मीमांसाश्लोकवार्त्तिक · अध्याय 7
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
शून्यवादः समाप्तः ॥
शुभं भूयात्
पर्त् इइइ
005 अनुमानपरिच्छेद (अम्प्)
{3,1} अत्रभाष्यकारेण विज्ञानवादान्ते अतो न व्यभिचरति प्रत्यक्षम् इति प्रत्यक्षाव्यभिचारित्वम् उपसंहृत्य अनुमानं ज्ञातसम्बन्धस्येत्यादिनानुमानलक्षणं प्रणीतम्. तस्य तात्पर्यं दर्शयति -- प्रत्यक्षे ति. अयम् अर्थः. वृत्तिकारग्रन्थे हि तेन व्यभिचरति प्रत्यक्षम्. तत्पूर्वकत्वाच् चानुमानाद्य् अपि इति प्रत्यक्षव्यभिचारपूर्वकम् अनुमानादीनाम् अपि व्यभिचारात् परीक्ष्यत्वम् उक्तम्. तत्र प्रत्यक्षाव्यभिचारित्वे प्रतिपादिते व्यभिचारिकारणप्रभवत्वेन तावद् व्यभिचारशङ्का प्रत्युक्ता. यदि परं स्वरूपाश्रयो व्यभिचारस् सम्भवति. सो ऽपि वक्ष्यमाणलक्षणकेषु नाशङ्कनीय एव. न हि प्रतिबुद्धदृशः प्रतिबन्धकसंविद्विदितव्यभिचाराः. सकलव्यवहारोच्छेदप्रसङ्गात्. एवम् इतरेष्व् अपि यथास्वम् अवसरे वक्ष्यामः. तस्माद् अनुमानाद्य् अपि लोकप्रसिद्धं न परीक्षितव्यम् इति.
इयं च सर्ववक्ष्यमाणप्रमाणलक्षणभाष्यतात्पर्यव्याख्या साधारणी वार्तिककारेण कृता. सर्ववक्ष्यमाणप्रमाणप्रपञ्चस्य हीदम् एव साधारणं स्थानम्. अनेन च श्लोकेन समर्थितारम्भावसरः प्रपञ्चो विशेषतो व्याख्यास्यत इति. तद् एतद् उक्तं भवति. नात्र नैयायिकादिवदलौकिकं प्रमाणानां{3,2}स्वरूपम् उपदर्शयितुं लक्षणानि प्रणीतानि. लोकप्रसिद्धप्रमा(णा)व्य[728]भिचारित्वान्मीमांसकानाम्. किन् तु शङ्कितव्यभिचारापादितपरीक्षाप्रत्याख्यानार्थं लोकप्रसिद्धम् एव स्वरूपम् उपदर्श्यते. अतो न प्रमाणलक्षणे सङ्गतिः प्रत्यक्षादिलक्षणस्याशङ्कितव्येति
मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0