मीमांसाश्लोकवार्त्तिक · अध्याय 10
प्रयोजनान्तरम् आह -- प्रतिनिधिर् अपी ति. दर्शपूर्णमासयोः प्रक्रान्तयोर् व्रीह्यपचारे यत् तत्सदृशा नीवाराः प्रतिनिधीयन्ते, तद् अप्य् उपमानस्य फलम् इति. इदम् अपरं प्रयोजनम् इत्य् आह -- प्रतिकृतिर् इति युक्तम् अन्तेन. मुख्यापचारे गौणे शास्त्रार्थ आश्रयितव्ये यत्रातिगौणैर् जघन्यैर् द्वित्रादिसामान्यैः प्रतिकृतिः सादृश्यं बोध्यते, तत्र सुसदृशलाभे यन्मन्दसदृशं, मिथ्या भवति, तद् अप्य् उपमानस्य फलम् इति. कथं पुनर्मन्दसदृशं मिथ्या,{3,157}सुसदृशलाभे ऽपि ह्य् अल्पया मात्रया तत्सदृशम् अवगम्यत एव. अतो ऽस्तु तत्राल्पं नामावयवसामान्यम् अत आह -- मतिर् इति. न केवलं वस्तुतस् तयोस् सुसदृशाल्पसदृशयोः (?स्त्रीव।तीव्र)मन्द्रत्वमतिर् (?अपीति।अपि तु) तथैव -- मुख्यरूषेणैव सुसदृशे द्राक् शीघ्रम् उत्पद्यते. इवशब्दो ऽलङ्कारे. अतो मन्दसदृशस्य मात्रया सादृश्यबोधे ऽप्य् अनुपादानलक्षणो बोधो भविष्यतीत्य् अस्ति हानोपादानयोर् उपमानोपयोगः ॥ 53 -- 54 ॥
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम्
उपमानपरिच्छेहः समाप्तः ।
008 अर्थापत्तिपरिच्छेद
अथार्थापत्तिपरिच्छेदः
अत्र भाष्यम्. अर्थापत्तिर् अपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यत इत्य् अर्थकल्पना. यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति. अस्यार्थः -- अर्थापत्तिर् अपि न परीक्षितव्या, एवंलक्षणकत्वेनाव्यभिचाराद् इति. किं पुनर् अनेनार्थापत्तेर् लक्षणम् उक्तम्. अर्थो ऽन्यथानुपपद्यमानो यदर्थान्तरं कल्पयति सार्थापत्तिः. यथा जीवतो देवदत्तस्य गृहाभावो बहिर्भावेन विना नोपपद्यमानो यद् बहिर्भावं कल्पयति सार्थापत्तिर् इत्य् उक्तम्.
यद्य् एवं केयम् अन्यथानुपपत्तिर् नाम. यदि तावद् अनेन विनास्य सद्भावो नोपपद्यत इति, तद् इदं कार्यतः कारणानुमानम् उपन्यस्तं, न प्रमाणान्तरम्. अथ ज्ञातसम्बन्धस्यानुमानम्, अर्थापत्तौ न सम्बन्धज्ञानम् अपेक्षत इत्य् उच्यते, तद् अयुक्तम्. न ह्य् अज्ञाते सम्बन्धे ऽनेन विना नोपपद्यत इति शक्यते वक्तुम्.{3,158}यद् एव ह्य् अस्येदं कार्यम् इत्यादिना रूपेण ज्ञातसम्बन्धनियमः, तद् एव स्वकारणेन विना नोपपद्यत इति शक्यम् अवसातुम्, धूम इवाग्निना विना. अतो ऽविनाभावसम्बन्धबलोत्थम् एवेदं ज्ञानम् इति शब्दान्तरेणोक्तम्. स्याद् एतत्. दृष्टस्वलक्षणविषयम् अनुमानम् अग्न्यादिषु दृष्टम्, अदृष्टस्वलक्षणविषयार्थापत्तिश् शक्त्यादिषूपजायत इति. तन् न. दृष्टम् अदृष्टं वा ज्ञातसम्बन्धम् अवगम्यते ऽन्यथानुपपत्त्या, कार्यसामान्यं हि कारणसामान्येन विनानुपपद्यमानं यत् तत् कल्पयति तद् अपि सम्बन्धज्ञानेन जायमानं कथम् अनुमानाद् भिद्यते. अदृष्टस्वलक्षणविषयता चानुमानस्य क्रियानुमाने वर्णितैव. अतः प्रमाणान्तरमृगतृष्णिकैवेयम्. सत्यम्, यदि यद् येन विना नोपपद्यते तद् तद्गमकं स्यात्. इह तु यन् नोपपद्यते तद् एव गम्यम्. किम् इदानीं बहिर्भावो गृहामावेन विना नोपपद्यते. बाढम्. न हि गृहे ऽपि भवन् देवदत्तो बहिर् अपि भवति, तद् अस्य बहिर्भावो गृहाभावदर्शनेनैवोपपद्यते. ननु भाष्यकारो दृष्टः श्रुतो वेत्यादि वदन् गमकस्यान्यथानुपपद्यमानतां दर्शयति. न गम्यस्य. अग्रन्थज्ञो देवानां प्रियः. दृष्टः श्रुतो वार्थो ऽर्थकल्पनेति हि सम्बन्धः. किम् उक्तं भवति, अर्थान्तरस्य प्रमाणम् इति. अन्यथा नोपपद्यत इति तर्हि केन सम्बध्यते, प्रमित्येति वदामः. अन्यथानुपपद्यमानताम् आपादयन्नर्थान्तरस्य गमक इति. कस्यार्थान्तरस्य. यदि बहिर्भावस्य, नास्यानुपपत्तिं गृहाभाव आपादयति, न हि गृहाभावदर्शिनो बहिर्भावो नोपपद्यत इति बुध्यन्ते लौकिकाः, किन् तु चैत्रो बहिर् अस्तीति. अपि च गम्यविशेषणम् अन्यथानुपपत्तिम् आचक्षाणैर् गमकस्य किम् अन्यथानुपपत्तिर् नेष्यत एव यद्य् एवं कथं ततो बहिर्भावसिद्धिः. अथ सो ऽपि नोपपद्यते, ततो ऽविनाभावबलेनैव ज्ञानम् इति पुनरनुमानत्वम्. किम् अर्थं चान्यथा नोपपद्यत इति गमकपरित्यागेनाश्रूयमाणया प्रतीत्या योज्यते.
अथोच्यते -- अर्थान्तरस्य चैत्रसम्बन्धिनो विद्यमानत्वस्यान्यथानुपपत्तिम् आपादयन् गृहाभावो बहिर्भावं कल्पयतीति. संशयापादनं चान्यथानुपपद्यमानत्वापादनं, येन हि प्रायेण गृहे निवसंश् चैत्रो दृष्टः स गृहाभावदर्शनेनैव चैत्रस्य सद्भाव एव संशेते. प्रतीते ऽपि हि वस्तुनि{3,159}पूर्वप्रतिपन्नरूपान्तराभावावगमस् संशयम् आपादयति. देवदत्तस्य विद्यमानता गृहसम्बन्धावगतेति तदभावदर्शनाद् भवति विद्यमानत्वे संशयः -- किम् अस्ति चैत्रो न वेति. अयं च संशयो ऽनुपपत्तिर् इत्य् आख्यायते. ताम् इमां विद्यमानत्वस्य संशयरूपाम् अनुपपत्तिम् आपादयन् गृहाभावो बहिर्भावकल्पनया संशयम् उत्सारयंश् चैत्रस्य विद्यमानत्वम् उपपादयति. तद् इह गृहाभावो विद्यमानत्वस्यार्थान्तरस्य संशयापादनद्वारेण बहिर्भावेनानवगतसम्बन्धो ऽपि तं गमयति. विद्यमानत्वम् एव वा गृहाभावापादितानुपपत्तिकं स्वोपपादनाय बहिर्भावं कल्पयतीति द्वेधा दर्शनम्. अत एव चानुमानाद् भेदः. न ह्य् अनुमाने धूमादिः कस्याचित् संशयरूपाम् अनुपपत्तिम् आपादयंस् तदापादितानुपपत्तिकं वा किञ्चिद् अग्न्यादिकं गमयति. किन् तु असन्दिग्धाद् एव धूमाद् अग्निर् अनुमीयते. यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्. तथेह सन्दिग्धम् इति दर्शनबलाद् अभ्युपगन्तव्यम्.
तद् एतद् असाम्प्रतम्. तथा हि -- यत् तावद् उक्तं गृहाभावस् संशयम् आपादयतीति. तद् अयुक्तम्. कथं हि तेन विद्यमानत्वे संशय आपाद्यते. गृहे चैत्रो दृष्टः कथम् इह न भवतीति चेद्, न तावद् एवं सर्वे प्रतियन्ति, येनापि हि स तत्र दृष्टः, सो ऽपि तं जीवन्तं तत्रासन्तम् अवगम्य सहसा बहिर्भावं कल्पयतीति. अपि च -- यदि वस्तुधर्मविसंवादात् सन्देहः, न तर्हि बहिर्भावकल्पनायां निमित्तं पश्यामः. यथा हि मृतजनिष्यमाणयोः गृहाभावो न बहिर्भावं सूचयति, एवं सन्दिग्धसद्भावस्यापि. यावद् धि चैत्रस्य विद्यमानता न निश्चीयते, न तावद् गृहाभावमात्रदर्शनेन बहिश् चैत्रो ऽवस्थापयितुं शक्यते. संशयनिराकरणार्थम् अपि चात्र प्रमाणान्तरम् अर्थनीयम्. न बहिर्भावः. निराकृते तु संशये निश्चितसद्भावो गृहाभावदर्शनेन बहिर् अस्तीति गम्यते. अथ निश्चितसद्भावस्यैव स्थितिप्रकारे सन्देहः कथम् अस्तीति. स तर्हि चैत्रम् अपश्यतो ऽपि भवतीति किं गृहाभावदर्शनेन. न चासौ बहिर्भावकल्पनाबीजम्. अतो बहिर्भावकल्पनाप्रत्यनीकम् एव संशयापादनं, यत् तत्सिद्धये द्वारम् आश्रितम्. साधु सम्पादितम्. अतो न विद्मः कीदृशो लक्षणार्थ इति.
{3,160} अत आह -- प्रमाणे ति. अन्यथा नोपपद्यत इत्य् अन्यथानुपपद्यमानताम् आपादयन् गमयतीति व्याचक्ष्महे. अपि तर्हि दृष्टश्रुतविशेषणम् एवेदम्. य एव कश्चित् प्रमाणषट्कविज्ञातो ऽर्थो ऽन्यथानुपपद्यमानतया गृहीतः, स एव स्वोपपादनायान्यम् अर्थं कल्पयति तद्विषया कल्पनाबुद्धिर् अर्थापत्तिर् इति. नन्व् एवम् अविनाभावबलोत्था बुद्धिर् अनुमानम् इत्य् आपादितम्. मैवम्. न ह्य् अन्यथा नोपपद्यत इत्य् अविनाभावम् आचष्टे. स ह्य् अनेन विना न भवतीत्य् उक्ते गम्यते. किं नामानेनोच्यते, दृष्टः श्रुतः कल्पनाम् अन्तरेण नोपपद्यत इति. का पुनर् अस्यानुपपत्तिः, न हि दृष्टे ऽनुपपन्नं नाम. दृष्टम् अपि प्रमाणान्तरविरोधाद् यत् प्रतिहन्यते सानुपपत्तिः. दृष्टो हि गृहे चैत्राभावो ऽभावेन. आनुमानिकी च तस्य जीवतः क्वचित् सत्ता. सानिर्धारितदेशविशेषतया गृहम् अपि व्याप्नोति. सो ऽयम् अभावानुमानयोर् विरोधो ऽनुपपत्तिर् आख्यायते. संशयो ऽपि चात्र प्रमाणान्तरविप्रतिपत्तिर् एवानवस्थितोभयभानवस्तुलक्षणः. अथवायम् अनध्यवसाय एवैकस्मिन् बुद्धिम् उपसंहर्तुं युक्तिविशेषाद् अशक्नुवतः. अतो नेहान्यतरद् उपादातुं हातुं वा शक्यं प्रमाणत्वाविशेषात्. तद् इह सङ्कटे प्रामाणिको ऽनुमानस्य विषयं कल्पयति -- बहिर् अस्तीति, न हिंस्याद् इति सामान्यशास्त्रस्येव विहितवर्जितां हिंसाम्. एवं चोभयम् उपपादितं भवति अभावो ऽनुमानं चेति. सर्वत्र चैवम् एव दर्शयितव्यम्. त्रैरूप्यरहितत्वं चास्या उत्तरत्र वक्ष्यामः.
अत्र च दृष्ट इत्य् उच्यते, तत्र न विद्मः, किम् इह चक्षुर्मात्रेण दृष्टो ऽभिप्रेतः, उत प्रत्यक्षमात्रदृष्टः. पूर्वस्मिन् पक्षे श्रोत्रादिपूर्विकार्थापत्तिर् न स्यात्, उत्तरस्मिन्न् अनुमानादिपूर्विका. अथ प्रमितमात्रपरिग्रहार्थो दृष्टशब्दः, श्रुतो वेति तर्हि किं भेदेनोपादीयते, शब्दावगतम् अपि हि प्रमितम् एव. अथोच्यते नेदम् अर्थान्तरविवक्षया श्रुतग्रहणम्, किन् तर्हि, अभिधानान्तरम् एवेदम् उपलब्धेर् वाचकम्. उपलब्धिमात्रविवक्षया{3,161}हि दृष्टश्रुतशब्दम् उपचरन्तो लौकिका दृश्यन्ते. न दृष्टो न श्रुतः कश्चित् स्वयं दत्तापहारक इति. यथा एतद् एवाभिप्रेत्य टीकाकारेणोक्तं दृष्टः श्रुतो वेति लौकिकम् अभिधानम् इति. शाब्दीम् उपलब्धिं प्रमाणान्तरेभ्यो भेदेन लौकिका उपाददाना दृश्यन्त इत्य् उक्तं भवति. इदम् अपि नोपपन्नम्. कथं हि लक्षणग्रन्थे सुनिपुणो भाष्यकारो ऽभिप्रायान्तरम् अन्तरेण श्रुतपदं प्रयुङ्क्त इत्य् उत्प्रेक्षितुम् अपि शक्यम् इति वाच्यम् उभयोपादानप्रयोजनम् अत आह -- दृष्ट इति. सत्यम्. पञ्चभिर् अपि प्रत्यक्षादिभिर् दृष्टो दृष्टो भवति. उपलब्धिपर्याय एव दृष्टशब्द इति यावत्. तथाप्य् अस्माद् दृष्टाद् भेदेन यच्छ्रुतोद्भवार्थापत्तिर् उपादीयते, तद् अस्याः प्रमाणग्राहितया पूर्वस्या दृष्टार्थापत्तेर् वैलक्षण्यं दर्शयितुम्. तच् चोपरिष्टाद् वक्ष्यते. प्रथमार्थापत्त्यपेक्षया च पञ्चभिर् इत्य् उक्तम् इति प्रमाणषट्कपूर्विकार्थापत्त्युदाहरणावसरे
इदानीं प्रत्यक्षपूर्विकाम् एव तावन्मुख्यतयोदाहरति -- तत्रे ति वह्नेर् अन्तेन. का पुनर् इयं शक्तिः. नेयम् अतीन्द्रियेदन्तया निर्देष्टुं शक्यते. ननु यद्भावाभावनिबन्धनौ कार्यभावाभावौ इयं शक्तिः, ईदृशी च प्रत्यक्षवेद्यैव. तथा हि -- वह्निसंयोगानन्तरं दाहो दृश्यते असति च न दृश्यत इति तत्संयोग एव शक्तिर् इति गीयते, न तत्त्वान्तरम्. स च प्रत्यक्ष इति किम् अर्थापत्त्या. न. व्यभिचारात्. यथा खलु स्वरूपमात्रम् अग्नेर् व्यभिचरति, एवं संयोगो ऽपि. भवति हि कदाचिद् औषधादिसन्निकर्षे संयुज्यते वग्निर् अथ च न दहतीति. तद् इहार्थापत्त्या तत्त्वान्तरं शक्तिरूपं कल्प्यते. कयानुपपत्त्या, प्रमाणान्तरविरोधेन. तथा हि -- प्रत्यक्षेण दाहो ऽवस्थाप्यते. हेत्वभावेन च प्रतिक्षिप्यते. स हि कार्याभावेन विदितप्रतिबन्धस् तं गमयति. तथा हि -- न स्वरूपम् अग्नेः कारणम्, न तत्संयोगो व्यभिचारात्, नान्यत् किञ्चित्. न चाकस्माद् एव भवतीति साम्प्रतम्. एवं हि कदाचिन् न स्यात्, अपेक्षा हि कदाचिद् भावे निबन्धनम्, अनपेक्षं तु नित्यं सदसद् वा भवेत्. अतः कार्यदर्शनादर्शनबलाद् अग्नेः स्वरूपाद् व्यतिरिक्तं किञ्चिद् रूपम् उन्नीयते,{3,162}यद्भावाभावनिबन्धनौ कार्यभावाभावाव् इति. स्वरूपमात्रायत्ते तु कार्यभावे तदभेदात् सदापत्तिर् इति. स्वरूपमात्रम् अप्रतिबन्धम् अग्नेर् दाहस्य कारणम् औषधादीनां तु प्रतिबन्धृतेति चेत्, कः प्रतिबन्धार्थः. स्वरूपं तावदविनष्टम्. तद् एव प्रत्यभिजानीमः. न हि बीजस्योपरि त(?ना।दा)नीते प्रदीपे किञ्चिद् रूपापचयम् उपलभामहे. न च तेनाङ्कुरो जन्यते. अथ वस्त्वन्तरसन्निधौ सामग्र्यन्तरम् एव जातम्, अतः पूर्वसामग्रीकार्यं नोत्पद्यत इति चेन् नैवम्. न हि मन्त्रादिसन्निकर्षे पूर्वसामग्रीनाशो दृश्यते. न च तत् कार्यम् उपलभ्यते. अथ मन्त्रादिरहितम् एव कारणं कार्यस्य जनकम्. न तु तत्र तेन किञ्चित् क्रियत इत्य् उच्यते. तन् न. न ह्य् अकिञ्चित्करस्य सन्निधिः कार्यं प्रतिबध्नाति. अन्यद् अपि हि तत्रोदासीनं सन्निहितं भवति. न च कार्यं न जायते. न च मन्त्रादिसन्निधाव् अर्थान्तरम् एव जातं पूर्वकारणनाशेनेति मतिर् आविरस्ति. सकला हि सामग्री प्रत्यभिज्ञायते. अस्ति च तत्र कारणम् इत्य् उक्तम्. न च मन्त्रादिप्रागभाव एव वा तद्विशिष्टा वा सामग्री जनिकेति युक्तम्. अभावस्य भावान्तरसिद्धौ व्यापारादर्शनात्.
विहिताकरणे ऽपि तत्काले ऽन्यक्रिया प्रत्यवायहेतुर् ना(?का।क)रणम्. यदाह --
स्वकाले यद् अकुर्वस् तु करोत्य् अन्यद् अचेतनः ।
प्रत्यवायो ऽस्य तेनैव नाभावेन स जन्यते ॥
इति. यदि तु --
कर्मणः प्रागभावश् च विहिताकरणेषु यः ।
स चानर्थकरत्वेन वस्तुत्वान् नापनीयते ॥
इति दर्शनात् मन्त्रादिप्रागभावः कारणम् इष्यते. तथापि परस्तात् कार्यदर्शनं नोपपद्यत इति. मन्त्रादिप्रध्वंसो ऽपि कारणम् इति चेत्, स तर्हि प्राङ् नासीद् इति प्राङ्मन्त्रादिप्रयोगात् कार्यं न जायेत. न हि क्षितिजलबीजानाम् अन्यतमापाये ऽप्य् अङ्कुरो जायमानो दृश्यते. अपि च सत्य् एव प्राच्यमन्त्रादिसन्निधाने तद्विपरीतमन्त्राद्यागमे कार्यभावम् ईक्षमाणा न तदभावस्य कारणभावम् अवस्थापयामः. न हि विहिताकरणकारणकः प्रत्यवायः सत्य् अपि विहितकरणे दृष्टः. भवति चात्र प्रयोगः -- यद्यदभावकारणकं तत्तद्भावे न भवति विहिताभावभाव्य इव प्रत्यवायो{3,163}विहितभावेन. न चैवं मन्त्रादिभावे कार्यम् इति. एवं चाकिञ्चित्करो मन्त्रादिभावो न कदाचित् कार्यं प्रतिबध्नीयात्. अतः कारणशक्तेर् एव प्रतिबन्धको मन्त्रः, न तदभावः कारणम्. बलवत्तरोपनिपातापहृतशक्तिस् तु सो ऽपि न किञ्चित् प्रतिबध्नाति. न च यद् बलवद्रुद्धम् आत्मानं नैव विन्दति, अविरोधे ऽपि तेनात्मा न लब्धव्यः. कदाचन माभूत् श्रौतपरिपन्थिविनियोगाभावे ऽपि लैङ्गिकविनियोगाभाव इति. अतो ऽस्ति कश्चिद् अतिशयः कारणानाम्, यन्नाशतिरोधानाभ्यां कार्यं नारभन्त इति सिद्धं प्रत्यक्षावगताद् दाहाद् दहनशक्तिकल्पनम्. अनुमेयत्वं तु शक्तेर् उपरिष्टान्निराकरिष्यत इति. अनुमानपूर्विकार्थापत्तिम् उदाहरति अनुमिताद् इति. देशान्तरप्राप्त्या सूर्ये यानम् अनुमीयते, ततो ऽर्थापत्त्या तच्छक्तिः. अत्रापि प्रमाणान्तरविरोध एवानुपपत्तिः. गमनं हि प्राणिनां विशिष्टपदादिसाधनकम् अवगतम्. अयं चानुमिततद्विधर्मगमनसाधनो ऽपि तथैव न गन्तुम् अर्हतीति वितर्कः. सो ऽयं शक्तिकल्पनया निवार्यते. अस्ति नाम सा काचिद् अस्य शक्तिः, यया गन्त्रन्तरविधर्मगमनो विपातनिपातयोस् समम् उपसर्पतीति
श्रुतार्थापत्तिस् तु भिन्नविषया दृष्टार्थापत्तिभ्यो विविच्य पश्चाद् एवाभिधास्यत इत्य् आह -- श्रुते ति. उपमानपूर्विकां दर्शयति -- गवये ति. गवयसदृशो गौर् इत्य् उपमिते सदृशज्ञानग्राह्यशक्तिर् अर्थापत्त्या कल्प्यते. ईदृशी च तत्रानुपपत्तिर् भवति -- कथं गवि सुसदृशज्ञानं जन्यते, यदि हि जनयेत् प्रथमदर्शने ऽपि किं न जनयेत्, सन्ति हि तदापि गवि गवयावयवसामान्यानि, तद् एवं जातम् अपि गव्युपमानम् अनुपत्त्यावसीदति. शक्तिकल्पनयोपपाद्यते. अस्तिनाम को ऽपि गोर् अतिशयो यः प्रतियोगिदर्शनप्रतिलब्धाभिव्यक्तिर् गवयसदृशीं धियम् उपजनयति. यच् चेदं समाने पशुत्वे गौर् एव गवयसदृश इत्य् उपमीयते तद् अपि तस्य शक्तिविशेषाभ्युपगमाद् विना नोपपद्यत इति
अर्थापत्तिपूर्विकाम् उदाहरति -- अभिधाने ति. शब्दाद् अनन्तरम् अर्थप्रतिपत्तिं दृष्ट्वा तस्य तत्कारणत्वम् अवसीयते. न च व्यापारम् अन्तरेण{3,164}कारणत्वम् उपपद्यत इति शब्दसमवायी व्यापारो ऽनुमीयते. स चाभिधेति प्रसिद्धम्. तत्सिद्ध्यर्थं च शब्दे वाचकसामर्थ्यम् अर्थापत्त्या प्रमीयते. अभिधायकत्वे ह्य् अनुमिते भवत्य् अनुपपत्तिः, नायम् अस्याभिधायकः. प्राग् इव सम्बन्धज्ञानाद् गृहीतसम्बन्धः प्रत्यायक इति चेद् न. तदभावात्. न ह्य् अस्यार्थेन संयोगादीनाम् अन्यतमस् सम्बन्धो दृश्यते. तद् अस्यानुपपत्तौ शक्तिकल्पनोपपादिका भवति. अस्ति खल्व् अनयोर् वाच्यवाचकशक्तिरूपस् सम्बन्धः. यदग्रहान् नार्थो ऽवगम्यत इति. एवं च शक्तिकल्पनोत्तरकालं शक्तेर् अपि नित्यत्वम् अन्तरेणानुपपत्तेर् अर्थापत्त्यन्तरेण शब्दस्य नित्यता प्रतीयत इति
एतद् एव विवृणोति -- अभिधे ति सार्धेन. एतच् च स्वयं जैमिनिनैव शब्दाधिकरणे ऽभिधास्यत इत्य् आह -- दर्शनस्ये ति ॥ 6 -- 7 ॥
अभावपूर्विका तु भाष्यकारेण स्वयम् उदाहृतेति न पृथगुदाह्रियत इत्य् आह -- प्रमाणाभावे ति सार्धेन. अस्यार्थः -- यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति भाष्ये य. चैत्रस्य बहिर्भावसिद्धिर् दर्शिता ताम् एव प्रकृताभ्यो ऽन्याम् अभावपूर्विकाम् अर्थापत्तिं भाष्यकार उदाहरत् उदाहृतवान् इति. प्रपञ्चस् त्व् अर्थापत्त्युदाहरणानां पक्षदोषाभिधानावसरे ज्ञात्रादिनास्तितायाम् इत्यादिनानुमाने वर्णित इत्य् आह -- पक्षदोषेष्व् इति ॥ 8 -- 9 ॥
{3,165} इदानीम् अर्थापत्तेर् अनुमानाद् भेदे वेदितव्ये भाष्योक्तत्वाद् अभावपूर्विकाया एव भेदं तावद् आह -- अभावे ति. येयम् अभावप्रमाणेन गृहे नास्तीत्य् अनेन रूपेणावगताच् चैत्राद् बहिर्भावसूचनात्मिकार्थापत्तिः सापि पक्षधर्मादीनाम् अनङ्गत्वाच् छब्दवदुपमानवदनुमानाद् भिद्यत इति
पक्षधर्माद्यनङ्गत्वम् एव दर्शयति -- बहिर्देशे ति. इह हि बहिर्देशविशिष्टश् चैत्रः पक्षस् तद्विशिष्टो वा बहिर्देशः. न चोभयस्यापि गृहगतो ऽभावो धर्म इत्य् (अस्य) पक्षधर्मत्वं कथम्, न कथञ्चिद् इत्य् अर्थः
नाभावमात्रम् अविशेषितं चैत्रस्य बहिर्भावे लिङ्गम्. न चास्य गृहं विशेषणं भवति, परतन्त्रं हि विशेषणम्, यथा नीलिमोत्पलद्रव्यस्य. एवम् इहापि द्रव्यभूतं गृहम् एव तत्परतन्त्रेणाभावेन विशेष्यत इति युक्तम्, व्यापकत्वाच् चाभावो गृहस्य विशेषणम्, शक्यते हि तेन चैत्राधिष्ठितैकदेशव्यतिरिक्तजगद्व्यापिना गृहं व्याप्तुम्. अल्पं तु गृहं न महाविषयम् अभावं व्याप्तुं शक्नोति. अतो यथा व्याप्यस्य धूमस्याग्निविशिष्टत्वम् अवगम्यते, अनेनापि प्रकारेण गृहम् एवाभावविशिष्टं बहिर्भावस्य लिङ्गम् इत्य् आपतति. तच् च तदभावविशिष्टगृहं न कथञ्चिच् चैत्रबहिर्देशाभ्यां सम्बध्यते. अभावस्य तावत् कथञ्चिद् अस्ति चैत्रान्वयः. चैत्राभाव इति हि स प्रतीयते. गृहं तु न कथञ्चिच् चैत्रसम्बद्धम् अवगम्यते इत्य् अपक्षधर्म इत्य् आह -- तदभावे ति. इतश् च गृहाभावो न पक्षधर्म इत्य् आह -- गृहाभावे ति. गृहीते हि पक्षे तद्धर्मप्रत्ययो भवति. न च चैत्रबहिर्देशौ गृहे ऽसत्तया गम्येते इति
{3,166} गृहम् एव तु तत्र प्रत्यक्षावगतम् इति तद्धर्मप्रतीतिर् एवाभावे भवतीत्य् आह -- गम्यते तु गृहम् इति. न हि तत्र गृह एव चैत्रो ऽनुमीयते, अभावविरोधाद् इत्य् अभिप्रायेणाह -- तत्रे ति. अदर्शनं हि चैत्रसम्बद्धम् अवगतम् इति तल्लिङ्गं भविष्यतीत्य् अत आह -- न चात्रे ति. न च दर्शनाभावो बहिर्भावे लिङ्गम्, एतदभावे ऽभिधास्यत इति
अतो गृहे ऽदर्शनम् अपि न हेतुर् इत्य् आह -- तेने ति. किञ् च गृहाभावावधारणोपक्षीणे ऽदर्शने बहिर्भावमतिर् भवति, कथम् असौ तद्धेतुका भवियिष्यतीत्य् अभिप्रायेणाह -- अदर्शनाद् इति. अभिप्रायं विवृणोति -- नासाव् इति. अदर्शनावधारितस्य चैत्रभावस्यैवान्यत्रानुपयुक्तस्य हेतुत्वं सम्भवति. तच्चापक्षधर्मतया निराकृतम् इत्य् आह -- चैत्राभावस्ये ति ॥ 14 -- 15 ॥
एवं तावत् पक्षधर्मता निराकृता पक्षो ऽप्य् अत्रानुमानात् पूर्वं नोपलक्ष्यत इत्य् आह -- पूर्वं न चे ति
{3,167} अत्र चोदयति -- नदी ति. अत्र ह्य् अप्रतिपन्न एवोपरिदेशे पक्षे ऽतद्धर्मः पूरो लिङ्गं तद्वद् इहापि भविष्यतीति
परिहरति -- वृष्टिमद् इति. एवं त्व् अनुमीयमाने लोकविरोधः. न ह्य् एवं लौकिका बुध्यन्ते. अत आह -- यद् वे ति. दृष्टस्य नदीपूरस्य कारणाभावानुपपत्त्योपरिष्टाद् वृष्टिः कल्प्यते. इदम् अपि चान्वारूढेनोक्तम्, परमार्थेन तु व्याप्तिबलोत्थम् इदम् अनुमानम् एव. न चापक्षधर्मतादोषः. उपरिदेशस्य पूरसम्बद्धदेशसम्बन्धात्, असम्बद्धो हि न हेतुर् भविष्यतीति
इतश् च गृहाभावो न बहिर्भावे लिङ्गम् इत्य् आह -- जीवतश् चे ति. निश्चितरूपं हि लिङ्गम् अनुमाने गमकम्. इह च यो ऽयं जीवतो गृहाभावः स प्रमाणान्तरविरोधान् निश्चेतुम् एव न शक्यते. एवं हि तत्र भवति वितर्कः. जीवता हि क्वचिद् भवितव्यम्, कथम् इह न स्यात्. एवं चानध्यवसायाद् अप्रतिष्ठितो गृहाभावो ऽसिद्धत्वाद् अलिङ्गम्. सिद्धिस् तु नानन्तर्भाव्य बहिर्भावम् अस्य भवति, तदन्तर्भावे च परस्तात् प्रमेयाभाव इति भावः
अनुमाने त्व् अनपेक्षितप्रमेयम् एव धूमादिलिङ्गस्य स्वरूपं सिद्धम् अवगम्यत इत्य् आह -- अग्निमत्ते ति
यदि त्व् इहापि हेतोर् अनपेक्षत्वसिद्ध्यर्थं गृहाभावमात्रम् अविशेषितं जीवनेन हेतुर् इष्यते ततो नैकान्तिक इत्य् आह -- गेहे ति
{3,168} कथं च विद्यमानत्वविशिष्टो गृहाभावो बहिर्भावं साधयति कथं च शुद्धो नेत्य् उभयत्र कारणम् आह -- विद्यमानत्वे ति द्वयेन. विद्यमानत्वविशेषणविशिष्टगृहाभावबुद्धौ हि यावद् विद्यमानत्वस्य विषयो नावस्थाप्यते तावदभावः प्रत्येतुम् एव न शक्यते, तद् यदा भावप्रतिपक्षेणाभावेन गृहम् अवरुद्धं तदा तत्र तावच् चैत्रस्य भावो भवितुं न प्रभवतीत्य् आश्रयापेक्षया पारिशेष्याद् बहिर् एव भवतीति. शुद्धाभावप्रतीतौ त्व् आश्रयापेक्षैव नास्तीति किं बहिर्भावकल्पनयेति ॥ 22 -- 23 ॥
ननु च निश्चितसद्भावस्य चैत्रस्य गृहाभावो बहिर्भावम् अन्तर्भाव्य सिद्ध्येत्. सन्दिग्धसद्भावस्य त्व् अनपेक्षितबहिर्भाव एव तं गमयिष्यतीत्य् अत आह -- सिद्ध इति. यदि चैत्रसद्भावे सन्देहः, न तर्हि तद्बहिर्भावावगतिः प्रसिध्येत्. असन्दिग्ध एव तु सद्भावविज्ञाने ऽभावेन गेहाद् उत्कालिता -- उत्सारिता तत्सत्ता बहिर्भवति नियमेन, इतरथा तत्रापि सन्देह एव भवेत्. एतेन गृहाभावापादितसन्देहं विद्यमानत्वम् एव बहिर्भावं कल्पयतीति यैर् उक्तं तन्निराकृतम् इति वेदितव्यम्. इदं च प्रायेवोक्तम् अस्माभिर् इति
अतः सिद्धं जीवननिरपेक्षस्याभावस्य व्यभिचारः अव्यभिचारिणश् च प्रमेयानुप्रवेशद्वारणैव समर्थनम् इति धूमाद् इवैलक्षण्यान् न लिङ्गत्वम् इत्य् आह -- तेने ति
{3,169} एवम् अनुमानाद् भेदं प्रसाधितुम् उपसंहरति -- तस्माद् इति. अनुमानाद् बहिर्भूतम् इदं प्रमाणं स्थितम् इति
तद् एवं गृहाभावस्य प्रमेयानुप्रवेशनसिद्धौ यदि तल्लिङ्गम् इष्यते ततो दुरुत्तरम् इतरेतराश्रयत्वम् आपद्यत इत्य् आह -- पक्षे ति द्वयेन ॥ 27 -- 28 ॥
नन्व् एवम् अर्थापत्ताव् अपि प्रमेयानुप्रवेशिता, कथं हि प्रमाणान्तरापादितानुपपत्तिर् अनवस्थितो गृहाभावो बहिर्भावं गमयिष्यत्य् अत आह -- अन्यथे ति. द्वेधा ह्य् अनुपपन्नम् -- किञ्चिद् अनुपपन्नम् एव यन् न कथञ्चिद् उपपादयितुं शक्यम्, किञ्चिच् चासति कल्पने ऽनुपपन्नम्. तत्र यद् एकान्तम् अनुपपन्नं तदुपेक्ष्यत एव. यत् तु कल्पिते कस्मिंश्चिद् उपपद्यते अन्यथा नोपपद्यते तदुपपत्तिर् अन्यकल्पनयावसीयते. एवम् एव हि सर्वलौकिकपरीक्षका बुध्यन्ते. न च विपर्ययो देशान्तरादिषु दृष्टः. अतः प्रमाणम् एवेदम्. यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्, एवम् इहापि केनचित् प्रमाणेनावगतं प्रमाणान्तरेणोत्थापितवितर्कम्. न चात्रान्यतरत्रापि प्रामाण्ये संशयः, किन् तु निश्चितप्रामाण्ययोर् एव द्वयोस् समर्थनापेक्षामात्रं कथम् इदम् उभयम् उपपद्यताम् इति. षोडशिन इव ग्रहणाग्रहणशास्त्रयोः. न तत्रैकपरित्यागेनेतरद् उपपादयितुं शक्यते. अतो यथा तत्र कथम् इदम् उभयम् उपपद्यताम् इत्य् अपेक्षिते प्रयोगभेदेनोभयम् उपपाद्यते, एवम् इहापि प्रमाणप्रतिपन्नम् उभयं निश्चितसद्भावम् अर्थान्तरपरिकल्पनया{3,170}समर्थ्यते. ताद्रूप्येणैव प्रतिभानात्. विलक्षणानि हि प्रमाणानि विलक्षणसामग्रीकाणि. अत एव परस्परतो भिद्यन्ते. अप्रामाण्यकारणानि च संशयविपर्ययावज्ञानं वा, तच् चार्थापत्ताव् अपि नास्तीति कथम् अप्रमाणता. कथम् अज्ञातसम्बन्धात् प्रतीतिः प्रमाणम् इति चेत्. न सम्बन्धः प्रामाण्ये कारणम्, अपि तु बाधविरहः. स चेहाप्य् अविशिष्ट इति न कश्चिद् दोषो ऽर्थापत्ताव् अस्माकं प्रतिभातीति
ननु गृहाभावो नान्तरेण बहिर्भावम् उपपद्यते अतो नान्तरीयकः, नान्तरीयकाच् च यदर्थान्तरज्ञानं तदनुमानम्, अतो ऽनुमानम् एवेदं बहिर्भावज्ञानम् अत आह -- अविने ति. अयम् अभिप्रायः -- नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानम् इति केचित् पठन्ति, तेषाम् अपि तद्विदो नान्तरीयकताविद एव नान्तरीयकदर्शनम् अनुमानम् अभिप्रेतम्, न चेह नान्तरेण बहिर्भावं गृहाभावो भवतीति प्रागवगतम्, तदैव ह्य् अर्थापत्त्या बहिर्भावं परिकल्प्यायमनेन विना न भवतीत्य् अविनाभाविता कल्प्यते. अतस् सा स्वरूपसत्य् अपि न पूर्वम् अवगतेति न ज्ञानोत्पत्तौ कारणम् इति
नन्व् अवगतसम्बन्धस्य तर्ह्य् अनुमानं स्याद् अत आह -- गृहाभावे ति ता न्तेन. न तावन्नियमेन सर्वैर् एव द्वयोस् साहित्यम् अवगतम्, अविदितसाहित्यस्य तावत् सिद्धं प्रमाणान्तरम् इत्य् अभिप्रायः. येनापि तयोस् साहित्यम् अवगतं तस्यापि नागृहीतयोस् तयोस् साहित्यग्रहः सम्भवति, न च तयोर् एकग्रहणे ऽपरदर्शनम् अर्थापत्त्या विना सम्भवति. अन्यथानुपपत्त्यैव त्व् एकेन गृहाभावेन{3,171}बहिर्भावेन वा तयोर् एकः प्रत्येतव्यः. एवं चाकल्प्यमाने न्यतरस्य सम्बन्धिनो ऽगृहीतत्वात् साहित्यप्रतीतिर् एव न स्यात्, अतस् साहित्यार्थम् अर्थापत्तिर् अर्थनीयेति सिद्धं प्रमाणान्तरम् इत्य् अभिप्रायेणाह -- प्रमाणं चे ति प्रतीयते ऽन्तेन. अभिप्रायं विवृणोति -- तेने ति ॥ 31 -- 33 ॥
ननु च नावश्यम् अर्थापत्त्यैवान्यतरस् सम्बन्धी ग्रहीतव्यः, शक्यते हि गृहद्वारावस्थितेनाभावप्रत्यक्षाभ्याम् उभयं विदित्वा सम्बन्धो ऽनुभवितुम्, तथा विदितसम्बन्धाच् च गृहाभावाद् बहिर्भावानुमानम् इत्य् आशङ्कते तावत् -- गृहद्वारी ति
अत्रोत्तरम् आह -- तदापी ति. अयम् अभिप्रायः -- सिध्यत्य् एवं गृहाभावाद् बहिर्भावानुमानम्, न पुनर् एवम् एव सर्वेषाम् अवगतिः, अगृहीतसम्बन्धानाम् अपि प्रतीतिभावात्. एषो ऽपि च प्रकारो नैकत्र भावेन सर्वत्राभावावगमे सम्भवति, न हि जगदभावेनैकत्र भावो ऽन्वितश् शक्यो ऽवगन्तुम्. जगदभावस्य प्रत्येतुम् अशक्यत्वाद् इत्य् अभिप्रायः. नन्व् एवं तदावगतं यदायम् एकत्र भवति तदा परत्र तत्समीपे न भवतीति. एवं च विदितव्याप्तेर् एकदेशभाने सर्वत्राभावानुमानं भविष्यति. अत आह -- न चे ति. न ह्य् एकदेशनास्तितया त्रैलोक्याभावेन हेतोर् व्याप्तिस् सिध्यतीति
किं पुनर् जगदभावेन सम्बन्धो नावगम्यते, तस्यानवगतेर् इति चेद्, नन्व् अनुपलब्धिर् अभावावगमे कारणम्, यथा चैकत्र सन् देवदत्तो देशान्तरे{3,172}नुपलभ्यमानो नास्तीति निश्चीयते. एवम् एकत्र सन् सर्वत्र नोपलभ्यत इति सर्वत्रैव नास्तीति शक्यम् अवगन्तुम्. न हि दर्शनवददर्शनम् अपि प्रयत्नम् अपेक्षते, दर्शनं हि कार्यं स्वकारणम् अर्थेन्द्रियसन्निकर्षाद्यपेक्षमाणम् एकत्र सतो न सर्वत्र सम्भवति, दर्शनाभावस् तु न किञ्चिद् अपेक्षत इति चोदयति -- नन्व् अत्रे ति. अत्रेत्य् एकदेशं परामृशति. अत्र खल्व् एकदेशे ऽनुपलब्धितो ऽविद्यमानत्वम् अवगम्यते. तच् च सर्वत्रापि समानम् इति
अत्र परिहारम् आह -- नैतये ति. किम् इति न प्रतीयते अत आह -- तद्देशे ति. उपलब्धियोग्यस्य ह्य् अनुपलब्धिर् अभावं व्यवस्थापयति, दूरस्थेषु त्वयोग्यत्वाद् एव सत्स्व् अप्य् अनुपलब्धिस् सम्भवतीति नाभावनिश्चय इति
यदि तु सर्वग्रामनगरसरित्कान्तारादिदेशाः प्राप्ता भवेयुः, एवं चैत्रस्य तेष्व् अभावश् शक्यावगमः, न चेदं शक्यकरणम् इत्य् अभिप्रायेणाह -- गत्वा गत्वे ति
अत्र चोदयति -- ननु चे ति. अयम् अभिप्रायः -- न तावद् विपक्षाद् अव्यावृत्तो हेतुर् गमकः, न च सर्वे विपक्षा गत्वोपलब्धुं शक्यन्ते, अतो ऽवश्यम् एकदेशस्थस्यैवानुपलब्ध्या विपक्षाद् हेतोर् व्यतिरेको ग्रहीतव्यः. तद्वद् इहापि भविष्यतीति. धूमादयश् च ते व्यतिरेकिणश् चेति धूमादिव्यतिरेकिणः. अग्न्याद्यभावे ये व्यतिरेकिणो धूमादयस् तेषाम् अग्न्याद्यभावदेशागमनाद् व्यतिरेको न सिध्यतीति
{3,173} परिहरति -- यस्ये ति. व्यतिरेकप्रधानवादिनो हि बौद्धस्यासति विपक्षाद् व्यतिरेकग्रहणे न हेतुर् गमको भवति, वस्त्वन्तराभावो हि तस्य प्रमेयः, अग्न्यादेर् वस्तुनो ऽन्यस्यानग्न्यादेर् अभाव इति यावत्. स हि सर्वानग्निव्यतिरेकम् अन्तरेण न सम्भवति, मम तु सहचारिणो हेतुर् गमकः, अन्वयमात्रनियमेन. स च विपक्षादर्शनमात्रेण द्वित्रैर् एव दर्शनैः सिध्यतीति
नन्व् अन्वयवादिनो ऽप्य् अजातातिवृत्तप्रत्युत्पन्नानन्तदेशवर्तिवह्निसहचरितधूमदर्शनं दुर्लभम् एव. अथ कतिपयाग्निसाहित्यदर्शनादेवासहितावगता अपि वह्नयो ऽनुमीयन्ते, एवं तर्हीहापि चैत्राभावस्य जगद्वर्तिन एकदेशभावेन सम्बन्ध उपपद्यत एव. अत्रापि ह्य् एकत्र चैत्रे भवति कतिपयेषु तदभावो दृष्ट एव, तावता च सर्वत्राभावो ऽनुमास्यत इत्य् आह -- नन्व् एवम् इति
अत्र परिहारम् आह -- साहित्य इति. अयम् अभिप्रायः -- न हि नो व्यक्तिविषयम् अनुमानम्, अपि तर्ह्य् आकृतिविषयम्, आकृत्योश् च प्रतिव्यक्तिकृत्स्नसमवायात् सुलभम् एव साहित्यदर्शनम्, सकृद्दर्शनेनैव ह्य् आकृत्योस् साहित्यम् अवगम्यते. अत एव द्वित्रादिदर्शनम् अपि व्यभिचाराशङ्कायां नियमार्थम् अभ्यर्थ्यते. अवगते हि साहित्ये भवति शङ्का -- किम् अयम् औपाधिकस् संसर्गो धूमस्याग्निना सह आहोस्वित् सहज एवेति, तत्रासकृद्दर्शने ऽन्वयाव्यभिचाराद् उपाध्यन्तरप्रवेशकारणाभावात् स्वाभाविको ऽस्याग्निनान्वय इति भवति मतिः. अग्नेस् तु प्रथमम् अवगतसम्बन्धस्यापि धूमेन दर्शनान्तरे व्यभिचारदर्शनादार्देर्न्धनादिर् उपाधिर् अनुप्रविशति. न च देशादिभेदे व्यभिचाराशङ्का, सकृद्दर्शनावधारितसाहचर्ययोर् हि द्वयोर् अप्य् अग्नेस् तावद् व्यभिचारो दृष्टो{3,174}द्वित्रादिदर्शनेनैव, तद् यदि धूमो ऽप्य् अग्निं व्यभिचरेत्, अस्यापि हि द्वित्रिचतुरैर् एव दर्शनैर् व्यभिचारो दृश्येत, न च दृश्यते. अतो ऽग्न्यन्वितस्वभावो ऽयम् इति निश्चीयते. यस्य त्व् एवम् अप्य् अनाश्वासः. तस्य सर्वप्रमाणेष्व् एव क्वचिद् व्यभिचारदर्शनाद् अनाश्वासः स्यात्. विपक्षव्यतिरेको ऽपि चैवम् अर्थाद् एव सिद्धो भवति. स हि प्रथमम् अन्विच्छतो विपक्षदेशानाम् अनन्तत्वाद् दुर्लभो भवति. स्वभावनियमे तु ज्ञाते स्वभावस्याव्यभिचारात् सुलभो व्यतिरेकः. न हि स्वाभाविकम् उष्णत्वम् अन्तरेण क्वचित् कदाचिद् अग्निर् भवतीति कश्चिद् आशङ्कते. मितदेशत्वाद् इति. परिमितदेशत्वाद् इत्य् अर्थः
एकदेशभावजगदभावयोस् तु नैवं साहित्यज्ञानं भवतीत्य् आह -- इहे ति. एको ह्य् अत्र सर्वत्राभावस् सहभाव्यनन्तदेशवर्ती, न त्व् अग्निधूमाकृतिवत् परिमितदेशः, अतो ऽत्र दुर्ग्रहं साहित्यम् इति
अत्र चोदयति -- नन्व् इति. अनुमानेन देशान्तराभावश् चैत्रस्य प्रतीयते. एवं ह्य् अनुमास्यते. परोक्षास् सर्वभूमयश् चैत्राभावसम्बन्धाः, तदाक्रान्तदेशव्यतिरेकित्वात् स्थितचैत्रदेशसमीपवद् इति
परिहरति -- विरुद्धे ति. कथं हि विरुद्धाव्यभिचारित्वम् अत आह -- तद्वद् इति. तद्वच् चैत्रवद् देशान्तरम् इति. अतो ऽर्थापत्त्यैव सर्वत्राभावो ऽवगन्तव्यः, नान्या गतिर् अस्ति
तथा तु तं गृहीत्वा साहित्यग्रहणपुरस्सरं यद्य् अनुमानम् इष्यते तदर्थापत्तिपूर्वकम्, एतावता च सिद्धम् अर्थापत्तेः प्रामाण्यम् इत्य् अभिप्रायेणाह --{3,175} पुरुषस्ये त्य् अत्रा न्तेन. यस् तु वदति -- स्वात्मनस् तावद् एकत्र सतस् सर्वत्राभावेन सम्बन्धो दृष्टः, अतो ऽन्यस्याप्य् अनुमिनोतीति. स वक्तव्यः स्वात्मन एव सर्वत्रासत्ता कथम् अवगम्यते, यद्य् अभावेन, कस्येति वक्तव्यम्, न तावत् प्रत्यक्षस्य निवृत्त्या दूरदेशेष्व् अभावश् शक्यते ऽवगन्तुम्, दूरत्वाद् एव तेषाम् अनुपलब्धियोग्यत्वान् न स्वात्मनो ऽभावस् तेषु शक्यते ऽवगन्तुम्. अथ तत्र सतो दूरस्थत्वम् एव न स्यात्, अतस् सहैव देशान्तरे स्वशरीरम् उपलब्धियोग्यं भवति, योग्यत्वाच् चोपलभ्येत, अतो ऽनुपलम्भान् नास्तीति निश्चीयते. यद्य् एवं प्रमाणान्तरम् इदम्, यो हि यत्र भवति तस्य सहैवाधारेणात्मोपलब्धियोग्यो भवति, न चेह तथा, अतो न देशान्तरेष्व् अस्तीति. एवं चानुमानेन देशान्तराभावो ग्रहीतव्यः. न प्रत्यक्षाभावेन. तत्र च विरुद्धाव्यभिचारितोक्तैव -- देशान्तराणि विमतिपदानि चैत्रवन्ति चैत्रवद्देशसमीपव्यतिरिक्तदेशत्वाच् चैत्रवद् देशवद् इति. यत्र च प्रतिहेतुना सन्देहः क्रियते तत्र बलवतान्येन यदुपबृंहितं प्रत्यक्षादिना भवति तद्विजयते, न चेहार्थापत्तेर् अन्यत् प्रमाणं सर्वत्राभावे समर्थम्. सा ह्य् एवं प्रवर्तते, यद् एतद् एकत्र कार्त्स्न्येन चैत्रस्योपलम्भनं तन् नोपपद्यते, यदि देशान्तरे चैत्रो भवेत्, द्वेधा हि भावाः प्रादेशिका विभवश् च, विभवो ऽपि द्वेधा, सर्वव्यापिनः स्वाश्रयव्यापिनश् च. पूर्वे गगनादयः. उत्तरे जात्यादयः. यद् धि सर्वसंयोगिभिर् अनागतैर् अगतं सम्बध्यते, तद्विभुतया प्रसिद्धम्, तया चात्माकाशादय इति विभव इत्य् उच्यन्ते. न तावदाकाशवच् चैत्रः, एकत्र परिसमाप्तो हि परिमण्डलस् सो ऽवगम्यते. न च यथावयवी स्वावयवेषु वर्तते तथा देशान्तरे वर्तितुम् अर्हति. यदि हि तस्यान्यत्र भागा भवेयुः इह कृत्स्नो नोपलभ्येत. भवन्वान्तराले विच्छेदाद् अन्यो भवेत्. न च जातिवद् वर्तितुम् अर्हति. जातिर् ह्य् अमूर्ता, सैकत्र पिण्डे समवेता पिण्डान्तरे समवैति. अस्य तु कुतो ऽन्यत्र समवायः. न हीदं सामान्यम्. संयोगो ऽस्य देशान्तरेण सम्बन्धः. स च नागतस्य सम्भवति. गत्वा ह्य् अयं देशान्तरैः संयुज्यमानो दृश्यते. अत एव न विभुः.{3,176} अतो ऽस्य न कथञ्चिद् एकत्र सतो ऽन्यत्र सत्त्वम् उपपद्यत
इत्य् अन्यत्राभावम् अन्तर्भाव्य कृत्स्नबोधस् समर्थ्यते, का पुनर् अत्रानुपपत्तिः, नात्र कृत्स्नबोधस्य केनचित् प्रतिघातो दृश्यते. भावानुमानेनैव केवलं तु दुर्बले प्रतिघातहेतौ तद्बाधेनैवार्थापत्तिर् आत्मानं लभते. दुर्बलं चेह भावानुमानं प्रतिहेतुविरुद्धत्वात्. यत्र तु तुल्यबलम् उभयम् एकत्रोपनिपतितं भवति, तत्रार्थान्तरकल्पनयोपपत्तिर् इति न किञ्चिद् अनुपपन्नम् इति. एवं तावद् अभावपूर्विकाया अर्थापत्तेर् अनुमानाद् भेद उक्तः प्रत्यक्षपूर्विकाया भेदम् इदानीं दर्शयितुं तत्प्रतिज्ञां तावद् आह -- यत्र चे ति. यत्रापि दाहादिकार्यदर्शनाद् अग्न्यादेः कारणस्य शक्तिर् अस्तीति कल्प्यते तत्राप्य् अर्थापत्तिर् एव प्रथमा. यदि तु पश्चादनुमानं भवति भवतु. भाष्योदाहृतत्वाच् चाभावपूर्विकाया एव प्रथमम् अनुमानाद् भेदो वर्णित इति ॥ 46 -- 47 ॥
अत्रानुमानवादिनां लिङ्गम् उपन्यस्यति -- कार्यस्ये ति. एवं हि मन्यन्ते -- द्विविधम् अनुमानं दृष्टस्वलक्षणविषयम् अदृष्टस्वलक्षणविषयं च. तत्र तावत् दृष्टस्वलक्षणविषयं धूमादिनाग्न्यनुमानम्, अदृष्टस्वलक्षणविषयं च संयोगविभागादिभ्य इव क्रियाद्यनुमानम्. कार्यं हि कारणेन सामान्यतो ज्ञातसम्बन्धम् इति ततस् तत्प्रतीतिर् अनुमानम् एवेदम् इति. एतद् अपि दूषयति -- न सम्बन्धे ति. येन ह्य् एकदा बीजाद् अङ्कुरो दृष्टः सो ऽन्यदा तथाविधाद् एव पुनर् अनुपलभमानः स्वभावानुमानेन जनयितव्यो ऽनेनाङ्कुर इत्य् अनुमिमान एवात्राशङ्कते कथम् अङ्कुरो न जायत इति, ततः कल्पयति -- अस्ति कश्चिद् बीजसमवायी शक्तिभेदो यद्वशात् प्राक् कार्यम् आसीद् अद्य च नास्तीति. तच् चेदम् अनपेक्षितसम्बन्धस्यैव पुरातनेदानीन्तनाङ्कुरदर्शनादर्शनविचाराद् एव ज्ञानं जायमानं कथम् अनुमानम् इति. अपि च सम्बन्धग्रहणाधीनम् एव सर्वम् अनुमानं न तदगृहीतयोस् सम्बन्धिनोस् सम्भवति. न चेह तयोर् अतीन्द्रिया शक्तिः{3,177}प्रमाणान्तरेण शक्यते ऽनुभवितुम्, अत एव च न तद्वतो ऽपि ग्रहणं सम्भवति, अतः कथम् अगृहीतसम्बन्धात् कार्याच् छक्तितद्वतोस् सिद्धिर् इति. तद् एतद् आह -- दृष्ट्वे ति. नन्व् अवगतं तावत् कार्यसामान्यं कारणसामान्येन व्याप्तम् इति, अतस् तद् अनुमास्यते. सत्यम्, किन् तु शक्तिकल्पनया विना कारणाख्यैव न निवर्तते. अङ्कुरो हि बीजभावभावी व्यभिचरितभावान्तरश् च बीजकारणक इत्य् अवगतः सत्य् अपि तु बीजे ऽजायमानस् तद् अपि व्यभिचरतीति कारणावगतिर् एवावसीदति, तां शक्तिकल्पनयोत्तभ्नाति. कॢप्तायां च शक्तौ कारणसम्बन्धिन्याम् अर्थापत्त्या यदि सम्बन्धो ऽवगम्यते तद् अस्तु सिद्धान्तवच्छक्तिसिद्धाव् अर्थापत्तिः प्रमाणम् इति. अनुमानलक्षणाद् विनार्थापत्तिर् जायमाना प्रमाणान्तरम् इत्य् उपसंहरति -- अर्थापत्तेर् इति
वृत्त्यन्तरोदाहृतम् उदाहरण दूषयति -- अनुमानाद् इति. जयो हि पराजयेन विदितव्याप्तिर् इति तम् एकत्र घातके नकुले दृष्ट्वा प्रतिपक्षस्य पराजयो ऽवगम्यते. पराजयदर्शनेन प्रतिपक्षस्य जय इति. नेदम् अर्थापत्ताव् उदाहार्यम् इति
श्रुतार्थापत्तिर् अभिधास्यत इत्य् उक्तम्, ताम् इदानीम् उदाहरति -- पीन इति
अस्याश् च विषयं प्रत्यस्ति विवादः. तम् एकनिर्धारणार्थम् उपन्यस्यति -- ताम् अर्थे ति कल्पयन्त्य् अन्तेन. सर्वे चागमाबहिर्भूताम् आतिष्ठन्त इत्य् आह -- आगमाच् चे ति
{3,178} आगमाभेदाभ्युपगमे ऽभिप्रायम् आह -- प्रायश इति. फलापूर्वविध्यन्तादिसिद्धौ भूयानस्या वेदे उपयोगः, सर्वो ऽनागमत्वे ऽवैदिकः स्याद् इति
आगमिकत्वे प्य् अवान्तरविप्रतिपत्तिम् उपन्यस्यति -- वचनस्ये ति [
]
अत्र निष्कर्षं दर्शयति -- न तावद् इति. कारणम् आह -- न ही ति. वाक्यं तावद् अवाचकम्, प्राग् एवानेकेषाम् अर्थानाम् इति
यद्य् अवाचकं कथं वाक्याद् अर्थप्रतीतिर् अत आह -- पदार्थे ति. एतच् च तद्भूताधिकरणे वक्ष्यत इति. ननु रात्र्यादिवाक्यार्थो यदि दिवावाक्येनानभिहितः पदार्थान्वयरूपेणैव स्वार्थवद् गमयिष्यते. अत आह -- न रात्र्यादी ति. न हि दिवावाक्ये रात्र्यादिपदार्थास् सन्ति, कुतस् तत्र तेषाम् अन्वय इति
ननु दिवादिपदार्थान्वयाद् एव रात्र्यादिवाक्यार्थः प्रत्येष्यते, अत आह -- न दिवादी ति
{3,179} न ह्य् अनेकार्थतेति यद् उक्तं तद् विवृणोति -- अन्यार्थे ति. अतो वाक्यान्तरस्यैवायम् अर्थो न दिवावाक्यस्येत्य् आह -- तस्माद् इति
एवं तावन् न मूलागमस्यायम् अर्थः, येन तु वाक्यान्तरेण बुद्धिस्थेनायम् अर्थो ऽवगम्यते, तस्यैव प्रत्यक्षादिषु मध्ये प्रमाणं निर्धारणीयम् इत्य् आह -- तस्ये ति
तत्र प्रत्यक्षं तावन् न तत्सिद्धौ प्रमाणम् इत्य् आह -- न ही ति. अनुमानम् अपि तेन सम्बद्धस्य दिवावाक्यस्यादर्शनान् न सम्भवतीत्य् आह -- नानुमानम् इति
अविदितसम्बन्धे तु दिवावाक्ये लिङ्ग इष्यमाणे ऽव्यवस्थेत्य् आह -- यदि त्व् इति
यदि तूच्यते सम्बन्धम् एव दिवावाक्यस्य रात्रिवाक्येन गृहीत्वा ततस् तदनुमास्यत इति, सिध्यत्य् एवम्, न तु श्रुतार्थापत्तिवेद्यानि सर्वाणि लोकवेदवाक्यानि सर्वैः प्रतिपादकवाक्यैस् सम्बद्धान्य् अवगतानि. अतः कथं तेभ्यस् तान्य् अनुमीयन्त इत्य् आह -- न चे ति
{3,180} इतश् च नानुमानम् इत्य् आह -- न चे ति. केनचिद् धि सामान्यात्मना ज्ञातसम्बन्धेन विशिष्टं किञ्चिद् अनुमीयते न वस्तुसत्तामात्रम्. न च विशिष्टः, अज्ञातसम्बन्धत्वात् इह तु तदुभयं विपरीतम् इति
यतश् चात्र वाक्यस्वरूपम् एव प्रमेयम् अतः पर्वतादिर् इव पूर्वसिद्धः स्वतन्त्रो ऽसम्बद्धः केनचिद् अग्न्यादिनेव स्वतन्त्रेण केनचिद् विशेषितो धर्मी धर्मविशिष्टो नास्तीत्य् आह -- पूर्वसिद्ध इति
अथ श्रुतम् एव वाक्यं धर्मितयोपादायाश्रुतवाक्यविशिष्टता साध्यते ततस् तदप्रसिद्धेर् अप्रसिद्धविशेषणः पक्ष इत्य् आह -- अथे ति
अपि च श्रुते वाक्ये ऽश्रुतवाक्यविशिष्टे साध्यमाने न तावत् किञ्चिल् लिङ्गम् उपलभ्यते, न चालिङ्गकम् अनुमानं भवति, तद् यदि तद् एव पुनर्लिङ्गम् इष्यते ततः प्रतिज्ञार्थैकदेशित्वम्, यथा पदे पक्षीकृते र्थविशिष्टे साध्यमाने ऽभिहितम् इत्य् आह -- किञ् चे ति
धर्मधर्मिभावो ऽपि दिवावाक्यरात्रिवाक्ययोश् शब्दार्थयोर् इव निराकार्य इत्य् आह -- तद्वद् एवे ति. यथा तत्रार्थे धर्मिण्य् अप्रतिपन्ने न पदं तद्धर्म इत्य् उक्तम्, एवम् इहापि नाप्रतिपन्ने रात्रिवाक्ये तद्धर्मतया{3,181}दिवावाक्यं प्रतीयते. अथ तु पक्षधर्मताप्रतिपत्त्यर्थं तत् प्रथमम् अवगतम् इत्य् उच्यते ततो ऽनुमेयाभाव इत्य् अभिप्रायः. अभिप्रायं विवृणोति -- नागृहीत इति
अपि च तत्रैव पदे वर्णितम् -- न क्रियाकारकसम्बन्धादृते सम्बन्धो भवतीति. अतो यथा पदस्य न कश्चित् क्रियानिबन्धनो ऽर्थसम्बन्धो ऽस्तीति न तद्धर्म इत्य् उक्तम्, एवं दिवावाक्यस्यापि रात्रिवाक्यधर्मता निराकार्येत्य् आह -- क्रिये ति. न चात्र विषयविषयिभावरूपो ऽपि द्वयोर् वाक्ययोश् शब्दार्थयोर् इव सम्बन्धो भवति, उच्यते हि शब्देनार्थः, न तु वाक्यं वाक्यान्तरस्य वाचकम् इत्य् आह -- अवाचके ति. पदे त्व् अर्थप्रतीतिजनकत्वेन तद्विषयताम् अङ्गीकृत्यानुमेयाभावो दर्शितः. इह तु वाक्यस्यावाचकत्वात् तद्विषयत्वम् एव प्रत्येतुं न शक्यते इति विशेषः
यदि तूच्यते प्रतीयते तावद् दिवावाक्याद् रात्रिवाक्यम्, अतस् तस्यापि तद्वाचकत्वम् इत्य् अस्ति विषयविषयिलक्षणस् सम्बन्ध इति, तत्रैकं वाक्यम् अनेकार्थम् अभ्युपगतं भवेत्, स्वार्थं हि तत्प्रतिपादयति रात्रिवाक्यम् अपि, न चैवं न्याय्यम् इत्य् अभिप्रायेणाह -- प्रतीतेर् इति. अथोच्येत -- माभूद् वाचकतया तद्विषयत्वम्, तेन तु तद्वाक्यम् अनुमीयते, अतस् तल्लिङ्गम् अनुमानविषयतया लिङ्गम् एव दिवावाक्यं तद्धर्मतयाभिधीयत इति. यत् तावदनुमानविषयभावाद् उत्थितं तद्धर्मत्वं तदनुमानस्य पूर्वसिद्धत्वान् निष्फलम् इत्य् आह -- अनुमे ति
एवं तावद् दिवावाक्यम् अलिङ्गम् इत्य् उक्तं, तद्गतपदार्थानाम् अप्य् एवम् एव लिङ्गता निराकार्येत्य् आह -- पदार्थैर् इति. नन्व् अगृहीतसम्बन्धा एव पदार्था{3,182}यथा वाक्यार्थं गमयन्ति, एवं रात्रिवाक्यम् अपि किं न गमयन्ति, अत आह -- सामान्ये ति. क्रियासामान्यं कारकसामान्यं वा प्रतिपन्नम् अलब्धेतरेतरव्यतिषङ्गम् अन्यथा न सिध्यतीति तं विशेषं गमयति, यश् चासौ विशेषः स एव तु वाक्यार्थ इत्य् उच्यते इति
न चैष प्रकारो रात्रिवाक्यप्रतिपादने सम्भवतीत्य् आह -- न त्व् इति. अन्यो ऽपि तद्देशकालादिसम्बन्धो न रात्रिवाक्येन दिवावाक्यस्य तत्पदार्थानां वास्तीत्य् आह -- न चापी ति
स्याद् एतत्, यद्य् अपि दिवावाक्यं न रात्रिवाक्यस्य वाचकम्, तथापि कल्पयिष्यामः, ततश् च तत्प्रत्येष्यत इति. तद् इदम् आशङ्कते तावत् -- अथैतद्वाची त्य् अन्यद् अन्तेन. अत्र दूषणम् आह -- तथैवे ति. अत्र तावद् एवं वाक्यान्तरकल्पनायां प्रमाणम् एव नास्तीति तदनादृत्य तावदनवस्थाम् आपादयति, यद् अपि कल्पितं वाक्यं तद् अपि न रात्रिवाक्यम् अवगमयितुं शक्तम्. न च तदसम्बद्धम् एव तस्य गमकम् इति युक्तम्. पुनर् अपि वाक्यान्तरकल्पनायां स एव दोषः. एवं यद् एव किञ्चिद् वाक्यं कल्पयितुम् इष्यते तद् एव नासम्बद्धं गमकम् इत्य् अनवस्थापात इति
अथ त्व् अन्तिमम् असम्बद्धम् एव गमकम् इति कल्प्यते, तद् वरं प्रथमस्यैव तथाविधस्य गमकत्वं कल्पितुम्, किं वाक्यान्तरकल्पनया. न च तद् युक्तम् इत्य् अभिप्रायेणाह -- ततश् चे ति. एवं तावत् पक्षधर्मत्वाद्यसम्भवेन रात्रिवाक्यस्यानुमेयत्वं निरस्तम्, अन्वयव्यतिरेकयोर् अपि पदवत् प्रतिषेधो दर्शयितव्य इत्य् आह -- अन्वये ति. न हि सत्य् एव रात्रिवाक्ये दिवावाक्यं{3,183}नासतीत्य् अन्वयव्यतिरेकौ स्तः, तद्देशतत्कालादिसम्बन्धस्याभावात्. न च ज्ञानान्वयो ऽसत्य् अपि रात्रिवाक्यज्ञाने व्युत्पन्नस्य दिवावाक्यज्ञानाद्, विज्ञानोत्तरकालभाविनोश् चान्वयव्यतिरेकयोस् तदनुपयोगाद् इत्यादिपदवद्दर्शयितव्यम् इत्य् अभिप्रायः
एवं तावत् प्रत्यक्षानुमानागमैर् न रात्रिवाक्यं प्रतीयत इत्य् उक्तम्, उपमानम् अपि तत्र न प्रमाणम् इति दर्शयति -- श्रुतवाक्ये ति त्वम् अन्तेन. दिवावाक्यवच् च तदर्थेनापि न रात्रिवाक्यम् उपमीयत इत्य् आह -- अर्थस्ये ति
यथा च रात्रिवाक्यस्य दिवावाक्यतदर्थाभ्याम् उपमानं निरस्तम् एवं रात्रिवाक्यार्थस्यापि ताभ्यां निरसनीयम् इत्य् आह -- उपमानत्वे ति स्याद् अन्तेन. उपसंहरति -- तस्माद् इति
अतः प्रमाणान्तराभावाद् अर्थापत्तिर् एव रात्रिवाक्यावगमे शरणम् इत्य् आह -- अत इति. प्रत्यक्षदृष्टं पीनत्वं भोजनप्रतिषेधेन प्रतिहन्यते, पीनत्वेन दिवाभोजनम्, अतः परस्परप्रतिघाताद् दिवावाक्यस्य स्वार्थप्रतिपादनम् एवानुपपद्यमानं रात्रिवाक्यम् अनुप्रवेशयति, अतः तद्रात्रिवाक्यं कल्प्यत इति
ताम् अर्थविषयाम् इति यद् उक्तं तद् इदानीं दूषयितुम् उपन्यस्यति -- एतदर्थाद् विने ति. अयम् अभिप्रायः -- पीनत्वं हि भोजनप्रतिषेधो वा परस्परेण प्रतिहन्यते तयोश् चार्थकल्पनयैवात्मलाभः. पीनस्य हि दिवा निषिद्धे{3,184}भोजने रात्रिभोजनेनैव पीनत्वम् उपपद्यते, न रात्रिवाक्येनातो ऽर्थकल्पनैव युक्तेति. अपि च, यथा परैर् अभिधीयमानो ऽपि पदार्थानुपपत्त्या गम्यमानो वाक्यार्थ आगमार्थो भवति. एवं वाक्यार्थानुपपत्तिगम्यो ऽप्य् अर्थः किं नागमे ऽन्तर्भवतीत्य् आह -- वाक्यार्थे ति
प्रथमपरिचोदनां तावत् परिहरति -- सविकल्पके ति. सविकल्पको हि श्रुतार्थापत्तिबोधः सविकल्पकज्ञानानि च शब्दपुरस्सराणि. अतश् शब्दपर्यवसितायाम् अर्थापत्तौ शब्दाद् एव सिध्यन्नर्थो नार्थापत्तेर् विषय इति. नन्व् एवं सर्वप्रमाणविकल्पेषु समानम् इदम्, इन्द्रियलिङ्गाभ्याम् अपि शब्दपुरस्सरम् एवाग्निः प्रतीयते, ततस् तयोर् अपि शब्दपर्यवसायितैव भवेत् अतस् तत्र स्मृतिस्थ एव शब्दो ऽप्रत्यायकः, तद् इहापि समानम्. यथा हि कर्मेन्द्रियम् अर्थेनैव सन्निकृष्टम् इति तम् एव प्रकाशयति लिङ्गं चार्थेन सम्बद्धम् इति तं गमयति, न शब्दम्, एवम् इहाप्य् अनुपपद्यमानो ऽर्थो ऽर्थेनैवोपपद्यते न शब्देन. तथा च दृष्टार्थापत्तयो ऽर्थविषया एव. अत्रोच्यते. सत्यम् अर्थद्वारिकैव वाक्यस्यानुपपत्तिः. अर्थान्तरेण चोपपत्तिः. किन् तु तद्वाक्यम् अनुपपन्नं वाक्यान्तरम् एवाकाङ्क्षति, यथा पदं पदान्तरम्. न हि पचतीत्य् उक्ते ओदनप्रत्यक्षेणाकाङ्क्षा निवर्तते, किं तर्हि, ओदनम् इति पदेन, एवं वाक्यम् अप्य् अनुपपद्यमानतयावगतं वाक्यान्तरम् एवाकाङ्क्षति, न तु तम् अर्थं स्वरूपेण. अत एव निर्वापमन्त्रे ऽतिदेशाद् विकृतिं गते प्राकृतदेवताया अभावात् तत्पदनिवृत्तौ तस्य स्थाने सूर्यायेति पदम् ऊह्यते. छेदनमन्त्रे त्व् इषेत्वेत्य् अत्र छिनद्मीति पदम् अध्याह्रियते. हृदयस्याग्रे ऽवद्यति अथ जिह्वाया अथ वक्षस इत्य् अत्रावद्यतिपदानुषङ्गः. न चार्थ एवानुषज्यते अनुषङ्गो वाक्यसमाप्तिस् सर्वेषु तुल्ययोगित्वाद् इति वचनात्. प्रत्यक्षादिषु तु न शब्देन रूपेणार्थोपेक्ष्यते शब्दोल्लेखेनापि गृह्यमाणः, किन् न्व् अर्थरूपेणैव, तम् अर्थं विकल्पयन् शब्दस् त्व् अस्तु नाम सन्मात्रतया. यदि तु तत्रापि शब्दो ऽपेक्ष्यते तिरश्चाम् अर्थविकल्पो न स्यात्, स च नास्ति, दृश्यते हि तेषाम् अपि हिताहितप्राप्तिपरिहारार्थः प्रयत्नः. तृविता हि गावस्तटाकानि गच्छन्ति, वर्षातपाभिभूताश्{3,185}च तत्प्रतीकारक्षभं देशम्. अतो ऽशब्दज्ञानाम् अप्य् अनुमानादिविकल्पदर्शनान् न तत्र शब्दापेक्षास्तीति निश्चीयते. श्रुतार्थापत्तिबोधस् तु तिरश्चां नास्त्य् एव, शब्दव्युत्पत्तिजो ह्य् असौ, न च तेषाम् असाव् अस्तीति प्रत्यक्षे ऽपि वर्णितम्. अन्येषाम् अप्य् अव्युत्पन्नशब्दानां श्रुतार्थापत्तिबोधो न दृश्यते. किं पुनस् तिरश्चाम्. अतो ऽन्वयव्यतिरेकाभ्याम् अवगम्यते ऽस्ति शब्दापेक्षा श्रुतार्थापत्तौ. अनुमानादिषु
तु संस्कारोद्बोधेनावर्जनीयतयास् तु नाम शब्दस्मृतिः, न तु शब्दापेक्षा. अतो ऽत्र वाक्यस्यानुपपन्नस्य वाक्यान्तरम् एवार्थवदुपपादकं न त्व् अर्थमात्रं शब्दमात्रं वा. अत एवागृहीतसम्बन्धस्यार्थम् अविदुषश् श्रुते ऽप्य् उपपादके वाक्ये नानुपपन्नवाक्यार्थज्ञाने ऽनुपपत्तिश् शाम्यति, प्रतिपन्नार्थस्याप्य् आशयकल्पना. अतो न श्रुतवाक्यस्य न्यूनताबुद्धिर् निवर्तते. अतस् सिद्धं श्रुतार्थापत्तौ शब्दकल्पनेति. परपरिचोदनायाम् उत्तरम् आह -- लब्धप्रयोजन इति. यावद् ध्य् अकृतार्थश् शब्दस् तावद् बोधो ऽवगम्यते, स तदर्थो भवति. प्रयोजनवचनो ह्य् अर्थशब्दः. अत एव वाक्यार्थ आगमार्थो बह्वति. यावद् धि पदार्था नान्योन्यान्वयम् अनुभवन्ति तावदप्रयोजनकं जायते, जाते तु क्रियाकारकसंसर्गे लब्धप्रयोजनं वाक्यम् इति ततः परमर्थान्तरम् अवगम्यमानं नागमिकं भवति. न हि प्रयोजनत्वावगतार्थानुपपत्त्या यद् अवगम्यते तत्प्रयोजनं भवति. प्रयोजनोपपादकं तु तत्. पदार्थानुपपत्तौ प्रयोजनम् एव नासाद्यत इति युक्तं वाक्यार्थस्य पूर्वावगतस्यागमार्थत्वम्. कः पुनर्विशेषः, सर्वथा तावदागमार्थो ऽसौ, कल्पितस्य श्रुतस्य वेति न विशेषम् उपलभामहे. उच्यते. श्रुतागमार्थत्वे यदि प्रमादात् तन्नाशो भवति ततो यजुर्वेदादिविहितनाशनिमित्तं प्रायश्चित्तम्, इतरथा त्व् अविज्ञातनाशनिमित्तम् इति विशेषः. तदा च ऋग्वेदादिविहितनाशे प्रत्येकं महाव्याहृतिभिर् होमं विधाय यद्य् अविज्ञातो भूर् भुवस् स्वस् स्वाहेति महाव्याहृतीस् समाहृत्य प्रायश्चित्तं समुपदिशति. श्रुतार्थापत्तिवेद्य एव हि वेदो ऽविज्ञात इत्य् उच्यते, स ह्य् ऋगादीनां नान्यतमत्वेन ज्ञायत इति
अत्र चोदयति -- ननु चे ति. न तावद् दिवावाक्यरात्रिवाक्ययोस् सम्बन्धो ऽस्ति, सन्न् अपि वा न विदितः, न चाविदितसम्बन्धान्यदर्शने{3,186}न्यकल्पना युक्ता, अतिप्रसङ्गात्. प्रतिबद्धस्वभावं हि प्रतिबन्धबलाद् एव प्रतिबन्धकम् उपस्थापयति, अप्रतिबन्धेन त्व् अन्यकल्पनायां न प्रतिनियमे कारणम् अस्ति. अतो ऽप्रमाणम् एवेदं रात्रिवाक्यज्ञानम् इति
परिहरति -- सम्बन्धस्ये ति. प्रमाणत्वं प्रमाकारणत्वम् इत्य् अर्थः. करणसाधनश् च प्रमाणशब्द इति. अकारणत्वम् एव प्रामाण्ये सम्बन्धस्य दर्शयति -- प्रत्यक्षस्ये ति
नन्व् इन्द्रियार्थसन्निकर्षजम् एव प्रत्यक्षम् अतो नाकारणं प्रामाण्ये सम्बन्ध इति चोदयति -- अस्ती ति चेद् अन्तेन. परिहरति -- नानपेक्षणाद् इति. अनपेक्षत्वम् एव दर्शयति -- न ही ति. निरूपितो हि सम्बन्धः प्रमाणोत्पत्तौ कारणम् अनुमाने, न चेह तथेति
प्रत्यक्षोत्तरकालं तु निरूपणं न प्रमाणाङ्गम् इत्य् आह -- येनापी ति
अपि चाप्राप्यकारीन्द्रियवादिपक्षे स्वरूपसत्त्वम् अपि सम्बन्धस्य नास्त्य् एव, अतो यथा ते प्रत्यक्षज्ञानस्य प्रमाणताम् इच्छन्ति, एवम् इहापि भविष्यतीत्य् अत आह -- अप्राप्ये ति
तेनानादृत्यैव सम्बद्धम् उत्पन्नम् असन्दिग्धम् अविपरीतं च देशादिभेदे ऽपि ज्ञानं प्रमाणम् इत्य् आश्रयणीयम् इत्य् आह -- तस्माद् इति. जायत इत्त्यनुत्पत्तिलक्षणम् अप्रामाण्यं निरस्यति, अभङ्गुरम् इति संशयविपर्ययाव् इति
{3,187} अपि चार्थापत्तिर् अप्रमाणम् इत्य् अलौकिको विवाद इति. न हि तया प्रवर्तमानानां प्रवृत्तिः प्रतिहन्यते. प्रवृत्तिसामर्थ्यं च प्रामाण्यम्. अनुमानाद् भेदाभेदयोर् अस्ति विवादः, तत्र चास्माभिः कृतो निर्णय इत्य् आह -- न चापी ति
यद्य् एवम् अनुमाने ऽपि सम्बन्धो नाङ्गम् एवापद्येतात आह -- ऋत इति. तत्र हि बुद्धिर् एवासति सम्बन्धज्ञाने न जायत इति तदुत्पत्तौ कारणम् आश्रीयत एव. प्रामाण्यं तु तत्रापि बाधविरहाद् एवेति
मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0