत्यक्षे इति. अपूर्वसद्भावप्रतिपादनावसरे च न कर्मणो रूपम् उपलभामह इति. यदाश्रयं देशान्तरं प्रापयति तत्कर्मेत्य् उच्यत इति च. व्यक्तम् एव देशान्तरप्राप्तिफलोन्नीयमानत्वम् एव कर्मणो दर्शयतीति सिद्धं क्रियादीनां सामान्यतो दृष्टानुमानैकविषयत्वम्. एवं च प्रमेयद्वैविध्याद्
अनुमानद्वैविध्योपपत्तिर् इति ये वदन्ति तान् प्रत्याह -- द्वैविध्यं नोपपन्नम् इति. इदम् उक्तप्रकारं द्वैविध्यम् अनुपपन्नम् इति भावः. कथम् अनुपपन्नम् अत आह -- यथैवे ति पादत्रयेण. यथा खल्व् अग्निधूमाकृत्योः प्रत्यक्षयोः प्रत्यक्षदृष्टस् सम्बन्धो, भवति एवं गतिप्राप्त्याकृत्योः, तयोर् अपि प्रत्यक्षत्वात्.{3,83}प्रत्यक्षम् एव हि वयं देशान्तरं प्राप्नुवन्तं देवदत्त्वं गच्छतीति मन्यामहे. नेयं जात्यादिविकल्पनाभ्यः कर्मकल्पना विशिष्यते. तद्वद् एवेन्द्रियान्वयव्यतिरेकानुविधायित्वाद् अपरोक्षनिर्भासाच् च. ननु देवदत्ते देशसंयोगविभागातिरिक्तम् अपरं कर्मणः किम् अपि रूपम् अपरोक्षम् ईक्षामहे. फलदर्शनेनैव तदनुमीयते. जातेर् वा व्यक्तितो व्य(तिरिक्ता)याः किं रूपम् अनुभूयते, यद् असौ प्रत्यक्षविषयतयावसीयते. रूपम् एव सा व्यक्तेः, किम् अस्या रूपान्तरेणेति चेत्, कर्म वा किम् अरूपम्. इदम् अपि हि ततो न भिद्यत एव. आगन्तुकं तु केवलम्. अतो जातिकल्पनावत् कर्मकल्पनाम् अपि प्रत्यक्षपक्ष एव निक्षिपन्तः पञ्चधा सविकल्पकं प्रत्यक्षं विभजामहे. आह च --
न हि दृष्टिपथं प्राप्तं देवदत्तं निरूपयन् ।
पठन् काव्यं स्वसंज्ञोक्तं परोक्षम् इव बुध्यते ॥
इति. फलानुमेये तु कर्मण्यादित्यवद् देवदत्तवत् प्रतीतिप्रसङ्गः. न चैष देवदत्तम् इव चलन्तं स्पन्दमानम् आदित्यम् अपि पश्यतीति दृश्यते. स्थिरं हि सर्वदा तन्मण्डलम् अवलोक्यते. संयोगविभागौ तु तस्यापि प्रतीयेते एवेति तुल्य(?व।त्वा)त् ताभ्याम् उभयत्राप्य् आनुमानिकः प्रत्ययो भवेत्. अपि च विभागोपक्रमे संयोगावसाने च कर्मणि तत उन्नीयमाने गच्छतीति वर्तमाननिर्भासः प्रत्ययो न भवेत्, अतीतं हि तत्, तदा कथं वर्तमानाकारबुद्धिगोचरो भवति. जलप्रवाहनिश्चलेषु मत्स्येषु निरन्तरोत्पद्यमानजलावयवसंयोगविभागावगमाद् आनुमानिकी गतिसंविद् उपजायेत. स्थाणौ च श्येनवियुक्ते श्येन इव कर्मानुमीयेत. ततश् च सो ऽपि गच्छतीति बुद्धिविषयताम् आपद्येत. यदि मतं न विभागमात्रात् कर्मानुमानम्, अपि तर्हि विभागपूर्वकात् संयोगाद् इति. एवं तर्हि यदैकः श्येनवियुक्तः स्थाणुर् अन्येन संयुज्यते तत्र प्रसङ्गः. चलित्वावस्थिते च देवदत्ते. यदि तूच्यते यो ऽयम् उत्पततः श्येनस्य देशान्तरसंयोगः तस्य स्थाणुसमवेतेन कर्मणा निष्पत्त्यसम्भवान् न तत्र कर्मानुमानम् इति. कल्प्यतां तर्हि श्येने ऽपि कर्म, स्थाणौ तु प्रसङ्गान् अतिवृत्तिर् एव. नियतं हि प्रतिबद्धदृशः स्मृतप्रतिबन्धस्य प्रतिबन्धकविज्ञानम्. अस्ति च स्थाणौ कारणप्रतिबद्धफलदर्शनम् इति नानुमानोदयश् शक्यते{3,84}निरोद्धुम्. श्येनसमवायिनैव कर्मणा स्थाणाव् अपि संयोगविभागोपपत्तौ न तद्गतकर्मानुमानम् इति चेत् तन् न. न हि प्रयोजनानुसारिण्य् अनुमानव्यवस्था. व्याप्तं हि लिङ्गं यत्र यत्र दृश्यते तत्र तत्र व्यापकम् उपस्थापयति. अर्थापत्तिर् ह्य् अन्यथोपपत्त्या परिह्रियते नानुमानम्. यदि त्व् अविच्छिन्नोत्पत्तयस् संयोगविभागाः क्रियानुमाने कारणम्, एवं तर्हि न काचिद् गतिर् अनुमीयेत, भविष्यत्संयोगविभागानां प्रमाणागोचरत्वात्. प्रथमं च कतिपयानाम् एवावगतेः. अथ स्वदेशसंयोगविभागहेतुकं क्रियानुमानम्. न च स्थाणोः श्येनो देश इत्य् उच्यते. एवम् अपि मत्स्येषु प्रसङ्गानतिवृत्तिर् एव, तेषां हि जलं स्वदेश एव. परोक्षव्योमवादिनां च विहङ्गमे गच्छतीति क्रियाप्रत्ययानुपपत्तिः, व्योमसंयोगविभागयोर् अप्रत्यक्षत्वात् ताभ्यां तदनुमानानुपपत्तेः. न च वियद्विततालोकावयवसंयोगविभागावगमनिबन्धनो विहङ्गमे चलतीति प्रत्ययः, सन्तमसे ऽपि भावात्. न च तमो नाम किञ्चिद् वस्त्व् अस्ति भवत्सिद्धान्ते,
भासो ऽभावमात्रत्वात् तस्य. अतस् तत्संयोगविभागहेतुको ऽपि न क्रियावसायश् शक्यते समाधातुम् इति न प्रत्यक्षे कर्मणि द्वैविध्योपपत्तिः. या तु न हि ते प्रत्यक्षे इत्य् अप्रत्यक्षतोक्ता, तां तत्रैवान्यथा व्याख्यास्यामः. रूपशब्दाविभागम् इति च वदता सूत्रकारेण प्रत्यक्षम् एव कर्मेत्य् आस्थितम्. अपूर्वाधिकरणे च न कर्मणो रूपम् उपलभामह इति वचनं यथाचोदितविततपूर्वापरीभूताभिव्यक्तावस्थितकर्मरूपानुपलब्ध्यभिप्रायम् एव. इतरथा ह्य् उपलब्धिमात्रप्रतिषेधे शशशृङ्गादिवन्नित्याभाव एव कर्मणो भवेत्. न हि तत्र प्रत्यक्षोपलब्धिमात्रम् एव प्रतिषिद्धम्. यदाश्रयं देशान्तरं प्रापयतीति च न फलानुमेयत्वाभिप्रायम्. किं तर्हि. आश्रयस्य देशान्तरप्रापकत्वरूपेण न स्वरूपतः कर्मास्तीत्य् अपूर्वात्मना कर्मणो ऽवस्थानं दर्शयति. इहापि देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिम् उपलभ्येति वदन् देवदत्ते प्रत्यक्षताम् एव गतेर् दर्शयति. अन्यथा तु देवदत्तादित्ययोर् उभयोर् अपि कर्मणो ऽनुमेयत्वात् केन विशेषेणादित्ये गत्यनुमानं सामान्यतो दृष्टतयोदाह्रियते. देवदत्ते ऽपि हि सामान्यतो दृष्टाद् एव गतिसिद्धिः. अतो नैवंविधं ग्रन्थतो युक्तितो वा घटत इति सूक्तम् अनुपपन्नम् इति. प्रतियोगिनोर् हि परस्परम् असङ्करे द्वैविध्यं भवति. इह तु यत्{3,85}प्रत्यक्षदृष्टसम्बन्धस्य प्रतियोगितयोपात्तं सामान्यतो दृष्टसम्बन्धं तत्रापि गतिप्राप्त्याकृत्योः प्रत्यक्षदृष्ट एव सम्बन्ध इति न प्रतियोगिनोर् असङ्कर इति
यदि तु दृष्टान्ते प्रत्यक्षतायाम् अपि पक्षीकृताद् इत्य् अगतेर् अप्रत्यक्षत्वात् न प्रत्यक्षदृष्टस् सम्बन्ध इत्य् उच्यते. तद् एतद् आशङ्कते तावत् -- आदित्ये ऽनुपलब्धिश् चेद् इति. इदानीं दूषयति -- ने ति. कारणम् आह -- देशे ऽप्य् अधुनातन इति. देशे ऽप्य् अधुनातने -- सम्प्रति प्रमीयमाणे, अप्रत्यक्षतोपलब्धिर् एवेत्य् अर्थः. यदि त्व् अग्निधूमाकृत्योः क्वचिन् महानसादौ अप्रत्यक्षोपलब्धिर् इष्यते सा तर्हि देवदत्ते ऽपि गतेः प्रत्यक्षत्वाद् अस्तीत्य् आह -- क्वचिद् इति
एवं तावत् प्रत्यक्षतो दृष्टता सामान्यतो दृष्टतया सङ्कीर्यते इत्य् उक्तम्. इदानीं सामान्यतो दृष्टतापि प्रत्यक्षतो दृष्टाभिमताग्न्याकृत्यनुमाने सङ्कीर्यत इत्य् आह -- यदी ति पादत्रयेण. यदि हि देवदत्तादिधर्म्यन्तरापेक्षैवादित्ये गत्यनुमानस्य सामान्यतो दृष्टतेष्यते, सा तर्हि महानसादिधर्म्यन्तरापेक्षयाग्निधूमयोर् अपि गम्यगमकत्वेनावस्थितयोः प्राप्नोत्य् एव. सामान्यतो ह्य् अविवक्षितदेशादिभेदम् इदम् अवगतं धूमवान् अग्निमान् इति, यथा देशान्तरप्राप्त्यधिकरणं गत्यधिकरणम् इति. अतः प्रतियोगित्वरहितम् एवेदम् उभयम् इति द्वैविध्यानुपपत्तिर् इत्य् आक्षेपः. एवम् आक्षिओय समादधाति -- तस्माद् एवं प्रचक्षत इति. यथोक्तद्वैविध्यासम्भवाद् एवं वक्ष्यमाणप्रकारेण द्वैविध्यं वर्णनीयम् इति भावः
तत्र प्रत्यक्षसम्बन्धं तावद् उदाहरति -- प्रत्यक्षे ति युध्यते ऽन्तेन. यदा हि ययोर् एवाग्निधूमविशेषयोः, गोमयेन्धनो यम् अग्निः -- गोमयम् इन्धनम् अस्येति{3,86}बहुव्रीहिः, तज्जन्यो ऽयं धूमविशेष इति च प्राक् प्रत्यक्षेण मतिं कृत्वा पुनश् च कियता विलम्बनेनान्यत्र क्वचिद् गत्वा गतस् सन् तद्देशस्थेन तेनैव धूमविशेषेण तम् एवाग्निविशेषं बुध्यते, तदा तत्प्रत्यक्षदृष्टसम्बन्धम् अनुमानं भवतीत्य् अर्थः. अनेन च विशेषदृष्टम् एव प्रत्यक्षदृष्टशब्देनोच्यत इति व्याख्यातम्. प्रत्यक्षशब्देन हि विशेषो लक्ष्यते. प्रत्यक्षेण ह्य् अयम् एवंविधो ऽवान्तरविशेषो गोमयेन्धनतज्जन्यत्वादिरूपश् शक्यते ऽवगन्तुम्. न प्रमाणान्तरेण. तद्द्वारेण त्व् अनुमानस्यापि तादृशो विशेषो विषयो भवतीति युक्तैव प्रत्यक्षशब्देन विशेषलक्षणा. विशेषदृष्टं च सामान्यतो दृष्टस्य भवति प्रतियोगीति द्वैविध्योपपत्तिर् इति भावः. ननु विशेषदृष्टं नाम (न) प्रमाणभेदः. न चेदं प्रमाणम्, गृहीतविषयत्वात्. तद्देशस्थितेनैव हि धूमेन तस्मिन्न् एव देशे स एव गोमयेन्धनजन्याग्निर् अनुमीयते. अतो देशभेदाभावाद् अप्रामाण्यम् एव, अत आह -- तस्ये ति पादत्रयेण. तस्यैवंविधस्य प्रत्यक्षदृष्टस्य सन्दिह्यमानसद्भाववस्तुबोधात् प्रमाणता भवति. यद्य् अपि देशभेदो नास्ति. कालभेदात् तु संशयानस्य संशयोच्छेदद्वारेण प्रामाण्यम् अविहतम् इति. एतच् च विन्ध्यवासिनापि विशेषदृष्टत्वेनोदाहृतम् इत्य् आह -- विशेषदृष्टम् इति
यदि विशेषदृष्टोदाहरणम् इदं कथं तर्हि भाष्ये आकृतिग्रहणम्. एवं हि विशेष एव दर्शयितव्यो भवेत्. अत आह -- आकृत्योर् एवे ति. अयम् अर्थः -- केनचिद् गोमयेन्धनत्वादिनायान्तरविशेषेणोपदर्शितयोर्{3,87}आकृत्योर् एवात्र हेतुसाध्यत्वम्. एवं ह्य् अत्र प्रत्ययः. स एवायम् अद्य यावदनुवर्तमानो गोमयेन्धनविकारस्य धूमस्याकारो दृश्यते. अत एव तदिन्धनयोनिर् अग्निर् अनुवर्तत इत्य् अतो नानुपपन्नम् आकृतिग्रहणम् इति
यद्य् एवम् अविवक्षितावान्तरविशेषम् अग्निधूमान्तरम् एव सामान्यतो दृष्टोदाहरणतया वाच्यम्. किम् आदित्योदाहरणेन. अत आह -- अग्निधूमान्तरत्वे चे ति. यथा ह्य् अग्निधूमाकृत्योस् तृणदारुगोमयेन्थनादिजन्मा सुव्यक्तो विशेषः सर्वप्रमातृस्वसंवेद्यो भवति, नैवं गतिप्राप्त्याकृत्योः. अतः प्राप्त्याकृतिमात्राद् गत्याकृतिमात्रानुमानम् आदित्य एकान्ततस् सामान्यतो दृष्टसम्बन्धम् इति युक्तम् एवादित्योदाहरणम् इति
किं पुनस् सामान्यतस् सम्बन्धग्रहणे प्रमाणम्. न ह्य् अगृहीतयोस् सम्बन्धिनोस् सम्बन्धग्रहणम् अस्ति. न च सामान्ययोः प्रत्यक्षग्रहणं सम्भवति. तस्य स्वलक्षणैकविषयत्वात्. नानुमानम् अनवस्थापातात्. अत आह -- प्रत्यक्षविषयत्वम् इति. भवेद् अनवस्था, यद्य् अनुमानेन सामान्यग्रहणम् इष्यते. तस्य तु सविकल्पकसिद्धौ प्रत्यक्षविषयत्वम् उपपाद्यान्त उपसंहृतं प्रत्यक्षत्वम् अतस् सिद्धं सामान्यस्येति. ननु वस्त्व् एव न सामान्यं किञ्चिद् अस्ति नाम. तस्य भिन्नाभिन्नस्यानिरूपणाद् अत आह -- वस्तुत्वं चे ति. वस्तुत्वम् अप्य् आकृतिग्रन्थे विस्तरेण प्रतिपादयिष्यते. प्रत्यक्षविषयताप्रतिपादनेन च प्रत्यक्षे ऽपि प्रसाधितप्रायम् एव. अत्र च अस्ति सामान्यवस्तुष्व् इत्य् अन्वयोपपादनाय सामान्यस्य वस्तुत्वम् उपन्यस्तम् एव. अयं तु हेतुकथनार्थः पुनरुपन्यास इति. यस् तु हैतुको न हेतुम् अन्तरेण प्रमाणान्तरसिद्धाव् आद्रियते. तं प्रति हेतुनैवोभयम् उपपादयिष्याम इत्य् आह -- अत्रे ति
{3,88} तत्र वस्तुत्वप्रसाधनार्थं तावद् हेतुम् आह -- धूमाद् अग्न्यनुमानस्ये ति. बौद्धा ह्य् अवस्तुसामान्यालम्बनम् अनुमानम् आचक्षते. सामान्यस्य विकल्पाकारमात्राभ्युपगमात्. अत एव भ्रान्तिर् एवानुमानं, सम्बन्धबलेन स्वलक्षणरूपम् उपस्थापयतीति प्रमाणम् इत्य् आहुः. तान् एव प्रतीदम् उच्यते -- वस्त्व् आलम्बनम् अनुमानम् अभावान्यप्रमाणत्वात् यथा स्वार्थे श्रोत्रादिबुद्धिः. या हि स्वविषये श्रोत्रादिभिर् इन्द्रियैर् बुद्धिर् जन्यते, सा वस्त्व् आलम्बनैव. येन च यदिन्द्रियं सन्निकृष्यते स तस्य स्वार्थः प्राप्यकारित्वाद् इन्द्रियाणाम्. तद् इह मृगतृष्णादिज्ञाननिराकरणार्थं स्वार्थविशेषणम्. अविशेषेणोपादाने तु नाभावान्यप्रमाणत्वस्य वस्त्वालम्बनतया व्याप्तिः कथिता भवेत्. भ्रान्तीनाम् उभयविकलत्वात्. न हि ताः प्रमाणम्. न च वस्त्व् आलम्बनाः. अन्यसम्प्रयुक्तेन्द्रियस्य हि ता अन्यविषया जायन्ते. ईदृशम् एव ज्ञानम् अवस्त्वालम्बनं, न पुनरत्यन्तासदर्थम्. एवं वस्त्वालम्बनत्वे ऽनुमानस्य साधिते अर्थात् सामान्यं वस्त्व् इत्य् उक्तं भवति. इदं चावस्त्वालम्बनत्वम् अनुमानस्यार्थपदं प्रयुञ्जानेन भाष्यकारेण निराकृतम्. अनर्थविषयम् अनुमानम् इति बौद्धा मन्यन्ते. यद्वद् इति(?) स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवर्तमाना भ्रान्तिर् अप्य् अर्थसम्बन्धेन प्रवृत्तेस् तदव्यभिचारात् प्रमाणम् अनुमानम् इति, तेषाम् इदम् उत्तरम् अर्थस् सामान्यम् अनुमानस्य विषयो बाह्य एव. न विकल्पाकारमात्रम् इत्य् आकृतिग्रन्थे विस्तरेण प्रतिपादयिष्यत इति
एवमर्थाद् वस्तुत्वं प्रसाध्याह्रत्य प्रसाधयति -- सामान्यस्य च वस्तुत्वम् इति. सामान्यं वस्तु अभावान्यप्रमेयत्वाद् असाधारणवस्तुवद् इति वक्ष्यमाणेन सम्बन्ध इति. प्रत्यक्षविषयताम् इदानीं प्रयोगेण दर्शयति -- प्रत्यक्षे ति पादत्रयेण. यदभावान्यप्रमेयं तत् प्रत्यक्षेण गृह्यत एव. यथा सौगतानाम् एवासाधारणं वस्त्व् इति
{3,89} बौद्धानाम् एव तु सामान्यम् अनुमानैकविषयं मन्वानानाम् अनवस्था प्रसज्यत इत्य् आह -- सामान्यम् इति पञ्चभिः. निगदव्याख्यातो ग्रन्थः ॥ 149 -- 153 ॥
यदि तूच्यते लिङ्गभूतसामान्यग्रहणार्थम् अनुमानापेक्षायाम् अनवस्था भवति, न तद्ग्रहणार्थम् अनुमानम् अपेक्ष्यते, धूमादिस्वलक्षणदर्शनप्रभवविकल्पवेद्यत्वात् तस्य. न चासाव् अप्रमाणम्, अर्थक्रियासमर्थवस्तुप्रतिलम्भात्. न च प्रमाणम् अनर्थविषयत्वात्. अतो ऽनिर्वचनीयविकल्पसिद्धत्वात् लिङ्गस्य नानवस्था भवतीत्य् आशङ्क्याह -- अथे ति. अयम् अभिप्रायः -- न तावत् प्रमाणम् अप्रमाणं च ज्ञानं सम्भवति. विरुद्धस्वभावयोर् एकत्र प्रतिषेधे ऽन्यतरापत्तेर् अपरिहार्यत्वात्. अप्रमाणस्य च प्रमेयव्यवस्थापनाशक्तेर् अवश्यं प्रमाणम् एव तज्ज्ञानम् अभ्युपगन्तव्यम्. प्रत्यक्षानुमानानभ्युपगमाच् च प्रमाणान्तरम् एवापद्येत.{3,90}प्रमाणान्तरं च सद् यथा तल्लिङ्गसंवेदने प्रमाणम् इष्यते, एवं लिङ्गिन्य् अपि प्राप्नोति. एवं च वक्ष्यमाणप्रसङ्गो भवेत्. प्रमाणाद् अप्रमाणाद् वेति वदन्ननिर्धारितोभयरूपतां विकल्पस्य दर्शयतीति
अस्तु तर्हि लिङ्गिनो ऽपि तथैवावगमः, को दोषः, अत आह -- एवम् अपी ति. अयम् अभिप्रायः -- अनवस्थाम् अपि प्रसञ्जयताम् अस्माकम् अनुमानोच्छेदापादनम् अभिमतम्. प्रमाणान्तराभ्युपगमे ऽपि चानुमानोच्छेदो भवत्य् एव. तद् एव हि प्रमाणं तदा सर्वस्य लिङ्गलिङ्गिसामान्यस्यावबोधकं भवेद् इति
यदि त्व् एकरूपाभ्युपगमे ऽप्रमाणत्वम् एव लिङ्गज्ञानस्येष्यते, ततो ऽप्रमाणावगताल् लिङ्गाल् लिङ्गिज्ञानम् अपि मिथ्या भवेत्. बाष्पाद् इव धूमसंविदिताद् अग्निज्ञानम्. एवं च नानुमानम् इति. स एवानुमानस्य नित्योच्छेदं इत्य् अभिप्रायेणाह -- अप्रमाणावबुद्धाद् इति
अत्र चोदयति -- नन्व् इति. यथा ह्य् अप्रमाणम् एव सम्बन्धस्मरणं प्रमाणकारणम् इष्यते तथा लिङ्गज्ञानम् अपि भविष्यतीत्य् अर्थः
परिहरति -- तत्रे ति. स्मृतिर् हि पूर्वज्ञानाद् भवन्ती तदुपस्थापनद्वारेणानुमायाम् उपयुज्यते. तच् च प्रमाणम् एवेति तदनुसारी निर्णयो युक्त इति
{3,91} न चैष प्रकारो लिङ्गगतौ सम्भवतीत्य् आह -- न त्व् इति. न ह्य् अत्र प्राग् अपि लिङ्गावगमे प्रमाणं किञ्चिद् उपपद्यते, यत् प्रमाणज्ञानेनोपस्थाप्यत इति. न च लिङ्गज्ञानम् अपि स्मृतिर् एवेति वाच्यम्. पूर्वप्रमाणाभावाद् एवेत्य् आह -- तदभावाद् इति
ननु निर्विकल्पकगृहीतधूमादिस्वलक्षणपरिप्रापकतया लिङ्गज्ञानम् अपि स्मृतिर् एव. अतो ऽत्रापि निर्विकल्पकप्रमाणान्तरतो निर्णयो युक्त एव. अत आह -- स्मार्तम् इति. यथा सम्प्रति सम्बन्धज्ञानं गृहीतप्रापकतया स्मरणम्, एवम् एतद् अपि लिङ्गज्ञानं निर्विकल्पकगृहीतप्रापकतया तदभेदेन स्मार्तम् इति यो वदति तस्य वन्ध्यासुते ऽपि स्मरणशक्तिर् अनिवारिता. गृहीतविषया हि स्मृतिर् इति स्थितिः. न च लिङ्गसामान्यज्ञानं निर्विकल्पकगृहीतस्वलक्षणालम्बनम् इति कथं स्मृतिः. यद् अत्र प्रकाशते तन् न गृहीतं, यच् च गृहीतं तन् न प्रकाशत इति न स्मृतित्वम्. अगृहीतगोचरायां तु स्मृतौ वन्ध्यासुते ऽपि स्मरणप्रसङ्ग इति
नन्व् अनुमानेन लिङ्गसामान्यज्ञाने ऽनवस्था भवति, यदि सामान्यात्मकम् एव लिङ्गं तद्ग्रहणार्थम् इष्यते, तस्यानुमानवेद्यत्वात्. असाधारण एवार्थात्मा सामान्यज्ञाने लिङ्गं भविष्यति, स च प्रत्यक्ष एवेति नानवस्था. अत आह -- न चे ति. किं न कारणम् अत आह -- यस्माद् इति. दृष्टाविनाभावं लिङ्गं भवति. न चास्य तेन सामान्येनाविनाभावः कथञ्चिद् देशतः कालतो वा दृष्टः. असाधारणस्य भावान्तरेष्व् अनुस्यूत्यसम्भवाद् एकत्र दृष्टस्य च तत्रैव निरुद्धत्वाद् इति
{3,92} सम्बन्धदर्शनाभ्युपगमे वा कृतकत्वादिवत् सामान्यरूपतापत्तिर् इत्य् आह -- स्याद् वे ति. अत्र कारणम् आह -- न ही ति
इतश् चासाधारणो ऽर्थात्मा न लिङ्गम् इत्य् आह -- न चे ति. धूमादिर् हि धूमो ऽयम् इत्यादिविकल्पास्पदीकृतो ऽग्न्यादेर् लिङ्गम् इति दृष्टम्. असाधारणस् तु केनचिद् रूपेणाप्य् अव्यपदेश्यः कथं लिङ्ग भवेद् इति. लिङ्गत्वं नोपपद्यत इति वक्ष्यमाणेन सम्बन्ध इति. ननु तिरश्चाम् असत्य् एव शब्दोल्लेखे ऽसाधारणरूपदर्शिनाम् एवानुमानं दृष्टमतो नाव्यपदेश्यत्वाद् अलिङ्गत्वम् अत आह -- विकल्पे ति पादत्रयेण. अयम् अभिप्रायः -- मा नाम तिरश्चां शब्दोल्लेखो भवेत्, अर्थविकल्पस् तु तेषाम् अपि पूर्वापरानुसन्धानात्मको ऽस्त्य् एव. अतो युक्तम् एव तेषाम् अनुमाने ऽव्यपदेश्यस्यापि लिङ्गत्वम्. असाधारणस् तु पूर्वापरानुसन्धानाद् विनार्थविकल्परहितो ऽपीति कथं लिङ्गम्. न हि सो ऽयम् इत्य् अनारूढो बुद्धौ धूमो ऽग्नेर् लिङ्गं भवति. न चैवम् असाधारणे सम्भवति, पूर्वापरानुसन्धानागोचरत्वात् तस्येति
अस्मन्मते ऽपि ये ऽसाधारणात्मानो धूमादयो विशेषा विकल्प्यन्ते ते ऽप्य् अन्वयाभावाद् अलिङ्गं, किम् अङ्ग पुनर्निर्विकल्पकैकगोचरो ऽसाधारणो ऽर्थात्मा इत्य् आह -- कल्प्यन्त इति. अन्वयाभावाद् एवासाधारणज्ञानम् अपि लिङ्गिसामान्यज्ञाने न लिङ्गम् इत्य् आह -- एतस्माद् एवे ति
यदि त्व् अन्वयसिद्ध्यर्थम् असाधारणस्य सामान्यरूपतेष्यते, ततो लिङ्गसामान्यग्रहण इवानवस्थाप्रसङ्गात् तस्याप्य् अनवधारणम् इत्य् आह -{3,93} सामान्ये ति. यदि तु कस्मिंश्चिद् एवासाधारणे सामान्येन ज्ञातसम्बन्धे न्यदर्शिनापि सामान्यम् अनुमीयते. एवं तर्हि सर्व एव सर्वस्य प्रत्यायको भवेत्. अविशेषाद् इत्य् आह -- क्वचिद् वे ति
एवं तावन् न लिङ्गावधारणे प्रमाणम् अस्तीत्य् उक्तम्. इदानीम् अन्वयग्रहणकाले लिङ्गिज्ञाने ऽपि न किञ्चित् प्रमाणम् अस्तीत्य् आह -- सम्बन्धानुभव इति. नागृहीते लिङ्गिनि तत्सम्बद्धं लिङ्गं शक्यते ऽवगन्तुम्. न चानुमानप्रवृत्तेः प्राक् तस्मिन् सामान्यात्मनि भवनः किञ्चित् प्रमाणम् अस्त्य् अस्माकम् इव प्रत्यक्षम्, अतो लिङ्गिन्य् अप्य् अवगम्यमाने ऽनवस्थाप्रसङ्ग इत्य् अभिप्रायः
नन्व् अनादिकालीनवासनामात्रनिबन्धन एवायं लिङ्गलिङ्गिसंव्यवहारः, किम् इहातिनिर्बन्धेन. काचिद् एव हि वासनोद्भूता किञ्चिल् लिङ्गाकारं विकल्पम् आविर्भावयन्ती किञ्चिद् एवानुमानसंव्यवहारं प्रवर्तयति. यथाहुः -- स एवायम् अनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन, न बहिस्सदसत्त्वम् अपेक्षत इति, अत आह -- न चापी ति. न वासनामात्रनिर्मितं लिङ्गज्ञानम्. वासना हि पूर्वानुभवाहितस् संस्कारः. नासौ लिङ्गसामान्यस्य शशविषाणादिवदत्यन्तासतस् सम्भवतीति कथं वासनामात्राल्लिङ्गज्ञानस्य सम्भव इति. तन्निबन्धने च लिङ्गज्ञान इष्यमाणे तद्वद् एव लिङ्गिज्ञानोपपत्तेर् अनर्थकं त्रिरूपाल् लिङ्गतो ऽर्थदृगनुमानम् इत्य् अनुमानप्रामाण्याश्रयणम् इत्य् आह -- लिङ्गिज्ञानं चे ति
{3,94} नन्व् इयम् अनवस्था मेघाभावेन वृष्ट्यभावानुमाने भवतो ऽपि समानैव, अभावस्यानुपलब्धिलिङ्गत्वात्. सजातीयलिङ्गान्तरापेक्षायाम् अनवस्थापद्यते. अत आह -- यत्रे ति. यत्र हि वृष्ट्यभावे मेघाभावो लिङ्गं नासाव् अनुमेयः, अभावाख्यप्रमाणान्तरगम्यत्वात्. अतो नात्र तुल्यजातीयापेक्षानिबन्धनो ऽनवस्थादोषो जायत इति
प्रत्यक्षसामान्यवादिनां तु न नः काचिद् अनवस्थेत्य् आह -- प्रत्यक्षावगताद् इति. अतः प्रत्यक्षाद् इत्य् अर्थः
अनुमितानुमाने तर्ह्य् अनवस्था, अत आह -- यत्रापी ति. प्रत्यक्षा हि देशान्तरप्राप्तिर् मौलिकं मूले भवं लिङ्गं, तेन गतिम् अनुमायादित्ये गतिसाधने ऽनुमीयमाने नानवस्थेत्य् अभिप्रायः
नन्व् अनित्यश् शब्दः कृतकत्वात्, कृतकत्वं च तत्र दर्शनाद् इत्य् एवं कर्मानन्तरभावितया कृतकत्वे साध्यमाने कर्मणो ऽपि हेत्वन्तराद् अनुमाने ऽनवस्था भवेद् अत आह -- लिङ्गत्वम् इति.
कृतकत्वानुमाने हि कर्मैके तत्र दर्शनाद् ।
इति कारकव्यापारानन्तरभावित्वं लिङ्गम् उक्तम्. तत्र च कारकविशिष्टा क्रिया तद्विशिष्टं वा कारकम् अनन्तरभावितां विशिंषल्लिङ्गम् आपतति. उभयं{3,95}च तत्प्रत्यक्षम्. क्रियायास् तावत् प्रत्यक्षत्वम् अनन्तरम् एव साधितम्. कारकम् अपि तद्वत् प्रत्यक्षम् एव. शक्तिस् तु परोक्षा. सा च न तावद् इह लिङ्गम्. न चानुमेया. अतः क्रियाकारकयोर् उभयोर् अपि प्रत्यक्षत्वान् न दूरगमनम्. अनुमेयकर्मवादिनाम् अपि हि फलावध्यवस्थानान् नानवस्था, नितराम् अस्माकम् इति
एवं तावदनुमानस्यासति सामान्यस्य वस्तुत्वे प्रत्यक्षत्वे च दौस्थित्यम् उक्तम् इदानीं सर्वम् एव प्रमाणजातं सामान्यस्य दौस्थित्ये दुस्थितम् आपद्येत तेषाम् अपि सामान्याश्रयत्वात्. न च तदप्रमाणं वक्ष्यमाणन्यायाद् इत्य् अभिप्रायेणाह -- एवम् इति
अतो ऽवश्यं प्रमाणान्तराणां प्रत्यक्षपूर्वकत्वम् एष्टव्यं सामान्यस्य च प्रत्यक्षत्वम्, इतरथा त्व् अनवस्था प्राप्नोतीत्य् उपसंहरति -- तस्माद् इति
एवं तावत् सामान्यस्य प्रत्यक्षत्वं वस्तुना चोपपादिता इदानीं विशेषा एव प्रत्यक्षेण गृह्यन्त इति ये वदन्ति, तान् प्रत्याह -- प्रत्यक्षे ति. विशेषो हि यदि तावदवयवी द्रव्यम् अभिमतः, स चावयववस्त्वन्तरापेक्षस् सामान्यांशो ऽस्माभिः कीर्त्यत इति कथं प्रत्यक्ष इति
यदि त्व् अवयविरूपादय एव विशेषा इष्यन्ते, तद् अप्य् अयुक्तम्. ते ऽपि हि स्वविशेषनीलाद्यपेक्षया सामान्यम् एवेत्य् आह -- रूपादयो ही ति.{3,96}यदि तु नीलादय एव विशेषा इति मतम्. तन् न. तेषाम् अप्य् अवान्तरनीलाद्यपेक्षया सामान्यरूपत्वाद् इत्य् आह -- स्वविशेषान् इति
यदि त्व् एकभ्रमरादिद्रव्यनीलिमैव विशेष इष्यते, तन् न. तस्यापि पक्षादिस्वावयवाश्रितनीलविशेषापेक्षया सामान्यरूपत्वात्. पक्षनीलिमापि तदवयवनीलापेक्षया सामान्यम् एव. एवं च अपरमाणुभ्यः प्रसङ्गो दर्शयितव्य इत्य् आह -- ते चापी ति. निर्भागा हि परमाणव इति तद्रूपम् असाधारणम् एवेति. तेभ्यस् तु प्राक् द्व्यणुकरूपम् अपि द्वयोस् साधारणम् इत्य् आह -- द्व्यणुकस्यापी ति
नन्व् अस्तु परमाणुरूपम् एव विशेषः, स एव नः प्रत्यक्षो भविष्यत्य् अत आह -- न चान्त्येने ति. व्यवहारार्थं हि प्रमाणम् अनुस्रियते, न व्यसनितया. न चान्त्येन विशेषेण व्यवहारः कस्यचिद् अस्तीति किं तत्प्रत्यक्षतयेति. ननूपेक्षाफलम् अपि प्रमाणं भवत्य् एव, अत आह -- न चे ति. न नः परमाणूनां रूपं स्थूले वर्तमानानां तन्तूनाम् इव पटे प्रत्यक्षं विभक्तानां वेति न कथञ्चिद् विशेषविषयता प्रत्यक्षस्येति
ननु परमाणव एव भिन्नास् सञ्चिता गृह्यन्ते न कार्यद्रव्यम् एकम्. अतः कथं तत्सावयवेषु सामान्यम् इत्य् उच्यते. सञ्चिता एव चानन्यवृत्तितया विशेषासाधारणादिपदवाच्या इति ते प्रत्यक्षा भविष्यन्ति. मा नामैकैकतः परमाणुर् अक्षगोचरो भवेद् अत आह -- भेदेने ति. एको हि सर्वदा सर्वेषां च भावः प्रकाशते न परमाणुभेदाः. न च भेदेनागृह्यमाणो ऽभेदो गृह्यत इति साम्प्रतम्. संविद्विरोधाद् इति भावः. नन्व् अयम् एव भेदावग्रहो{3,97}यो ऽयम् अभिन्नप्रकाशः, किं भेदग्रहणेनात आह -- न च भिन्ने ति. नाभिन्नाकारबुद्धिबोध्यो भेदः, भेदाभेदविवेकानुपपत्तेर् इति भावः
नन्व् असत्य् अप्य् एकस्मिन् समुदायालम्बनो ऽयम् अभिन्नावभासो भविष्यतीत्य् अत आह -- समुदाय इति. ये हि सामान्यम् एव सर्वजगत्संविदितम् अपलपन्ति कुतस् तेषां समुदायो नामार्थान्तरं, यदालम्बनो ऽभिन्नप्रतिभासो भविष्यति. अपि च सर्वदा सर्वे चैकं द्रव्यम् अवबुध्यन्ते कथं तद् अन्यथा भविष्यतीत्य् आह -- न च सर्वदे ति
किञ्चायं समुदायो ऽपि नैकजात्या विनोपपद्येत. न हि नानाजातीयेषु वृक्षघटलोष्टेषु कस्यचित् समुदायबुद्धिर् अस्ति. अतस् समुदाये ऽपीष्यमाणे ऽणुत्वसामान्यम् अभ्युपगन्तव्यम् आपद्येत भवताम् इत्य् आह -- न चे ति. हेतौ चः
ननु नानेकावयववृत्त्यनुसन्धानेन विना तत्सामान्यरूपं द्रव्यम् अभ्युपगन्तुं शक्यम्. न चैन्द्रियकं ज्ञानम् एता(?व् इ।व)ति समर्थम् अविकल्पकत्वात् तस्य. अत आह -- सामान्यम् इती ति. यद्य् अप्य् अनेकानुगमकॢप्तेस् तन्नानावयवव्यासङ्गि द्रव्यं सामान्यम् इत्य् एवं विकल्प्य न गृह्यते. तथापि तदेकरूपं तावन्निर्विकल्पकेनापि गृह्यत एवेति नापह्नोतुं शक्यत इति व्यासज्यवृत्त्यवयविसामान्यन्यायेन प्रतिव्यक्तिवर्तिनो ऽपि गोत्वादिसामान्यस्यैन्द्रियकत्वं दर्शयितव्यम्. तद् अपि सामान्यम् इत्य् अनेन रूपेणाग्राह्यं वस्तुतस् सामान्यम् एव गृह्यते. शब्दादिस्मरणोत्तरकालं त्व् अनेकानुगमावमर्शात् सामान्यम् इति विकल्प्य गृह्यते. इदं च सविकल्पकसिद्धाव् उक्तम् एव. अतो नैवं वाच्यम् -- अस्त्ववयविसामान्यस्य स्वलक्षणापरनाम्न इन्द्रियैर् ग्रहणम्, न तु प्रतिव्यक्तिनिवेशिन इति
{3,98} उभयत्रापि प्रत्ययाविशेषाद् इत्य् आह -- व्यासज्ये ति. तदनेनैतदापादितम् -- किम् इदं मुधैव सामान्यस्य प्रत्यक्षता नेष्यते, विशेषम् अपि हि प्रत्यक्षम् इच्छद्भिर् बलात् सामान्यम् एव प्रत्यक्षम् आश्रयणीयम्, सर्वस्य हि सुनिपुणं निरूप्यमाणस्य रूपादेस् सामान्यरूपत्वाद्, द्रव्यस्य च नानावयवसाधारणस्य ताद्रूप्यात्, स्वतन्त्रं परमाणुसञ्चयमात्रस्य चानुपलम्भाद् द्रव्यापलापे च प्रत्यक्षविरोधात्. अतो ऽवयविसामान्यं तत्समवेतानि च गोत्वादिसामान्यानि सर्वाण्य् एव प्रत्यक्षाणि न विशेषा एवेति तात्पर्यम्. एवम्परत्वाद् एव च प्रदेशान्तरसिद्धसामान्यावयविसामान्यप्रत्यक्षताप्रतिपादनेन न पुनरुक्तता चोदनीयेति
ननु भवद्भिर् मीमांसकैस् तावदवश्यम् अभ्युपगन्तव्याः परमाणवः. अतस् तेषाम् एवोभयसिद्धानां परम् एकाकारबुद्धिजननशक्तिमात्रम् एवोपकल्पितम्. किं धर्मिकल्पनया. लघीयसी हि तत्कल्पनातो धर्मकल्पना. अत आह -- मीमांसकैश् चे ति. अयम् अभिप्रायः. यद् धि प्रमाणेनोपनीयते, तद् अस्माभिर् इष्यते, न च स्थूलं हित्वा परमाणव एवाक्षजायां बुद्धौ भासन्ते, यत्तानुपेत्य स्थूलम् अवजानीमहे. तदानुगुण्येन तु यद्य् अणवो व्या(?प।पा)द्यन्ते, भवन्तु, न तद्बलेन मूलभूतं स्थूलम् अपलपितुम् उत्सहामह इति
प्रत्यक्षं तु स्थूलम् अदृश्यैः परमाणुभिः निह्नुवानस्य शशो ऽपि तद्विषाणधिया निह्नोतव्यः प्राप्त इत्य् आह -- समूहरूपम् इति
{3,99} किम् इदानीं शशविषाणकल्पाः परमाणवः. नेत्य् आह -- समूहे ति. न ह्य् अत्र कल्पनालाघवेन प्रत्यक्षसिद्धो धर्मी परित्यागम् अर्हति. सिद्धे च तस्मिंस् तदनुगुणाः परमाणव इति केन नेष्यते. सिद्ध्युपायस् तु तेषाम् अन्यो नास्तीति परमाणवो नावश्यम् इष्यन्त इत्य् उक्तं भवति
अतो यद् एव वस्तु सामान्यविशेषयोर् अपरोक्षं गृह्यते, तत् तथैवापरोक्षतयैवाभ्युपगन्तव्यम्, न तु विशेष एव प्रत्यक्षो न सामान्यम् इति वाच्यम् इत्य् उपसंहरति -- तस्माद् इति
अस्तु वासाधारणम् एव प्रत्यक्षं, तथापि न सामान्यस्य प्रत्यक्षम् अपह्नोतुं शक्यते. गोत्वादिसामान्यानाम् अपि सत्तादिपरसामान्यापेक्षयासाधारणत्वात्. अतो यद्य् असाधारणं प्रत्यक्षम् इत्य् आग्रहो भवताम् एवम् अपि न गोत्वादिसामान्यम् अप्रत्यक्षम् इति प्रत्यक्षसामर्थ्यसिद्धत्वान् न शक्यम् अपह्नोतुम् इत्य् आह -- सत्तादी ति
यदि तूच्यते प्रत्यक्षेण गृह्यमाणम् अपि सामान्यं न सामान्योल्लेखेन गृह्यत इति (न) प्रत्यक्षम् इति, तद् एतद् आशङ्कते -- सामान्ये ति. परिहरति -- किं वे ति. एवं ह्य् असाधारणम् अपि न प्रत्यक्षं भवेत्. तत्रापि निर्विकल्पकावस्थायां{3,100}परव्यावृत्त्यकल्पनाद् असाधारणोल्लेखो नास्त्य् एवेति. यदि तु ताद्रूप्येणाविकल्पितम् अपि स्वरूपेण विकल्पको ऽवबुध्यत इति तत्प्रत्यक्षम्. एवं तर्हि द्व्याकारम् एव संमुग्धं वस्तु लोकः प्रतिपद्यत इति परीक्षकैर् उभयथापि तत् शक्यत एव वक्तुम् इति सिद्धं द्व्याकारम् एव वस्तु प्रत्यक्षेण गृह्यत इति. सिद्धं च सामान्यतस् सम्बन्धदर्शनम् इत्य् अभिप्रायेणाह -- यद्वस्तु लोकः प्रतिपद्यते ऽस्मिन् द्विधापि तत् शक्यत एव वक्तुम् इति. अस्मिन्न् इति प्रत्यक्षज्ञान इत्य् अर्थः
मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0