भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसाश्लोकवार्त्तिक · अध्याय 6

6.1

इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
निरालम्बनवादः समाप्तः ॥
004 शून्यवाद
अथ शून्यवादः
अत्र भाष्यं - शून्यस् तु. कथम्. अर्थज्ञानयोर् आकारभेदं नोपलभामहे. प्रत्यक्षा च नो बुद्धिः. अतस् तद्भिन्नम् अर्थरूपं नाम न किञ्चिद् अस्तीति पश्यामः इति. तत्र यः शून्यो येन च शून्यः तदुभयानुपादानात् शून्यस् त्व् इति प्रतिज्ञावचनम् असङ्गतार्थम्. यदि तु पूर्वसाधनवाक्यगतप्रत्ययशब्दानुषङ्गेण शून्यः प्रत्ययः तद्भिन्नम् अर्थरूपं नाम न किञ्चिद् अस्तीति चोत्तरग्रन्थानुसारेणार्थेन शून्य इति व्याख्यायते, ततस् तेनैव गतार्थत्वम् अत आह -- एवम् इति. अयम् एवात्र प्रतिज्ञार्थः प्रत्ययो ऽर्थेन शून्य इति. न च गतार्थत्वं, प्रत्यवस्थानहेतुभेदात्. स एव निरालम्बनवादी नास्तिकः प्रत्यक्षादिविरोधदूषितस्वसाधनो दूषणपरिहारेणेदानीं प्रत्यवतिष्ठते. बाह्यार्थग्राहिज्ञानाश्रयणेन हि प्रत्यक्षादिविरोधो ऽभिहितः. तत्रेदम् उच्यते. न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तम् असम्बन्धात्. असम्बन्धप्रकाशने चातिप्रसङ्गात्. एकरूपोपलब्धेश् च ज्ञानप्रवृत्तिविषयासिद्धेः. एकं हीदं नीलम् इति नीलं प्रकाशते. तद् एकम् एव युक्तम्, विभागानवगमे तदभ्युपगमायोगात्. तद् इदम् उक्तम् अर्थज्ञानयोर् आकारभेदं नोपलभामहे इति. अत एवायम् अनादिकालीनवासनोपप्लावितनिखिलनीलाद्याकारप्रकाशः. नात्र केनचिद् बाह्यम् अवस्थाप्येत, येन तदपलापे प्रत्यक्षादिविरोधो भवेत्. अतः स एवायं पक्षो दूषणपरिहारेण पुनर् अनुप्राणितः. तद् एतत् प्राग् अप्य् उक्तं -
प्रत्यक्षबाधने चोक्ते पश्चात् तच्छक्त्यवेक्षणात् ।
इति

6.2

{2,92} अत्र पूर्वपक्षं विवक्षन् संवित्परीक्षां तावद् अवतारयति -- यत् तावद् इति. यद् यादृशं बाह्यार्थग्राहि प्रत्यक्षं मन्यमानेन भवता मीमांसकेन प्रत्यक्षविरोधादिदूषणं निरालम्बनसाधनस्योच्यते, तद् इदानीं परीक्ष्यताम्. प्रत्यक्षपरीक्षामुखेन चात्र संविन्मात्रपरीक्षैवोपक्षिप्ता. सर्वसंविदाम् एव बहिर्विषयत्वानभ्युपगमात्. मुख्यतया तु प्रत्यक्षपरीक्षोपन्यास इति

6.3

कीदृशी पुनर् इयं परीक्षेति तत्स्वरूपं दर्शयति -- प्रवर्तितुम् इति. किम् इदं प्रत्यक्षं बाह्ये प्रवर्तितुं शक्तम् आहोस्वित् स्वांशपर्यवसायीतीदृशी परीक्षा. परीक्षा च संशय्य पूर्वोत्तरपक्षबलनिरूपणम् अभिधीयते. तद् अनेन प्रथमस्य परीक्षापर्वणः स्वरूपम् उपन्यस्तम् इति वेदितव्यम् इति

6.4

आह -- वक्ष्यति भवान् संवित्परीक्षाम्. किम् अस्याः प्रयोजनम् इति वक्तव्यम्. अप्रयोजनस्य हि सन्दिग्धस्य काकदन्तवदपरीक्षणीयत्वाद् अत आह -- तद् यदी ति. अयम् अभिप्रायः -- सर्वपूर्वाक्षेपेणायं वाद उद्भवति. सर्वाक्षेपेषु च पूर्वाधिकरणस्यैव प्रयोजनम्. यथा वक्ष्यति -- आक्षेपे पूर्वाधिकरणस्येति. तद् यदि बाह्यार्थग्राहि प्रत्यक्षम् उपपादयितुं शक्ष्यामः, ततो दूषणसिद्ध्या बाह्यार्थपरं वक्ष्यामः. यदि त्व् आत्मांश एव सर्वसंविदां ग्राह्यो भविष्यति, ततो दूषणबाधनात् साधनसिद्धौ नास्तिकस्य बाह्यापलापः सेत्स्यति. तदियं बाह्यार्थसिद्धाव् एव परीक्षोपयुज्यत इत्य् अवतार्यत इति

6.5

सा पुनर् इयम् अनाश्रया संविच्छक्तिपरीक्षेति नास्तिकैकदेशिनः प्रत्यवतिष्ठन्ते.{2,93}ते हि ग्राह्यवैधुर्यदुःरिथताः संविदो ऽपि न सन्तीति वर्णयाम्बभूवुः. अतः शून्ये संसारे किं कुत्र प्रवर्तितुं शक्तम् अशक्तं वेति परीक्ष्यते. अत आह -- तत्रे ति. अयम् अभिप्रायः -- नायम् उभयापलापः शक्यो वक्तुम्. सर्वप्राणिनामविगानसिद्धत्वान् नीलाद्याकारप्रतिभासस्य. इदं तु चिन्तनीयं सर्वसंविदाम् एवौपाधिको नीलिमा स्वाभाविको बाह्यस्येति. तुच्छे तु संसारे निर्बीजप्रतिभासो नावकल्पते. अतः परीक्षणीयम् इदं किं ज्ञानम् एवानादिवासनोपप्लावितनीलाद्याकारम् आत्मगोचरम् एवेदं प्रकाशते, परमार्थसन्तं वा बाह्यम् अर्थं प्रतिपादयितुं समर्थम् इति. यदि तत् तावद् उपस्थापयति, अतस् तद्बलभुवा प्रमाणान्तरेण तद् अपि सिध्यतीति. नीलपीतादिदीर्घादीति विविधाकारोपन्यासेन पूर्वपक्षबीजं दर्शयति. नायं व्यवस्थितैकस्वभावो नीलादिर् आकारो दृश्यते, अव्यवस्थितस्यापि दीर्घादेर् औपाधिकस्य दर्शनात्. तात्त्विके वाव्यवस्थानुपपत्तिर् इति. एतच् चोपरिष्टाद् व्यक्तीकरिष्यतीति

6.6

नन्व् एवम् अस्तु यथाप्रतिभासम् उभयं, तथापि कः परीक्षावसरः. न हि प्रत्यक्षसिद्ध एवोभयस्मिन् परीक्षा युक्ता. अत आह -- न चे ति. अयम् अभिप्रायः -- सिध्यत्य् उभयं यदि ज्ञानज्ञेययोर् आकारभेदो दृश्यते. तदा हि विविक्ताकारम् उभयं भासमानं न नेति शक्यम् अपलपितुम्. एक एव तु नीलादिर् आकारो भासते. अतः कथम् उभयम् अविवादसिद्धं भवति यन् न परीक्ष्येत. सूक्ष्मः खल्व् अयं पण्डितैर् उपवेदनीयो ऽर्थो न्यायः येनैकत्राकारे भासमाने ऽन्यद् अवस्थाप्यते. नायम् अपरीक्षकाणां सिध्यति. तद् इदम् उक्तम् अर्थज्ञानयोर् आकारभेदं नोपलभामहे इति भाष्ये. अतो न प्रत्यक्षैकप्रमाणिका द्वैतसिद्धिर् इति परीक्षावतरणीया. यथा च नोभयं प्रत्यक्षं तथोपरिष्टाद् वक्ष्याम इति. नन्व् एवम् आकारभेदानवसाये ज्ञानार्थयोर् अन्यतरस्य यस्यैवायम् आकारो दृश्यते तस्यैवायम् अभ्युपगन्तुम् उचितः, किम् अत्र परीक्षणीयम् अत आह -- न चे ति. भवेद् एवं यदि ज्ञानार्थयोर् अन्यतरस्यायम् आकार इति विशदतरम् अवगम्येत. न त्व् अन्यतरस्य धर्मता तस्य विस्पष्टा. अतो ज्ञानं वा नीलम् अर्थो वेति युक्तैव परीक्षेति

6.7

{2,94} नन्व् असत्य् अप्य् आकारभेदावगमे द्वयोर् अन्यतरसिद्ध्यैवार्थाद् इतरत् सिध्यति. तथा हि -- न तावज् जडस्यासति प्रकाशान्तरे प्रकाशः सिध्यतीति ततस् सिद्धिः. अकर्मकज्ञानानुत्पत्तेश् च ज्ञानाद् ज्ञेयसिद्धिर् इति द्वैतवाद एव साधीयान् किं परीक्षयात आह -- गृह्यमाणस्ये ति. अयम् अभिप्रायः -- यद् एतन् नीलम् इत्य् अत्र ग्रहणे साक्षात्कारिणि प्रकाशते, तस्यैवास्तित्वं नेतरस्येति सौगता भ्राम्यन्ति. अप्रत्यक्षसिद्धेर् अप्रमाणकत्वात्. तथा हि -- न तावदान्तरज्ञानाद् बहिर्ज्ञेयसिद्धिः, असम्बन्धात्. असम्बन्धप्रकाशने चातिप्रसङ्गात्. ज्ञेयाच् च ज्ञानसिद्धेर् अप्रमाणकत्वम् अनन्तरम् एव वक्ष्यामः ग्राहकं निष्प्रमाणकम् इति. अतः प्रत्यक्षावभासिनोर् एवोभयोर् आत्मलाभः सम्भवतीति. न चाकारभेदोपलम्भो ऽस्तीत्य् उक्तम्, अतो न स्फुटा द्वैतसिद्धिर् इति परीक्षा प्रतिपादयितव्येति भावः. यतश् च गृह्यमाणस्यास्तित्वं, तस्माद् एकम् एवेदम् आकारवद् वस्त्व् इदं नीलम् इति गृह्यते तद् एकम् एवापद्यते, न तु तत्त्वान्तरम् आकर्षतीत्य् अभिप्रायेणाह -- तस्माद् इति

6.9

एवञ् च परेषु भ्राम्यत्सु नापरीक्ष्यनिरूपणं कर्तुं शक्यम्. तद् यदि नः परीक्षमाणानां परोक्ताभिर् युक्तिभिर् ज्ञानम् एवाकारवद् इति समर्थनम् अभविष्यत् ततस् तन्मात्र एव प्रत्यक्षप्रमा क्षीणेति नार्थो ऽवकल्पिष्यते. अथ तु बाह्यम् एव वस्त्व् इदम् इति प्रतिभासानुसारेणाकारवद् इति समर्थ्यते, ततस् तत् तावत् प्रत्यक्षगृह्यमाणम् अस्तीति स्थिते तत्सिद्ध्यन्यथानुपपत्त्यैव वक्ष्यमाणप्रकारे(ण) बुद्धिसिद्धौ मम द्वैतं सिध्यतीत्य् अभिप्रायेणाह -- अत इति द्वयेन

6.10

{2,95} एवं तावत् प्रत्यक्षपरीक्षां प्रस्तुत्य तत्स्वरूपप्रयोजनारम्भाक्षेपसमाधानाद्य् उक्त्वा पूर्वपक्षं ग्रहीतुकामो मीमांसकः स्वगोत्रानुसारेण स्वयम् आलोचयति -- किम् इति स्याद् अन्तेन. इदानीं पूर्वपक्षं गृह्णाति -- ज्ञानम् आकारवद् इति. कथं पुनर् इदम् इति विस्पष्टे परप्रकाशे प्रत्यगात्मन्य् आकारवत्त्वम् अभिधीयत इति सिद्धान्ताभिप्रायेण पृच्छति -- कुत इति. अयं च कथम् इति भाष्यप्रश्नानुसारेण प्रश्नो व्याख्यातव्य इति. पुनर् अपि अर्थज्ञानयोर् आकारभेदं नोपलभामहे इति भाष्याभिप्रायेणैव ज्ञानस्याकारवत्तायाम् उपपत्तिम् आह -- एकम् इति. अयम् अभिप्रायः -- एकम् एव हि नीलाद्याकारं तत्त्वम् अधिगतवन्तो वयम्. अतस् तन्मात्रम् एवाश्रयामः, न पुनर् उभयम् आश्रयितुम् उत्सहामह इति

6.11

नन्व् अस्त्व् एकम् आकारवत्, तथापि कुतो ऽयं निश्चयः ज्ञानम् आकारवन्न् आर्थ इत्य् अत आह -- तद् यदी ति. यदि बाह्यम् एव वस्त्वाकारवद् इष्यते, ततस् तस्य जडस्य प्रकाशायोगाद् ग्राहकान्तरं कल्पनीयम् आपद्येत. ज्ञानं तु प्रकाशस्वभावम् अनपेक्षितप्रकाशान्तरम् एव साक्षात्कारि प्रकाशत इति नानुपपन्नम्. अतो ज्ञानम् एवाकारवद् इत्य् अभिप्रायः

6.12

ननु प्रमाणबलाद् आपतन्ती ग्राहकान्तरकल्पना युक्तैवात आह -- तेने ति. अयम् अभिप्रायः -- भवेद् एवं यदि प्रमाणवती कल्पना भवेत्. निष्प्रमाणं तु निराकारं वस्तु ज्ञानाभिधानम् आकारवतो बाह्यात् कल्पनीयं भवेत्. बाह्यं हि तेनाविदितप्रति(?ब।सम्ब)न्धं न तत् तावद् अनुमापयति, अतिप्रसङ्गात्. न च नित्यपरोक्षज्ञानवादिनः क्वचिद् अपि बुद्ध्या व्याप्तिसिद्धिः. अपि च अर्थो{2,96}ज्ञानानुमाने लिङ्गम् अर्थधर्मो वा. पूर्वस्मिन् कल्पे व्यभिचारी हेतुः, असत्य् अपि ज्ञाने ऽर्थभावात्. अज्ञातस्य च लिङ्गतानुपपत्तिः एकदेशदर्शनाद् इत्य् अभ्युपगमात्. ज्ञातस् तु नासति ज्ञानज्ञाने लिङ्गं भवति, अगृहीतविशेषणस्य जातत्वायोगात्. ज्ञातो हि लिङ्गं न स्वरूपेण, व्यभिचाराद् इत्य् उक्तम्. किञ्चेदं ज्ञातत्वम् अन्यद् अतो ज्ञानसम्बन्धात्. तदवश्यं ज्ञानं जिज्ञासमानस्यापन्नम् अग्रे ज्ञानसंवेदनं ज्ञानम् अज्ञानं वा ज्ञातस्य. ननु न ब्रूमः स्वरूपेणार्थो लिङ्गं ज्ञानविशिष्टो वा. व्यक्तस् तु विषयो लिङ्गम्. ननु सा व्यक्तिबुद्धिर् एव विषयस्य, तदसिद्धौ तदुपाधिको व्यक्तो विषयः कथं हि सेत्स्यति. न व्यक्तिबुद्धिर् अर्थात्मेति चेत्, स बुद्धिजन्मा न वा. न तावत् तज्जन्मा, असम्बद्धया बुद्ध्यार्थे धर्मान्तराधानायोगात्. अतज्जन्मनश् चातल्लिङ्गत्वात्, हेतुतद्वतोर् असति तादात्म्ये ऽप्रतिबन्धात्. यथाहुः -- स किं वा बुद्धिजन्मापि न बुद्धिं गमयेत् प्रतिबन्धाभावात् इति. अर्थधर्मश् चाज्ञातुर् अपि साधारणः अविशेषात् परबुद्धिम् अप्य् अनुमापयेत्. उक्तं च -- अर्थात्मनश् च साधारणत्वाद् अन्यबुद्धेर् अप्य् अनुमानप्रसङ्गः इति. स्याद् एतत्. नेदम् अनुमानम्, अर्थापत्तिस् तु. साचागृहीतसम्बन्धस्यापि जायत एवेति. तन् न तावत् प्रमाणान्तरम्. यथाहुः -- तद् द्विविधं सम्यग्ज्ञानं प्रत्यक्षम् अनुमानं चेति. प्रमाणस्य सतो ऽत्रैव शब्दादेर् अन्तर्भावात् प्रमाणे एवेति च. अस्तु वा प्रमाणान्तरम्. कयानुपपत्त्यार्थो ज्ञानं गमयति. स हि स्वकारणसामग्रीतो लब्धात्मा. किं तस्यासति ज्ञाने नोपपद्यते. अस्ति खल्व् असाव् अज्ञातो ऽपि. सत्यं, ज्ञातता तु तस्यानुपपन्ना. नासाव् अन्या ज्ञानसम्बन्धाद् इत्य् उक्तम् एव. अर्थधर्मत्वे चातिप्रसङ्गो वर्णितः. स प्रमाणान्तरे ऽपि समानः. परस्परस्याप्य् अर्थगतानुपलभ्यमानधर्मदर्शिनः परबुद्ध्यर्थापत्त्युपपत्तेः. अपि च प्रमाणान्तरप्रतीघातो
ऽनुपपत्तिः. तत्र केन प्रमाणेन ज्ञातो विषयः प्रतिहन्यते, यज्ज्ञानकल्पनयोपपद्येत. अतो नाप्रत्यक्षा बुद्धिः सिध्यतीति. यस् तु वदति सत्यम् अप्रत्यक्षा धीर् न सिध्यति. तद्वद् एव त्व् अर्थो ऽपि प्रत्यक्षसिद्ध एव. एकस्मिन्न् एव हि प्रतिभासे मेयमातृप्रमाप्रकाशः नीलम् अहं जानामीति. अतः प्रत्यक्षबलसिद्धम् एव द्वैतम् इति. तदुपरिष्टान् निराकारष्यामः न चोपलब्धिर् अस्तीहेति. अतो ऽर्थाकाराभ्युपगमे निष्प्रमाणकं वस्त्वन्तरं कल्पनीयम् इति सूक्तम् इति

6.13

{2,97} स्याद् एतत्. अप्रकाशात्मन्य् अर्थे ऽप्रमाणिका वस्त्वन्तरकल्पना भवेत्, अन्यथार्थप्रकाशासम्भवात्. अर्थम् एव तु प्रकाशस्वभावम् एषिष्यामः, न वस्त्वन्तरं कल्पयिष्याम इत्य् अत आह -- तस्ये ति. अयम् अभिप्रायः -- एकम् एव वस्तु ग्राह्यग्राहकाकारम् इति नः प्रतिज्ञा. तद् यद्य् अर्थ एव तादृशो भवताश्रीयते, सिद्धो नः पक्षः, अद्वैतसिद्धान्तसिद्धेः. संज्ञामात्रे त्व् आवयोर् विसंवादो भवेद् न वस्तुनि. उभयोर् अप्य् एकत्वाभ्युपगमात्. कथं पुनर् अत्र संज्ञामात्रे विसंवादः. अर्थवादी हि स्थिरम् अर्थम् अनुजानाति. ज्ञानवादी तु क्षणिकम्. सत्यम्. अन्याऽय विशेषः तत्त्वं तावद् एकम् एवापद्यते. एतद् एवात्र निरूपणीयम्. अन्यत्त्वेतद् यत् स्थिरम् अस्थिरं वेति

6.14

एतद् एव विव्र्णोति -- ग्राह्ये ति. नन्व् अस्त्य् अयं विशेषः बाह्यो ऽर्थो ज्ञानम् आन्तरम् इति. अतः कथं न वस्तुभेदः. अत आह -- बाह्ये ति. अयम् अभिप्रायः -- नायं बाह्यान्तरविवेकः पारमार्थिकस् तत्त्वाभेदे सिध्यति. भेदे हि तथा भवेद् एकं बाह्यम् एकम् आन्तरम् इति. अभिन्ने तु तत्त्वे किम् अपेक्ष्य किं बाह्यं किम् आन्तरं वा भविष्यति. अतो मृषैवायं ज्ञानमात्रनिर्मितः परिकल्पः कल्पनम् इति

6.17

ननु बौद्धानाम् अपि स्वच्छाकारम् एकम् एव ज्ञानम्. अतः कथम् अस्मिन् नीलादिरूपं ग्राह्यग्राहकाकारशबलं विभक्तम् इदं नीलम् अहं जानामीति निरूप्यते. न हि स्वच्छस्य नीलादिता सम्भवति. न चैकस्य ग्राह्यग्राहकता नीलम् अहं जानामीति, स्वात्मनि क्रियाविरोधात्. अत एव न प्रविभागः इदं जानामीति. अतः प्रतिभासानुगुणो ऽर्थाकारपक्ष एव न्याय्यः, अत आह -{2,98} मत्पक्ष इति सार्धद्वयेन. अयम् अर्थः -- यद्य् अपि स्वच्छो ज्ञानात्मा एक एव, तथाप्य् अनादौ संसारे यानि पूर्वज्ञानानि तान्य् एव प्रसूतिः प्रसवो यासां वासनानां ताभिः नीलपीतादिविचित्रज्ञानहेतुत्वाद् विचित्राभिः आत्मानुरूपेण तस्य स्वच्छस्य ज्ञानात्मन उपप्लवात्. उपप्लवो भ्रान्तिज्ञानं, किम् उक्तं भवति. यादृशी वासना तादृशं स्वानुरूपं विभ्रमं जनयति. नीलवासना नीलं, पीतवासना पीतम् इति यावत्. एवं च स्वानुरूप्येणोपप्लवाद् ज्ञानात्मनि नीलादिरूपं तावत् प्रकाशते. तच् च ग्राह्यग्राहकाकारशबलं तदाकारवासनोपप्लवाद् एव. ग्राह्यग्राहकाकारशबलैर् हि पूर्वज्ञानैस् तदाका(?र।रा) एव वासना आहिताः. अतो नीलाद्याकारवत् तदाकारप्रकाशो नानुपपन्नः. विभक्ताकारवासनावशाद् एव च विभक्तप्रतिभासो वर्णनीयः. एवं च वासनावशाद् एव नीलादिरूपं ग्राह्यग्राहकाकाररूषितं प्रविभक्तम् इवेदं नीलम् इत्य् उपपन्नम् इति न पारमार्थिकं बहिःसन्तम् आश्रयभूतम् अपेक्षते. एकस्मिन्न् एव हि तत्त्वे त्रितयं समाप्तं प्रमितिः प्रमाता प्रमेयं चेति. यथाहुः --
अविभक्तो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते ॥
इति. आह -- सन्तु तावद् वासनानिबन्धनाः संविदां नानासमुल्लासाः. तद्वैचित्र्यम् एव कुतः. ननूक्तं विचित्रज्ञानहेतुत्वाच् चित्राभिर् इति. न, अन्योन्याश्रयापत्तेः. तथा हि -- वासनाभेदाद् ज्ञानभेदस् तद्भेदाद् वासनाभेदः इति दुरुत्तरम् इतरेतराश्रयम् इति. अत आह -- अन्योन्ये ति. अयम् अर्थः -- नेदम् इतरेतराश्रयम्. अनादिर् अयं वासनाज्ञानयोः कार्यकारणभावः बीजाङ्कुरयोर् इव. नात्रान्यतरस्यापि पूर्वकोटिः प्रसङ्ख्यायते. अतो वासनातो ज्ञानं ततो वासनेति किम् अनुपपन्नम्. शक्तिर् इति वासनाम् अपदिशति. सा हि ज्ञानशक्तिर् इति प्रसिद्धा. अयं चानादितयेतरेतराश्रयपरिहारः अनादौ संसार इत्य् अत्र सूत्रितो ऽत्र विवृत इत्य् अनुसन्धातव्यम् इति

6.19

{2,99} एवं तावदुपपादितं ज्ञानम् आकारवद् इति. इदानीं तत्रैव कारणान्तरम् आह -- अनेके ति द्वयेन. कल्पनागौरवं हि द्वैतवादिनाम् आपद्यते, नास्माकम् एकत्ववादिनाम् इति भावः. ननु तवापि शक्तिकल्पनया द्वैतम् एव, असत्यां हि तस्यां पूर्वोक्तविभागानुपपत्तिर् अत आह -- शक्तिमात्रस्ये ति. अयम् अभिप्रायः -- न वासना नाम काचिद् वस्तुतो ज्ञानातिरेकिण्य् अस्ति या द्वैतम् आवहति. संवृतिसत्यकल्पिता हि सा. न च काल्पनिकं वस्तु द्वैत्म् आपादयति. अपि च बहिर्वस्तुवादिनाम् अपि तद् उपेत्य तत्समवाय्य् अन्यः शक्तिभेदः कल्पनीय एव तत्तत्कार्यभेदोपपादनाय. तद् इयं शक्तिकल्पना साधारणी. ज्ञानवादिनस् तु ज्ञानशक्तिकल्पनैव केवलेत्य् अस्ति विशेषः. एतच् च पारमार्थिकं शक्तिभेदम् अभ्युपेत्योक्तम्. न च तथा सौगता मन्यन्ते, चिन्मात्रं तु सद् इत्य् अभ्युपगमाद् इति. इतश् च ज्ञानम् आकारवद् इत्य् आह -- तस्माद् इति ज्यायस्य् अन्तेन. उभयोर् अपि द्वैताद्वैतवादिनोः सिद्धं ज्ञानम् अतस् तस्यैवाकारकल्पना न्याय्या सिद्धाश्रयत्वाद् इति. तस्माद् वस्तुभेदाद् आकृष्येत्य् अर्थः. तव त्व् अस्माकम् अर्थासिद्धेर् आश्रयान्तरकल्पनापुरस्सरी तदाकारकल्पना स्याद् इत्य् आह -- भवत इति

6.20

अत्र कारणम् आह -- तदसिद्धावशक्तत्वाद् इति. नीलादिर् हीदं नीलम् इति क्वचिद् आश्रितो दृश्यते. नासाव् आश्रयम् अन्तरेणोपपद्यते. तद् यदि ज्ञानाश्रय इष्यते सिद्धाश्रयो भवति, इतरथा साध्याश्रय इति विशेष इति. अपि चैवम् अर्थाकाराश्रयणे तेन विज्ञानेन विप्रकृष्टता नीलादेर् आकारस्यापद्येत.{2,100}ततश् च तेन तत्प्रकाशायोग इत्य् अभिप्रायेणाह -- तेने ति. अनेन च संवेदनाद् इति बौद्धोक्तो हेतुर् अन्तर्णीतः. एवं हि तेनोक्तं नानात्मनः संवेदनं भवति नीलवित्तौ पीतवत्. आत्मभूतस्य तु स्वात्मवद् एव प्रकाशो नानुपपन्नः. तद् इदम् उक्तम् अनर्थान्तरत्वे तु नीलादेर् अनुभवात् तदात्मभूतः प्रकाशते, तथा नीलाद्यनुभवः स्याद् इति. तथेति यथा[721]ज्ञानात्मेत्य् उक्तं भवति. अतः संवेदनाद् एव तु भासमानस्य नीलादेस् तत्संविदश् चाविवेकः सिद्ध इति. अपरम् अपि ग्राह्यलक्षणयोगाद् इति बाह्यापलापे बौद्धोक्तं हेतुम् उपन्यस्यति -- प्रत्यासन्नम् इति. अयम् अभिप्रायः -- मम हि ज्ञानात्मभूतम् एकान्तप्रत्यासन्नं नीलादि युक्तं यद् ग्राह्यतां प्रतिपद्यते. असम्बद्धस्य तु ग्राह्यलक्षणायोगः. नन्व् इयम् एवार्थस्य ग्राह्यता यत् ततो ज्ञानस्योत्पत्तिः तत्सारूप्यं च. बाह्यनीलाद्याभासं हि ज्ञानम्. तत्स्वरूपं तावत् ततश् चोत्पद्यते कदाचित् ज्ञान कार्यव्यतिरेकात्. यथोक्तं - सत्सु समर्थेष्व् अन्येषु हेतुषु ज्ञानकार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयति. स बाह्यो ऽर्थः स्याद् इति. सौत्रान्तिकमते सन्ति खल्व् आलोकेन्द्रियमनस्कारादयः. ते च ज्ञानहेतवः. न च ज्ञानं जायत इति दृष्टम्. तद् इदं बाह्यार्थसन्निकर्षादेवोत्पद्यत इति तत्सिद्धिः. एवं चोत्पत्तिसारूप्याभ्याम् एवार्थवेदनम् इत्य् उच्यते (?अर्था ग्रा।अर्थो गृ)ह्यत इति च. अत उत्पत्तिसारूप्ययोर् एव ग्राह्यलक्षणत्वाद् ग्राह्यो ऽर्थो नापह्नोतुं शक्यते. मैवम्. एवं सत्यनन्तरम् एव विज्ञानं तुल्यविषयं विषयः प्राप्नोति ज्ञानानां तत्सारूप्यात् तदुत्पत्तेश् च समनन्तरप्रत्ययाधीनजन्मत्वाद् उत्तरेषाम्. अपि च नार्थज्ञानयोः सारूप्यं, ज्ञानप्रतिभासिनः स्थूलाकारस्य परमाणुष्व् अभावात्. एकश् चायम् आकारो ज्ञानसन्निवेशी. बहूनि च सञ्चितानि रूपादीनि. कथम् अनयोः सारूप्यम्. न चापि स्थूल एको विषयो ऽवयव्य् अस्ति, तस्यावयवेभ्यो ऽव्यतिरेकात्, तन्नानात्वे नानात्वापत्तिः. एकावयवकम्पे
च सर्वावयविकम्पप्रसङ्गः. एकावृत्तौ चाभेदात् सर्वावृत्तिः न वा कस्यचिद् इत्य् अविकल्पोपलम्भप्रसङ्गः. अवयवस्यावरणं नावयविन इति चेद्, न. अभेदे तदनुपपत्तेः. भेदे वा तदावरणे ऽप्य् अनावृतत्वात् प्राग्वद् अस्य दर्शनप्रसङ्गः. कस्माच् च भिन्नो ऽवयवज्ञानाधीनज्ञानः, न खलु घटसंवित् पटसंविदम् अपेक्षते. वस्तुस्वभावाद् इति चेद्, न. अन्यतमानुपलम्भे ऽनुपलम्भप्रसङ्गात्. कतिपयावयवप्रतिपत्तौ{2,101}वा (?दर्शने) अङ्गुल्यग्रदर्शने ऽपि स्थूलोपलम्भप्रसङ्गः. अतो नास्ति कश्चित् स्थूल एको ऽर्थः यो ज्ञानं सरूपयति. किञ् च इदम् एकेन वा केनचिदात्मना ज्ञानार्थयोः सारूप्यं सर्वात्मना वा. एकदेशसारूप्ये नीलम् अपि पीतसंविदः सरूपम् उभयोः क्षणिकत्वाद् असाधारणत्वाच् चेति तद् अपि ग्राह्यं भवेत्. एवं च सर्वः सर्ववित् स्यात्. अतदुत्पत्तेर् अग्राह्यत्वम् इति चेद्, न. प्रमाणाभावाद् नीलबुद्धिर् नीलपतीताभ्यां सदृशी नीलादेवोत्पद्यत इति न नः प्रमाणं क्रमते. अपि च नीलाद् अप्य् उत्पत्तौ न प्रमाणम् इत्य् अनन्तरम् एव वक्ष्यामः. समं च सारूप्यम् इति न ग्राह्येतरविवेकः. सर्वात्मना तु सारूप्यम् आतिष्ठमानो जडत्वम् अप्य् अर्थस्य बुद्धावादध्यात्. एवं चान्ध्यम् एव जगतः. यथाहुः --
__________नोतेस्__________
[721] थात्मज्ञा (ख)
एकदेशेन सारूप्ये सर्वः स्यात् सर्ववेदकः ।
सर्वात्मना तु सारूप्ये ज्ञानम् अज्ञानतां व्रजेत् ॥
इति. न च तदधीना ज्ञानोत्पत्तिः, उपादानविशेषाभावाद् एव कार्यव्यतिरेकसिद्धेः. कार्यदर्शनबलेन हि वयं समनन्तरप्रत्ययम् एव वासनापरनामानम् उत्तरबुद्धीनां कारणम् आचक्ष्महे. तत्कार्यव्यतिरेके तदभावम् उन्नयामः. न हि समग्रं च कारणं कार्यं च न भवतीति सम्भवति. अत उपादानम् एव तन्नामदशाम् अनुपगतं यन् न कार्यम् आरब्धवद् इति किम् अर्थग्रहणेन. यथोक्तं -
यथाकथञ्चित् तस्यार्थरूपम् उक्त्वावभासिनः ।
अर्थग्रहः कथं सत्यं न जाने ऽहम् अपीदृशम् ॥
इति. सिद्धः सत्स्व् अपि हेत्वन्तरेषु कार्यव्यतिरेकः. तस्मान् नोत्पत्तिसारूप्ये ग्राह्यलक्षणम्. न चागृह्यमाणो ऽर्थः सिध्यतीति सिद्धं -
नान्यो ऽनुभाव्यो बुद्ध्यास्ति त(?स्य।स्या) नानुभवो ऽपरः ।
ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥
इति. ग्राह्यलक्षणायोगात् तावन् नान्यो ऽनुभाव्यो ऽस्ति. अत एव तस्या नानुभवो ऽपरः. तेनापि तद्ग्रहणानुपपत्तेः. अतः स्वप्रकाशा धीर् एवैका मोदत इति सिद्धम्. यस् त्व् असम्बद्धस्यैव ज्ञानेनार्थस्य प्रकाश्यताम् आतिष्ठते, सो ऽसम्बद्धेनापि दीपेन घटस्य प्रकाश्यताम् आतिष्ठत इति विवृतं हेतुद्वयम्. सहोपलम्भनियम उपरिष्टाद् विवरिष्यत इति

6.21

{2,102} अपरम् अपि ज्ञानस्यैवाकारवत्तायां कारणम् आह -- इतश् चे ति. युष्माकं मीमांसकानां तज्ज्ञानं प्रकाशकम् इति सिद्धान्त इति. कस्य प्रकाशकम् अत आह -- स्वयम् इति. बाह्यस्य जडात्मनः स्वयं प्रकाशहीनस्य तदुपायतया सम्मतं, अन्यथा तत्प्रकाशायोगात्

6.22

किम् अतो यद्य् एवम् अत आह -- न चे ति. यद् धि यस्य प्रकाशकं तद् गृहीतम् एव प्रकाशयति. तद् यदि ज्ञानम् अर्थस्य प्रकाशकम् एतद् अपि नागृहीतं तत् प्रकाशयेत्. अतो ऽवश्यं ग्रहीतव्यम्. न च तदनाकारं ग्रहीतुं शक्यम्, न चार्थज्ञानयोर् आकारभेदोपलम्भः. अतो ऽवश्याभ्युपगन्तव्यं ग्रहणस्य ज्ञानस्यैवायम् आकार इति साम्प्रतम् इत्य् अभिप्राय इति. तदधीनप्रकाशत्वाद् इति ज्ञानाधीनः प्रकाशः प्रतिभासो यस्येत्य् अर्थः

6.24

एवं तावदवश्यग्राह्यतया ज्ञानस्यैवाकारः अवश्यग्राह्यता च प्रकाशकतयेत्य् उक्तम्. इतरश् चावश्यग्राह्यतेत्य् आह -- उत्पन्नेष्व् इति द्वयेन. द्वेधा ह्य् उत्पन्नं वस्तु न गृह्यते प्रकाशकाभावात् प्रतिबन्धाद् वा. यथान्धकारतिरोहितो घटः कुड्यादिप्रतिबन्धाद् वा यथा लोके. स एव चैतद् उभयम् अपि ज्ञाने सम्भवति. अतो ग्रहणकारणासम्भवाद् उत्पद्यमानम् एव ग्रहीतव्यम्. एवं च तस्यैव साकारत्वापत्तिर् इत्य् उक्तम् एवेति

6.25

{2,103} यदि त्व् अर्थप्रकाशात् प्राग् ज्ञानं नोत्पद्येतैव, ततो ऽसतो ग्रहणासम्भवान् न गृह्येत, न त्व् एवं भवद्भिर् अपीष्यते. उत्पन्नायाम् एव बुद्धाव् अर्थस्य ज्ञातत्वाभ्युपगमात्. ततः प्रागुत्पन्नस्याग्रहणकारणाभावादाव् अश्यकं तादात्विकं ग्रहणम् इत्य् आह -- प्राक् चार्थे ति अस्या न्तेन. यदि तूत्प(?न्नं।न्न) प्रतिबन्धं च केनापि न गृह्यत इत्य् उच्यते नित्यासंवेद्यतैव तर्ह्य् आपद्येत. ततश् चाभाव एव ज्ञानस्य भवेद् इत्य् अभिप्रायेणाह -- न चेद् इति

6.26

किं पुनः कालान्तरे न ग्रहणम् इत्य् अत आह -- किम् इति. अगृह्यमाणे विशेषे प्रागग्रहणं परस्ताच् च ग्रहणम् इत्य् अनुपपन्नम् इति

6.27

ननूत्पन्नस्यापि संविदन्तरापेक्षया ग्रहणम् इति किं नोपपद्यते अत आह -- ज्ञाने ति. युक्तं यदप्रकाशको ऽर्थः प्रकाशाय ज्ञानान्तरम् अपेक्षते. ज्ञानं तु स्वयम् एव प्रकाशरूपम् इति किं तस्य प्रकाशान्तरापेक्षया. अतः सहसैव प्रकाशेतेति. तुल्यजातीयान्तरापेक्षायाम् अनवस्था. यथाहुः -- ज्ञानान्तरेणानुभवे हीष्टा इति. न च ज्ञानं न ज्ञायत एवेति साम्प्रतम्. अभावप्रसङ्गात्. उत्तरकालं च स्मृतिदर्शनात् सहैव हि विज्ञानेन पूर्वदृष्टम् अर्थं स्मरन्तो दृश्यन्ते ज्ञातो ऽसाव् अर्थो मयेति. न चाज्ञातस्य ज्ञानस्य स्मृतिर् उपपद्यते. उक्तं च परैः -- तत्रापि च स्मृतिः इति. एवं चापरापरज्ञानापेक्षायाम् एकविषयसंवित्ताव् एवायुः पर्यवस्येत् न विषयान्तरसञ्चारो जायेत. तत्र च दृष्टं ज्ञानम्. यथाहुः --
विषयान्तरसञ्चारस् तथा न स्यात् स चेष्यते ।
इति. तद् एतत् सर्वम् अभिप्रेत्याह -- तस्ये ति

6.29

{2,104} इतश् च प्राग् ज्ञानं ज्ञायते ज्ञानाकारश् च नीलादिः, येन ज्ञानपुरस्सरम् एवावगतपूर्वं निरुद्धम् अर्थं स्मरन्तो दृश्यन्ते ज्ञातो मयातिक्रान्तो ऽमुको राजेति. यदि ह्य् अर्थस्याकारो भवेत्, असत्य् अर्थे सता कथं धीर् अनुरज्येत. अतो बुद्धिर् एव तदाकारम् अर्थम् आलिख्योपजायत इति युक्तम्. यदि चातीते काले ज्ञानपुरस्सरम् अर्थो नोपलक्षितो भवेत्, कथम् इदानीं तथा स्मर्येत. यथावगतग्राहिण्यो हि स्मृतयः कथं मात्रयापि पूर्वानुभूतम् अतिक्रामन्ति. तस्माज् ज्ञानाकारो नीलादिः ज्ञानपूर्वकश् चार्थानुभव इत्य् आह -- ज्ञाने ति द्वयेन. तत् पुनर् इदं परस्परविरुद्धम् इवोभयं साध्यम् उपलभ्यते. तथा हि. ज्ञानपूर्वम् अर्थो ऽनुभूयत इत्य् अर्थम् अङ्गीकरोतीति लक्ष्यते. ज्ञानाकारसाधनेन च निराकरोति इति तद्विषयम् अनृतम्. मैवम्. नात्र ज्ञानपुरस्सरम् अर्थो ऽवसीयत इति तात्पर्यम्. एवं तु मन्यते -- अङ्गीकारयामि तावद् एनं श्रोत्रियम् अनुभवानुभवपुरस्सरीम् अर्थस्थितिम्. एष हि छान्दसो द्वैतसिद्धिम् एवम् अप्य् अविगुणां मन्यमानो ऽभ्यनुजानाति तावत् प्रथमं ज्ञानसंवेदनम्. ततो ऽनाकारोपलम्भासम्भवाद् एकाकारोपलम्भाच् चानायासम् एवार्थापलापं वक्ष्याम इति च. तथा भाष्यकारेणापि -- ननूत्पन्नायाम् एव बुद्धौ अर्थो ज्ञात इत्य् उच्यते इति छद्मनैवार्थाभ्युपगमो दर्शितः. वार्त्तिककारेणापि तथैवानुविहितम्. अतो न दोष इति

6.30

इतश् च ज्ञानानुविधाय्यर्थः. तथा हि भवन्ति वक्तारः -- नीलो ऽयम् अर्थः तद्रूपानुभवाद् इति. ज्ञाननिरपेक्षे त्व् अर्थनिश्चये नैतद् उपपद्यते. तद् एतद् आह -- वक्तार इति

6.31

अतः सिद्धं बुद्धिज्ञानपुरस्सरम् अर्थज्ञानम् इत्य् उपसंहरति -- तस्माद् इति.
{2,105} अत्रैके वदन्ति -- किम् इदम् अनिष्टम् आपाद्यते ज्ञानम् अनुभूयत इति. प्रतीमो हि वयम् एकस्यां संविदि त्रितयं प्रमाता प्रमितिः प्रमेयं चेति, नीलाद्याकारं प्रमेयं प्रमितिम् अनाकारां प्रमातारं च. तथा हीदृशीयं प्रतीतिः नीलम् अहं जानामीति. तद् इह नीलपदास्पदं प्रमेयं मितिर् ज्ञानाद्युपात्ता. प्रमाता तूत्तमपुरुषेणोपात्तः. किं पुनर् अत्र त्रितये प्रमाणम्. प्रत्यक्षम्. साक्षात्कारिणी हि प्रतीतिः प्रत्यक्षम्. अस्ति चास्याम् अर्थवित्तौ त्रितयस्य साक्षात्कारः. तत्रापि मातृमेययोः पराधीनः प्रकाशः. न मितेः, स्वयम्प्रकाशत्वात्. इतरयोस् तु न स्वयम्प्रकाशत्वं, सतोर् अपि स्वप्नादौ तददर्शनात्. अस्ति खल्व् अयं पुरुषः, स्वापे जागरायां च प्रत्यभिज्ञानात्. एवम् एव विषयाः. न च तदा प्रकाशन्ते. तत् कस्य हेतोः, यदि विषयाणाम् आत्मनश् च स्वयम्प्रकाशता संविदस् तु स्वापादाव् असम्भवाद् एवाप्रकाशः, नाप्रकाशत्वात्. अपि च मेयमातृगोचरा फलभूता संविद् अवगम्यते न तु तस्या अपि भिन्ना संविदपरा, यद् असाव् अपि परायत्तप्रकाशाश्रीयते. तद् इह स्वप्रकाशा संवित्. तद्गोचरौ मातृमेयौ. संविद्गोचरत्वाविशेषे ऽपि नात्मनः कर्मभावः, गन्तृवदुपपत्तेः. यथा खलु समाने ऽपि त्रियाफलसंयोगविभागभागित्वे ग्रामादेः कर्मभावो, न गन्तुः. एवं प्रमाणफलसंवित्तिसम्बन्धाविशेषे ऽप्य् आत्मनः कर्तृता. तत् कस्य हेतोः. परसमवायिक्रियाफलभागिता हि कर्मता. सावयवानां गन्तव्यानां च देहे[722]गतिसमवायाद् आत्मनि ज्ञानसमवायात्. तत्रासौ ग्रामः कर्म. तथा च विषया इति ते तथा. अतो निराकारैव संवित् स्वमहिम्ना सिध्यन्ती मातृमेयाव् अपि व्यवस्थापयति. किम् इदानीं प्रमत्तवचस्सत्यं पूर्वं बुद्धिर् उत्पद्यते न तु पूर्वं ज्ञायत इति. न, बुद्ध्यपदेशात् तस्याश् चानुमेयत्वात्. अस्ति वा बुद्धिसंविदोर् भेदः. अस्तीति ब्रूमः. का तर्हि बुद्धिः, का च संवित्. आत्ममनस्संयोगो बुद्धिः. बुद्धिर् ज्ञानम् इत्य् अनर्थान्तरम्. फलभूता संविदनुभवादिपदास्पदम्. तया चात्ममनस्संयोगः कारणभूतो ऽनुमीयत इति किम् अनुपपन्नम्. अदूरविप्रकर्षाद् अन्यतरत्रान्यतरपदप्रयोगः. नन्व् एवं संविदि[723]संवेद्येषु च संवेद्यमानेषु संवेद्यद्वयोपलब्धिप्रसङ्गः. न चैवम्, एकाकारसंवेदनात्. उक्तम् अत्रैक एवाकारः संवेद्यः अनाकारा
संवित् प्रकाशत इति. किम् इदानीम् असंवेद्यैव{2,106}संवित्. न ब्रूमो ऽसंवेद्येति. संवि(?भक्त।त्त)यैव हि संवित् संवेद्यते न संवेद्यतया. केयं वाचोयुक्तिः. इयम् इयं नास्याः कर्मभावो विद्यत इति. स्वयम्प्रकाशत्वात्. न चैवम् असंवित्. न, अतन्मूलत्वात् संवेद्यभावस्य सर्वभावानां, सा हि सर्वभावानां सिद्धिः न चासञ् चेतीता सिध्यतीति कथं ते ऽपि सिध्येयुः. अतः संवित्प्रकाश एव द्वैतं साधयतीति किं सिद्धसाधनेन. संविदुपारूढो हि नीलादिर् अद्वैतम् आपादयति. संविदैव त्व् अनाकारसंविदितया व्यतिरेचितो नीलादिर् नाद्वैताय घटत इति सिद्धं प्रमाता प्रमितिः प्रमेयं चेति. तान् प्रत्याह -- न चे ति. अयम् अभिप्रायः -- श्रोत्रियदृष्ट्यैव तावद् बुद्धिर् अनुमेयेति लक्ष्यते. यद् एवम् आह -- ज्ञाते त्व् अनुमानाद् अवगच्छतीति. यत् तु ज्ञानाभिप्रायं तद् न संविदभिप्रायम् इति. तन् न. पर्यायत्वाद् अनयोः. चेतना बुद्धिः ज्ञानं संविद् इत्य् अनर्थान्तरम् इति लौकिका बुध्यन्ते. न चात्ममनसोः संयोगश् चेतना, रूपादितुल्यगुणत्वात्. तच् चेतनात्वे च मनसश् चैतन्यप्रसङ्गः. तस्यात्ममनसोः साधारणत्वात्. अचेतना बुद्धिर् इत्य् अलौकिकम्. यथाहुः -- बुद्धिश् चेतनैव हि गम्यते. इति. अतो यैवासाव् अनाकारा संविद् भवताभिमता सैव तावद् बुद्धिः, तदभिप्रायम् एव बुद्ध्यनुमेयत्वाभिधानम्. न त्व् अनाकारा संविदपरोक्षम् अनुभूयते बुद्धिश् चानुमीयत इति साम्प्रतम्. तद् अयम् अर्थः -- यासौ लौकिकी बुद्धिर् नासाव् अनाकारा अपरोक्षम् उपलभ्यते. तस्मात् प्रत्यक्षबुद्धिवादिनायम् आकारो ज्ञानसन्निवेशी वाच्यः. यथास्माभिर् उक्तम्. यथावार्त्तिकं वा सिद्धान्तः अर्थ एव प्रत्यक्षो न बुद्धिर् इति. तत्र चोक्ता बुद्ध्यनुमाने लिङ्गानुपपत्तिः. अतो ऽसिद्धम् अनिराकाराया बुद्धेर् अनुपलम्भात् संविद् एव द्वैतं साधयतीति

6.32

__________नोतेस्__________
[722] ह
[723] दि संवेद्यमा (ख)
अपि चैवं सहोपलम्भनियमात् त्रयस्याभेदापत्तिर् इत्य् आह -- विवेकबुद्ध्यभावाच् चे ति. त्रयाणां विवेकबुद्ध्यभावाद् एकस्यैव ज्ञानस्याकारवत्तया बोधः प्रसज्यत इति वक्ष्यमाणेन सम्बन्धः. ज्ञानग्रहणम् उपलक्षणार्थम्. एकम् एव तत्त्वम् आकारवद् भवेद् इति विवक्षितम्. यो हि मेयमातृप्रमासु सहोपलम्भम् आतिष्ठते तस्यान्यतरविविक्तान्यतरबुद्ध्यभावाद् अभेद एव त्रयस्यापद्येत,{2,107}भेदे नियमायोगात्. भिन्नानां हि घटादीनाम् अनियतः सहोपलम्भः. ते हि सहभावेन विवेकेन चोपलभ्यन्ते. अतो ऽनियमव्याप्तो भेदो नार्हति व्यापकविरुद्धोपलब्धौ भवितुं धूम इवाग्निना व्याप्तो ऽनग्नौ. भिन्नावभासाद् भेद इति चेद्, न. अनेकान्तात्. तत्रैतत् स्याद्, एकदापि हि त्रितयम् अनुभूयमानं भिन्नम् एवावभासते घटकुड्यादिवदतो भिद्यत इति. तन् न. अनैकान्तिकत्वाद् भेदोपलम्भस्य भेदे. उपलभ्यते खलु द्विचन्द्रादिबोधे ऽभिन्नश् चन्द्रः. न चैकस्माद् भिद्यते. तत् कस्य हेतोः. सहोपलम्भनियमाद् एव. स हि मुख्येन नियतसहोपलम्भः, तन् न ततो भिद्यते. तद् अनियतसहोपलम्भा एव भावा भेदेनावसीयमाना भिद्यन्ते नेतरे. यथाहुः -- न भिन्नावभासित्वे ऽप्य् अनर्थान्तररूपत्वं नीलस्यानुभवात् तयोः सहोपलम्भनियमाद् द्विचन्द्रादिवद् इति. ननु भिन्नयोर् अपि रूपालोकयोः सहोपलम्भनियमो दृष्टः. अनालोकोपलम्भा न रूपबुद्धिर् यतः. तन् न, केवलस्यापि क्वचिद् आलोकस्य दर्शनात्. रूपस्य च प्राणिविशेषेष्व् अनालोकस्य. सन्ति हि केचित् प्राणिनः ये ऽन्धकार एव रूपम् आलोकयन्ते. आलोके तु प्रतिहन्यन्ते. मातृमेयसंवेदनानि तु सहैवोपलभ्यन्त इति न भेदम् अर्हन्ति. न हि नीलाद् भिन्नं पीतं तेन सह नियमेनोपलभ्यते. अतः सहोपलम्भनियमाद् अभिन्नं त्रयम् आपद्यते इति. ननु चायम् उपालम्भो ऽस्तु सहोपलम्भनियमवादिनाम् एकेषां मीमांसकानाम्. ये तु विषयवित्तिपुरस्सरीं बुद्धिसंविदम् आतिष्ठन्ते, तेषाम् असिद्धः सहोपलम्भनियमः. सदैव हि विषयसंवेदनोत्तरकालम् एव संविद् उपलभ्यते. यथाहुः --
पूर्वं संगृह्यते पश्चाज्ज्ञानं तज्ज्ञाततावशात् ।
इति. तान् प्रत्याह -- सेति त इत्यन्तेन. अयम् अभिप्रायः -- इदं तावदविवादं साकारं वस्तु दृश्यत इति. साकारदर्शनं चेदम् अप्रत्यक्षे संवेदने नोपपद्यते, विषयः सन्मात्रतया न प्रकाशते यतः. तथा सति नित्यप्रकाशापत्तेः. अतो विषयोपलम्भसत्तयैव विषयप्रकाशः, न तत्स्वरूपसत्तया. विषयोपलम्भसत्ता चासिद्धा न सत्तानिबन्धनव्यवहाराय घटत इति तत्सिद्धिर् आस्थेया. न च वित्तेर् अन्या सिद्धिर् भावानां तद् यद्य् उपलम्भो विदितो ऽसिद्धः, तदसिद्धौ विषयासिद्धिः, येन स एव तत्सिद्धिर् इति विश्वम् अस्तमितम्. अतो ऽस्मात् साकारस्यैव वस्तुनो दर्शनाद् अनुपपद्यमानाद् अवगम्यते यद् अस्ति सहोपलम्भ इति. अन्यथा तद्दर्शनायोगात्. यथाहुः --
{2,108} अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।
इति. अतः सिद्धं सहोपलम्भनियमाज् ज्ञानस्याकारवत्तया बोधः नास्ति तत्त्वतो भेद इति

6.33

आह -- यद्य् उपलम्भासिद्धाव् उपलभ्यो ऽपि न सिध्यति, अस्तूपलम्भासिद्धिः. उपलम्भान्तरेण तु सिद्ध उपलभ्यं साधयिष्यति. एवम् अपि सहोपलम्भनियमासिद्धिर् इत्य् उपलम्भसिद्धिपूर्वकत्वाद् उपलभ्यसिद्धेः. उपलभ्यसिद्धिपुरस्सरी तूपलम्भसिद्धिः प्रतिक्षिप्ता, सिद्धेर् असिद्धौ साध्यासिद्धेः. सिद्धिसिद्धिपूर्विका तु साध्यसिद्धिः किं नेष्यते. अतो ऽसिद्ध एवायं हेतुर् अत आह -- न ही ति. अस्यार्थः -- नेयम् ईदृशी कल्पना सम्भवति यदनाकारा संविदादाव् अनुभूयते ततश् च पश्चात् साकारो ऽर्थ इति. निराकारबुद्ध्यनुपलब्धेर् उक्तत्वात्. इतश् च नैवं कल्पना युक्ता. कथं हि स्वोपलम्भकाले संभिन्नो ऽर्थः स्वोपलम्भोपलम्भावसरे संवेद्येत, यो ह्य् उपलभ्यमान एव न सिद्धः सो ऽन्योपलम्भावसरे ऽनुपलभ्यमान एव सेत्स्यतीति सुव्याहृतम्. अपि च अन्येन संवेदनोपलम्भे सो ऽप्य् असिद्धस् तत्साधनाय न प्रभवतीत्य् अपरापरापेक्षायाम् अनवस्था. एकासिद्धौ सर्वासिद्धिः. क्वचिद् वा स्वप्रकाशे ऽन्ये ऽपि तथा स्युर् अविशेषात्. अतः स्वात्मानं विषयाकारं च युगपज्ज्ञानम् उपलभत इति सिद्धः सहोपलम्भनियमः. एकव्यापारे क्रमायोगात्. एकः खल्व् अयं संविदः स्वात्मनि विषयाकारे च व्यापारः, प्रकाशात्मा नायं क्रमभावी न सम्भवतीति

6.34

ननु मा भूद् अनाकाराया बुद्धेर् उपलम्भः. सापि त्व् आकारवत्य् एवोपलप्स्यते अर्थश् च. तस्माद् द्वयोर् आकारवत्त्वं भविष्यति. ततश् चोपलभ्यत इति किम् अनुपपन्नम् अत आह -- आकारे ति. अस्यार्थः -- यो ऽयं ज्ञानार्थयोर् आकारवत्त्वभेदः यद्य् अयं ज्ञातः स्यात्, तथा(?सी।स)ति ज्ञात्वा भाषितुम् अपि शक्येत.{2,109}नीलपीतभेदवत्. न चैवं भाषितुं शक्यम् ईदृशो ज्ञानाकार ईदृशो ऽर्थाकार इति, नीलाद्याकारमात्रज्ञानाद् इति. एवं हि सर्वं समञ्जसं भवति. यदि बुद्धिग्रहणात् प्राग् एव साकारो ऽर्थः सिध्यति, ततो हि तत्सिद्ध्यन्यथानुपपत्त्या ज्ञानम् अपि कदाचित् सिध्येद् इति सिध्यति द्वैतम्. अत्र पुनरगृहीतायां बुद्धाव् अर्थो (?नु।न) सिध्यतीति साकारस्य च दर्शनाद् इत्य् अत्र साधितम्. अतो न कथञ्चिद् द्वैतसिद्धिर् इत्य् अभिप्रायेणाह -- प्राग् इति

6.35

अन्यन्मतं - सत्यम् आकारवद् ज्ञानं, किन् तु अर्थेनायम् आकारो ज्ञान आधीयते. अयम् एवार्थज्ञानयोः ग्राह्यग्राहकभावः, यद् अर्थस्य ज्ञाने स्वाकारसमर्पणम्. कथम् अपरथा क्षणिकत्वाद् अतीतो ऽसमसमयभाव्यर्थो ज्ञानालम्बनं भवेत्. यथाहुः --
भिन्नकालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः ।
हेतुत्वम् एव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥
इति. एतद् दूषयति -- न चे ति. किम् इति नैवम् अत आह -- न ही ति. अर्थाकारो ह्य् अर्थधर्मः. न च धर्मः स्वाश्रयं हातुम् आश्रयान्तरं वोपगन्तुं[724]प्रभवति, स्वरूपहानापत्तेर् इति

6.36

__________नोतेस्__________
[724] न्तुं शक्तः प्र (ख)
अपि च प्रमाणान्तरप्रसिद्धे ऽर्थस्याकारवत्त्वे भवेद् अप्य् एवम्. न च तस्याकारस्येत्थम्भावे ऽर्थधर्मत्वे प्रमाणम् अस्ति, हेत्वन्तरसम्भवे ऽपि कार्यानिष्पत्तिः कारणान्तरवैकल्यं सूचयतीति तु निराकृतम् उपादानविशेषाद् एव कार्यसिद्धेर् उक्तत्वाद् इत्य् अभिप्रायेणाह -- इत्थम् इति. ये तु वदन्ति -- मा नामार्थाकारो ऽर्थं हातुम् आश्रयान्तरं वोपगन्तुं प्रभवति. अर्थस्यैव प्रतिबिम्बम् इदं शुद्धादर्शप्रतीकाशे स्वच्छे ज्ञानात्मनि दृश्यत इति. तान् प्रत्याह -- तदीयेति. एतस्माद् एवेति. अर्थाकारत्वे प्रमाणाभावाद् इत्य् अर्थः

6.37

{2,110} तान् एव प्रसिद्धप्रतिबिम्बोदाहरणेन प्रतिबोधयति -- निश्चन्द्रे ति. तम् इति योग्यतया चन्द्रः प्रतिनिर्दिश्यते. खे च जले चेत्य् अर्थः

6.38

न चैष न्यायो ऽत्र सम्भवतीत्य् आह -- विज्ञाने ति

6.39

अपि चास्तु रूपवत्सु प्रतिबिम्बकल्पना, अरूपाणां तु शब्दादीनां प्रतिबिम्बकल्पना न कथञ्चित् सम्भवतीत्य् आह -- शब्दे ति. अपि च नीलाद्याकारा संविद् उपलभ्यते. तत् किम् अपराद्धम् अनया, यत् ताम् अनादृत्यायम् आकारो ऽर्थधर्मतयाभ्युपगम्यते प्रतिबिम्बवच् च दर्शनम् इत्य् अभिप्रायेणाह -- ज्ञाने (चे) ति

6.40

यस् तु वदति -- नार्थाकारो ज्ञाने सङ्क्रामति. न चार्थस्थः प्रतिबिम्बो दृश्यते. किन् तु ज्ञानम् अर्थेनायोगोलकम् इवाग्निना संस्पृष्टम्. अतो ऽयसीव भास्वराकारो मोहाद् अर्थाकारो ज्ञाने दृश्यत इति. तं प्रत्याह -- बह्ये ति. अयस् तेजसोर् हि सन्निकर्षाद् युक्तो मोहाद् अविवेकभ्रमः. बाह्याभ्यन्तरदेशौ तु ज्ञानार्थाव् असम्पृक्तौ. ततः कथम् अनयोर् मोहाद् अविवेकभ्रम इति

6.41

अपि च कश्चिद् एकः सम्मूढो भवति जगतस् तु सम्मोहकल्पना सम्मोह एव. न चात्र कश्चित् कदाचिद् असम्मूढो दृश्यते. सर्वस्य विवेकादर्शनात्.{2,111}अतो न सम्मोहकल्पना युक्तेत्य् आह -- असम्मूढस्ये ति. यदि तु ज्ञानार्थयोर् विविक्तयोर् अदर्शने ऽपि सम्मोहः कल्प्यते, तर्हि द्वयोर् एव नावतिष्टेत. एवं हि यथेष्टम् एव तत्त्वानि प्रसङ्ख्याय सम्मोहो ऽभिधीयतां, किं विशेषाद् इत्य् आह -- कल्प्यमान इति

6.42

अन्यद् दर्शनं - नार्थाकारो मोहाज् ज्ञाने ऽवगम्यते. किन् तु सांसर्गिको ऽयम् आकारश् चूर्णहरिद्रयोर् इवारुणिम् एति. तद् अप्य् अत एव बाह्याभ्यन्तरदेशत्वाद् अनुपपन्नम् इत्य् आह -- संसर्गे ति. तद् एव प्रकटयति -- देशभेदाद् इति. अपि च, अमूर्तं ज्ञानं मूर्तो ऽर्थः कथम् अनयोः संसर्गधर्म आकारो भवेत्. घटाकाशादाव् अदर्शनाद् इत्य् आह -- मूर्तामूर्ततया तथे ति

6.43

नन्व् असत्य् अप्य् एकदेशत्वे एककालतया संसर्गो भविष्यतीत्य् अत आह -- त्रैलोक्येने ति. त्रैलोक्यं हि ज्ञानेन समकालतया संस्पृष्टं संसर्गजन्माकारं प्रतिभासयेत्. न चैवम् अस्ति. तस्माद् अतिव्याप्तेर् नैककालतया संसर्ग इति. नन्व् आर्जवावस्थानं ज्ञानार्थयोः संसर्गो भविष्यतीति अत आह -- न चे ति. निर्मुखस्यार्जवाभावाद् न ज्ञानेनार्थस्यार्जवावस्थानम्. सर्वतोदिक्पदार्थबोधेन सर्वतोमुखत्वे वा सर्वार्थसंसर्गप्रसङ्गात् सर्वाकारोपलब्धिः. न हि सर्वतोमुखं कस्यचिद् एकस्याभिमुखं युक्तम् इति

6.44

अपि च, येनैवार्थेन ज्ञानस्य संसर्गः कल्प्यते, सर्वथैव तेन संसर्गः कल्पयितव्यः, निर्भागत्वात्. एवं च चक्षुषैकत्र भावे ऽनुभूयमाने तेनैव तद्गतरसाद्युपलब्धिप्रसङ्गः, तद्गतसूक्ष्माकारोपलब्धिश् चेत्य् आह -- सर्वथे ति

6.45

{2,112} ननु यद् एव तदर्थस्य ज्ञानं प्रति विषयतयावस्थानं सो ऽनयोः संसर्गो भविष्यतीत्य् अत आह -- न चे ति. अत्र कारणम् आह -- विषय(त्व)म् इति. अयम् अभिप्रायः -- संसर्गाकारवादिना हि प्राग् एवाकारोपलम्भनात् संसर्गो वक्तव्यः. न च विषयत्वम् आकारोपलम्भनात् प्राग् अस्ति. अतः कथं तन्निबन्धनाकारा संविद् भवति

6.46

किम् इति न स्याद् अत आह -- न ही ति. संवेद्यमान एव हि भावो विषय इति विषयविदः. अत उपलम्भोत्तरकालम् एव विषयभावान् न तन्निबन्धन आकारबोधः शक्यते ऽङ्गीकर्तुम् इति. एवं तु कल्प्यमान इतरेतराश्रयं प्राप्नोतीत्य् आह -- विषये ति. नीलत्वविषयत्वेन संसर्गात् तदाकारो निष्पद्यते. तदाकारनिष्पत्त्या च तस्य विषयभाव इति दुरुत्तरम् इतरेतराश्रयम् इति

6.47

दूषणान्तरम् आह -- द्वयोर् इति. अयम् अभिप्रायः -- यदि ज्ञानार्थयोर् द्वयोर् अप्य् आकारशून्यं स्वरूपम् अवगतं स्यात्, पुनश् च कदाचित् संस्पृष्टत्वेनाकारसंवित्तिः, तदा भवेद् अपि संसर्गधर्माकारकल्पना. न चैवम् अस्तीति वक्ष्यामः

6.48

न चार्थस्य ज्ञानाद् विविक्तस्य सद्भावो गृहीतपूर्वः. न च ज्ञानस्योपरि गृह्यते येन चूर्णहरिद्रयोर् इव विविक्तगृहीतयोर् अनयोः संसर्गः कल्प्यत इत्य् आह -- न चे ति. कारणम् आह -- न ही ति. संसर्गधर्मत्वे ह्य् आकारस्य{2,113} प्रथमं द्वयोर् अप्य् अनाकारबोधेन भवितव्यम्. न चाकारशून्यं ग्राह्यम् अस्तीति पूर्वम् उक्तम् इति

6.49

उपसंहरति -- तस्माद् इति. किं पुनर् इदम् अर्थस्य सद्भावो न गृहीत इति. ज्ञानवैचित्र्यानुपपत्तिर् एव ह्य् अर्थस्य सद्भावे प्रमाणम्. स्वच्छाकारस्य हि ज्ञानस्य न कारणान्तरम् अन्तरेणाकारसम्बन्धस् तद्वैचित्र्यं चोपपद्यते. अतो ऽस्ति कश्चिज् ज्ञानातिरिक्तो हेतुर् येनेदं वैचित्र्यम् आधीयत इत्य् अभ्युपगन्तव्यम्. न चेन्द्रियाण्य् एव तत्र कारणम् इति युक्तं, तेषाम् एकरूपत्वेन कार्यवैचित्र्यानुपपत्तेः. न च समनन्तरप्रत्ययाद् एव केवलाद् विचित्राकारदर्शनम् उचितं, विसदृशप्रत्ययानन्तरम् एव हि वयम् एकान्तविसदृशं प्रत्ययम् उपादीयमानम् उपलभामहे. तत् तद्धेतुकत्वे ऽनुपपन्नम्. यथाकार्यदर्शनं तु विचित्रा एव हेतवः कल्प्यन्त इति युक्तम्. ते चार्थशब्दवाच्याः. एवञ् च प्रसिद्धसद्भावो ऽर्थः ज्ञानं चाविवादसिद्धम् एवेति प्रसिद्धसद्भावयोर् न्याय्य एव संसर्गः, अत आह -- ज्ञानवैचित्र्ये ति

6.50

किम् इति न कल्पना, अत आह -- तद् इति. यदि वैचित्र्यम् अर्थाधीनतया विदितप्रतिबन्धं भवेद्, एवम् अर्थम् अनुमापयेत्. अत्यन्तापरिदृष्टपूर्वेण त्व् अर्थेन न क्वचिद् वैचित्र्याधानं दृष्टम् इति न तद्दर्शनेन तदनुमानं युक्तम्. कार्यदर्शनबलेन कुतश्चिद् एव समनन्तरप्रत्ययविशेषात् किञ्चिदाकारं ज्ञानं जायत इति न नोपपन्नम्. विलक्षणा हि ते उपादानविशेषा विलक्षणशक्तय इति न किञ्चिद् दुष्यतीति कार्यदर्शनबलानुसारिण्याम् एव च कारणव्यवस्थायां सुष्वा(?)पादाव् अप्य् आकाराभावसिद्धिः. कार्याभावेन कारणाभावानुमानात्. भवति तु तास्व् अपि दशासु स्वच्छसंवित्सन्तानः परस्ताज् ज्ञानदर्शनाद्, अनुपादानकारणस्य तस्यानुपपत्तेः. कथम् अनाकाराद् आकारवतो निष्पत्तिर् इति चेत्, कथं विसदृशाद् विसदृशस्योत्पत्तिः. तत्रापि शक्तिभेद एव कार्यदर्शनबलानुमेयो निबन्धनम्. कश्चिद् एवेह मूर्धादावन्ते प्रत्ययभेद{2,114} आविरस्ति, यः परस्तान्मूर्च्छोच्छेदे नीलाद्याकारप्रत्ययम् उपजनयति. स तस्यायम् अचिन्तनीयो महिमा कार्यदर्शनप्रमाणको न मीमांस्यत इति सूक्तम् अर्थसद्भावो न गृहीत इति. अपि च यदि साकारो ऽर्थः तदधीनं च ज्ञानानां वैचित्र्यं, कथं तर्हि मूर्छादाव् अन्तिमेन निराकारेण ज्ञानेन परस्ताद् भाविनो ज्ञानजातस्याकारो वैचित्र्यं वोपपद्यते. न हि तद् उभयम् अप्य् अर्थजन्यं, सत्य् एव तस्मिन्न् अभावात्. मूर्छायाम् अपि ह्य् अर्थ आसीद् एव. न च तेनासाव् आकारो दर्शितः. अतो व्यभिचारिणः समनन्तरप्रत्ययविशेषाद् एव निराकाराद् अपि वैचित्र्याकारयोर् उत्पत्तिर् अभ्युपगन्तव्या. एवञ् च सर्वत्रैव तथाभ्युपगन्तुम् उचितम्. किम् अर्थग्रहेण. पठन्ति च. अर्थग्रहः कथं सत्यम् इति. तद् एतद् आह -- निराकारेणे ति

6.51

अपि च, साकारा नीलादयो विषया ज्ञानं सरूपयन्तु निराकारस् तु गगनकुसुमशशविषाणवन्ध्यासुतादिविषयः कथं बुद्धावाकारम् आदध्यात्. न हि तत्र विषयाकारो नाम कश्चिद् अस्ति. बलात् तत्र बुद्धिर् एव साकारेति वक्तव्यम्. तद् व्यापकम् अस्तु. किम् अर्धजरतीयेनेत्य् अभिप्रायेणाह -- निराकाराद् इति. अपि च पूर्वानुभूतेषु स्मर्यमाणेषु असम्बन्धस्वभावेषु[725]स्वप्नादिबोधे चात्यन्तानन्ताननुभूतस्वशिरश् छेदादिविषये विषयाकाराभावाद् अनाकारस् तद्वादिनां ज्ञानम् आपद्यत इत्य् आह -- स्मृती ति

6.52

__________नोतेस्__________
[725] स्वापादि (क)
अत्र कारणम् आह -- न ही ति. सता ........ सतेति भावः. कथं तर्हि तत्राकारासम्बन्धः अत आह -- केवले ति. वासनेति. समनन्तरप्रत्ययम् एवोपादानापरनामानम् उपादत्ते. न तु ज्ञानातिरेकि.........पूर्वं चिरन्तनबौद्धमतेन वासनाभेदो वर्णित इति वेदितव्यम् इति. एवञ् च जाग्रद्बुद्धिष्व् अपि वासनाहेतुक एवाकारप्रतिभासो युक्त आश्रयितुं, किम् अर्धजरतीयेनेत्य् अभिप्रायेणाह -- इती ति

6.54

{2,115} किञ् च, अन्वयव्यतिरेकाभ्यां ज्ञानाकारकल्पनैव साधीयसीति दर्शयति -- अन्वये ति. एवंशब्दो युक्त्यन्तरोपन्यास इति. कथम् अवगम्यते, अत आह -- न ही ति वद् अन्तेन. अस्यार्थः -- असत्य् अपि बाह्ये स्वप्नादौ ज्ञानमात्रान्वयाद् एवाकारान्वयो दृश्यमानो ज्ञानप्रभावित एवावसीयते. न त्व् एवमर्थवादिनो ज्ञानापेतम् अर्थस्याकारान्वयं दर्शयितुं शक्ताः. असति ज्ञान आकारप्रतिभासायोगाद् इति. अतः सिद्धं तावद् वासनानिमित्त एवायं ज्ञानाकारो नार्थसंसर्गधर्म इति. यदि त्व् अवश्यं सांसर्गिको ऽयम् आकारो वक्तव्यः, परमस् तु स्वभावनिराकाराणां ज्ञानानां वासनासंसर्गनिबन्धनत्वेनाकारस्य संसर्गवाक्प्रवृत्तिर् इत्य् आह -- तस्माद् इति

6.55

प्रत्यूढः संसर्गधर्मपक्षः. अन्यन्मतं - नीलादिर् आकारो भासते. न चायं ज्ञानार्थयोर् अन्यतराश्रयतया निर्धारयितुं शक्यते. तद् अयम् अगृह्यमाणे विशेषे एक एव द्वयं साकारयतीत्य् आश्रीयते लाक्षाराग एव सन्निहितं मणियुगलम्. तद् एतद् उपन्यस्य दूषयति -- द्वयोर् इति. कथम् अप्रमाणम् अत आह -- देशभेदाद् इति. अन्तःस्थं हि ज्ञानं बहिरर्थः. नानयोः सन्निकर्षो ऽस्तीति नेदम् उभयम् एकम् आकारम् उपजीवितुम् उत्सहते. मणियुगलं तु सन्निहितम् एको लाक्षारागो ऽनुरञ्जयतीति न नोपपन्नम् इति. ननु भिन्नदेशयोर् अपि कुतश्चित् संसृष्टयोर् एकाकारोपजीवनं भविष्यतीत्य् अत आह -- असंसर्गाद् इति. उक्तम् इदं नानयोः कदाचित् संसर्गो गम्यते मणेर् इव प्रमाणाभावाद् इति. अपि च पृथगवधारितसद्भावस्य द्वयस्य साधारण आकारो भवेत्, न त्व् अत्र विभक्ताकारं द्वयम् उपलभ्यते. सर्वदैवैकाकारोपलम्भात्. उक्तं च -- अर्थज्ञानयोर् आकारभेदं नोपलभामहे इति. तद् एतद् आह -- द्वयोर् इति

6.56

{2,116} अन्यद् दर्शनं - विभक्ताकारम् एवेदम् उभयम् अत्यन्तसुसदृशत्वेन त्व् आकारविवेको न लक्ष्यते नीलोत्पलवन इव कादम्बकानाम् इति. एतद् उपन्यस्य दूषयति -- एवम् इति. सादृश्याद् अविभक्तता न स्याद् इत्य् अन्वय इति. कारणम् आह -- भेद इति. निर्ज्ञातभेदयोर् हीन्दीवरकादम्बयोः सादृश्याद् अविवेकाभिधानं युक्तम्. पृथगनवगतपूर्वस्य त्व् अर्थस्य खपुष्पतुल्यस्य सादृश्याद् अविवेक इति महान् अयम् अविवेक इति. सर्वे चैते बाह्यार्थवादिबौद्धैकदेशिपक्षा उपन्यस्य दूषिता इति वेदितव्यम् इति

6.57

इतश् च ज्ञानस्याकार इत्य् आह -- तथे ति. द्विचन्द्रादिविभ्रमेष्व् अन्यथार्थे व्यवस्थिते ऽन्याकारा बुद्धिर् उपजायते. तच् चार्थनिबन्धनत्वे त्व् आकारस्य नोपपद्यते. कथं ह्य् अन्याकारो ऽर्थो ह्य् अन्याकारां धियम् उपजनयेत्. तदवश्यम् असत्य् अप्य् अर्थे भासमान आकारो ज्ञानस्यैव वक्तव्यः. अतः सर्वत्रैव तथावधारणं युक्तम् इत्य् अभिप्रायः

6.58

किञ्च यद् एतद् विरुद्धानेकलिङ्गत्वम् एकस्य नक्षत्रं तारका तिष्यो दारा इत्यादिषु तदर्थाकारत्वे नोपपद्यते विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वेनार्थभेदापत्तेः. भिन्नान्य् एव तु विचित्रवासनानिबन्धनानि विचित्रार्थज्ञानानि जायन्त इति युक्तम्. तद् एतद् आह -- नक्षत्रम् इति

6.59

यथैकस्याम् एव प्रमदातनौ येयं परिव्राट्कामुकशुनां कुणपं कामिनीभक्ष इति कल्पना भवति, साप्य् एकात्मत्वाद् एकस्यार्थस्यार्थवादिनां नोपपद्यत{2,117} इत्य् आह -- परिव्राड् इति. अत्र नार्थनिबन्धनेत्य् अनुषञ्जनीयम् इति. इदं चापरं बाह्यार्थवादिनां नोपपद्यत इत्य् आह -- दीर्घे ति. एकैव हि प्रदेशिन्यङ्गुष्ठमध्यमाङ्गुल्यपेक्षया दीर्घह्रस्वतयावगम्यते, तच् चैतद् एकात्म्ये तस्यार्थवादिनां नोपपद्यते. पूर्वं च प्रमात्रपेक्षयानेकाकारसंविदुक्ता. अत्र तु न केवलं भिन्नानां प्रमातॄणाम् एकत्रानेकाकारबुद्धिः, एकस्यापि तूपाधिभेदाद् अनेकाकारबोधो दृश्यत इत्य् उक्तम् इति

6.60

न केवलम् औपाधिको नानाकारः प्रत्ययः. किन् तु घटो ऽयं पार्थिवो ऽयम् इत्यादिर् एकत्रैवार्थे युगपदनेकेषां ग्राहकाणां विकल्पो दृश्यते. तच् चेदं पारमार्थिकार्थसद्भावे नोपपद्यते तस्यैकात्मत्वात्. एको ऽर्थ एकात्मक इति सर्वैर् एव स तथावगम्यते. न चैवम्. अतो बुद्धिमात्रविलसितम् एवेदम् अनेकाकारत्वम् इति साम्प्रतम्. तद् एतद् आह -- घटत्वे ति. अत्र च प्रातिलोम्येनान्त्यसामान्यात् प्रभृति परसामान्यं यावदुपन्यासः कृत इत्य् अनुसन्धातव्यम्. ज्ञेयता तु न सामान्यं ज्ञानसम्बन्धोपाधिकत्वात्. अयम् अपि च प्रतीतिप्रकारो दृश्यत इति प्रदर्शनार्थम् उक्तम्. यद्य् अपि चात्र घटत्वादीनां दीर्घत्वादीनाम् इव विरोधो न दृश्यते, तथाप्य् एकात्मकत्वाद् एकस्य निर्भागस्यार्थात्मनो नानाकारप्रतिभासो ऽनुपपन्न इत्य् उक्तम् इति

6.61

किम् इति न स्याद् अत आह -- ने ति. न तावद् एकत्रार्थ एकात्मन्य् अनेकाकारत्व एवं न्याय्यः. यथाहुः --
अन्यथैकस्य भावस्य नानारूपावभासिनः ।
सत्यं कथं स्युर् आकारास् तदेकत्वस्य हानितः ॥
इति. नतरां विरुद्धाकारसम्भवः. स च प्राग् एवोक्तो ऽनुसन्धातव्य इति. ज्ञानवादिनस् तु नानाप्रत्यया नानाप्रकारा भवन्तीति युक्तम् इत्य् आह -- प्रत्ययानाम् इति. किं पुनर् एषां तथात्वे कारणम् अत आह -- शक्त्यनुसारतः .{2,118}शक्तिर् इति समनन्तरप्रत्ययम् एवापदिशस्ति, तदधीनत्वाज् ज्ञानकार्यनिष्पत्तेः. तदतिरिक्ता तु शक्तिर् अप्रमाणिकैवेति न बौद्धैर् इष्यत एवेति

6.62

अतः सिद्धं तावद् भासमान आकारो ज्ञानस्यैव न त्व् अर्था(?क्षेपः।पेक्षः) अर्थनिरपेक्षम् एव तु स्वरूपेण यादृशं ज्ञानं यदि तदनुसार्यर्थो ऽभ्युपगन्तुम् इष्यते सो ऽस्तु नाम. न पुनर् यथार्थं ज्ञानं नाम किञ्चिद् अस्तीत्य् आह -- निरपेक्षम् इति

6.63

अस्तु तर्हि ज्ञानानुसार्य् एवार्थः, न, एवम् अपि द्वैतहानिर् इत्य् अत आह -- इत्थम् इति. अयम् अभिप्रायः -- गलजिह्विकयेदम् अस्माभिर् उक्तं तथार्थ इति. न तु ज्ञानाकारत्वे ऽर्थो नाम कश्चित् सिध्यति, आकारभेदानुपलम्भात्. अतो न विज्ञानतन्त्रत्वे ऽर्थकल्पना शक्यते कर्तुम्. अर्थेनानारोपिताकारा धीर् एव स्वात्मन्य् एवोपयोक्ष्यते. स्वात्मानम् एव प्रकाशयति न त्व् अर्थविषया. यद्य् एवं सर्वसंविदाम् अनर्थकत्वात् किंकृतः प्रमाणेतरविवेकः. अर्थक्रियाकारिप्रत्ययसदसद्भावकृत इति ज्ञात्वा शाम्यतु भवान्.[726अ]व्यवहारसंवादापेक्षया हि प्रमाणं तद्विसंवादाद् अप्रमाणम् इति सांव्यवहारिकी प्रमाणस्थितिः. पारमार्थिकं तु प्रमाणं चिन्तामयीम् एव प्रज्ञाम् अनुशीलयन्तः केचिद् एव कृतिनो निर्धूतनिखिलनीलाद्युपरागम् अभिमुखीकुर्वन्तीतिइइ तत् तुरीयं प्रत्यक्षम् आचक्षते

6.64

सिद्धान्तम् इदानीम् आरभते -- ने ति. अस्यार्थः -- एकं हि ज्ञानं ग्राह्यग्राहकम् इति वः सिद्धान्तः. न चैकस्योभयात्मकत्वे कश्चिद् दृष्टान्त इति. तत् पुनर् इदं पूर्वापरयोर् अनवहितस्येव भाषितम्. तथा हि -- न तावद् ग्राह्यग्राहकाकारं ज्ञानम् इति बौद्धैर् इष्यते. अपि तर्हि प्रलीनग्राह्यग्राहकोद्ग्राहं चिन्मात्रम् एव स्वयंप्रकाशम् इति. उक्तं हि --
{2,119} ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ।
इति. बौद्धगन्धिमीमांसकैर् अप्य् उक्तं - संवित्तयैव हि संवित् संवेद्यते न तु संवेद्यतया नास्याः कर्मभावो विद्यते इति. दृष्टान्ताभाववचनम् अपि चासमर्थम्. न हीदानीम् अनुमानतो बौद्धस्य प्रत्यवस्थानं, येन दृष्टान्ताभाववचनेनोपालभ्यते. निरालम्बनानुमानस्य प्रत्यक्षबाध उक्ते सम्प्रति प्रत्यक्षशक्तिपरीक्षयैव प्रत्यवस्थितं न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तं ग्राह्यलक्षणायोगादित्यादिभिः. अतः किं दृष्टान्ताभाववचनेनोपालभ्यते. अत्रोच्यते -- एवं हि मन्यते. अवश्यम् अयं ग्राह्यग्राहकभावः संविदो बौद्धैर् अभ्युपगन्तव्यः, कथम् अन्यथा सैव सिध्यति. न ह्य् अग्रहणकर्मणः कस्यचित् सिद्धिर् अस्ति. ननु स्वप्रकाशः प्रकाशः किम् अस्य प्रकाशान्तरेण. स्वप्रकाश इति को ऽर्थः. स्वयम् एव प्रकाशते न तु प्रकाशान्तरम् अपेक्षत इति. किं पुनर् इदं प्रकाशत इति प्रकाशाद् अर्थान्तरवचनं, न वा. यद्य् अर्थान्तरवचनम्, अस्ति तर्हि संविदो ऽप्य् अपरः प्रकाशः. अन्यथा प्रकाशत इत्य् अनधिकार्थम् अवचनीयम् एव. स्वरूपं हि संवित्पदेनैवोपात्तम्. अतः प्रतीतिकर्मतैव संविदः प्रकाशतेपदार्थो घटः प्रकाशत इतिवत्. स्याद् एतत्. कर्तृप्रतिनिर्देशो ऽयं नातः कर्मभावो ऽवसीयत इति. नैवम्. एवम् अपि प्रकाशतेपदार्थस्य कर्तृभावो वाच्यः. नासाव् असति प्रकाशभेदे सिध्यति, अद्वितीयस्य भेत्तुम् अशक्यत्वात्. अतो नाप्राप्तस्य सिद्धिर् अस्ति. न चापि कर्मणः प्राप्तिर् अस्तीति सत्याः संविदो ऽवश्यं प्राप्यकर्मता भावान्तरवद् वक्तव्या नान्या गतिर् अस्ति. नन्व् अर्थः कर्म, आत्मा कर्ता, संवित्तु फलं, तत् कथं कर्मेत्य् उच्यते. न. फलस्याप्य् अप्रतीतिकर्मणः सिद्ध्यसम्भवात्. अन्यथा मातृमेययोर् अपि स्वप्रकाशापातात् किं तत्सिद्ध्यर्थं संविदभ्युपगमेन. न प्रयोजनतः संविदं सङ्गिरामहे, अपि तु प्रतीतितः. प्रतीमो हि वयं मातृमेयगोचरां फलभूतां संविदम्. न ततो ऽपि भिन्नाम् अपराम् इति तावत्य् एव व्यवतिष्ठामहे. मैवम्. निराकृतम् इदं नानाकारा धीर् उपलभ्यत इति. न हि नः संवित्प्रकाशवदर्थप्रकाशो ऽपि भासते, नीलाद्याकारमात्रप्रकाशात्. नन्व् अप्रकाशात्मानो घटादयः प्रकाशान्तरम् अपेक्षन्ताम्. संविदस् तु तद्रूपायाः किम् इति प्रकाशान्तरापेक्षया. न, अतद्रूपत्वात्. संविदो ऽपि हि न स्वात्मप्रकाशात्मत्वं, अर्थप्रकाशो ह्य् असौ.{2,120}वक्ष्यति
च - ईदृशं वा प्रकाशत्वं तस्येति. अतो ऽवश्याभ्युपगन्तव्यः संवित्सिद्धये प्रकाशभेदः. किम् इदानीम् असिद्धैव संवित् संवेद्यं साधयति संविदन्तरसिद्धा वा. न तावत् पूर्वः कल्पः. अप्रसिद्धा ह्य् असती न संविद् व्यवहाराय घटत इत्य् उक्तम्. संविदन्तराधीनायां तु सिद्धाव् अव्यवस्थापात इत्य् उक्तम्. सत्यम्. न संविदन्तराधीनसिद्धिः संवित् संवेद्यं साधयति. स्वरूपसत्य् एव तु. कथम् अधीविषया सतीति चेद्, न धीविषयभावः सत्ता. किन् तु सामान्यम् उत्पत्त्युत्तरकालभावि तद्वताम्. अतो मृत्सलिलप्रच्छन्नबीजादिवदविदितस्वरूपसामर्थ्यैव संविद् विषयं व्यवस्थापयति. स च व्यवस्थितः सत्यां जिज्ञासायां संविदं संविदन्तराधानेन साधयति. नन्व् इयं विषयसामर्थ्येन संवित्सिद्धिः प्रत्युक्ता वस्त्वन्तरं प्रकल्प्यं स्यात् इत्य् अत्र यथा न प्रत्युच्यते तथानन्तरम् एव वक्ष्यामः
यावज्जिज्ञासितज्ञानाद् अव्यवस्थापि नापतेत् ।
इति. अत एव सहोपलम्भनियमो ऽपि परैर् उक्तो ऽस्मान् प्रत्यसिद्ध एव. विषयवित्तिकाले संविदो ऽनुपलम्भात्. विषयमात्रम् एव हि इदं नीलम् इति नश् चकास्ति, नाहं नीलम् इति. संवित्प्रकाशे च तथा प्रकाशानुपपत्तिः. न हि स्वगोचरा संवित् परनिरूपणात्मिका भवति, स्वपरवेद्ययोर् इदम् अहङ्कारयोर् अविशेषापत्तेः. अयं स्वात्मानम् अहम् इति प्रतिनिर्दिशति परम् इदम् इति. न त्व् अभेदेनेदङ्कारम् अहङ्कारं चोभयम् एकत्र प्रयुङ्क्ते. अतो नास्तीदं नीलम् इत्य् अत्र संविदुपलम्भ इत्य् असिद्धो हेतुः. स्वप्रकाशसंविद्वादिनाम् एव त्व् अयम् उपालम्भ इत्य् उक्तम्.
स्याद् एतत्. अज्ञातो ज्ञापकहेतुः कथं ज्ञापयतीति. नायं दोषः. अज्ञातस्यापि चक्षुषो ज्ञानजननोपलब्धेः. ननु चक्षुर् अङ्कुरस्येव बीजं ज्ञानस्य कारकम् एवेति युक्तम् अज्ञातस्यापि जनकत्वम्. मैवम्. ज्ञानहेतोर् एव ज्ञापकत्वसमाख्यानात्. अपि च न ज्ञानं ज्ञापकहेतुः ज्ञानत्वात्. ज्ञानस्य हि जनका धूमादयो ज्ञापकाः न ज्ञानम् एवेति कथम् अज्ञापकस्य ज्ञापकधर्मा आपाद्यन्ते. स्वरूपसत्यैव संविदा विषयः साध्यते. सा तु पश्चाज्ज्ञानान्तरेण साध्यत इति. असति तु ग्राह्यत्वे संविद् एव न सिद्ध्येद् इत्य् आपाद्य ग्राह्यग्राहकत्वम् एकत्वे दूषणम् उच्यते नैकत्राद्वितीये तत् सिध्यतीति. यद् अपि च संवेदनम् असत्यभेदे नीलसंवेदनयोर् अनुपपन्नम् इति. तद् अप्य् अनेनैव निराकृतम्.{2,121}विपरीतम् इदम् उच्यते -- ऐकात्म्ये संवेदनम् इति, भेदाश्रयत्वाद् ग्राह्यग्राहकभावस्य, स्वप्रकाशत्वनिषेधाच् च. एकं हि तत्त्वम् अविभागं नात्मनि वर्तितुम् अर्हति. स्वात्मनि क्रियाविरोधात्, न ह्य् अङ्गुल्यग्रम् आत्मनात्मानं स्पृशति सूच्यग्रं वा विध्यति. कर्मकर्तारो हि तद्धर्मभेदाश्रयणेनैवोभयथा विवक्ष्यन्ते केदारादयो लवनादौ न त्व् एकान्तम् एकात्मानः. आत्मनो ऽपि ग्राह्यग्राहकभावम् अनन्तरम् एव समाधास्यतीति सिद्धं नैकस्य ग्राह्यग्राहकभाव इति. यत् तु भेदे ग्राह्यलक्षणायोग इति. तद् यद्य् उत्पत्तिसारूप्याभिप्रायेण तदनुमन्यामह एव उक्तदोषत्वाद् एवंविधस्य ग्राह्यत्वस्य. यत् तु ज्ञानोत्पत्तौ सञ्चे(?द्य।त्य)ते तद् ग्राह्यं, कथम् अनात्मभूतम् असम्बद्धं सञ्चेत्यते. एवं ह्य् एकम् एव ज्ञानं विश्वं गोचरयेद्, असम्बन्धाविशेषात्. अस्ति वा ऐकात्म्ये नीलसंवेदनयोः सम्बन्धः. नन्व् असौ भेदाधिष्ठानः कथम् एकत्राविभाग आस्पदं लभते. स्याद् एतत्. ऐकात्म्ये ऽपि किं सम्बन्धेन, स ह्य् एकात्मा स्वप्रकाश एवेति. मैवम्. उक्तो हि स्वात्मनि वृत्तिविरोधः. तस्माद् भिन्नम् एव संवेदनान् नीलं ग्राह्यलक्षणम् उपनिपततीति तद्ग्रहे भेदम् आतिष्ठामहे. अभेद एव तूक्तेन प्रकारेण ग्राह्यलक्षणायोगः. यदा तु ज्ञानार्थयोः सारूप्यनिराकरणार्थं स्थूलानुपपत्तिश् चलाचलोपलम्भादिभिर् आपादिता, तां वनोपन्यासावसरे परिहरिष्यामः. सारूप्येण तु ग्राह्यताम् अनातिष्ठन्तो नेह स्थूलसिद्धाव् आद्रियामहे. तद् एकप्रकाराभिहतम् एव हेतुत्रयम्. कथम् इदानीम् असम्बद्धं

प्रकाशते. तत्प्रकाशे वा नातिप्रसङ्गः. नासम्बद्धं प्रकाशते. इन्द्रियाणि हि प्रकाशकानि. तानि च प्राप्यकारित्वाद् अर्थेन सम्बद्धान्य् एवार्थविषयम् आत्मनि ज्ञानं जनयन्ति. तैश् चासन्निहितम् अवर्तमानं वा न प्राप्यत इति नातिप्रसक्तिः. ज्ञानं तु न प्रकाशकं प्रकाशत्वात्. प्रकाशकं च नासम्बद्धं प्रकाशकं प्रदीपवद् इति तत्प्रकारजुषाम् इन्द्रियाणाम् इष्ट एव सम्बन्धः. तत् किम् असम्बन्ध एव ज्ञानार्थयोः. यद्य् एवं कथं घटस्य ज्ञानं नासम्बन्धः. विषयविषयिभावो ऽपि सम्बन्ध एव. स चास्ति ज्ञानार्थयोः. संयोगस् तु नेष्यते समवायो वा. को ऽयं विषयार्थः. येयं प्रतीतिकर्मता. प्रतीतिर् इति हि क्रिया. अस्याम् आत्मा कर्ता. इन्द्रियाणिकरणम्. अर्थः कर्म. तद् येयम् अर्थस्य प्रतीतौ कर्मकारकता तद् एव तस्य विषयत्वं तच् च रूपं प्रतीतेः प्रागभूतं परस्तान् निष्पद्यत इत्य् अवश्यम् आश्रयणीयम्. अन्यथा ज्ञाताज्ञातयोर् अविशेषापत्तेः.{2,122}तद् एव ज्ञातता(?ति।दि)पदास्पदं ज्ञानज्ञाने लिङ्गं, कथं पुनस् तदप्रतीतायां प्रतीतौ प्रतीयते. ज्ञानविशिष्टता हि ज्ञातता. सा कथम् अज्ञाते विशेषणे ज्ञायते. अज्ञाता वा लिङ्गम् अनुपपद्यमाना वा न ज्ञानं गमयति. न ह्य् अज्ञातं लिङ्गम् अनुपपद्यमानं वा लिङ्गिनम् उपपादकं वोपस्थापयति. तद् इतरेतराश्रयं, ज्ञानज्ञाततयोर् इतरेतराधीनसिद्धित्वात्. स्वरूपमात्रेण त्व् अर्थो न लिङ्ग(?म् इ।म् अ)तिप्रसङ्गाद् इत्य् उक्तम् एव. भवेद् एवं यदि ज्ञानप्रतीतौ ज्ञातः प्रतीतो भवेत् तदुत्पत्तौ तु स प्रतीत इत्य् उच्यते. अतः स्वयं सिद्धो ज्ञानं साधयति. यत् तु ज्ञानविशिष्टता ज्ञाततेति. तन् न. तत्कर्मता हि सेत्य् उक्तम् एव. तत्कर्मभावश् चार्थस्य न तत्प्रतीतौ सम्भवति. किन् तर्हि. तदुत्पत्तौ. तद् अयम् उत्पत्त्यैव ज्ञानस्याप्राप्तपूर्वो विषयः सम्प्रति प्राप्तो ज्ञानम् उपकल्पयति. एष हि प्राग् ज्ञानोत्पत्तेः सुस्वापादावन्ध इवासीत्, न कञ्चिद् विषयम् अज्ञासीत्. तत् केयम् आकस्मिकी विषयाणां प्राप्तिर् इति चिन्तयति -- न हि कदाचिद् भुवाम् अकस्माद् भावः सम्भवति. अहेतुसापेक्षस्य गगनवन्नित्यभावापत्तेः. अभावो वा तत्कुसुमवद् इति भवितव्यम् अस्य कदाचिद्भवतो ऽर्थसन्निकर्षस्य केनापि कारणेन. न ह्य् असौ तथाविधः स्वरूपेणैव, नित्यतथात्वापत्तेः. नेन्द्रिय वशेन. तेष्व् अपि सत्सु सुस्वापादावदर्शनाद् अर्थतथात्वस्य जागरायां चाव्याप्रियमाणेषु.
अस्तु तर्हि तद्व्यापार एव तथात्वे हेतुर् अर्थस्य. न, सत्य् अप्य् अभावात्. अस्ति खल्व् अस्य नानार्थैः सन्निकृष्यमाणानाम् इन्द्रियाणाम् असाधारणो व्यापारः. किञ्चिद् एव तु कदाचिज्ज्ञातं भवति. एवम् एवात्ममनसोर् अपि सतोर् अर्थतथात्वादर्शनाद् अहेतुत्वं तथात्वेन. नन्व् अव्यभिचारी मनसो योगस् तद्भावे हेतुर्भविष्यतीति. कस्य इन्द्रियाणाम् आत्मनो वा. तन् न तावदिन्द्रियाणाम्. यद् एव हि किञ्चिद् बहिरिन्द्रियं चक्षुरादि कार्यदर्शनवशान् मनसा संयुक्तम् इत्य् अवगतं तद् एव किञ्चिज् ज्ञापयति. नेतरत् तदिन्द्रियमनोयोगहेतुकत्वेन युज्यते ज्ञातत्वस्येति तद्योगो न हेतुत्वेन कल्प्यते. आत्मन्य् अपि मनोयुक्ते कस्य हेतोः किञ्चिद् एव ज्ञातं नापरम्. येनेन्द्रियं सन्निकृष्यते चक्षुरादि तदात्ममनोयोगाज् ज्ञातं भवतीति चेद्, न. उक्तव्यभिचारत्वात्. चक्षुस्सन्निकृष्टम् अपि हि किञ्चिद् एव कदाचिज्ज्ञातं भवति नापरं, तदसति विशेषे नावकल्पते.
अपि च ज्ञानकर्मता ज्ञातत्वं चेतना ज्ञानम् इति चानर्थान्तरम् इति लोकसिद्धम्. तद् यद्य् आत्ममनोयोगश् चेतना, तस्योभयसाधारण्याद् मनश् चैतन्यप्रसङ्गो{2,123}वर्णितः. न ज्ञानं चेतना, अपि तु संवेदनम् इति चेत्. अस्ति वानयोर् विशेषः. नन्व् एवं नीलं जानाति संवेत्तीति च सह प्रयुज्येत, अर्थभेदेनापर्यायत्वाद् इति नात्ममनस्संयोगो ज्ञानम्. अतो न तत्प्रभावितं भावानां ज्ञातत्वम्. सो ऽयम् अहेतुकः प्राप्यकर्मभावो ऽर्थस्य ज्ञाततात्माजन्यो नावकल्पते. हेत्वभावेन कार्याभावप्रतिबद्धेन तदनुमानात्. सेयं प्रत्यक्षादीनाम् अनुमानविरोधानुपपत्तिः. तानि ह्य् अर्थं प्रापयन्ति. हेत्वभावानुमानं च तत्प्राप्तिं प्रतिक्षिपति. सेयम् अनुपपत्तिर् ज्ञानकल्पनया समाधीयते. अस्ति कश्चिदात्मसमवायी ज्ञानसंवेदनादिपदपर्यायवाच्यो जानातिधातूपादानः क्रियाभेदो यस्मिन्न् अर्थानां प्राप्यकर्मतेति. ननु ज्ञानं गुणः गुणकाण्डेर् पाठात् न तु क्रिया. अतः कथं तस्यार्थः कर्मेत्य् उच्यते. न हि विभोर् आत्मनः स्पन्दसमवायः सम्भवति. न चापरिस्पन्दात्मिका क्रिया, पञ्चानाम् अपि कर्मणां स्पन्दात्मकत्वात्. न. धात्वर्थमात्रस्य क्रियात्वात्. वक्ष्यति च -- क्रिया धात्वर्थमात्रं स्यात् इति. बुध्यत इत्यादिभ्यश् च शब्देभ्यः क्रियाप्रत्यय एवोपजायमानो दृश्यते पूर्वापरीभावावगतेः. अतो युक्तैव ज्ञानकर्मता विषयाणां ज्ञानाकारवादिनाम्. अपि चावश्यम् अप्राप्तपूर्वस्य नीलादेः प्राप्तिर् वक्तव्या. अन्यथा प्रागिवोत्तरकालम् अप्य् अप्रतिभासमाने विषयाकारे आन्ध्यम् एव जगतो भवेत्. भासते विषयाकारो न केनचित् प्राप्यत इति चेत्, कस्य भासते. यदि न कस्यचित्, किंकृतो व्यवहारभेदः. एको हि नीलं विद्वांस् तदुपाददानो दृश्यते. नापरो विद्वान्. सो ऽयं स्वतन्त्रे नीले किंकृतो विशेषः. न हि स्वतन्त्रो भासमानः सर्व(?स्या।स्य) स्यान् न वा कस्यचिद् वनवह्निर् इवानुपलभ्यमानः केनापि. अतो ऽवश्यम् अस्य क्वचित् सन्ताने प्राप्तिर् वक्तव्या. तथा च यदाभासं प्रमेयं तद् इति पठन्ति. न चाप्रमाकर्मणः प्रमेयता सम्भवति. अस्त्य् अयं प्रमेयादिविभागः, किन् तु भ्रान्तिपरिकल्पितः. तथा चोक्तम् -- अविभक्तो ऽपि बुद्ध्यात्मा इति. सत्यम् उक्तम्. अयुक्तं तु तत्. एवं हि न किञ्चित् पारमार्थिकं नाम भवेत्. चिन्मात्रतापि हि प्रतीतिवशाद् एवाश्रीयते. तद्वद् एव तु विषयाकारो
ऽपि भासमानः कथम् अपारमार्थिको भवेत्. तद्विपर्यस्तत्वे वा कथं संवित्स्वरूपम् अविपर्यस्तं भवेत्. उभयत्रापि बाधादर्शनात्. अतः संविद् एवात्मनो भिन्नम् अर्थम् इदम् इति दर्शयन्ती नान्यथा वक्तुं शक्यत इति सिद्धम् इदम् इति बहिः प्रसिद्धो विषयो ज्ञानं साधयतीति.

{2,124} यत् तूक्तम् अर्थस्थो धर्मः परेणापि ज्ञातो ज्ञानं गमयेद् इति. तद् अयुक्तम्. अर्थो हि ज्ञातो ऽनुपपद्यमानो ज्ञानकल्पनायां हेतुर् उक्तः. न चासौ सर्वस्य तथा भवति. यस्यैव तु ज्ञानम् उत्पन्नं तस्यासौ ज्ञात इति प्रतीतिसाक्षिकम् एव. यथा यस्यैव गमनं तस्यैव देशान्तरप्राप्तिर् भवति असत्य् अपि गतिज्ञाने. किम् आत्मकः पुनरर्थस्थो धर्मः. उक्तं कर्मकारकतेति. ननु कर्मशक्तिर् अप्रत्यक्षसिद्धा कथं ज्ञानं गमयति. न कर्मशक्त्या ज्ञानं कल्पयामः. कर्मणा त्व् अर्थेन, स तु प्रत्यक्षसिद्ध एव. तस्य चाप्रत्यक्षायाम् अपि शक्तौ कारकान्तरवत् प्रत्यक्षतोपपत्तिः. कारकान्तरशक्तयो ऽपि ह्य् अप्रत्यक्षा एव. न चैतावता तेषाम् अप्रत्यक्षभावः. अतः प्रत्यक्षादिप्रमाणप्राप्तो विषयो ज्ञानकल्पनायां हेतुः. प्राप्तिश् चार्थस्याभूतपूर्वावस्था सर्वस्य स्वसंवेद्येत्य् एके. अन्ये तु हानादिव्यवहारयोग्यतैवार्थस्य प्राप्तिर् इत्य् आहुः. सैव हि ज्ञातत्वम्. तद् एव हि ज्ञानफलम्. क्रियाफलभागिता च कर्मत्वम्. सर्वथा सिद्धं ज्ञाताद् अर्थाज् ज्ञानानुमानम्. ये ऽपि प्रत्यक्षैव संवित् स्वात्मानं विषयवदवस्थापयतीति मन्यन्ते, तैर् अपि ज्ञानोत्पत्तेः प्रागभूतः परस्ताद् भाव्यर्थगतो धर्मभेदो ऽभ्युपगन्तव्यः. न तु ज्ञानप्रत्यक्षतैवार्थप्रत्यक्षता. न ह्य् अन्यस्मिन् प्रत्यक्षे ऽन्यत् प्रत्यक्षं भवति, अतिप्रसङ्गात्. यदि संवित्प्रत्यक्षतैवार्थप्रत्यक्षता भवेद्, अनुमेयादीनाम् अप्य् आपद्येत. अनुमानसंविदो ऽपि प्रत्यक्षत्वात्. अतो ऽवश्यं स्वगत एवार्थस्य विशेषो वक्तव्यः, येन प्रत्यक्षेतरते व्यवतिष्ठेते. अतः सिद्धं नाप्रमाणिका ज्ञेयसिद्धौ ज्ञानकल्पनेति द्वैतसिद्धिः. सर्वसंविदां त्व् आनर्थक्ये विषयाकारप्रत्यभिज्ञा निर्निबन्धनैव भवेत्. एव हि पूर्वेद्युर्दृष्टम् अर्थम् अपरेद्युः प्रत्यभिजानाति. तज्ज्ञानेन सह निरुद्धस्याकारस्य नोपलभ्यते. अन्यः खल्व् अयम् अद्य भुवो ज्ञानस्याकारः. अन्यश् चासौ यः प्राङ् निरूपितनिरुद्धः. कतरद् अत्र प्रत्यभिजानीमः. प्रमाणेतरविभागो ऽपि सर्वसंविदाम् आनर्थक्ये ऽनुपपन्नः. न चार्थक्रियाकारिज्ञानसदसद्भावनिबन्धनो ऽसाव् इति युक्तम्. स्वप्नपरिदृष्टेष्व् अप्य् अर्थेषु (?का।क्व)चिदर्थक्रियाकारिज्ञानोदये प्रामाण्यप्रसङ्गात्. बाध्यते स्वप्नज्ञानम्[726]अनन्तरम्, अतो न प्रमाणम् इति चेत्, जाग्रज्ज्ञानम् अपि योग्यवस्थायां बाध्यत एवेति कथं
प्रमाणम्. अथ तच्चिरेण बाध्यत इत्य् उच्यते, नैतावता विशेषेण सत्यम् इत्थ्यात्वे भवतः. न हि मायासुवर्णज्ञाने चिरेण विसंवादो दृश्यत{2,125}इति तत् प्रमाणम्. अतो यत् प्रमाणं तत् प्रमाणम्, अप्रमाणं चाप्रमाणं न त्व् अर्धजरतीयम् उपपद्यते. अतः सिद्धं ज्ञानाद् भिन्न एवार्थो ग्राह्यलक्षणानुयायी ज्ञानं च साधयतीति. दृष्टान्ताभाववचनम् अपि नानुमानदूषणार्थं, किन् तु स्वाभिप्रेतानुमानदूषणपरिहाराय. एवं ह्य् अत्रानुमानम् अन्तर्णीतं नाविभागं द्व्यात्मकम् अविभागत्वाद् अन्यतरांशवद् इति. यदि च कश्चित् कदाचिद् अग्न्यादिषु दर्शनाद् अनैकान्तिकतां ब्रूयात्, तदर्थम् इदम् उक्तं न चैकस्यैवमात्मत्वे दृष्टान्तः कश्चिद् अस्ति ते इति. तच् चैतद् उपरिष्टात् प्रपञ्चयिष्यतीति

6.65

__________नोतेस्__________
[726] म् अन्त (ख)
[726अ] च्f. प्विन् 1.100,14-19
नन्व् अग्न्यादीनाम् एकात्मनाम् एव प्रकाश्यप्रकाशकता दृष्टा. अतो ऽनैकान्तिको हेतुर् अत आह -- अग्नी ति. अयम् अर्थः -- ये ऽग्न्यादयः प्रकाशकतया प्रसिद्धाः ते घटादीनां न स्वात्मन इति, न प्रकाशरूपाः प्रकाशात्मनः स्वरूपस्येति. किं पुनः स्वात्मनः प्रकाशस्य न ते प्रकाशकाः. न हि ते ऽप्रकाशिताः सिध्यन्ति. न च तत्सिद्ध्यर्थम् अपरसजातीयापेक्षा दृश्यते. न हि प्रदीपः प्रदीपान्तरम् अपेक्षते. अत आह -- अनपेक्षणाद् इति. अयम् अभिप्रायः -- न ते स्वप्रकाशाय स्वात्मानम् अपेक्षन्ते, स्वात्मनि वृत्तिविरोधात्. स्वस्य स्वस्मिन् प्रकाशायोगाद् इति

6.66

किम् इदानीम् अप्रकाशिता एव प्रकाशन्ते, नैवम् अपि. केन तर्हि प्रकाश्यन्त इत्य् अत आह -- ग्राह्यत्वम् इति. चाक्षुषेण हि तेजसा प्रकाशितास्ते गृह्यन्ते. तत् तेषां ग्राहयितृ न ग्रहीतृ. इन्द्रियचैतन्यप्रसङ्गात्. नन्व् एवं तेजसस् तेजोन्तरापेक्षायां सजातीयापेक्षेत्य् अनवस्था. मैवम्. उक्तात्र नायनस्य तेजसः कार्यदर्शनानुसारिणी रूपसिद्धौ शक्तिसिद्धिः. बहिस् तेजसो रूपप्रकाशकत्वदर्शनाद् देहे ऽपि वर्तमानं तद् एव रूपस्य प्रकाशकं भूतान्तराणां तैजसस्य च. न चेह सजातीयापेक्षा. अवान्तरजातिभेदात्. अत एवान्धस्य{2,126}प्रदीपादयो न बुद्धिविषयाः. स्वप्रकाशत्वे च तेषाम् अन्धस्यापि धीगोचरा भवेयुर् इति. अक्षम् अपि रूपरूपिरूपैकार्थसमवायिना प्रकाशकं न स्वात्मनः, तद्ग्रहणकाले बुद्धेर् एवान्यथानुपपत्तिप्रमाणिकाया ग्राहकत्वम् इत्य् आह -- अक्षे ति

6.67

बुद्धिस् तु बुद्ध्यन्तरवेद्येत्य् अनन्तरम् एवोपपादितम् इत्य् आह -- तस्याम् इति. अत्र चोदयति -- नन्व् इति. आत्मनो हि ग्राहकान्तराभावाद् अवश्यम् एकस्योभयरूपता वक्तव्या. न ह्य् असाव् अन्येन गृह्यते. ग्राहकानन्त्यप्रसङ्गात्. अतस् तद्वद् एवैकस्यैव ज्ञानात्मनो ग्राह्यग्राहकभावो नानुपपन्न इति

6.68

परिहरति -- कथञ्चिद् इति. अयम् अभिप्रायः -- निर्भागं हि ज्ञानम् इति वः सिद्धान्तः. न चैवंविधस्य द्वैरूप्यम् उपपन्नम्. आत्मा तु केनचिदात्मना ग्राहकः. केनचिदात्मना ग्राह्य इति किं नोपपद्यते. तथा हि -- अस्यार्थसंयुक्तेन्द्रियसंयुक्तमनस्संयोगिनः प्रत्ययो नाम धर्मभेदो जायते. स चास्मात् कथञ्चिद् धर्मरूपेण भिन्नः. तेन चायं ग्राहकः. यत् तस्य पृथिव्यादिद्रव्यान्तरसाधारणं द्रव्यादिरूपं तद् ग्राह्यम्. ज्ञानस्य तु नैवंविधः कश्चिद् विभागो बौद्धैर् इष्यते. अतः कथं तस्य द्वैरूप्यम् इति

6.69

नन्व् एवम् अपि तावद् अत्यन्तभेदो ग्राह्यग्राहकयोर् अनिष्ट एव, अभेदस्यापि धर्मधर्मिणोर् इष्टत्वाद् अत आह -- यस् त्व् इति. अत्यन्तभेदो हि घटाग्न्यादीनाम् अप्य् अस्माभिर् नेष्यते एव. द्रव्यादिरूपेणाभेदात्. अतः कथञ्चिद् भिन्नयोर् एव सर्वत्र प्रकाश्यप्रकाशकत्वम् इत्य् आत्मनो ऽपि नानुपपन्नम् इति. यदि तर्हि प्रत्ययांशो{2,127}ग्राकहः द्रव्यांशो ग्राह्यः, कथं तर्हि भाष्यकारः प्रत्यगात्मनि चैतद् भवति न परत्रेति प्रत्यगात्मवृत्तिताम् आत्मनो मन्यते. नन्व् एवं परगोचर एवाहंप्रत्ययो भवेत्. परं हि प्रत्ययात्मनो द्रव्यादिरूपम् अत आह -- प्रत्यासत्ती ति. येयम् आत्मनः प्रत्यगात्मवृत्तिता भासते नायं दोषः. सर्वम् एव हि नो ऽनेकान्तेन परत्र प्रवर्तते. आत्मा त्व् अत्यन्तप्रत्यासन्नग्राह्यग्राहकधर्मकः प्रत्यगात्मवृत्तितया भासते. अत्यन्तप्रत्यास(?न्नो।न्नौ) हि नरस्य जलाजलात्मानौ तयोर् असौ साधारणो ग्राह्यग्राहक इत्य् अभिधीयते इति न कश्चिद् दोष इति

6.70

अपि च, अहम् इति यो ऽयम् अस्मत्प्रयोगः तत्सम्भिन्ना विशदतरम् आत्मगोचरा संविदुत्पद्यमाना दृश्य(?न्ते।ते.) ज्ञानं तु न स्वगोचरं जातु जायमानम् उपलब्धम्. अतो नात्मद्र्ष्टान्तेन ज्ञानस्योभयरूपता वक्तुं शक्या. न हि तद् अहं नीलम् इति कदाचिद् उत्पद्यमानं दृश्यते. सर्वदेदम् प्रयोगसम्भिन्नबोधात्. अत उपपन्नैवात्मकर्तृकात्मनि संवित्तिः न तु ज्ञान इत्य् आह -- अस्मत्प्रयोगसम्भिन्ने ति. अत्रैके वदन्ति कुमारस्वामिवादिनः -- नात्मास्मत्प्रयोगसम्भिन्नबोधवेद्यः. न हि वयं कार्यकारणसङ्घातातिरेकिणम् अयम् अस्मीति पुरुषं बुध्यामहे. पृथिव्यादिद्रव्यानुभव एव स्वप्रकाशः स्वम् आत्मानं स्वप्रकाश्यम् आत्मानं मेयं च द्रव्याद्यवस्थापयति. न हि विषयवित्ताव् अप्रतिसंहिते पुरुषे स्वपरवेद्ययोर् अतिशयः सिध्यति. अतो विषया न बोद्धर्यनवभासमाने भासन्ते. नासौ तेषु. अत एव विषयवेदनोपरमे जडाकाशादिवदात्मनो ऽवस्थानं सङ्गिरन्ते. यदा खल्व् अयं पुरुषः प्रक्षीणाशेषकर्माशयो मुच्यते, तदा ज्ञानकारणानाम् इन्द्रियादीनाम् अभावाद् असति विषयवेदने चिद्रहितः खवद् अवतिष्ठते. निश्शेषवैशेषिकात्मगुणोच्छेदलक्षणम् एव हि मोक्षं मन्यन्ते. न चैवम् अपुरुषार्थत्वं, दुःखोपरमस्यापि पुरुषेणार्थ्यमानत्वात्. संसारिणो हि दुःखेनोद्विग्ना अत्यन्ताय तदुच्छेदम् अभिसन्दधाना गृहेभ्यः प्रव्रजन्तो दृश्यन्ते. न नु सुखम् अप्य् आत्मनो वैशेषिको गुणः. तस्योच्छेदाद् अपुरुषार्थत्वम् अपि भवेत्. मैवम्. सुखम् अपि संसारिणो नानाविधानेकदुःखसङ्कुलं नातिचिरम् अनुवर्तत इति महान्तस् तद् अपि दुःखपक्ष एव निक्षिपन्तो मोक्षायोत्तिष्ठन्ते. अतो नास्ति{2,128}विषयवेदनोपरमे नरस्य चैतन्यम्. अत एवायम् अहरहस्सुखापे सन्मात्रतयावतिष्ठते. न पुनः किञ्चिज्जानाति. तत्र चानुभवे स्वप्नपरिचितानाम् इवार्थानाम् उपरिष्टात् स्मरणं भवेत्. न चैतद् अस्ति. अतो नानवभासमानेषु विषयेषु बोद्धा प्रख्यायते. न च विषयवित्ताव् अस्मत्प्रयोगसम्भेदः इदम् प्रयोगसम्भेदाद् इति नास्मत्सम्भेदे विषयानवग्रहाद् आत्मग्रहः. नापि विषयवित्ताव् आत्मग्रहे अस्मत्प्रयोगसम्भेद इत्य् असमञ्जसम् अस्मत्प्रयोगसम्भिन्नेति. अत आह -- ज्ञानस्ये ति. अयम् अभिप्रायः -- अस्मत्प्रयोगसम्भिन्नो ऽस्ति बोधो न वा. यदि नास्ति, जितम् अनुत्तरा
गुरवः. सतस् तु किम् आलम्बनम् इति वक्तव्यं शरीरम् इन्द्रियाणि वा. न तावच्छरीरं, ज्ञातृगोचरत्वात्. अहं जानामीति ज्ञातारम् अहंप्रत्ययो ऽवलम्बते. न च शरीरं चेतयते भौतिकत्वाद् भूतानां चाचेतनत्वात्, कारणगुणपूर्वकत्वाच् च कार्यगुणानाम्. अत एव नेन्द्रियाणि ज्ञातॄणि. न च ज्ञानं, प्रत्यभिज्ञानात्. अयं हि पूर्वेद्युर् दृष्टम् अर्थम् उत्तरेद्युः प्रत्यभिजानानः पूर्वापरसाधारणम् आत्मानम् अनुसन्दधाति अहम् इदम् अदर्शम् इति. तत् तु ज्ञानगोचरत्वे ऽनुपपन्नम्. अन्यो हि तदा यः पूर्वेद्युर् दृष्टवान्, अन्यश् चायं यो ऽद्य पश्यति, क्षणिकत्वाज् ज्ञानानाम्. अतः --
बुद्धीन्द्रियशरीरेभ्यो भिन्नो ऽहङ्कारगोचरः ।
संवित्सामर्थ्यसिद्धत्वान् न जहात्य् उक्तरूपताम् ॥
इति. तद् इदम् उक्तं - ज्ञानस्यैव च कर्तरीति. ज्ञानकर्तुर् हीयम् अस्मत्प्रयोगसम्भिन्ना संवित्तिः, न चान्यो ज्ञानस्य कर्तेत्य् उक्तम्. अतः संविद्बलादेवोभयरूपतात्मनः सिध्यति
न त्व् एवमात्मैवात्मानं ज्ञानं जानाति जातुचित् ।
तद् धीदं नीलम् इति यत् सर्वदा परगोचरम् ॥
यत् तु न कार्यकरणसङ्घातातिरेकिणं प्रतिपद्यामहे इति. किम् एवं देहाद्यालम्बनो ऽहंप्रत्ययः. तत् तावत् प्रत्युक्तम् एव. न चानालम्बनो ऽयम्, अत्रत्यसिद्धान्तात्. तद् अयम् अनालम्बनम् आत्मानम् अलभमानः स्वगोचरं ज्ञातारम् आकर्षति. स प्रतीतिबलसिद्धोभयरूपः पुरुषो न नोपपद्यते. देहेन्द्रियादिसङ्कीर्णस् तु न विविच्योपलक्षयितुं शक्यते अयं नामासौ पुरुष इति. न चैतावता न गृहीतो भवति. न हि क्षीरोदकसंसर्गे विवेकेनागृहीते इति{2,129}न गृहीतम् उभयम्. एवम् इहापि संमुग्धबुद्धः पुरुषः प्रत्याहारादिकं योगम् अभ्यस्यद्भिर् नित्यनैमित्तिकमात्रानुष्ठायिभिर् अकुर्वद्भिर् निषिद्धं भोगप्रक्षीणाशेषकर्माशयैर् अयम् अस्मीति विविच्यापरोक्षीक्रियते. न त्व् अयं विषयवित्ताव् अप्य् अयं नामेति विविच्यते. ये ऽपि विषयवेदनावसर एव नरो गृह्यते इत्य् आस्थिताः, तैर् अप्य् अस्य विवेको दर्शयितुम् अशक्य एव. अतो नायं दोषः विवेको नावगम्यत इति. न त्व् अयं विषयवेदनावसरे ज्ञायते. न हि तदा तदतिरेकिणः कस्यचित् प्रतीतिर् अस्तीत्य् अनन्तरम् एव वक्ष्यते न त्व् अत्रेत्य् अनेन. संविद् एव तावत् तदा नावभासते, यदायत्तो भावानां भेदः प्राग् एव संवेत्ता. यत् त्व् एवं स्वपरवेद्ययोर् अनतिशय इति. तन् न. यस्य हि ज्ञानम् उत्पन्नं, तस्य विषया भासन्ते इत्य् उक्तम् एव. अतः कथम् उत्पन्नज्ञानेन संविदितम् अन्यो ऽनुभवेत् तेन वा ज्ञातं तदन्यः. न हि बोद्धृसंवेदनकृतः स्वपरवेद्ययोर् भेदः, येनैवम् आपद्येत. एतावतैव ह्य् एकस्यासौ वेद्यः, नापरस्य, यत् तस्य ज्ञानम् उत्पन्नम्. एवम् अपि भवेद् एतद् यद्य् असत्यां बोद्धृवित्तौ विषया न विदिता भवेयुः. तद्वित्तिर् एव वा विषयवेदनं भवेत्. न त्व् एवं, केवलविषयावग्रहात्. अन्यगोचरज्ञानस्यान्यविषयत्वासम्भवात्. एवं चासत्यां विषयवित्तौ पुरुषो न प्रकाशत इत्य् अपि दुरुक्तम्. एवं ह्य् उपरतकरणग्रामस्य मोक्षो मरणम् एव शब्दान्तरेणानुज्ञातो भवेत्. न खल्व् अपि ज्ञानात्मनः पुरुषस्य सदसत्त्वयोर् अस्ति विशेषः. तद् अयम् अपवर्गदशायां प्रकाशत एव. केन पुनर् अयं तदा प्रकाश्यते. न केनचित्. स्वप्रकाश एवेत्य् एके. न त्व् एवं, स्वप्रकाशत्वनिषेधाद् अविभागस्य. तदापि त्व् अयं धर्मधर्मित्वविभागाश्रयणेन प्रत्ययात्मना ग्राहको द्रव्यादिरूपेण ग्राह्य इति वाच्यम्. किम् अस्ति तदा धर्मधर्मिभेदः. को दोषः. श्रुतिविरोधः. श्रूयते हि एकम् अद्वितीयम्
इति. न. व्यतिरिक्तग्राह्यनिषेधात्. अन्यथा ह्य् आत्मभेदो ऽपि न सिध्येत्. न चासौ नेष्यते, मुक्तेतराविभागापत्तेः. अपि च अर्थावग्रहनिवृत्त्यर्था एवं विसंवादा इति तत्र तत्रोक्तम्. अतो ऽपवर्गे ऽपि ग्राह्यग्राहकाकार एवात्मा. श्रूयते च जानात्य् एवायं पुरुषो ज्ञातव्यं तु न वेदेति. न हि तदा ज्ञातुर् ज्ञप्तेर् विपरिलोपो विद्यते. न तु विभक्तम् अस्त्य् अन्यद् यतो द्वितीयं जानीयाद् इति. तस्माज् जानातिपदप्रयोगाद् अवगच्छामः यद् अस्ति मोक्षे ऽपि कर्मभावः पुरुषस्येति. जानातेर् अकर्मकस्याप्रयोगात्. इयांस् तु विशेषः यद् अयं भूतेन्द्रियवशो विषयोपरागात् तच्छयाभेदान्{2,130}प्रतिपद्यमानो ऽविभक्तज्ञानशक्तिर् आभासते. निजैव त्व् अस्य चितिशक्तिः. सा असति विषयोपराग आत्मगोचरैवावतिष्ठते. कथम् अकरणिका ज्ञानोत्पत्तिर् इति चेद्, मैवम्. तदानीम् अपि मनसो भावात्. नित्यं हि तदात्मवद् उपेयते. आह च --
प्रत्याहारादिकं योगम् अभ्यस्यन् विहितक्रियः ।
मनःकरणकेनात्मा प्रत्यक्षेण प्रतीयते ॥

इति. न चैवं विषयवेदनप्रसङ्गः, मनसो बहिरस्वातन्त्र्यात्. विषयवित्तीनां च सुखदुःखहेतुत्वेन कर्मजन्यत्वाद् असति कर्मसंस्कारे ऽनुपपत्तेः. आत्मज्ञानं च न कर्मजन्यम् इति विगलितनिखिलकर्माशयस्यैव निष्पद्यते. केवलज्ञाननिराकरणे ऽपि विषयवेदनान्य् एव प्रत्युक्तानि नात्मज्ञानम्. आह च --
निजं यत्त्वात्मचैतन्यम् आनन्दो ऽध्यक्ष्यते च यः ।
यच् च नित्यविभुत्यादि तेनात्मा नैव मोक्ष्यते ॥
इति. सुस्वापे ऽपि त्वात्मसंविद् अस्त्य् एवेति केचित्. अत एव सुषुप्तप्रतिबुद्धः सुखम् अहम् अस्वाप्सम् इत्य् आत्मानं प्रतिसन्धत्ते. अथ वा तत्र कर्माशयानुवृत्तेस् तत्परतन्त्रं मनो न केवलम् आत्मानं प्रकाशयति, न विषयवित्तिविरहात्. अतो न विषयसंवेदन एवात्मसंवेदनम्. अपि चैवं मेयमातृगोचरायाम् एकस्यां संविदि भासमानयोः किंकृतः कर्मकर्तृभावः. एवं हि तद्द्विकर्मकं ज्ञानं भवेत्. यत् तूक्तं परसमवायिक्रियाफलभागिता कर्मतेति, तद् अयुक्तम्. यद् एव हि ज्ञानोत्पत्तावाप्यते तत् प्राप्यं कर्म. तथाचात्मेति कथम् अस्याकर्मत्वम्. अपि च केयं क्रिया, यत्समवायात् तत्फलभागितया आत्मनः कर्तृत्वम्. किं पुनस् तत्. उक्तम् आत्म(म)नोयोग इति. नन्व् अस्य मनस्य् अपि समवायात् तस्यापि कर्तृत्वप्रसङ्गः. तत्फलसम्बन्धश् चोभयोर् अप्य् अविशेषाद् आपद्यते. तत्र चोक्तो मनश् चैतन्यप्रसङ्ग इति सिद्धं न विषयवित्तेर् एव त्रयसिद्धिर् इति. यच् चास्मिन् दर्शने दुःखोपरतिर् एव मोक्ष इत्य् उक्तम्. तद् अप्य् अयुक्तम्, आनन्दश्रुतेः. श्रूयते हि विज्ञानम् आनन्दं ब्रह्म आनन्दं ब्रह्मणो रूपम् इति च. तद् एतत् प्रेयः पुत्राद् इति च. न च दुःखनिवृत्तिर् एवानन्दः, अश्मादौ प्रसङ्गात्. स्याद् एतत्. प्रत्यग्वृत्तिर् उपलभ्यमाना दुःखाभावात्मना सुखम्. न चात्मा किञ्चित् प्रत्यग् जानाति अचेतनत्वाद् इति नासौ दुःखायते सुखायते वा. मैवम्. एवम् अपि देहिनो भिन्नावयवसंयोगी सुखदुःखसाधनजन्मा{2,131}युगपत् सुखदुःखभोगो न स्यात्. दुःखायमान एव ह्य् एकत्र भागे परत्र सुखायते. तद् दुःखनिवृत्तौ सुखे ऽनुपपन्नम्. प्रदेशान्तरे दुःखाभावः सुखम् इति चेद्, न. स्वसंवेद्यत्वाद् आह्लादविशेषस्य, प्रदेशान्तरे दुःखाभावे च सुखे नरकान्तरे दुःखाभावान् नरकान्तरे सुखित्वप्रसङ्गः. तत् तावद् दुःखनिवृत्तिः सुखम्. न चास्याम् आनन्दवादो गौणः, प्रमाणाभावात्. न ह्य् आनन्दश्रुत्यर्थे मुख्ये गृह्यमाणे किञ्चिद् अनुपपन्नं, येन गौणतया व्याख्यायते. अतो विज्ञानम् आनन्दं ब्रह्मेति प्रतिजानीमहे. असञ्चेतितस् त्व् आनन्दो ऽप्य् असत्कल्प एवेति सिद्धम् अन्तरेणैव विषयवेदनम् अस्मत्प्रयोगसम्भिन्नायां संवित्तावात्मा प्रकाशत इति

6.71

यथा चास्मत्प्रयोगसम्भिन्नसंवित्संवेद्य आत्मा द्विरूपो नैवं ज्ञानम्. न हीदं नीलम् इति ज्ञाने करणानाम् इन्द्रियाणां ग्राहकस्यात्मनो ज्ञानस्य वाकार उपलभ्यते, नीलमात्रप्रकाशाद् इति न पूर्ववदात्मवदभिन्नत्वे ऽपि नीलज्ञाने तद्बुद्धेर् ग्राह्यत्वम्. नीलम् एव तु तया गृह्यते. सा तु ततो ज्ञाताद् अवगम्यत इत्य् उपपादितम् एव, तद् एतद् आह -- न त्व् इति. दृष्टान्तार्थं करणग्राहकयोर् उपादानम्. यथेदं नीलम् इत्य् अत्र करणम् इन्द्रियं ग्राहकः पुरुषो न ज्ञायते, एवं ज्ञानम् अपि. कर्मैव तु केवलम् अत्रावगम्यते. न च कर्तृकरणक्रियम् इति

6.77

स्याद् एतत्. ज्ञानसंवित्तिर् एवेयम् इदं नीलम् इति. पररूपनिरूपणाकारत्वं तस्या वासनानिबन्धनम्. अनादिर् हि वासना संसारिणां, तद्वशेन स्वात्मानम् अपि परम् इव निरूपयति परेषाम् इव परं देहम् आत्मतया अहम् इति. अत आह -- अन्याकारे ति. अयम् अभिप्रायः -- संविन्निष्ठा हि नो वस्तुव्यवस्थितयः.{2,132}संविच् चेदम् इति बहिर्विषयप्रकाशात्मा जायमाना दृश्यते. यदि त्व् इयम् एवंरूपाप्य् अन्यविषया ज्ञानविषयेष्यते, एवं तर्हि ज्ञानाकारा संवित्तिर् अर्थविषयास्माभिः कस्मान् न कल्प्यते. (न चासति बाधके परगोचरत्वं भ्रान्तिर् इति युज्यते कल्पयितुम्. वासना च प्राचीनज्ञानजन्मात्माश्रयः संस्कारो ऽभिधीयते. नासाव् अस्ति नास्तिकानां, नैरात्म्यसिद्धान्तात्. नापि ज्ञानम् आधारो वासनायाः, क्षणिकत्वात्. नापि समनन्तरप्रत्ययो वासना, तस्य तथात्वेनाप्रसिद्धेः. असाव् अपि स्वगोचरो न परं परगोचरतया दर्शयितुं शक्नोति. अतद्रूपत्वात् ताद्रूप्यनिष्पत्त्ययोगात्. इतरथानुभवरूपतापि तस्य न स्यात्. अनुभवाकारतां ह्य् उत्तरस्य समनन्तरप्रत्ययो वितनुते. तत् कस्य हेतोः. स्वरूपानुरूपकार्यारम्भस्थितेः. अत एव नात्मगोचराद् इदम् इति परसंवेदनोत्पत्त्युपपत्तिः. परत्राहम् मानकल्पना तु भ्रान्तिः, ज्ञातृगोचरत्वाद् अहङ्कारस्येत्य् उक्तम् एव. न त्व् इह बाह्यालम्बनत्वे ज्ञानस्य किञ्चिद् अनुपपन्नं येनात्मगोचरतावश्यं कल्प्यत इति सिद्धं बाह्यालम्बनम् एव ज्ञानम् इति)

6.78

{2,133} एवं तावद् अन्यतराग्रहणे ऽन्यतरो न गृह्यत इत्य् उक्तम्. तद्वद् एव द्वयोर् अप्य् अग्रहणम् इति समाहृत्य दर्शयति -- यथा चे ति. अस्यार्थः -- यथा ग्राह्यग्रहणे ग्राहको न गृह्यते ग्राहकग्रहणे च ग्राह्यः. एवं च द्वयोर् अप्य् अग्रहणं भवेत्. न तु ग्राहकमात्रस्य वा ग्राह्यमात्रस्य वा. पूर्वं त्व् अन्यतराग्रहणदृष्टान्तेनेतरस्याग्रहणम् आपादितम्. इदानीं समाहृत्योभयोर् उच्यत इति प्रयोगभेद इति

6.79

एतच् च ग्राह्यमात्रस्य ग्रहणं ग्राहकरहितं स बहिर्देशसम्बद्धः इत्यादिना भाष्येणोक्तम् इत्य् आह -- स इति. अयं च भाष्यार्थः -- स एव केवलो बाह्यार्थः प्रत्यक्षम् अवगम्यते. न पुनर्ग्राहक इति

6.80

आञ्जस्येन त्व् अर्थाकारो नीलादिर् इत्य् एतत्सिद्धये बहिर्देशसम्बन्धो हेतुतया लक्ष्यते, तन्नानुमन्यामह इत्य् आह -- परम् इति. न हि परस्य बहिर्देशो नाम कश्चित् सिद्धः यो ऽर्थसाकारत्वे हेतुतयोपन्यस्येत. सर्वस्य ज्ञानाकारत्वेनाभ्युपगमात्. अतो बहिर्देशस् तत्सम्बन्धश् च बौद्धं प्रति साध्य एव, न हेतुर् इति

6.81

तस्माद् यथोक्त एव भाष्यस्यार्थ इत्य् आह -- तस्माद् इति. अस्यार्थः -- बहिर् इत्यादौ भाष्ये इदंशब्देनेदं नीलम् इति विकल्पस्थेन निष्कृष्टं ग्राहकांशात् प्रत्यक्षादेः प्रमाणगणस्य संवेद्यम् उदाहृतं नीलादिमात्रम्. एतद् उक्तं भवति. न स्वगोचरं ज्ञानं बहिःप्रकाशाद्, इदम् इति{2,134}परनिरूपणात्. स्वगोचरे हि नेदम् इति प्रकाशो भवेत्, किन् त्व् अहम् इति. तद् इह बहिर्देशसम्बन्धोपन्यासेन परगोचरतैव संवित्तेर् उच्यत इति

6.82

तथा केवलग्राहकसंवित्तिर् अपि सत्यम् पूर्वं बुद्धिर् उत्पद्यते न तु पूर्वं ज्ञायते इत्य् अत्रोक्तेत्य् आह -- ने ति. अत्र हि पूर्वम् उत्पन्नापि बुद्धिर् न प्राग् अवगम्यते, किन् तु पश्चाद् इति वदता ग्राह्याकारविनिर्मुक्तस्यैव ग्राहकस्य संवित्तिर् उक्तेति

6.83

प्राग् बुद्धेर् अग्रहणसिद्ध्यर्थं भाष्यकारेणोक्तं भवति हि कदाचिद् एतद् यज्ज्ञातो ऽर्थः सन्नज्ञात इत्य् उच्यते इति. तस्यार्थः -- ज्ञातपूर्वो ऽर्थः कदाचिद् अस्मर्यमाणो ऽज्ञातवद् अभिधीयते. ज्ञानमात्रं तु तद्गोचरं स्मर्यते. एवं हि वक्तारो भवन्ति -- अस्याः श्रुतेर् अर्थो मया गुरुणा व्याख्यायमानो ज्ञातः, इदानीं प्रस्मृतवान् अस्मि. ज्ञानं त्व् एतद्गोचरं पूर्वं जातं स्मरामीति. यथा चास्या बुद्धेर् अग्रहणे हेतुत्वं तत्फलाभिप्रायेण परस्ताद् वक्ष्यति फलत्वाद् ग्रन्थवर्णने इत्य् अत्र. तस्माद् अपि केवलं ग्राहकस्मरणाद् ग्राह्याकारविविक्तग्राहकबोधः सेत्स्यतीत्य् आह -- ने ति

6.84

अभेदे तु ग्राह्यग्राहकयोर् ग्राहकवद् ग्राह्यस्यापि स्मरणं भवेद् इत्य् आह -- तस्माद् इति. तस्माद् ग्राहकाद् इत्य् अर्थः. यतस् तु ग्राहकमात्रस्यैव स्मृत्यात्मको निर्भासो भवति न ग्राह्यस्य, अतो ऽवगच्छामः यदनुभवकाले ऽप्य् एषा बुद्धिर् एव केवला गृहीता कथम् अन्यथा केवला स्मर्येत. तद् एतद् आह -- ग्राहके ति. ग्राहकमात्रस्य स्मृतिनिर्भासात् कारणात् तत्र ग्राहकग्रहणकाले केवला बुद्धिर् गृह्यते इत्य् अर्थः

6.85

{2,135} कस्माद् एवम् अत आह -- तद् इति. तत् स्मरणम्. अत्यन्ताविनाभावाद् ग्राह्यग्राहकयोर् एकाकारं न जायत इत्य् अर्थः. तद् एवम् अन्यतरांशान्वये ऽन्यतरविवेकात् सिद्धो ग्राह्यग्राहकयोर् भेद इत्य् आह -- अन्वये ति

6.86

अत्र चोदयति -- ग्राह्ये ति. अयम् अर्थः -- यद् एतद् भवता ग्राह्यग्राहकयोर् अभेदम् अभ्युपेत्यान्यतरग्रहणे ऽन्यतरग्रहणम् आपाद्यते, तद् अयुक्तम्. न हि यद् यतो न भिद्यते तदवश्यं तद्ग्रहणे गृह्यते. न हि शब्दाद् अभिन्ना नित्यानित्यादयो धर्माः शब्दग्रहणे गृह्यन्ते. अभेदे ऽपि तु यस्यांशस्य यदा योग्यता स तदा गृह्यते नेतर इति किम् अनुपपन्नम्. ग्राह्यांशश् च ग्राहकांशसद्भावाद् ग्रहणयोग्यः, न ग्राहकांशः, तदतिरिक्तग्राहकान्तराभावात्. अतो न ग्राह्यग्रहणे ग्राहकग्रहणप्रसक्तिर् इति

6.87

स्याद् एतत्. ग्राह्यांश एवास्य ग्राहको भविष्यतीति. तन् न, कर्मणः कर्तृभावानुपपत्तेर् इत्य् अभिप्रायेणाह -- ग्राह्ये ति. अपि च ग्राह्यग्राहकभावम् एकस्य ज्ञानस्याभ्युपेत्य भवतोभयग्रहणम् आपाद्यते. यदि च ग्राह्यांशो ऽपि ग्राहको भवेद् द्वैरूप्यम् एव हीयेत. ग्राहकैकस्वभावत्वापत्तेर् इत्य् आह -- ग्राहके ति

6.88

अथ वा ग्राह्यांशस् तावद् ग्राह्य एव, यदि च ग्राहको गृह्येत, ततो ग्राह्यैकात्मत्वं भवेद् इत्य् आह -- ग्राहक इति. अत्यल्पं चेदम् अस्माभिर् उच्यते उभयग्रहणे एकरूपतेति. सापि तु न सिध्यत्य् एव. ग्राह्याभावे ग्राहकाभावात् तदभावे ग्राह्याभावाद् इत्य् आह -- न स्याद् इति

6.89

{2,136} एवं तावद् ग्राहकान्तरवर्जनाद् ग्राहको न गृह्यत इत्य् उक्तम्. अपि चोद्भवाभिभवौ भावानां ग्रहणाग्रहणकारणतया सिद्धौ. अतो य एवांशो यदोद्भूतो भवति, तदा स एव गृह्यत इति न नोपपन्नम् इत्य् आह -- उद्भवे ति. अत्रैव दृष्टान्तम् आह -- यथे ति

6.90

रात्रौ हि दीपप्रभादीनां रूपमात्रम् उपलभ्यते, न स्पर्शः. अभिभूतत्वाद् इत्य् आह -- दिवे ति. स्पर्शरूपयोश् च नक्तन्दिवम् अभिभवे चन्द्रमसः शीतस्पर्शः प्रबलं च तारणं तेजः कारणम् इति. एवं तावदभिभवे कारणान्तरसन्निधानाद् अभिभूतस्याग्रहणम् उक्तम्. इदानीं स्वयम् अपि सूक्ष्मत्वाद् अभिभूतं न गृह्यते इत्य् उदाहरणेन दर्शयति -- गन्धवद् इति. यदा खलु वायुना प्रेर्यमाणाः सूक्ष्मा द्रव्यभागा घ्राणेन्द्रियगोचरा भवन्ति, तदा तेषु वर्तमानेष्व् अपि गन्धमात्रम् एवोपलभ्यते न द्रव्यम् अभिभूतत्वात्. सा पुनर् इयं द्रव्यसङ्क्रान्तिर् अयुक्तेति मन्यन्ते. यदि खलु तिलादिषु चम्पकादिद्रव्यम् एव सङ्कामेद् एवं मृद्यमानेषु तेषु चम्पकगन्धो नश्येत् पुष्पस्थ इव. चम्पकादिद्रव्येषु मृद्यमानेषु तद्गन्धस्य नाशो दृष्टः. एवं तिलस्थकुसुमावयवमर्दने ऽपि भवेत्. यः खलु स्थूलेष्व् एव कुसुमेषु मृद्यमानेषु नश्यति, स कथं सूक्ष्मावयवस्थं न नङ्क्ष्यतीत्य् उत्प्रेक्ष्यते. अतश् चम्पकादिसन्निधानाद् गन्धान्तरम् एव तिलादिषु जायते इति मन्यते. एवम् अप्स्वग्निसंयोगाद् गुणान्तरागमो वक्तव्यः. नाग्निसङ्क्रान्तिर् अनुपलम्भनात्. स्पर्शमात्रम् एव हि तत्राग्नेर् वयम् उपलभामहे, नाग्निम्. अपि चायं तपस्वी द्रव्यसङ्क्रान्तिम् आतिष्ठमानः सुराघ्राणे पतेत्. सुरात्रसरेणूनां घ्राणोदरेण वक्त्रसञ्चारात्. अत आत्मवधायैवेयं द्रव्यसङ्क्रान्तिर् आश्रिता भवेत्. अत्राभिधीयते -- न तावत् स्वाश्रयपरित्यागेनाश्रयान्तरं गन्धो गच्छतीति सम्भावयामः. गुणानाम् अस्वतन्त्रत्वात्. आश्रयपारतन्त्र्यम् एव हि तल्लक्षणम्. गुणान्तरम् अपि न तावत् सन्निहितेष्व् आकाशानिलादिषु कुसुमसम्पर्काज्{2,137}जायते इति वाच्यम्. तेषु गन्धस्यात्यन्ताभावात्. नापि नासिकायाम् एव गन्धान्तरं जायत इति वक्तव्यम्. अतिदूरत्वेन कुसुमासंसर्गात्. अतः कुसुमावयवा एव दृष्टतद्गन्धसम्बन्धावायुना प्रेर्यमाणा घ्राणोदरं यावदागता गृह्यन्त इति प्रमाणवती कल्पना. यो ऽपि मर्दने गन्धनाश उक्तः, सो ऽप्य् अयुक्तः. सूक्ष्मा हि तत्र कुसुमावयवाः सङ्क्रान्ताः. न ते मृद्यन्ते. अतो गन्धो न नश्यतीत्य् उक्तम्. यो ऽपि गन्धाघ्राणे सुरापानदोषो ऽभिहितः, नासौ. पानं हि सुराया निषिद्धं, नाघ्राणम्.
अल्पस् तु तदाघ्राणे दोषः. न च सुरां जिघ्रन् पिबतीत्य् उच्यते. अतो न सूक्ष्मावयवानां नासिकासन्निधानमात्रात् सुरापानापत्तिर् इति सिद्धं गन्धवद् एव द्रव्यं तत्र वर्तते सूक्ष्मत्वात् तु नोपलभ्यत इति

6.91

एवं दृष्टान्तेष्व् अभिभूतस्याग्रहणम् उक्त्वा प्रकृते योजयति -- ने ति. यथा दीपप्रभादिषु गुणान्तरसंवित्तिर् नास्ति, यथा च गन्धवद्द्रव्यवृत्तौ द्रव्यस्य, एवं ग्राह्यांशबुद्धौ ग्राहकांशबुद्धौ वाकारान्तरसंवित्तिर् न भविष्यतीति

6.92

इदं चापरं ग्राह्याद् अभिन्नम् एव न गृह्यत इत्य् आह -- ग्राह्याद् इति. अस्ति कश्चिद् धर्मभेदः यो ग्राह्यात् शब्दाद् अभिन्नो ऽपि नोपलभ्यते नित्यत्वादय इव शब्दग्रहण इति

6.93

इदं तु चिन्तनीयम् -- कस्येदं प्रत्यवस्थानं ग्राह्यांशो ग्राहकांशेनेत्यादि. न तावद् बौद्धस्य. स ह्य् अविभक्तस्यैव बुद्ध्यात्मनो ग्राह्यग्राहकसंवित्तिभेदभिन्नस्य ग्रहणम् आतिष्ठते. यदाह --
अविभक्तो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवान् इह लक्ष्यते ॥
{2,138}इति. अतस् त्र्याकारस्यैव ज्ञानस्यानुभवात् कथम् अन्यतरांशाग्रहणेन प्रत्यवतिष्ठते. भ्रान्तिकल्पितं तु ग्राह्यादिविभागं बौद्धा मन्यन्ते, न त्व् अप्रतिभानम् एव तेषाम्. अतः कस्येदं प्रत्यवस्थानम् इति. सत्यम्. नात्र बौद्धश् चोदयिता. पार्श्वस्थवचनम् इदम्. एवं हि कश्चिद् अत्र पार्श्वस्थो वदति -- किम् इदं ग्राह्यग्राहकभावम् अभ्युपेत्यैव भवता द्विरूपग्रहणम् आपाद्यते. न हि ग्राहकस्य ग्राहकान्तरं विद्यते तद्ग्रहणे च द्वैरूप्यहानिः तच् चाभ्युपेतम् एवेति कथं तद्विपरीताभिधानं मीमांसकस्य. दृष्टा चाभेदे ऽप्य् उद्भवाभिभवादिकृता ग्रहणाग्रहणव्यवस्थेति. स एवेदानीं बौद्धाभिप्रायेणाह -- अभेदम् इति. ग्राह्यग्राहकयोर् हि पारमार्थिको भेदो नेष्यत एव. एकरूपस्यैव तु बुद्ध्यात्मनस् तथा प्रकाशाभ्युपगमात्. अतो यो ऽयं बुद्ध्यात्मनः प्रकाशः स एव तयोर् इति किम् इति तद्ग्रहणे न गृहीतं भवति. अपि च, अभेदम् अभ्युपेत्यास्मान् प्रति प्रसङ्गो गीयते कथम् अभेदे ग्राह्यग्राहकव्यवस्थेति. तच् चायुक्तम्. कथं ह्य् अभिन्नस्य तत्त्वस्य किञ्चिद् अगृहीतं नाम सम्भवति. यदि त्व् अभेदो नाभ्युपेयते, नायं प्रसङ्गो गातुं शक्यते. भिन्नत्वाद् एवाग्रहणोपपत्तेर् इति

6.94

पूर्वपरिचोदनाम् इदानीम् उपसंहरति -- तस्माद् इति. यद् धि ग्रहणयोग्यं तद् गृह्यते यस्य च ग्राहकसद्भाव उद्भवो वा तद् ग्रहणयोग्यम्. अतः पूर्वोपन्यस्तस्य ग्राह्यग्राहकात्मनो द्वयस्य किञ्चिद् एव ग्रहीतुं शक्यं नेतरद् इति ग्रहणशक्त्यभावान् नोभयं चोदनीयम् इति

6.95

अत्र परिहारम् आह -- कुत इति. अयम् अभिप्रायः -- न तावद्भ्रान्तिकल्पितो ग्राहकादिविभागः, बाधविरहात्. तथापि वा भ्रान्तित्वे संविद्रूपे ऽपि तत्प्रसङ्गाद् अभावात्मतापत्तिः. तद् अयं वास्तवो ग्राह्यादिविभागो नैकस्मिन्न् अद्वितीये ज्ञानात्मनि सम्भवतीति प्रथमम् उक्तं नैतद् अस्तीत्यादिना.{2,139}पुनश् च अभिन्नत्वं यदा चेष्टम् इत्यादिना एकस्यैव द्वैरूप्यम् अङ्गीकृत्योभयग्रहणप्रसक्तिर् आपादिता. तत्र नैष परिहारो घटते अयोग्यत्वाद् अभिभूतत्वाद् अन्यन् न गृह्यते इति. न ह्य् एकस्मिन् ज्ञानात्मनि योग्यायोग्यत्वविभाग उद्भवाभिभवात्मत्वं वा सम्भवति. अतो ऽवश्यम् अभिन्नत्व इष्टे ऽन्यतरसंवित्तौ द्व्याकारग्रहणेन भवितव्यम् इति

6.96

किं पुनर् एकस्योद्भवाभिभवात्मत्वं न सम्भवतीत्य् अत आह -- एके ति. एवं हि ग्राह्यग्राहकाभिधानं तत्त्वम्. तत्र यदि ग्राहकांशो ऽभिभूतः कथं तदभिन्नो ग्राह्यांशो नाभिभूत इति शक्यते वक्तुं, विरुद्धधर्माध्यासेन भेदापत्तेर् इति. एवं चोभयाभिभवे ग्राह्यांशस्यापि ग्राह्यत्वं न स्याद् इति न किञ्चित् तत्त्वं सम्भवेद् इत्य् आह -- तथे ति

6.97

एवम् अयोग्यतापि विकल्पनीया किम् उभयम् अयोग्यम् एकं वा. यद्य् उभयं न किञ्चिद् गृह्यत इति शून्यतैवापद्येत. यदि त्व् एकम् अयोग्यम् इतरन् नेत्य् उच्यते तद् एकत्राद्वितीये नोपपन्नम् इत्य् आह -- अयोग्यते ति. ये पुनर् अत्र दृष्टान्ता उक्ताः प्रदीपप्रभादिषु रूपादयः, तत्रोद्भवाभिभवाभिधानं युज्यते. रूपादीनां परस्परभेदेन तत्रोद्भवाभिभवोपपत्तेः. भिन्नं हि स्पर्शाद् रूपं, तद्रात्रौ रूपोद्भवे ऽभिभूतस्पर्शो न गृह्यत इति किम् अनुपपन्नम्. तद् एतद् आह -- दृष्टान्ता इति. आदिशब्दाद् योग्यायोग्यभेदो ऽपीति. स्वरूपभेदानुविधाय्य् उद्भवाभिभवादिभेदो ऽपीत्य् अर्थः

6.98

ननु नास्ति रूपादीनां पारमार्थिको भेदो महान् खल्व् अयं क्लेशः यद् द्रव्याद् एव तेषां भेदो ऽभिधीयते. परस्परभेदास् तु क्लेशतरेणोपपाद्यन्ते. अत एकम् एव द्रव्यादिरूपं ग्राहकभेदाद् रूपादिभेदभिन्नम् आभासते मुखम्{2,140}इवादर्शभेदाद् इति मन्यन्ते. अतस् तत्राप्य् अभेद एवोद्भवादिव्यवस्था दृष्टेति न कश्चिद् विशेषः. अत आह -- यदापी ति. अयम् अभिप्रायः -- यदि तावद् अस्मत्सिद्धान्तो रूपादाव् आश्रीयते, ततस् ते द्रव्यात् परस्परतश् च भिद्यन्त एव. अथ मतान्तरेण, तथापि न तावद् एकस्योद्भवाभिभवाव् अपि सिध्यतः. अतो ऽस्मन्मते ऽपि हि यथैकम् एव मृद्रूपं घटशरावादिपरिणामभेदभिन्नम् एवम् एकम् एव द्रव्यरूपं रूपादिभिः परिणामभेदैर् भिद्यत इत्य् आश्रयणीयम्. यत् तु एकस्यैव द्रव्यरूपस्य ग्राहकभेदाद् भेद इति, तदतिस्थवीयः. युक्तं हि मुखेषु प्रत्यभिज्ञानाद् औपाधिकभेदाश्रयणम् आदर्शभेदाश्रयणेन. न त्व् इह तथेति वरं परिणामवाद एव. तत्र च नैकस्योद्भवादिव्यवस्था लोके दृश्यते. यस् त्व् अयम् आकस्मिको रूपस्य स्पर्शात्मना परिणामः पुनस् तस्यैव रूपात्मना, स निर्निमित्तो न वक्तुम् उचितः. एकस्यैव च द्रव्यस्यैकं रूपं दिवा गुणान्तरोद्भवेनाभिभूतं यद् नक्तं पुनर् बुध्यते, तन् नोपपन्नम्. परिणामे न हि दध्यात्मना परिणतं क्षीरं पुनः क्षीरात्मना परिणतं दृश्यते. अतः स्वभावाद् एव द्रव्यात् परस्परं च रूपादयो भिद्यन्ते इत्य् एतद् एव साम्प्रतम्. यथा चासत्य् अपि देशादिभेदे भेदः सिध्यति तथानन्तरम् एव वक्ष्यति. तदुपेक्ष्यैव तावत् परिणामवादम् अभिदध्महे नैवम् अप्य् एकस्योद्भवाभिभवाव् इति

6.99

यद् अपीदम् अपरम् उक्तम् ग्राह्याद् अभिन्नम् अपि किञ्चिन् नानुभूयते शब्दादौ नित्यत्वादीति, तदनुभाष्य दूषयति -- अभिन्ने ति. यथा हि बुद्धिभेदनिबन्धनो रूपादीनां भेदः, एवं कृतकत्वादिधर्माणां शब्दाद् धर्मान्तरेभ्यश् च धीभेदकृतं भेदम् अभिदधाना न दण्डेन वारयितुं शक्या इति

6.100

किं पुनर् एषां भेदे कारणम् अत आह -- न ही ति. द्रव्यगुणकर्माण्य् एव तावद् भिद्यन्त इति किम् अत्र कारणम् अन्यद् अतः प्रत्ययभेदात्. स चायम् अविशिष्टः कृतकत्वादिधर्मभेदे ऽपीति तत्कारणकस् तेषां भेद इति. ननु{2,141}नामीषां देशभेदो वा मूर्तिभेदो वा दृश्यते. अतः कथं ते भिन्नाः, अत आह -- न चे ति. न नः पारिभाषिको भावानां भेदः. संविदेकशरणा हि वयम्. सा च भिन्ना भेदम् अभिन्ना चाभेदं व्यवस्थापयति. न तु देशतो मूर्तितो वा भेद इति इयत्तैव परिभाष्यत इति

6.101

कीदृशी पुनर् इयं कृतकता, या बुद्धिभेदभिन्नावगम्यते अत आह -- कारकाणाम् इति. यो ऽयं कार्यद्रव्याणां घटादीनां कारकैः कुलालादिभिः सम्बन्धः, सा कृतकता. कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्व् अतल्भ्याम् इति स्मृतेः. सेयम् ईदृशी कृतकता कथं शब्दाद् अभिन्नेत्य् उच्यते. अन्यो हि तदा शब्दो गकाराद्याकारः. अन्या चेयं कृतकता तस्य तत्कारकैः सम्बन्ध इति. अनित्यता तु सावयवानां घटादीनां तावद् अवयवविभागात्मिकेत्य् आह -- विभाग इति

6.102

निरवयवानां तु बुद्ध्यादीनाम् अवयवविश्लेषात्मकानित्यत्वासम्भवाद् यो ऽयम् आत्मनो ऽपरिणामरूपेणावस्थानं तन्नाशित्वम् इत्य् आह -- बुद्धी ति. नाशित्वम् अनित्यतेति नित्यतायाः स्वरूपं दर्शयति -- नित्यत्वम् इति. वस्तुत्वस्य सत्तातः केचिद् भेदं मन्यन्ते, तत् तु नेष्यत इत्य् आह -- वस्तुत्वम् इति. सत्तैव वस्तुत्वं नापरं किञ्चिद् इत्य् आकृतिग्रन्थे वक्ष्यत इति

6.103

प्रमेयताज्ञेयते अपि प्रमाणज्ञानसम्बन्धात्मिके शब्दाद् भिन्ने एवेत्य् आह -- प्रमाणे ति. ज्ञानत्वं प्रमाणेतरज्ञानसाधारणम् इति भेदेन ज्ञानसम्बन्धप्रभाविता ज्ञेयतोक्तेति. सर्वत्र चात्रासत्य् अपि देशादिभेदावसाये केनापि स्वसंवेद्येनात्मना भेदो ऽवसीयत इत्य् आह -- सर्वत्रे ति

6.104

{2,142} अतो यथैवास्मन्मते बुद्धिभेदमात्रप्रभावितो रूपादीनां भेद इष्यते असत्य् अपि देशादिभेदे, तथैवैतेष्व् अपि शब्दादिधर्मभेदेषु भेदो ऽस्तीत्य् उपसंहरति -- तस्माद् इति

6.105

नन्व् एवम् अपि तावद् अत्यन्तभेदो नैषाम् इष्यते, कथञ्चिद् भेदात्. अतः सिद्धम् अभिन्नस्योद्भवादय इति. न सिद्धम्. अत्यन्तभिन्नता हि नास्माभिः कस्यचिद् इष्यते, सर्वस्य सदाद्यात्मनाभेदात्. अस्ति तु केनापि रूपेण भेद इति तदाश्रयणेनैव विरुद्धधर्मसम्बन्धः समाधीयते. न चैतद् बौद्धसिद्धान्ते ज्ञानस्य सम्भवतीत्य् अभिप्रायेणाह -- अत्यन्ते ति

6.106

किं पुनः कारणम् अभिन्नस्यापि शब्दात् कृतकत्वादेर् अग्रहणम् इति. भेदस्यापि विद्यमानत्वाद् इति चेद्, हन्तैवम् अभेदो ऽपि वास्तव इति किन् न शब्दग्रहणे गृह्यते, अत आह -- सर्वं चे ति. यद् एतत् कृतकत्वादिधर्मजातम् उपन्यस्तं तत् सत्य् अपि शब्दाभेदे क्रियाहेत्वाद्यपेक्षया गृह्यते. न हि वस्त्व् अस्तीत्य् एव ग्रहणं भवति. अपि तु ग्रहणेतिकर्तव्यतासापेक्षम्. कृतकत्वस्य च क्रिया कुलालादिव्यापारः. तद्धेतुश् च कुलालादिः. जिघृक्षा च ग्रहणकारणम्. अतस् तदसंवित्तावभेदे ऽपि शब्दान् न ग्रहणं कृतकत्वादीनाम्. अत्यन्ताभेदे तु ग्रहणादिव्यवस्था न सिध्येत्. न चासाव् अस्माभिर् इष्यत इति

6.107

न चायं धर्मधर्मिकृतो भेदो ज्ञाने सम्भवति. अद्वितीयत्वात् तस्य. नापि क्रियाहेत्वादितुल्यम् अपेक्षणीयान्तरम् अस्ति यत्कृता ग्रहणाग्रहणव्यवस्था{2,143}भवेत्. ज्ञानातिरिक्तवस्त्वन्तराभावाद् इत्य् आह -- ज्ञान इति. अन्यत्रानपेक्षेत्य् असहमानः प्रत्यवतिष्ठते -- परस्परेणे ति. अयम् अभिप्रायः अपेक्षार्थ एव तावद् दुष्प्रतिपादः. अभिन्ने तत्त्वे किं केनापेक्ष्यते. उपेत्यापि ब्रूमः. य एव कश्चिद् अपेक्षिष्यते ग्राहको वा ग्राह्यो वा, स एव सन्निहितः. अत्यन्ताभेदात् तयोः. अतो नाग्रहणकारणम् अन्यतरस्यापीति द्व्यात्मकग्रहणप्रसङ्गः

6.108

अत्र चोदयति -- नन्व् इति. यद् एतद् अपेक्षाम् अभ्युपेत्य भवतोच्यते सन्निहित इति, तद् अयुक्तम्. न हि नो नीलादिग्रहणे ग्राह्यम् इदं ग्राहको वायम् इति बुद्धिर् उत्पद्यते. अतो ग्राह्यग्राहकत्वेनानवगमात् कथं तयोः सन्निधानम् अपेक्षा कथम् उच्यत इत्य् अपेक्षाभ्युपगमो न युक्त इत्य् अर्थः

6.109

परिहरति -- मा भूद् इति. यद्य् अपि ग्राह्यो ऽयं ग्राहको ऽयम् इति वा न विकल्प्यते, तथापि तावद् एकात्मनः सर्वेणैवात्मना गृहीतत्वाद् यद् एवापेक्षितं तद् एव लभ्यत इति युक्तम् एव वक्तुम्. अन्यो ऽयं ग्राह्यो ऽयं ग्राहको ऽयम् इति शब्दविकल्पः. अन्यच् च ज्ञानरूपम्. तच् चेत् समग्रं गृहीतं, किम् अपरम् अपेक्षणीयं यदग्रहणाद् उभयांशबोधो न भवेद् इति. एवम् अपि चेद् उभयात्मकं न गृह्यते, कथं द्व्यात्मकं भविष्यति. अतः सिद्धं न द्व्यात्मकं ज्ञानम् इत्य् अभिप्रायेणाह -- एवम् इति

6.110

एवं तावद् यद् उक्तं सत्य् अपि द्व्यात्मकत्वे न द्व्यात्मकं गृह्यत इति, तन् निराकृतम्. इदानीं द्व्याकारम् एव ज्ञानं गृह्यत इति यद् बौद्धैर् उक्तं तद् दूषयितुम् उपन्यस्यति -- उत्तरोत्तरे ति. एवं हि बौद्धा मन्यन्त -- स्वसंवेद्यैज्ञानस्य द्विरूपता. तद् धि जानामि घटम् इत्य् एवोत्पद्यते. तत्र जानामीति{2,144}ग्राहकांशः. घटम् इति च ग्राह्यांशः. तद् एवं स्वसंवेद्ये ऽपि ज्ञानस्य द्विरूपत्वे यो नाम मूढो न सम्प्रतिपद्यते, तत्प्रतिबोधनार्थम् उत्तरोत्तरविज्ञानविशेषनिर्देशो बौद्धैर् अभिमतः. एवं हि निर्दिशन्ति घटज्ञानं जानामीति. तद् इह पूर्वेण विषयाकारेण ग्राहकाकारेण च रूषितो द्वितीयज्ञानस्य ग्राहकाकारः प्रचितो निर्भासते. तदाद्यस्य द्विरूपत्वे घटते. त्व् आद्यं ग्राह्याकारमात्रं वा ग्राहकाकारमात्रं वा भवेत्, ततो द्वितीयाद्य् अपि तद्गोचरं तदाकारम् एव भवेत्. तत्राद्यस्य ग्राह्यमात्रत्वे द्वितीयम् अपि ज्ञानं घट इत्य् एवोत्पद्यते. तत्र शब्दत्रयेण निर्देशो नोपपद्येत घटज्ञानं जानामीति. न ह्य् अनातुराणाम् अनर्थको नाम निर्देशो भवति. एवं च तृतीयादिज्ञानेषु चतुष्टयादिभिर् निर्देशो दर्शयितव्यः. तस्माद् उत्तरोत्तरज्ञानविशेषाद् अवगम्यते अस्ति ग्राहकाकारसंवित्तिर् अपीति. यद् अपि चेदम् अपरं द्व्याकारवेदने कारणम् उक्तं -
स्मृतेर् उत्तरकालं च न ह्य् असाव् अविभावितः ।
इति. यथा खल्व् अयं स घट इति ग्राह्यं स्मरति, एवं घटज्ञानम् अज्ञासिषम् इति जानातिवाच्यं ग्राहकांशम् अपि. न चानवगतपूर्वार्थविषया स्मृतिः सम्भवतीति पूर्वानुभवप्रतिबन्धात् स्मरणाद् आनुमानिकी पूर्वं ग्राहकाकारसंवित्तिः कल्प्यत इत्य् आह -- स्मरणाद् इति

6.112

तद् एव प्रपञ्चयति -- एकाकारम् इति सार्धेन. इदं च प्राग् एव व्याख्यातम् इति. यदि तु ग्राहकाकारो गृह्यते इत्य् आश्रीयते, तदाकारप्रचयदर्शनम् उपपन्नं भवेद् इत्य् आह -- ग्राहके ति

6.113

कथम् उपपन्नम् इत्य् अत आह -- जायत इति. पूर्वं हि घटं जानामीति ज्ञानं ग्राह्यग्राहकाकारम्. तत्र तस्मिन्नेव विषयभूते. यत् परं घटज्ञानं जानामीति ज्ञानम्. तस्यात्मीयश् च ग्राहकाकारः. पूर्वौ च{2,145}स्वविषयभूतप्राप्यज्ञानस्थौ ग्राह्यग्राहकाकाराव् उपप्लुतौ भवतः. एवं त्र्याकारवेदनम् उपपन्नं भवतीति

6.114

अनेनैव प्रकारेण तृतीयादिष्व् अपि ज्ञानेष्व् आकारवृद्ध्या पूर्वपूर्वेभ्यो भिन्नता सिध्यति. इतरथा तु पूर्वस्य केवलग्राह्याकारत्वे स्वाकारसमर्पणेन विषयभावाद् उत्तरम् अपि तत्सदृशं घटात्मकम् एव भवेद् इत्य् अयुक्तम्. एवं केवलग्राहकाकारत्वे पूर्वस्योत्तरस्यापि ताद्रूप्यान् न वैलक्षण्यं सिध्येत्.
निराकारत्वपक्षे ऽपि तुल्यतैव प्रसज्यते ।
निराकारत्वसामान्यात् प्राचीनोत्तरसंविदोः ॥
इत्य् अभिप्रायेणाह -- परेष्व् इति. एवं तावद् उत्तरोत्तरविज्ञानविशेषाद् इत्य् एतत् प्रपञ्चितम्. स्मरणाच् चानुमानिकीत्य् एतद् इदानीं प्रपञ्चयति -- ग्राह्ये ति. इदं च प्राग् एव व्याख्यातम् इति

6.115

आकारप्रचये तावत् परिहारम् आह -- ने ति. अयम् अर्थः -- नोत्तरोत्तरविज्ञानेषु प्रचयान्विता आकारा दृश्यन्ते, नीलाद्याकारमात्रप्रतिभानात्. सर्वदा हि नो विषय एवेदम् इति बहिर् निर्भासते. कदाचिद् एव तूद्भूतजिज्ञासस्यानाकारज्ञानप्रतिभानम् इति वर्णितमसकृत्. अतो न ज्ञानारूढम् आकारद्वयं दृश्यत इति संवित्प्रमाणकम् अहं नीलम् इत्य् अनवगतेः. कस् तर्हि घटं जानामीति जानात्यर्थः. नावश्यं विषयबोधेषु जानातिः प्रवर्तते. घटो ऽयम् इत्य् एव प्रतीतेः. यदा तु ज्ञानम् एव जिज्ञासितं भवति तदार्थस्य ज्ञाततावशेन ज्ञानम् अपि प्रतीयेत. तत्र चायं जानातिप्रयोगः. न वैतावता ज्ञानम् एव द्व्याकारं भवति, विदिते बहिर्विषयाकारे पृथग् एवेदम् अनाकारज्ञानम् इति. यद्य् अनाकारस्यैव ज्ञानस्य संवेदनं, कथन् तर्हि नीलाकारं पीताकारं ज्ञानम् इति व्यपदेशो ऽत आह -- विषये ति. अयम् अभिप्रायः -- न तावज् ज्ञानम् आकारवत्तया दृश्यते, बहिराकारत्ववेदनाद् इत्य् उक्तम्. यस् तु नीलाकारं ज्ञानम् इति व्यपदेशः, न तेनाकारवत्ता ज्ञानस्य सिध्यति. विषयो हि नीलादिव्यपदेशभाजनम्. तद्व्यपदेशेनैव च ज्ञानं व्यपदिश्यते न तु तन्नीलम्.{2,146}कस्य हेतोः परव्यपदेशेन व्यपदिश्यत इति चेद्, न. तं विना व्यपदेष्टुम् अशक्यत्वात्. न हि तद्व्यपदेशम् अन्तरेण निरूपयितुं शक्यम् ईदृशं नामेदं ज्ञानम् इति, स्वयम् अनाकारत्वात् संविदाम् इति

6.116

यत् तु निराकारत्वपक्षे सर्वसंविदां तुल्यतैव प्रसज्यत इत्य् उक्तं, तद् अयुक्तम्. अनाकारत्वे ऽपि ग्राह्यभेदप्रमाणकत्वाद् भेदस्य, ग्राह्या हि विषयाः संवित्तौ प्रमाणम्. ते च भिन्ना दृश्यमाना भिन्ना एव संवित्तीर् अवस्थापयन्तीति. अतस् तद्भेदसिद्धये तत्समवेताकारान्तराभ्युपगमो न युक्त इत्य् आह -- तस्माद् इति. ग्राह्यभेदनिबन्धनस् तत्प्रमाणक इत्य् अर्थः

6.117

नन्व् अस्तु ग्राह्यभेदो भेदे प्रमाणम्. अनाकाराणां तु केनात्मना भेद इत्य् एव दुष्प्रतिपादम् अत आह -- निराकारत्वे ति. अयम् अभिप्रायः -- किम् इदम् अनाकारत्वं संविदाम्. यदि निरस्वभावत्वं, तन्नेष्यते विषयवशोन्नीयमानप्रकाशस्वभावत्वात्. अथ नीलाद्याकारविरहः, न. आकाशकालात्मदिक्कर्मसु तदभावे ऽपि भेदाभ्युपगमात्. अतो यथा नीलाद्याकारा एव भावा आकारवत्त्वेनाभिन्ना अपि परस्परेण भिन्ना भासन्ते, एवम् अनाकारत्वेनाभिन्नान्य् अपि ज्ञानानि ग्राह्यभेदोन्नीयमानेनात्मना भेत्स्यन्ते स्वभावाद् एवेति

6.118

स्मरणाच् चानुमानुकीति यद् उक्तं तद् इदानीम् उपन्यस्य दूषयति -- स्मृतेर् इति. मिथ्यैवैतद् बौद्धैर् गीयत इत्य् अर्थः. कथं मिथ्या अत आह -- तदैवे ति. तदैव खल्व् इदं ग्राहकाकारं ज्ञानं संवेद्यते. घटो हि तत्र स्मर्यते. तत्स्मरणान्यथानुपपत्त्या च तत्कारणभूतं ज्ञानम् अर्थापत्त्या कल्प्यते. नूनं मया घटो ज्ञातः, कथम् अन्यथा स्मर्यते. तत्रैव चार्थापत्तिवेद्ये[727]ज्ञाने ऽज्ञासिषम् इति पदप्रयोगः, न तु ज्ञानम् अपि पूर्वं गृहीतम् इति

6.119

__________नोतेस्__________
[727] द्ये ज्ञासि (ख)
{2,147} यत् पुनर्द्व्याकारवेदने पूर्वम् उक्तम् अभेदं चाभ्युपेत्यायम् इत्य् अत्र कथम् एकस्मिन् गृह्यमाणे परो न गृह्यत इति. तद् दूषयति -- गृहीतम् इती ति. यद् अस्माभिर् अंशद्वयाग्रहणे निमित्तम् अनुयुक्तो भवान् किम् उभयात्मकं न गृह्यत इति, नानेनास्माकं वाक्यप्रवृत्तिमात्रम् एव भवतो ऽभिमतं यथा तथा वा तावद् अभ्यधास्त्वम् इति. अपि तु अग्रहणकारणं वा त्वया वक्तव्यम्. वास्तवं वाग्रहणं, न त्व् अभेदाद् द्व्यात्मकं गृहीतम् इति वाक्प्रवृत्तिमात्रेणास्माभिर् मुच्यस इति

6.120

परमार्थतस् तु ग्राह्यग्राहकाकारवेदनं नास्तीत्य् उक्तम् एवेत्य् आह -- ग्राह्ये ति. स्याद् एतत्. मा नाम प्रत्यक्षेण द्व्यात्मकं गृह्यताम्. अनुमानेन तूभयाकारवेदनं साधयामः. ग्राहकात्मा गृहीतो ग्राह्याभेदात्, तदात्मवद् इत्य् अत आह -- प्रत्यक्षे ति. अयम् अभिप्रायः -- प्रत्यक्षं ज्ञानम् इति वः पक्षः. न चास्मिन् पक्षे ऽनुमानेन ग्रहणसाधनं युक्तम्. यदि हि द्व्याकारं ज्ञानम् उत्पन्नं भवेत्, तथैव प्रकाशेत. अतो नैषा द्व्याकारोपलब्धिर् आनुमानिकी प्रत्यक्षज्ञानपक्षे स्यात्. न च प्रत्यक्षेण द्व्याकारं ज्ञानं कैश्चिद् उपलभ्यत इति न द्व्याकारता ज्ञानस्येति

6.121

यदि त्व् एकाकार एव ज्ञाने द्व्याकारता कल्प्यते, एवं सत्यप्रमाणकत्वाविशेषात् सहस्राकारतैव किं न कल्प्यते इत्य् आह -- एवे ति

6.122

अत्र चोदयति -- ग्राह्ये ति. अयम् अभिप्रायः -- यद् एतद् अन्यतरांशग्रहणे ऽभिन्नत्वाद् अपरस्यापि ग्रहणम् आपादितं भवता तद् अयुक्तं, अभेदे हि सत्य्{2,148}एतत् स्यात्. न तु ग्राह्यग्राहकांशयोः परस्परम् अभेदः. ज्ञानं हि तत्राभिन्नम् अंशौ च परस्परं भिन्नाव् एव. अतो यथैन्द्रवायवादिग्रहाः परस्परं भिन्ना अपि ज्योतिष्टो(?म।माङ्ग)त्वेन न भिद्यन्त इति मीमांसका मन्यन्ते, एवं ज्ञानस्यापि स्वात्मनाभेदे ऽप्य् अंशयोः परस्परं भेदान् न ग्रहणसङ्करपरिचोदनावकाश इति निराकृतस्वपक्षस्य बौद्धस्य प्रत्यवस्थानम् इति. सिद्धान्तवादी तु -- न तावद् अयम् एकान्तवादी बौद्धो भिन्नाभिन्नत्वम् अभ्युपेत्य ग्राह्यग्राहकयोर् भेदम् अभिधत्त इति सम्भवति, तन् नूनम् ऐकान्तिक एवानेन ग्राह्यग्राहकयोर् भेदो ऽभिहित इति मन्वान आह -- सिद्ध इति. इतरः स्वाभिप्रायम् आविष्कर्तुं परपक्षनिषेधं तावद् आह -- ने ति. कारणम् आह -- ज्ञानत्वाद् अभेदतः . अयम् अर्थः -- नैवम् अपि भवत्पक्षसिद्धिः, ज्ञानत्वेनांशयोर् अभेदाद् इत्य् उक्तम् एवेति

6.123

इतर इदानीं सिद्धान्तहानिम् आपादयंस् तम् एवंवादिनं निगृह्णाति -- भिन्ने ति. साङ्ख्या हि प्रकृतिविकारयोर् अत्यन्तभेदम् अनिच्छन्तो विकारात्मना प्रकृतौ भेदं तदात्मना च विकाराणाम् अभेदं सङ्गिरन्ते. तद् यथा साङ्ख्यमतेन भिन्नाभिन्नात्मकं वस्तु परिकल्प्यते, तथा कथं त्वया भ्रान्तचित्तेन बुद्धशासनम् उक्त्वा भिन्नाभिन्नत्वम् एकस्य ज्ञानात्मनः परिकल्पितम्. अस्माकं त्व् अनेकान्तवादिनाम् उपपन्नो ज्योतिष्टोमे तथाभ्युपगम इति

6.124

भवतस् तु यदि ग्राह्यग्राहकात्मकं द्वयं ज्ञानात्मनैकं, ततो भिन्नत्ववागनुपपन्ना, नोचेद् एकत्वम् इत्य् आह -- एकम् इति

6.125

एवं चात्र भवन्मताश्रयणेनैकात्म्यम् आपादयितुं शक्यम् इत्य् आह -- एके ति. ग्राह्यग्राहकाव् एकात्मानौ, एकरूपात् ज्ञानात्मनो ऽभेदात्. तदात्मवद् एव. ग्राह्यग्राहकयोर् मिथः परस्परम् एकत्वेन कारणेन ज्ञानं ग्राह्यात्मकं ग्राहकात्मकं वा भवेद् इति

6.126

{2,149} तत्र चैकात्मकत्व आपन्ने ग्राह्यग्राहकयोर् अन्यतरस्यापाये जाते परस्यापीतरविधुरस्यानुपपत्तेर् अंशद्वयासत्त्वम् एव ज्ञानस्य भवेत्. एवं च निःस्वभावम् अभावात्मकं ज्ञानम् आपन्नम् इति शून्यता प्रमाणार्थयोः स्याद् इत्य् आह -- तत्रे ति

6.127

एवं तावद् अभिन्नात्मनो ज्ञानाद् अभेदाद् अंशयोर् अभेद आपादितः. इदानीं भिन्नाभ्यां वाप्य् अंशाभ्याम् अभिन्नत्वात् ज्ञानात्मनो भेदम् आपादयति -- भिन्नाभ्याम् इति. एवं चात्यन्तभेदे ग्राह्यग्राहकयोः सिद्धं द्वैतम् इत्य् अभिप्रायेणाह -- ततश् चे ति

6.128

एवं द्वैतसिद्धौ यदि ज्ञानम् इति संज्ञामात्रम् एव ग्राह्यग्राहकयोः कर्तुम् अभिमतं भवताः, तदभ्युपगच्छाम एवेति सोपहासम् आह -- तयोर् इति. अथवा किं पारिभाषिकेण ज्ञानशब्देन, अस्माकम् इवैक एवायं ज्ञानशब्दो ऽक्षादिवत् साधारणतयार्थज्ञानयोर् व्युत्पत्तिभेदेन वर्तत इत्य् आह -- अथापि वे ति. यदि ज्ञायत इति ज्ञानं कर्मणि ल्युडन्तो ज्ञानशब्दो ऽनुशिष्यते, ततो ऽर्थो ज्ञानम्. अथ तु ज्ञप्तिर् ज्ञानं ज्ञायते ऽनेनेति वा भावकरणयोर् व्युत्पाद्यते, ततो धीर् एव ज्ञानम् इत्य् उभयज्ञानतोपपत्तिर् इति

6.129

सर्वथापि हि ज्ञानशब्दव्युत्पत्तौ वस्तुभेदस् तावत् सिद्ध एव. शब्दस् तु यथारुचि ज्ञानार्थयोर् अन्यतरत्र प्रवर्तताम्. नात्र नो विप्रतिपत्तिर् इत्य् आह -- सर्वथे ति

6.130

{2,150} अत्रापरे बौद्धा वदन्ति -- सत्यम् अस्ति ग्राह्यग्राहकयोर् भेदः. नैवम् अपि बहिरर्थः सिध्यतीति, ज्ञानस्यैवातीतस्योत्तरज्ञानग्राह्यत्वात्. अत एवेदम्भावः, परगोचरत्वात् संविदः. कथम् अतीतं ग्राह्यम् इति चेद्, न. हेतुत्वस्यैव ग्राह्यत्वात्. यद् एतद् उत्तरज्ञानजनने स्वाकारसमर्पणेन पूर्वस्य हेतुत्वं तद् एव तस्य ग्राह्यत्वम्. यथाहुः --
भिन्नकालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः ।
हेतुत्वम् एव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥
इति. अयं च सौत्रान्तिकवैभाषिकयोः साधारणः श्लोकः. तद् एतद् उपन्यस्यति -- अथे ति. यद्य् अपि ग्राहकाद् भिन्नं ग्राह्यं, तथापि ज्ञानान्तरम् एव तदतीतं न त्व् अर्थ इति. एतद् अपि दूषयति -- ज्ञानत्व इति. तस्य ग्राह्यत्वाभिमतस्य ज्ञानस्य ज्ञानत्वे युक्तिर् न काचिद् अस्तीति भाव इति. यदि तु पूर्वोक्तया कर्मव्युत्पत्त्या ज्ञानं तद् इष्यते तद् अस्माभिर् इष्यते इत्य् आह -- पूर्वे ति

6.131

ज्ञानं ज्ञानम् इत्य् अनुगतं तु रूपं न द्वयोर् ग्राह्यग्राहकयोर् अवगम्यत इत्य् आह -- ज्ञानम् इति. अक्षादिवत् साधारणशब्दताम् अभ्युपगच्छामः न त्व् आकृतिशब्दताम् इति. उपेत्यापि ब्रूमः. तत् खलु सामान्यं पूर्वोत्तरयोर् अनुयायि ताभ्यां भिन्नम् अभिन्नं वा. न तावद् भिन्नं तैर् उपेयत इत्य् आह -- व्यतिरिक्तम् इति

6.132

अयं चापरो व्यतिरेके दोष इत्य् आह -- व्यतिरेक इति. तयोः पूर्वोत्तरयोर् ग्राह्यग्राहकयोः. ज्ञानसामान्याद् व्यतिरेके इष्टे, तस्मिंस् ताभ्यां भिन्न इति यावत्. तयोर् ज्ञानात्मकता न स्यात्, तेनैव रूपेण ज्ञानत्वाभ्युपगमाद्{2,151}इति. किम् अतो यद्य् एवम् अत आह -- तद्रूपे ति. ज्ञानरूपरहितत्वे सत्यज्ञानात्मनो वस्तुनो ऽभावात् पूर्वोत्तरयोर् ज्ञानयोर् अभाव एवापद्यत इति

6.133

अपि च तत्सामान्यं ताभ्यां सम्बध्यमानं प्रत्येकं कार्त्स्न्येन सम्बध्यते भूतकर्मगुणवत्, व्यतिषज्य वा मालागुणवत्. पूर्वस्मिन् कल्पे भेदः. उत्तरस्मिन् सावयवत्वम् इति वैशेषिकादिवद् दोषप्रसञ्जनं कर्तव्यम् इत्य् आह -- ताभ्याम् इति

6.134

वैशेषिकादिवद् इत्य् एतद् विवृणोति -- यथे ति. यथैव वैशेषिकादीनां परैर् बौद्धैर् एव जात्यादाव् एते दोषा उक्ताः, तथैवैषां बौद्धादीनाम् अपि भिन्नयोः पूर्वोत्तरज्ञानयोर् अभिन्नस्य ज्ञानसामान्यस्य सङ्गतौ सम्बन्धे एते दोषा इति

6.135

यदि तु ताभ्याम् अव्यतिरिक्तं सामान्याम् इष्यते, ततो यो ऽसौ भिन्नाभ्याम् अभिन्नत्वात् प्राग् भेद आपादितः स एवापद्यत इत्य् आह -- ताभ्याम् इति. अपि च किम् आत्मकं तत् सामान्यम् इत्य् अपि चिन्तनीयम् एव. तत्रास्मदभिमतसामान्याश्रयणे तावदुक्तः प्रसङ्गः. सादृश्यरूपम् अपोहरूपं च सामान्यं परस्तान् निराकरिष्यत इत्य् आह -- सादृश्ये ति

6.136

अपि चात्रापोहरूपसामान्याभ्युपगमे ऽधिको दोष इत्य् आह -- वस्त्वन्तरस्ये ति. एतद् एव विवृणोति -- ने ति. अज्ञाननिवृत्त्या ज्ञानं ग्रहीतव्यम्. न च ज्ञानमात्रवादिनो ऽज्ञानं नाम किञ्चिदपोह्यम् अस्तीति

6.137

{2,152} न चात्यन्तासत एवापिहो घटते इत्य् आह -- अपोह इति. अयम् अभिप्रायः -- यदि ज्ञानाभावमात्रम् अज्ञानं तत् तर्ह्य् अवस्तुरूपं कथम् अपोहक्रियाकर्म भविष्यतीति. अपोह्यत्वाभ्युपगमे वा अभावस्यापि वस्त्वन्त(?रा।रता)पत्तिर् इत्य् आह -- वस्त्वन्तरम् इति. कारणम् आह -- अपोह्यत्वाच् च वस्तुते ति. चशब्दो हेताव् इति

6.138

अतो ऽवश्यं ज्ञानाभावस्यानपोह्यत्वाद् अज्ञाननिवृत्तौ ज्ञाने इष्यमाणे ज्ञानाद् अन्यदज्ञानम् अर्थ एव ते प्रसज्यत इत्य् आह -- तेने ति. अत्र किञ्चिदाशङ्क्ते -- कल्पितम् इति. ज्ञेयादिशब्देषु हि बौद्धैर् उक्तम् --
अज्ञेयं कल्पितं कृत्वा ज्ञेयशब्दः प्रवर्तते ।
इति. तद् इहापि समानम्. अज्ञानकल्पनया तदपोहेन ज्ञानशब्दो वर्तिष्यते. तेन नापोह्याभावो न च वस्त्वन्तरतापत्तिर् इति. एतद् अपि दूषयति -- ने ति. यद् एव हि क्वचिद् दृष्टं तद् एवान्यत्र कल्प्यते. अत्यन्तासतस् तु ज्ञानाद् अन्यस्याबुद्धिविषयस्य कल्पना केति

6.139

तद् एवं कल्पनीयान्तराभावाद् अज्ञानाकारा बुद्धिर् एवाज्ञानतया कल्पनीयापन्नेत्य् आह -- बुद्धिर् इति. तत्र चायं दोष इत्य् आह -- ततश् चे ति

6.140

किम् अतो यद्य् एवम् अत आह -- न चे ति. न ज्ञानान्तरापोहेन ज्ञानम् एव ग्रहीतुं शक्यत इति. अत्रैव दृष्टान्तम् आह -- वृक्ष इति. न हि वृक्षार्थो वृक्षापोहेन प्रत्येतुं शक्यत इति

6.141

{2,153} अपि च यासाव् अज्ञाननिर्भासा बुद्धिर् अज्ञानतया कल्पिता, तस्या ज्ञानत्वं न भवेत्. न हि यद्रूपं यदपोहेन प्रतीयते तत्रैव तद् भवति. वृक्षत्वस्यावृक्षेष्व् अपोह्येषु घटादिष्व् अभावाद् इत्य् आह -- अपोह्य इति

6.143

एवञ् च तस्याज्ञानत्वाभिमतस्य ज्ञानत्वाभावाद् अर्थत्वम् एवापन्नम्. अतो ऽज्ञानवाचोयुक्त्यार्थ एवाभिमत इत्य् अभिन्नार्थत्वम् इत्य् आह -- ततश् चे ति. किञ् चैवम् अपि चायम् अज्ञानापोहवादी वक्तव्यः किम् आलम्बनो ऽयम् अज्ञानप्रत्यय इति. न तावद् बाह्यालम्बनं किञ्चिद् भवद्भिर् ज्ञानम् इष्यते. न चास्य स्वांशालम्बनत्वं ज्ञानान्तरालम्बनत्वं वा सम्भवतीत्य् अनन्तरम् एव वक्ष्यतीत्य् अभिप्रायेणाह -- अज्ञाने ति. तन् न तावद् ज्ञानमात्रवादिनाम् अज्ञानं नाम किञ्चिद् अस्ति यद् अस्यालम्बनं स्याद् इत्य् आह -- ने ति. अत्र चोदयति -- नन्व् इति. अस्यार्थः -- वस्त्वात्मकं हि ज्ञानातिरिक्तम् अस्माभिर् निषिद्धम्. अभावात्मकं त्व् अज्ञानं किम् अज्ञानप्रत्ययेन नावलम्ब्यत इति

6.144

परिहरति -- भाव इति. अयम् अभिप्रायः -- येन तावदाबालम् आस्थविरं च प्रसिद्धा महीमहीधरोदधिप्रभृतयो ग्राह्या अपलपिताः, तस्य किम् इति सूक्ष्मन्यायवेदनीयो भावो ग्राह्यो भविष्यति तन्मते च सर्वोपाख्यानविरहलक्षण इति. अपि च यद् भावधियां स्वांशपर्यवसाने कारणम् उक्तं, तदभावबुद्धेर् अप्य् अविशिष्टम्. अतः कथम् असौ बाह्याभावालम्बनं स्याद् इत्य् आह -- स्वांशे ति

6.145

{2,154} तदवश्यं पारिशेष्याद् अज्ञानप्रत्ययस्यापि ज्ञानान्तरं वा स्वांशो वा ग्राह्यो ऽभ्युपगन्तव्य इत्य् आह -- तेने ति. अस्तु तद् एव ग्राह्यं, को दोषो ऽत आह -- स्वरूपे ति. ज्ञानान्तरं स्वात्मा वा ज्ञानस्य ज्ञानस्वभावत्वान् नाज्ञानप्रत्ययेन विषयीकर्तुं शक्यते. स्वरूपविपरीतस्याग्राह्यत्वाद् यदाकारो हि प्रत्ययस् तदाकारम् एव ग्राह्यम् अवस्थापयति. अज्ञानाकारश् च प्रत्ययः कथं ज्ञानम् आलम्बनीकर्तुं शक्नोति. स्वरूपविपरीतं न ग्राह्यम् इति

6.147

एतद् एव दर्शयति -- यथे ति. अतः सिद्धं न ज्ञानमात्रत्वे ऽपोह्यम् अस्तीत्य् आह -- तेने ति. एवं चासत्य् अपोह्ये ऽपोहस्वरूपस्याप्य् अभावान् न तेनात्मनापि ग्राह्यग्राहकयोर् ज्ञानयोर् ज्ञानात्मना समानत्वम् इत्य् आह -- ग्राह्यग्राहकयोर् इति. एवञ् चोभयोः साधारणरूपाभावाद् ग्राह्यग्राहकयोर् अन्यतरत्र ग्राह्ये ग्राहके वा ज्ञानत्वम् अभ्युपगन्तुं युक्तम् इत्य् आह -- तस्माद् इति

6.148

तथापि को निश्चयः ग्राहकं ज्ञानं न तु ग्राह्यम् इत्य् अत आह -- अत्रे ति. उभयसिद्धं हि ग्राहकस्य ज्ञानत्वं ग्राह्यस्य त्व् अस्माकम् असिद्धम् इति. एवं तावद् ज्ञानं ग्राहकम् अर्थो ग्राह्य इति साधितम्. अथ वा किं नो ऽनेन व्यसनेन. तत्त्वभेदो हि नो द्वैतानुगुणतया साध्यः. स तावत् सिद्धः. सिद्धे च तस्मिन् यथारुचि व्यपदेशो ऽस्तु नामेत्य् आह -- वस्त्व् इति

6.152

यथारुचि व्यपदेशम् एव दर्शयति -- ज्ञानम् इति. उभयं वा ज्ञानशब्दे वाच्यम् अस्तु अर्थो ज्ञानं च. अर्थ एव वा ज्ञानशब्दवाच्यः न ज्ञानम्{2,155}इत्य् अर्थः. ग्राहक एव वार्थशब्दवाच्यो ऽभिधीयताम्. नैवम् अपि काचित् पक्षक्षतिः. सिद्धत्वाद् द्वैतस्येत्य् अभिप्रायेणाह -- ग्राहक इति. भाष्यकारेण त्व् अतीतबुद्धेर् ग्राह्यत्वनिराकरणार्थं क्षणिकत्वं कारणम् उक्तं येनैवम् आह -- अर्थविषया हि प्रत्यक्षबुद्धिः, न बुद्धिविषया. क्षणिका हि सा, न बुद्ध्यन्तरकालम् अवस्थास्यते इति. तद् उपन्यस्यति -- बुद्ध्योर् इति. अतीता हि पूर्वा बुद्धिर् नासाव् उत्तरया ग्रहीतुं शक्यते. तत्काले ऽसत्या वर्तमानवद् ग्रहीतुम् अशक्यत्वाद् ग्राह्यस्य चेदं नीलम् इति वर्तमानवद्भासाद् इति. अतः क्षणिकत्वात् कारणाद् बुद्धेः ग्रहीतुम् अशक्यत्वात् अस्मन्मताश्रयणेनार्थात्मकतैव बुद्धेर् उपेयेत्य् आह -- अर्थ इति. यदि तूच्यते मा भूद् अतीताया बुद्धेर् ग्राह्यत्वं, सहभाविनोस् तु ज्ञानयोर् ग्राह्यग्राहकत्वं न नोपपन्नम् इति. तदयुक्तं सहभावानुपपत्तेः. कथं हि समनन्तरप्रत्ययाधीनात्मलाभम् उत्तरं तेन सहोत्पद्यत इति सम्भावयामः. सहत्वे ऽपेक्षानुपपत्तेः. अस्तु वा जन्मयौगपद्यं ज्ञानयोः. एवम् अपि न मानमेयता सम्भवति. हेतुत्वम् एव हि ग्राह्यत्वम् उक्तम्. न चासति पौर्वापर्ये तत् सम्भवति, सहजन्मनोर् अन्योन्यनिरपेक्षत्वात्. तद् इदम् आह -- अन्योन्ये ति. कथं निरपेक्षम् अत आह -- क्रिये ति. यदि हि ज्ञानयोः कश्चित् क्रियाकारकसम्बन्धो भवेत्, एवम् अपेक्षा भवेत्. न चासौ सहोत्पत्तौ सम्भवति. स्वाकारार्पणेन हेतुत्वं निराकृतम् एवेति. ननु तवाप्य् अर्थज्ञानयोः कार्यकारणभावे क्रियाकारकसम्बन्धः कः, अत आह -- अर्थे ति. येन व्यापारेण बुद्धेः प्रमाणत्वं सा मितिः कश् चासौ. यद् एतद् बुद्धिजन्मेति प्रत्यक्ष उक्तम्. तद् अस्यां मितौ यार्थविज्ञानयोः सङ्गतिः. सानयोः कार्यकारणभावः. सा हि बुद्ध्यर्थाभ्यां सहिताभ्यां भाव्यते. यावद् धि नार्थो धीविषयः, तत्कर्म भवति. बुद्धिश् च जन्मनि कर्त्री. न तावन् निर्विषया{2,156}अकर्तृका चोत्पत्तिः सम्भवति. तद् अनेन क्रियाकारकसम्बन्धेनास्ति ज्ञानार्थयोः कार्यकारणभावः. तद् एतदर्थस्य बुद्धेर् उत्पत्तौ कर्मकारकत्वम् एतद् एवास्य ज्ञानकारणत्वम्. अत्रेति. मीमांसकसिद्धान्त
इत्य् अर्थः. न चैष प्रकारो बौद्धमते सम्भवति, युगपज्जन्मनोर् जानयोर् जन्मन एवाभावाद् ज्ञानातिरिक्तस्य यौगपद्ये चान्यतरोक्ताव् अन्यतरस्य कारणत्वासम्भवाद् इत्य् अभिप्रायेणाह -- ने ति. अपि च, इदं कार्यम् अयं हेतुर् इत्य् अपि नियमो यौगपद्ये दुरधिगमः अनपेक्षत्वाविशेषात्. न खलु सव्येतरविषाणयोर् युगपज्जन्मनोः शक्यम् अवगन्तुम् इदं कार्यम् इदं कारणम् इत्य् अगृह्यमाणे विशेषे, तद् एतद् आह -- नियम इति. नन्व् अगृह्यमाणे विशेषे उभयस्योभयं कारणं भविष्यतीत्य् अत आह -- द्वयम् इति. यदि पूर्वम् उत्तराधीनात्मलाभम्, उत्तरं च पूर्वाधीनं, ततो दुरुत्तरम् इतरेतराश्रयम् इति

6.153

नन्व् अत्रापि तद्भावभावितैव कार्यकारणभावे चिह्नम्. अस्ति च युगपज्जन्मनोर् अपि विज्ञानयोस् तद्भावभावः, पूर्वज्ञानसम्भवक्षण एवोत्तरस्य भावात्. अतः कुतो यौगपद्ये न हेतुहेतुमत्ता, अत आह -- तद्भावे ति. सत्यम्. तद्भावभाविता कार्यकारणत्वे लक्षणं न पुनः पौर्वापर्यरहिता. तन्नियमसहितम् एव तु तद्भावभावहेतुकं कार्यकारणभावे लक्षणम् आहुः. न च यौगपद्ये पौर्वापर्यं, नतरां नियम इत्य् अकार्यकारणतेति

6.155

परस्परसहितम् उभयं कार्यकारणलक्षणं न त्व् अनपेक्षितम् इत्य् अत्रैव निदर्शनम् उपन्यस्यति -- गवाश्वस्ये ति. न खलु कदाचिद् अश्वात् पूर्वं गवि जाते{2,157}पश्चाज्जायमानो ऽश्वः पौर्वापर्यात् तत्कारणको भवति. तथैकसन्तानक्षणभाविनः सन्तत्यन्तरजस्य क्षणस्य न तद्भावमात्रात् तत्कार्यत्वम् असति पौर्वापर्ये. एवं घटेन सहोत्पद्यमानेषु रूपादिषु नान्योन्यं कार्यकारणभाव इष्यते. न ह्य् अवयविद्रव्यस्य रूपे ऽवयवी कारणम्, अश्वादिरूपाणाम् एव प्राक् सतां क्रमेण तत्र कारणत्वात्. एतौ च स्वमतपरमतभेदेन व्याख्येयौ दृष्टान्तौ. आवयोर् एव तद्भावभावितामात्रं न कार्यकारणत्वे लक्षणम् इत्य् उक्तं भवतीति. तस्माद् यो यस्मिन् नियमेन पूर्वम् अवस्थिते जायते, स तत्कारणको नान्य इत्य् आह -- तस्माद् इति

6.157

यत् पुनर् अत्र परैर् यौगपद्ये ऽपि कार्यकारणभावो दृश्यत इति प्रदीपप्रभादिसिद्धवन्निदर्शनम् उक्तं, तन् न. न सिद्धं, तत्रापि सूक्ष्मस्य कालभेदस्य विद्यमानत्वात्. प्रदीपकार्या हि प्रभा नासौ प्रदीपेन सहैव निष्पद्यते. एकदा प्रदीपे जाते ऽनन्तरम् एव निष्पद्यते प्रभा. तस्माद् न क्वचिद् अपि यौगपद्ये कार्यकारणभाव इत्य् आह -- हेत्व् इति. यद्य् अस्ति कालभेदः कस्मान् न लक्ष्यते, अत आह -- दुर्लक्ष इति. यथा निरन्तरम् उपर्युपरिभावेन स्थिते पद्मपत्रशते भिद्यमाने कालभेदो दुर्लक्षः, एवं प्रदीपप्रभयोर् अपि. यथा च तत्र ना(न)न्तरिता सीची भिन्नत्तीति तत्र कालभेदे प्रमाणम्, एवं नानिष्पन्ने प्रदीपे तत्तेजो विसरतीति समानम् उभयत्रापि प्रमाणं कालभेदे. तुलान्तनमनोन्नम् अनयोस् तु न परस्परं कार्यकारणभावो द्वयोर् अप्य् एकहेतुत्वात्. तोलयिता हि तत्र सहभुवोर् द्वयोर् अपि कारणम्. कक्ष्यासूत्रसन्निवेशविशेषो वा. सूत्रं हि तत्र मध्ये भवत् समं तौ धारयति. एकतरत्र भवद् विषमं प्रवर्तयति. न च पुनरुन्नामहेतुर् नामः न च नामहेतुर् उन्नाम इति न क्वचित् सहजन्मनोः कार्यकारणभाव इति

6.158

{2,158} यथा च पूर्वोत्तरज्ञानयोर् यौगपद्येन कार्यकारणभावः एवं ज्ञानभागयोर् अपि ग्राह्यग्राहकात्मनोः कार्यकारणभावो निराकार्यः. न चाकारणभूतस्य ग्राह्यता सम्भवतीति यौगपद्ये प्रसङ्गेन भागाव् उपसङ्क्रम्य दर्शयति -- भागयोर् इति. मानमेयत्वनिराक्रियेत्य् अर्थः. यदि तूच्यते मा भूद् यौगपद्ये पूर्वम् आलम्बनम् उत्तरस्य, क्रमेणैव तु भविष्यति. कथम् असतो ऽतीतस्यालम्बनत्वम् इति चेद्, न. शक्त्यर्पणद्वारेणोपपत्तेः. पूर्वं हि ज्ञानम् उत्तरस्मिन् वासनापरनामानं शक्तिम् अर्पयति. ततस् तद्रूपं तज्जायमानं तदालम्बनम् इत्य् आख्यायते, अत आह -- न चे ति

6.160

किम् इति न भ(?वः।वेत्.) अत आह -- ग्राह्यम् इति. शक्त्यर्पणेन हि पूर्वस्य ग्राह्यत्वे ग्राह्यम् अतीतं भवेत्. अतीतम् एव हि तद्वासनावशाद् उत्तरेणालम्ब्यते स्मृत्य् एव पूर्वज्ञानम् इति. भवत्व् अतीतं ग्राह्यं को दोषः अत आह -- ताद्रूप्यम् इति. ताद्रूप्यम् अतीतरूपत्वं वर्तमानावभासिनो ग्राह्यस्य संविद्विरुद्धम् अप्रमाणकं भवेत्. कथं ह्य् अतीतम् अबधितया बुद्ध्या वर्तमानतया गृह्येत. तथावागृह्यमाणम् अतीतं भवेद् इति. कथं ताद्रूप्यम् अप्रमाणकम् अत आह -- अतीते ति. अयम् अभिप्रायः -- पूर्वज्ञानाहितवासनावशेन जायमानम् उत्तरं स्मृतिरूपम् एव भवेत्. स्मृत्या च स इत्य् अतीतत्वानुविद्ध एव स्वगोचरो ऽनुभूयते. न चेह तथानुभूयते, प्रत्युत्पन्नवद् इदम् इति संवेदनात्. अतः कथम् असंवेद्यम् एव ताद्रूप्यं प्रमाणवद् भविष्यति. एतच् च ज्ञानातिरिक्तवासनाभ्युपगमेनोक्तम्. न तु ज्ञानमात्रवादिनां तदतिरिक्ता वासना च काचिद् अस्ति. न चोपपद्यते, अनाधारवा(सना)नुपपत्तेः. न चातीतम् असद् वासनाधारः सम्भवति. न चोत्तरम् अनागतम्, असत्त्वाद् एव. न च परस्य जन्मकालं यावत् पूर्वम् अवतिष्ठते येन तस्मिन् वासनाम् आधाय नश्यतीति शक्यते ऽवगन्तुम्. क्षणिकत्वात्. न च सन्तानिभ्यो ऽतिरिक्तः सन्तानो नाम कश्चिद् अस्ति यो वासनाधारो भवेत्. न चानाधारैव शक्तिर् आत्मानं लभेत.{2,159}भणितश् चायं वासनाभङ्गो निरालम्बनानुमाननिराकरणावसर इत्य् अलम् अनेनेति. अत्र चोदयति -- स्वप्ने न स्याद् इति. यद् उक्तं भवतातीतत्वानुविद्धस्मृत्यानुभूयत इति. तन् न. स्वप्ने प्रत्युत्पन्ननिर्भासात्. न च न स्मृतिः स्वप्न इति साम्प्रतं प्रत्युत्पन्नकारणान्तराग्रहणात्. न हि तत्रेन्द्रियलिङ्गादि ज्ञानकारणं किञ्चिद् उपलभ्यते. न चाकारणिका ज्ञानोत्पत्तिः सम्भवति. अतो ऽवश्यं स्मृतिर् एव सेति वक्तव्यम्. स्मृतिर् अपि च वर्तमानवन्निर्भासत इति तद्वद् इहापि भविष्यतीति. परिहरति -- विपर्ययाद् इति. सत्यम्. अतीतत्वेन स्वप्ने बोधो न भवति. किन् तु विपर्ययाद् असौ तथावभासः. (?विपर्ययज्ञानं हि) तद्विपर्ययश् चान्याकारवस्तुगोचरो ऽन्याकारो युक्त एवेति नानेन प्रमाणज्ञानानां तुल्यत्वम् अवगन्तुं शक्यत इति. कीदृशः पुनः स्वप्ने विपर्ययः. तद् दर्शयति -- तत्रे ति

6.162

कथं पुनर् इदम् अवगम्यते विपर्ययो ऽसाव् इति. अत आह -- बाधे ति. बाधकं हि तत्र ज्ञानम् उत्पद्यते नैतद् एवम् इति. तज्जानीमो ऽवर्तमानम् एव तत्र वर्तमानतया भासत इति. एतावच् च विपर्ययस्य तत्त्वं यद् अन्यादृशस्यान्यथाप्रकाशनम् इति सूक्तं विपर्ययाद् इति. न चायम् एवम्प्रकारो विपर्ययो जाग्रज्ज्ञानेषु शक्यवचनः. सुपरिनिश्चिता हि तत्र जाग्रद्धियः इत्य् उक्तम् इत्य् अभिप्रायेणाह -- ने ति. एवम् उपपादितम् अतीतविषया न प्रत्यक्षबुद्धय इति. इदानीं प्रयोगेण दर्शयति -- तस्माद् इति. अतीतो न प्रत्यक्षविषयः, अतीतत्वात्. जन्मान्तरानुवृत्तवद् इति. न च योगिप्रत्यक्षेणानैकान्तिकत्वं, तन्निराकरणाद् इति. तस्मिन्नेव साध्ये हेतुदृष्टान्तान्तरम् आह -- तद्रूपे ति. अतीतो ऽर्थो न प्रत्यक्षबुद्धिविषयः, तद्रूपत्वेनाज्ञानात्. यन् न स्वरूपेण संवेद्यते तन् न प्रत्यक्षधीविषयः यथा भाव्यर्थ इति

6.164

{2,160} अस्तु वातीतस्य ग्राह्यत्वं, तथापि सौत्रान्तिकान् पराजित्य तद् वक्तुं युक्तं यज्ज्ञानम् एवातीतं ज्ञानेनालम्ब्यते न त्व् अर्थ इति. ते हि सदृशापरापरोत्पत्तिरूपेण सन्तन्यमानेषु भावेष्व् अतीतक्षणालम्बनम् एव ज्ञानम् आस्थिताः. वरं तद् एव युक्तम् आश्रयितुम्. तथा हि -- न तावदत्यन्तम् अलौकिकी ग्राह्यग्राहकसिद्धिर् उक्ता भवतीत्य् अभिप्रायेणाह -- अतीते ति. किञ् च, एतद् अप्य् अतीतगोचरत्वे ज्ञानस्य विकल्पनीयं यत्तच्छक्त्यर्पणद्वारेण ग्राह्यतया कल्पितम् अतीतं ज्ञानं, तत् किं ग्राह्यैकस्वभावम् आहोस्विद् ग्राहकैकस्वभावम् उभयस्वभावं वेति. सर्वथा नोपपद्यत इत्य् अभिप्रायेणाह -- अतीतम् इति. तत्र ग्राह्यैकस्वभावत्वे तावदर्थ एव शब्दान्तरेणाभ्युपगतो भवतीत्य् अभिप्रायेणाह -- ग्राह्ये ति. ग्राह्यैकस्वभावं हि ज्ञानं जडात्मकम् अर्थ एव शब्दान्तरेणोपपादितो भवतीति

6.166

अपि च शक्त्यर्पणे नोत्तरग्राह्यतेष्यते. न च ग्राह्यमात्रात्मनो ऽसंचेतितस्य शक्त्यर्पणं सम्भवति. अननुभूयमानस्य स्मृतिबीजाधानानुपपत्तेर् इत्य् अभिप्रायेणाह -- स्वे ति. शक्त्यर्पणाभावम् एव प्रयोगेण दर्शयति -- यथे ति. नोत्पद्यविनष्टाद् दृष्टासंविदिताच् छक्त्यर्पणं, दृढत्वेनाज्ञानाद् एव पटुतरम् अननुभवाद् इति यावत्. पठन्ति हि वस्तुधर्मो ह्य् एषः यदनुभवः पटीयान् स्मृतिबीजमाधत्ते इति. यदनेवंविधं न तेन शक्त्यर्पणं, यथानागताद् अननुभूतपूर्वात् तथाविधाद् एव तु सन्तानान्तरजाद् इति. उक्तो ग्राह्यमात्रे प्रसङ्गः.{2,161}ग्राहकैकस्वभाव इदानीं दर्शयति -- केवले ति. यत् खलु ग्राहकैकस्वभावं तत् खलु कथम् उत्तरस्य ग्राह्यं भविष्यति. तथा सति स्वभावनाशाद् अभावापत्तेर् इत्य् अभिप्रायः

6.167

किञ् चेदं ग्राहकैकस्वभावत्वं दुरधिगमम् इत्य् आह -- किम् इति. ग्राह्यापेक्षं हि ग्राहकत्वं तदेकस्वभावस्य. न तावत् स्वात्मा ग्राह्यो न ज्ञानान्तरं, तस्याप्य् एवम् एव ग्राहकैकस्वभावत्वाद् इति. उभयाकारतायां दूषणम् आह -- द्व्याकारता निरस्तैवे ति. नैतद् अस्तीत्यादिना निषिद्ध इत्य् अर्थः. अपि च, द्व्याकारत्वे पूर्वज्ञानं तदैव स्वकाल एव संवेदेत. तत्रास्य स्वसंवित्तये बोधकान्तरज्ञानापेक्षा न युक्तेत्य् आह -- संवेद्येते ति

6.169

अपि च यदि पूर्वज्ञानं द्व्याकारम्, एवं सति परस्यापि तद्भुवस् तथात्वाद् आत्मांश एव प्रमा पर्यवसितेति किम् अतीतविषयतयेत्य् आह -- द्व्याकारे ति. ग्राह्यैकस्वभावत्वे च पूर्वस्यायम् अपरो दोष इत्य् आह -- पूर्वे ति.
तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः ।
इति स्थितिः

6.170

अथ कथं पूर्वस्य ग्राह्यमात्ररूपत्वे तज्जन्मनश् चोत्तरस्य ग्राहकत्वं भविष्यतीति. यदि तु पूर्वं ग्राहकाकारमात्रम् एवं सति नोत्तरस्य विषयो भवेत्, सारूप्यनिबन्धनत्वाद् विषयविषयिभावस्य. पूर्वोत्तरयोश् च पूर्वं ग्राहकाकारमात्रम् उत्तरं तु द्व्याकारम् इति वैरूप्यम् इति न पूर्वविषयतोत्तरस्य (?न){2,162}सिध्येत्. तद् एतद् आह -- ग्राहके ति. पूर्वं च केवलग्राहकत्वे ग्रहणकतया विषयभावो निराकृतः. इह तु वैरूप्याद् इति विशेष इति. यच्छक्त्यर्पणद्वारेण पूर्वस्यालम्बनत्वम् उक्तं, तत् तावत् प्रत्युक्तम् एव. तत्रैव स्मृत्वा पुनर् अपि किञ्चिद् वदति -- न चे ति. केनचिद् व्यापारेण कश्चित् कञ्चिद् अर्पयति. न च विज्ञानस्य शक्त्यर्पणं प्रति कश्चिद् व्यापारो दृश्यते. क्षणिकत्वाद् व्यापारकालं यावदनवस्थानाद्, व्यापारान्तरानभ्युपगमाच् चेति

6.171

किञ् चायं शक्त्यर्पणस्याभावो बौद्धपक्षे निरालम्बनवाद एव प्रपञ्चेन साधित इत्य् आह -- शक्त्यर्पणस्ये ति. इदानीं यत् तत् पूर्वम् उक्तं न पूर्वोत्तरज्ञानयोर् हेतुसाध्यत्वम् इति, यच् च वास्यवासकभावनिराकरणम्, उभयत्र प्रयोगम् आह -- सन्ताने ति. क्वचिद् एकस्यां सन्ततौ विमतिपदास्पदीभूतायां न ज्ञानयोर् हेतुहेतुमत्ता, ज्ञानत्वात्, सन्तानान्तरज्ञानवत्. सन्तानान्तरज्ञानानि न सन्तानान्तरहेतुमन्ति, तेषां तत्रानारम्भकत्वात्. एवम् एव वास्यवासकभावनिराकरणे ऽपि प्रयोगो दर्शयितव्यः. इह च ज्ञानान्य् एव धर्मीणि समानायां सन्तताव् अहेतुभूतानीति साध्यो धर्मः. ज्ञानत्वाद् इति हेतुः. सन्तानान्तरज्ञानवद् इति दृष्टान्त इति

6.172

ग्राह्यग्राहकयोर् उपपादितं भेदं प्रयोगेणेदानीं दर्शयति -- तस्माद् इति. यत एव न कथञ्चिद् ज्ञानस्य स्वगोचरत्वं, तस्मात्. यद् रूपस्य ग्राहकं तत् तु अतो ग्राह्याद् भिन्नं, तत्संवित्ताव् असंवित्तेः. यन् न तत्संवित्तौ संवेद्यते तत् ततो भिन्नं, रसादिग्राहकवत्. तत्संवित्ताव् असंवित्तिश् च प्राग् एव साधितेति नासिद्ध्याशङ्का. रसादिग्राहकं यथेति चास्य भिन्नम् इति वक्ष्यमाणेन सम्बन्ध इति

6.174

{2,163} एवम् एव ग्राह्यं पक्षीकृत्य ग्राहकाद् भेदो दर्शयितव्य इत्य् आह -- ग्राह्यम् इति. अत्रापि रसादिग्राहकम् एव दृष्टान्तः. यथा हि तद्रूपग्राहकानुभवे ऽननुभूयमानं ततो भिद्यते, एवं तद्ग्राह्यम् अपि रूपं, तद् अपि स्वग्राहकपरामर्शे न परामृश्यत एव. तद् अपि न स्मरामीत्य् अत्र दर्शितम् इति. एवम् ऐकैकश्येन ग्राह्यग्राहकयोर् भेदं प्रसाध्येदानीम् उभयोर् अपि समाहृत्य दर्शयति -- द्वयम् इति. ग्राह्यग्राहकद्वयं परस्परभिन्नम्. इतरेतरपरामर्श इतरेतरापरामर्शाद् रसादिवत्. यथा रूपरसादयो ऽन्योन्यपरामर्शे ऽपरामृश्यमानाः परस्परेण भिद्यन्ते, एवम् एतद् अपि द्वयम् इति

6.175

प्रकारान्तरेणेदाणीं ग्राह्यग्राहकयोर् भेदं दर्शयति -- एके ति. ग्राह्यं ग्राहकाद् भिन्नं तेन सहैकरूप्येणाज्ञानात्. यद् येन सहैकरूप्येण न ज्ञायते तत् ततो भिद्यते यथा सन्तानान्तरबुद्धिः. न चासिद्धो हेतुः, नीलादिरूपत्वाद् ग्राह्यस्यानाकारस्य च ग्राहकस्य संवेदनात्. एवम् एव ग्राहकं पक्षीकृत्य हेतुर् दर्शयितव्य इति. प्रयोगान्तरम् आह -- ज्ञानम् इति. ज्ञानं धर्मि, न स्वांशं गृह्णातीति साध्यं, ज्ञानोत्पत्तेर् इति हेतुः. तद् धि समनन्तरप्रत्ययाद् उत्पद्यत इति बौद्धा मन्यन्ते. यद् ज्ञानाद् उत्पद्यते न तत् (?पा।स्वां)शं गृह्णाति. यथा ज्ञानस्य स्वशक्तिः. स्वशक्तिर् इति ज्ञानज(?न्याद्।न्यां) वासनाम् अपदिशतीति

6.177

एवम् एव ग्राह्यत्वप्रतिषेधप्रयोगो दर्शयितव्य इत्य् आह -- ग्राह्ये ति. ज्ञानं स्वांशेन न गृह्यत इति दर्शयितव्यम्. ताव् एव हेतुदृष्टान्ताव् इति. न च साध्यविकलो दृष्टान्तः. द्वयहीनवासनाभ्युपगमात्. बौद्धानां हि स्वांशं न गृह्णाति. न च तेन गृह्यते. एतच् च चिरन्तनबौद्धाभिप्रायेण ज्ञानातिरिक्तवासनापक्षे{2,164}स्थित्वोक्तम् इति द्रष्टव्यम्. न तूपादानापरनाम्नो विशिष्टात् समनन्तरज्ञानाद् अन्यां काञ्चिद् वासनामर्वाचीना मन्यन्ते. तन्निरासो ऽपि चास्माभिर् उक्त एवेति. अन्यथा ग्राह्यग्राहकयोर् भेदं दर्शयति -- चैत्रे ति. चैत्रज्ञानं धर्मि. तच् चैत्रोद्भूतो यो ज्ञानांशो ग्राह्यस् तस्य बोधकं न भवतीति साध्यम्. ज्ञानत्वात्. यद् यद् ज्ञानं न तत् तद्बोधनं यथा देहान्तरोद्भवम् इति. ग्राह्यग्राहकशक्तिनिराकरणं चैतेनैव प्रकारेण दर्शयितव्यम् इत्य् आह -- एतयैवे ति. एषा चात्र दिक्. न ज्ञानं द्विशक्तिकं, ज्ञानोत्पत्तेः, स्वशक्तिवत्. तथा न ज्ञानं द्विशक्तिकं, ज्ञानत्वाद् अन्यतरांशवत्. अन्यतरांशो हि ज्ञानम् एव. न चासौ द्विशक्तिकः, द्वैविध्याभ्युपगमात्. इतरथा चातुर्विध्यप्रसङ्ग इति

6.178

ननु शक्यम् अनेनैव प्रकारेण (?ना।आ)त्मनो ऽपि वस्तुत्वाद् घटवद् द्विशक्तिकत्वं वारयितुम् अत आह -- प्रमाणे ति. दर्शितं ह्य् अस्मत्प्रयोगसम्भिन्नबोधबोध्यत्वाद् आत्मनो द्विरूपत्वम्. न तदनुमानेन वारयितुं शक्यते, प्रत्यक्षबाधकप्रसङ्गाद् इति भावः. ज्ञाने तु नात्मवद् द्विशक्तिकत्वं शक्यते कल्पयितुं, प्रमाणान्तराभावाद् इति. एतद् अप्य् उक्तम् इत्य् आह -- न त्व् अत्रे ति. यत एवम् एकस्य द्विरूपत्वम् अनुपपन्नम्, अतो ऽवश्यम् एव ज्ञानाद् भिन्नं नीलादि ग्राह्यम् एष्टव्यम्, एवञ् च प्रमाणबलाद् आपद्यमानो वस्तुभेदो न कल्पनागौरवम् आपादयतीति

6.179

यद् उक्तम् अनेककल्पनाया एककल्पना ज्यायसीति, तत् परिहृतं, न खलु प्रत्यक्षसिद्धो ऽर्थः कल्पनीयः. न च तद्बलभाविनी ज्ञानकल्पना शक्यते वारयितुम्. प्रमाणवन्ति सुबहून्य् अप्य् अदृष्टानि कल्पनीयान्य् एव. अत एवोभय{2,165}सिद्धत्वाद् ज्ञानस्याकारकल्पना न्याय्येति यद् उक्तं तद् अपि प्रत्याख्यातम्. यदि हि वयम् आकारं दृष्ट्वा कस्यायम् इति तदाश्रयम् अन्विच्छेम तदोभयसिद्धत्वाद् ज्ञानाकारो ऽयम् इत्य् उच्येतापि. प्रतिष्ठिताश्रयम् एव तु प्रत्यक्षसामर्थ्याद् आकारम् अवगच्छन्तो नास्याश्रयान्तरमीहामहे. न चैवास्माकम् असिद्धे ऽर्थाकारे ज्ञानम् अपि सिद्धं येनोभयसिद्धं भवेत्. न हि तन्निराकारम् अनुभूयते. प्रत्यक्षेणार्थ एव हि ज्ञातस् तस्य प्रमाणं भविष्यति. स चेद् अनिष्टो नास्य कल्पनायां प्रमाणम् अस्तीति कथम् उभयसिद्धत्वं, तद् एतद् आह -- तस्माद् इति. आदिशब्देन शक्तिमात्रस्य भेद इति यद् उक्तं तदुपादत्त इति. उक्तदोषपरिहारप्रपञ्चम् अतः परमारभमाणः यत् तावद् उक्तम् उपायत्वाद् ज्ञानम् एव प्रथमम् अवगन्तव्यम् उपायाधीनसिद्धित्वाद् उपेयानाम्, न च तदाकारम् अन्तरेण प्रतीयत इति ज्ञानाकार एवायम् इति, तत् तावत् परिहरति -- उपाये ति. सत्यम् अर्थसिद्धाव् उपायो ज्ञानं, न त्व् अवश्यम् उपायग्रहणाधीनम् उपेयावधारणम्. न हि चक्षू रूपपरिच्छेदोपाय इति ततः पूर्वम् अनुभूयते. यत् तूपायत्वात् प्रथमम् अवगन्तव्यम् इति, तत् तैर् एव चक्षुरादिभिर् अनैकान्तिकम् इति नोपायस्य सतो ज्ञानस्य पूर्वानुभवं साधयितुम् अलम् इति

6.181

यत् पुनर् उक्तम् -- उत्पन्नस्य सतो ऽप्रतिबद्धस्य ज्ञानस्य नाग्रहणकारणम् अस्ति अतो ग्रहीतव्यम् इति, तद् अनुभाष्य परिहरति -- यद् अपी ति. अयम् अभिप्रायः -- सत्यं ज्ञानम् उत्पन्नम् अप्रतिबद्धं केनचित्. न त्व् एतावतैव ग्रहीतव्यं भवति, ग्राहकाभावेनाग्रहणोपपत्तेः. न तावद् इदम् आत्मनात्मानं ग्रहीतुं शक्यम् इत्य् उक्तम्. अन्यच् च, ज्ञानं तदा नोत्पन्नम् एव अर्थापत्तिर् हि सा. सा च पश्चाद् एव भविष्यतीत्य् अतः सतो ऽपि ज्ञानस्य ग्रहणकारणाभावाद् अग्रहणं युक्तम् एवेत्य् आह -- तेने ति

6.182

{2,166} यदि स्वकाले नावगतं, कथं तर्हि पश्चाद् अवगम्यते. अत आह -- नान्यथे ति. अस्ति हि खलु पश्चाद् ज्ञानावधारणे प्रमाणम् अर्थापत्तिः. ज्ञातार्थान्यथानुपपत्तिप्रभवा सा प्रागज्ञाते ऽर्थे न जायते, पश्चादुपजायत इति युक्तम् एव प्रमाणसद्भावाद् उत्तरकालम् एव ग्रहणम्. परिचोदनापरिहारश् चोक्त एवेति नेह प्रतन्यत इति

6.183

नन्व् अस्तु तावत् परस्तात् प्रमाणसद्भावः, पूर्वम् अपि त्व् अप्रतिबन्धस्य कस्माद् अग्रहणम् अत आह -- न चे ति. न ह्य् अप्रतिबन्धम् इत्य् एव वस्तूपलभ्यते. अप्रतिबन्धस्याप्य् अनुपलम्भनात्. कारणसामग्रीविशेषसमवधानसम्पादितं हि भावानां ग्रहणम्. तदप्रतिबन्धानाम् अपि तदभावे न भवति. किम् अनुपपन्नम् इति

6.184

का पुनर्ज्ञानग्रहणे सामग्री. यदि ज्ञानं, किम् अ(?न्य।स्य) ज्ञानान्तरेण. नन्व् इदम् एव स्वभावतो ज्ञानं प्रकाशात्मकम्, अप्रकाशात्मनां तु भावान्तराणाम् अप्रतिबद्धानाम् अप्य् अस्तु प्रकाशान्तरापेक्षा. अत एवोक्तं न चाप्रकाशरूपत्वम् इति. अतो नोत्पन्नस्य ज्ञानस्याग्रहणे कारणम् उपलभामहे -- अत आह -- व्यापृतम् इति. सत्यम् प्रकाशकं ज्ञानं, तथापि नात्मानं प्रकाशयति अर्थसंवित्तौ व्यापृतत्वात्. न हि बहिर्विषयप्रकाशने व्यापृतः प्रदीपः आत्मानम् अपि प्रकाशयति. तत्प्रकाशने चक्षुषो ऽपेक्षणात्. अतो युक्तम् एव प्रकाशात्मनो ऽपि स्वबोधायान्यापेक्षणम् इति

6.186

अथ वा प्रकाशकं ज्ञानम् इत्य् एव कुतः, अर्थापरोक्षीभावो हि तस्य तथात्वे प्रमाणम्. ततश् चार्थानुभवस्वभावम् एव तत् सिध्यतीति न स्वात्मानम् अपि प्रकाशयतीत्य् आह - ईदृशम् इति. एवम् अपि स्वात्मानं प्रकाशयेद्{2,167} यद्य् अर्थवद् ज्ञानात्मापि ज्ञानजन्मन्य् अनुभूयते, न त्व् असाव् अनुभूयते इत्य् उक्तम् एवेत्य् अभिप्रायेणाह -- न चे ति. न च यद् एकस्य प्रकाशकं तेन सर्वस्यैव प्रकाशकेन भवितव्यम्. न हि चक्षुरादीनीन्द्रियाणि प्रकाशकान्य् अपि विषयतः सङ्कीर्यन्ते, व्यवस्थाया उक्तत्वात्. एवम् इहापि बाह्यस्य प्रकाशकं ज्ञानं, नात्मन इति न नोपपन्नम् इत्य् आह -- सती ति सार्धेन. प्रकाशकपदोपचारस् तु कथञ्चित् प्रकाशे कर्तृभावम् आश्रित्य वक्तव्यः. अन्यथा हि प्रकाशानन्त्यं भवेद् इत्य् उक्तम् एवेति

6.188

यत् तूक्तं -
तस्य तस्यापि चान्येन संवित्तावस्थितिर् भवेत् ।
इति, तद् दूषयितुम् अनुभाषते -- अन्येने ति सार्थेन. एवं हि परैर् उक्तं - यदि किल ज्ञानान्तरेण ज्ञानं जायते, ततस् तस्य तस्य ज्ञानस्य स्मरणात् पूर्वानुभवकल्पनायाम् अनवस्था भवेत्. एकेन तु ज्ञानेन विषयाकारे स्वाकारे च प्रवेदिते सर्वम् एव ग्राह्यग्राहकाकारस्मरणं तत्रैव स्यात्. तथा चानवस्था परिहृता भवति. तस्मान् न ज्ञानान्तरेण वेद्यं ज्ञानम् इति

6.189

एवम् अनुभाषिते दूषणम् आह -- तत्रापी ति. यद् एतद् उच्यते तत्र तत्र स्मरणदर्शनेन सर्वत्रानुभवकल्पनायाम् अनवस्थेति, तद् अयुक्तम्. स्मृत्यसिद्धेः. गृहीतविषया हि स्मृतिर् भवतीति नागृहीतं ज्ञानं स्मर्तुं शक्यम्. गृहीतस्मरणे तु यावद्ग्रहणम् एव स्मरणव्यवस्थानान्नानवस्थेति वक्ष्यते. भवति हि{2,168}कदाचिद् एतद् द्वित्राणि ज्ञानान्य् अनुभूतपूर्वाणि स्मर्यन्त इति. विज्ञानसन्तानस्मरणं त्व् अलौकिकम् एवेति

6.191

यदि त्व् अर्थज्ञाततान्यथानुपपत्त्या ज्ञानम् अवगम्य पुनस् तज्ज्ञाततावशेन तद्विषयं ज्ञानान्तरं कल्पयति, पुनश् चानेनैव क्रमेण यावच्छ्रमं ज्ञानानि ज्ञातानि. ततो यावज्ज्ञातस्मरणाद् नानवस्थेत्य् आह -- घटादाव् इति सार्धेन. यत् तु प्रागनवगतानाम् एव ज्ञानानां स्मरणम् उच्यते, तद् वन्ध्यासुतादिस्मरणतुल्यम् अशक्यम् एव वक्तुम् इत्य् आह -- तदे ति

6.192

यत् तु भिक्षुणा सिद्धवत् तत्रापि स्मृतिर् इत्य् उक्तं, तद् भ्रान्तभाषितम् एव. अस्ति च भ्रान्तौ निबन्धनम्. अर्थो हि तत्र स्मर्यते. तत्स्मरणान्यथानुपपत्त्या च तस्य प्राग् ज्ञातत्वम् एव कल्प्यते. ततो ऽपि प्राचीनज्ञानकल्पना. तद् इह संसर्गमोहितधियां ज्ञाने ऽपि स्मृतिविभ्रमः. न त्वाद्यज्ञानस्मरणम् अप्य् आशङ्क्यम्. प्राग् एव सन्तानस्मरणं, तद् एतद् आह -- स्मृतिभ्रान्तिर् इति. अर्थस्मृतेः खल्व् इयं तज्ज्ञानादिप्रमाणता विलसति, यद् एतज्ज्ञाने ऽपि स्मृतिभ्रमो भवति. अर्थस्मृत्या हि ज्ञाने प्रमीयमाणे स्मृतिविषयार्थसन्निकर्षाद् ज्ञाने ऽपि स्मरणम् इति भ्राम्यति. आदिशब्देन चात्र ज्ञानज्ञानम् उपादीयत इति

6.193

स्मृत्यापि ज्ञानप्रमायां यावच्छ्रमं तद्ग्रहणाद् विषयान्तरसञ्चारोपपत्तिर् इत्य् अभिप्रायेणाह -- यावद् इति. अयम् अभिप्रायः -- न तावन्ति ज्ञानानि जायन्ते यदि तु ज्ञातुम् इष्यन्ते यावच्छ्रमं तद्बुद्धिर् भविष्यति यावन्ति ज्ञानानि बुध्यमानो न श्राम्यति. स्मृत्यनुसारेणापि तावद् भोत्स्यते{2,169}इत्य् अभिप्रायं विवृणोति -- तत्प्रबन्ध इति. यावच्छ्रमं तावद् बुद्धयो ज्ञायन्ते, ततो महत्य् अपि बुद्धिप्रबन्धे ज्ञाते श्रमाद् वा विषयान्तराभिलाषेण वान्यसम्पर्काद् बुद्धिज्ञानाद् विच्छेदो भवति. यथा विषयेष्व् एव रमणीयेषु गीतादिष्व् अनुभूयमानेषु विषयान्तराभिलाषात् पूर्वविषयविच्छेदो भवतीत्य् अनुपपन्नं विषयान्तरसञ्चारो न स्याद् इति

6.194

किञ् च यद् एतद् उक्तं तत्रापि च स्मृतिर् इति, तत् किं प्रथमज्ञानाभिप्रायेण, उत तत्र तत्रेति वीप्साम् अभिप्रेत्य. पूर्वस्मिन् कल्पे नानवस्था. एको हि प्रथमः प्रत्ययः. अतः का तद्ग्रहणे ऽनवस्था, तद् एतद् आह -- तत्रे ति

6.194

यदि तु संवित्प्रवाहम् एवाभिप्रेत्य तत्रापि स्मृतिर् इत्य् उच्यते, तन् न तावद् अस्तीत्य् उक्तम्. उपेत्यापि ब्रूमः. यदि बहून्य् एव परस्ताद् ज्ञानानि स्मर्यन्ते, ततो ग्रहणकारणत्वात् स्मृतेस् तत्सिद्धये ग्रहणान्य् अपि कल्पयिष्यामः. कथम् अपरथा गृहीतविषया स्मृतिर् भविष्यति. न त्व् एवम् अपि ज्ञानान्तरनिरपेक्षम् एव ज्ञानम् अवसीयत इति युक्ता कल्पना, स्वसंवित्तिप्रतिषेधात्. अतो वरं प्रमाणबलादायातः संवित्प्रवाहः, न पुनः स्वसंवित्तिकल्पनेत्य् अभिप्रायेणाह -- स्मरणम् इति. पूर्वं च घटादौ गृहीत इत्य् अत्र यद्य् एवं स्याद्, एवं सति तत्रापि स्मृतिर् इत्य् उपपद्येत. तथा नानवस्था, यावदवगतस्मरणात्. न त्व् एतद् अप्य् अस्तीति तद् दर्शितम्. इदानीं तु यद्य् उत्तरोत्तरविषयाः स्मृतयो दृश्यन्ते ततस् तद्दर्शनाद् ग्रहणप्रवाहकल्पनैव प्रमाणवती, न स्वसंवित्तिकल्पनेति विवेक इति

6.196

यदि तूच्यते, सत्यम् अस्त्य् अयं ग्रहणप्रवाहः. किन् त्व् आद्यज्ञानगोचराण्य् एव तानि ग्रहाणि. ज्ञानम् एव हि तत्राद्यं नार्थः. ज्ञानम् एव विषयाकारेण{2,170}स्वाकारेण च निरूप्यते. तद्विषयं च तत्स्मरणम् अन्यत्. एवम् एवापरम् इति न किञ्चिदर्थविषयज्ञानम् इत्य् आशङ्कया सहाह -- अथे ति. अयम् अभिप्रायः -- सारूप्येण हि विषयभावः. तद् यदाद्यविज्ञानविषयम् एकम्, एवं सति तत् तावत् ततो ऽविलक्षणं प्रथमवद् घट इत्य् एव भवेत्. एवं तृतीयाद्य् अपीति नोत्तरोत्तरबुद्धयो भिद्येरन्. अर्थवादिनस् तु प्रथमम् अर्थविषयं घट इति ज्ञानं, द्वितीयं तु ज्ञानविषयं, तृतीयज्ञानं तु ज्ञानज्ञानविषयम्. अनाकारत्वे ऽपि चाकारवताम् इव स्वाभाविकः संविदां भेद इत्य् उक्तम् एवेत्य् आकारप्रचयदर्शनम् उपपद्यते ज्ञानेषु जिज्ञासितेषु, न तु बौद्धस्येति विपरीतप्रसङ्गो ऽभिहितः. एतच् च प्रथमज्ञानस्य स्वसंवित्तिम् अभ्युपेत्योच्यते. प्राङ् निराकृतो ऽप्य् अयं ज्ञानविषयत्वपक्ष इदानीं दूषणान्तराभिधित्सया पुनरुपक्षिप्त इति

6.197

अयं चापरो विज्ञायते न विषये बुद्धीनां दोष इत्य् आह -- विज्ञाने ति. अयम् अर्थः -- यस्य सर्वा बुद्धयो विज्ञानविषयाः, तस्य घटज्ञानं घटज्ञानज्ञानं वा विज्ञानविषयत्वान् न भिद्यत इति

6.198

अविशेषम् एव दर्शयति -- स्मरन्न् इति. एष हि ज्ञातपूर्वम् अर्थं कदाचित् प्रस्मृतवान् विज्ञानम् अनाकारं स्मरति अर्थं च सर्वदा साकारं घट इति, तन्नोपपद्यते. प्रस्मृतार्थविषयविज्ञानस्मरणं ह्य् अनाकारम् एव दृष्टम्. एवं स घट इत्य् अपि स्मृतिविज्ञानं विज्ञानविषयम् एवेति तद् अप्य् अनाकारम् एव भवेत्. साकारत्वे वा प्रस्मृतार्थविज्ञानस्मृतेर् अपि साकारत्वप्रसङ्गो ऽविशेषात्. अतो यो ऽयं घटविषयस्य स्मृतिविज्ञानस्य प्रस्मृतघटविज्ञानविषयस्य च स्मृतिविज्ञानस्य विशेषः, स विज्ञानविषयत्वे बुद्धीनां न भवेत्. अतः काचिद् विज्ञानविषया काचिदर्थविषयेति साकारानाकारभेदसिद्धिर् इति

6.199

{2,171} यद् अपि प्राग् ज्ञानस्य संवेदनम् इत्य् अत्र कारणम् उक्तं ज्ञानप्रष्ठेन परामर्शदर्शनं, तद् अपि न युक्तम्. न ह्य् अयं ज्ञानप्रष्ठेन परामर्शो ज्ञानस्य ग्राह्यताकृतः. किन् त्व् अर्थस्थितौ ज्ञानम् अभ्युपाय इति तदनुसार्यर्थकथनं ज्ञातो ऽसाव् अर्थो मयेति. तद् इदानीम् एव च स्मृतेस् तत्र ज्ञानानुमानम्. न तु प्राग् एव ज्ञानपुरस्सरम् असौ ज्ञातः. यदा तु कश्चित् तथाविधार्थसदसद्भावयोः पर्यनुयुङ्क्ते, तदा ज्ञानोपायत्वाद् अर्थस्य ज्ञानपुरस्सरम् अर्थस्थापनं भवत्य् आसीद् असाव् अर्थः यस्मान् मया पूर्वम् अवगत इति. अतो नानेन ज्ञानस्य पूर्वोपलब्धिः शक्या कल्पयितुम्. तद् एतद् आह -- ज्ञानप्रष्टेने ति

6.200

यत् तूक्तं ज्ञानाकारपक्षे प्रत्यासन्नं सम्बद्धं ग्राह्यं भवति, इतरथासम्बन्धम् अतिदूरवर्ति च ग्राह्यम् अभ्युपगतं भवतीति. तत् परिहरति -- प्रत्यासन्ने ति. अयम् अभिप्रायः -- यथा कथञ्चिन्नैकात्म्ये ग्राह्यग्राहकभावः सम्भवतीत्य् उक्तम्. तदा किं कुर्मो ऽसम्बन्धम् असन्निहितं च ग्राह्यम् अनुजानीमो न खलु दूरदेशा(?न्दी।दि)वार्ताभ्यो हृदयम् अनुविपरिवर्तमाना भावा न गृह्यन्त इति शक्यते वक्तुं संविद्विरोधाद् इति. एवं तावद् असम्भवाद् आसत्तिसम्बन्धौ न स्याताम् इत्य् उक्तम्. न वा हीयेत. न हि देशाविभाग एव सर्वत्र सम्बन्धः. विषयविषयिभावो ऽपि हि सम्बन्ध एव. अस्ति चासौ ज्ञानार्थयोः. ज्ञानोत्पत्तौ तदवाप्तेर् इदम् एव च तस्य सन्निधानम् अर्थेन यदुत्पन्ने तस्मिन्न् अर्थो भासत इत्य् अभिप्रायेणाह -- विषये ति. किं पुनर् इदम् अर्थो भासत इति. न ज्ञानाद् अन्यदर्थस्य भासनम्. संवित्तौ वा कथं विषयाकारो भासते. एवं तर्हि नास्ति तदभावे चान्यानवभासनाद् अभाववाद एव. तदवश्यास्थेयम् इदं ज्ञानोत्पत्ताव् अभूतपूर्वो भावानां को ऽपि भेदः सकलप्रमातृप्रत्यात्मवेदनीयः. ते तु भावा ज्ञानाकारा बहिर् वेत्य् अन्यद् एतत्. ये ऽपि फलभूताम् अर्थसंविदं स्वप्रकाशाम् आहुः, तैर् अपि को ऽप्य् अनिर्वचनीयो ऽर्थगतो दर्शयितव्य एव. कथम्{2,172}अन्यथा संवित्प्रकाशे ऽर्थः सिध्येत्. न ह्य् अन्यप्रकाशे ऽन्यत् सिध्येद्, अतिप्रसङ्गात्. अन्या च संविदान्तरा, अन्यो बहिरर्थः. सो ऽपि भासत इति चेत्, तद्वद् एव तर्हि सो ऽपि स्वप्रकाश एव. संविदायत्तो न स्वप्रकाश इति चेद्, नन्व् इदम् एवास्माभिर् जिज्ञास्यते किम् अस्य संविदायत्तत्वम् इति. स्वरूपं तावत् स्वकारणसामग्र्यायत्तम् एव. प्रकाशो ऽपि तस्य संविद् एव न तदायत्तः. तदवश्यम् अप्राप्तपूर्वस्य काचित् फलोत्पत्ताव् अस्ति प्राप्तिर् इत्य् आस्थेयं यदायत्तो ऽस्य संवेदनं नान्यस्येति विवेकः. सैव चास्माभिर् ज्ञाततादिपदैर् अभिधीयते. अतः सिद्धं विषयत्वेनापि प्रत्यासत्तिसम्बन्धौ स्त इति

6.201

यो ऽपि मिथ्याज्ञानेष्व् अर्थाकारसम्भव उक्तः, तम् अनुभाष्य परिहरति -- अर्थे ति. अयम् अर्थः -- यो ऽयं द्विचन्द्रादिबोधेष्व् अर्थाकारासम्भव उक्तः, सो ऽयुक्तः. तथा हि. सम्यग्ज्ञानेषु तावन्नार्थाकारासम्भवः. केषुचित् तु मिथ्याज्ञानेषु देशान्यथात्वमात्रेण कालान्यथात्वमात्रेण वार्थाकारसम्भवो ऽस्माभिः कृतः निरालम्बनवादे वर्णित इति यावत्. अतो न क्वचिद् अर्थाकारासम्भवः तत् पुनर् इदं प्रतिभासविपरीतम् अभिधीयते. देशान्तरादिस्थो ऽर्थो भासते, अन्यत्र स्थितश् चार्थो ऽन्यत्रालम्ब्यत इति संविदनुसारेण हि भवन्तो बहिरर्थम् अवस्थापयन्ति. सा च देशान्तरादिगोचरा कथम् अन्यत्रार्थम् आलम्बत इति शक्यते वक्तुम्. एवं हि स्वांशालम्बनत्वेन किम् अपराद्धं येन तन्निराक्रियते. मैवम्. उक्तम् अस्माभिर् निरालम्बनवाद एव बाधकानुसारिणी हि मिथ्यात्वकल्पना. बाधकं च देशादिसंसर्गम् एव वारयति, न हि बहिर्वस्तुसत्ताम्. तद् धि न द्वौ चन्द्राव् इति चन्द्रद्वित्वं निषेधति, न द्वित्वं चन्द्रं वेति कथं तौ बहिर्भासमानावपहास्यामः. अतो नेह संविद्विपरीतं किञ्चिद् इति

6.202

स्याद् एतत्. कथम् अतीता अर्था असन्तो ज्ञानावलम्बनम् इति. उक्तपरिहारत्वात्. उक्तं हि प्रत्यक्षधर्मो वर्तमानसन्निहितविषयता ज्ञानान्तराणां{2,173} नेति निरालम्बन एव, तद् एतद् आह -- प्रत्यक्षाद् इति. यत् तावल्लैङ्गिकम् अतीतादिगोचरं ज्ञानं तत् प्रत्युत्पन्नलिङ्गादिजनकम् असतीष्व् एव वासनासु भवति. यत् त्व् अन्यज्जाग्रत्स्मृति ज्ञानं स्वप्नज्ञानं वा, तद् भवन्तीषु वासनासु भवति प्रत्युत्पन्नकारणान्तराभावाद् इति

6.203

ये ह्य् अत्यन्ताननुभूता अर्था अनुभूयन्ते, तत्र वासनादिकारणान्तरासम्भवान् नास्ति ज्ञानाकारत्वाद् अन्या गतिर् अत आह -- य इति. अयम् अभिप्रायः -- तवापि तथाविधानुभवे किं कारणं, बौद्धो ऽपि वासनाम् एव ज्ञानकारणं मन्यते. न चात्यन्ताननुभूतपूर्वे ऽर्थे वासना सम्भवति, अर्थज्ञानाहितसंस्काराभिधानत्वाद् वासनाशब्दस्य. स्याद् एतत्. न ज्ञानजन्मा संस्कारो वासना. किन् तु ज्ञानम् एव किञ्चिद् अनवगतपूर्वार्थसंवेदनकार्योन्नेयशक्तिभेदम् इति. तन् न. लोके तथानवगमात्. ज्ञानयोनिर् एव संस्कारो वासनेति लौकिका मन्यन्ते, न ज्ञानम् एव. अपि च, समनन्तरज्ञानम् अतदाकारं, तत् कथं तदाकारां धियम् उपजनयितुम् अलं
तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः ।
इति वः सिद्धान्तः. यदि त्वयम् अपि कार्यकारणभावो नेष्यते, अस्तु तर्हि कादाचित्कम् अप्य् अनपेक्षम् एव ज्ञानम्. किं समनन्तरप्रत्ययाधीनव्यसनेन. अतो ऽवश्याश्रयणीया काचिज्ज्ञानाद् भिन्ना वासना, योद्भूता सती विसदृशसन्तानतिरोधानेन सदृशम् एव ज्ञानम् आरभत इति भवद्भिर् अप्य् आस्थेयम्. न चात्यन्ताननुभूतेषु सा सम्भवतीति तुल्यत्वम् आवयोः. न चाप्य् अनुभविष्यत इत्य् आत्यन्तिकवासनासम्भवप्रकटनार्थं, न तु भविष्यतो ऽनुभवस्य कश्चिद् वासनायाम् उपयोग इति

6.204

यदि तु अनादृत्यैव वासनां ज्ञानोत्पत्तिर् आश्रीयते, एवन् तर्हि यच्चिरन्तनैर्{2,174}बौद्धैर् वासनायां निमित्तत्वम् आश्रितं तद् विरुध्यत इत्य् आह -- विने ति

6.205

तत्रापि तु वासनाभ्युपगमे तस्याः संवित्कारणत्वाद् असाव् अननुभूतो ऽप्य् अर्थ इह जन्मनि क्वापि जन्मान्तरादाव् अनुभूत इत्य् अभ्युपेय इत्य् आह -- वासने ति

6.206

किम् अतो यद्य् एवम् अत आह -- एवं चे ति. अभवनम् अभावः. दुःस्वप्ने ऽनुभूयमानस्य संसर्गस्य न कस्यचिद् अत्यन्ताभाव इति. किं पुनस् तद्भावे प्रमाणम् अत आह -- अन्यथे ति. ज्ञानं हि कार्यं न तावदकारणकं निष्पद्यते. न चास्य प्रत्युत्पन्नेन्द्रियादिकारणं किञ्चिद् उपलभ्यते. स्वप्ने न चेद् वासनापि कारणं न स्याद् एव. न चासौ पूर्वज्ञानम् अन्तरेण भवति. तद् यदि नेहासाव् अर्थो ज्ञातः, नूनं जन्मान्तरे ऽनुभूत इति

6.207

ये तर्ह्य् अत्यन्तासम्भावनीयज्ञानार्थाः स्वशिरश् छेदादयः, ते ऽसम्भवद्वासनाः कथम् अवसीयन्ते. अतस् तत्र ज्ञाना(कार)कल्पनैव साधीयसी नार्थाकारकल्पना, अत आह -- दुष्टत्वेने ति. अयम् अभिप्रायः -- यदा न कथञ्चित् स्वसंवेदनं ज्ञानम् इत्य् उक्तं तदा य एवैते पृथिव्यादयो ऽर्था बहिरवस्थिता गृह्यन्ते, तेष्व् एव कुतश्चित् कारणदोषाद् दुष्टं विज्ञानम् अन्यथास्थितम् आकारं गृह्णाति. अदुष्टं तु यथावस्थितम्. न क्वचिद् अपि ज्ञानाकारानुभवः. तन्निबन्धनम् इति. पृथिव्यादिनिबन्धनम् इत्य् अर्थः. पृथिव्यादिसूक्ष्माण्य् एव हि स्थूलारम्भे कारणम्. एतेन कल्पनानिबन्धनत्वं प्रधाननिबन्धनत्वं च निराकरोति. न तावत् कल्पनानिबन्धनत्वम् अबाधितत्वात्. न प्रधाननिबन्धनत्वम् अप्रमाणकत्वात्. दृश्यते तु सूक्ष्मतरादिक्रमेण पृथिव्यादीनाम् एव कार्यद्रव्येष्व् आरम्भकत्वम्{2,175}इति तद् एव द्व्यणुकादिक्रमेणाश्रीयते. शिरश्छेदश् चान्यगोचरो ऽवगतः स्वसम्बन्धितयावगम्यत इत्य् अन्यथा व्यवस्थानम् इति

6.208

तांस् तु पृथिव्याद्यर्थानपास्य न क्वचिद् अर्थान्तरे शब्दात्मके ज्ञानात्मके वाकारकल्पना युक्तेत्य् आह -- तान् इति. कारणम् आह -- ने ति. पृथिव्याद्युपष्टम्भशून्यं न किञ्चिज्ज्ञानम् आत्मानं लभते. किञ्चिद् धि पृथिव्यादिद्रव्यगोचरं, किञ्चिद् धि रूपादिगुणविषयं, किञ्चिद् गवादिसामान्यगोचरम्, अन्यच् चोत्क्षेपणादिकर्मगोचरम् अवगतम् इति

6.209

अपि च यदि सर्वो ऽयं ज्ञानम् अनुभासमान आकारो ज्ञानस्यैवान्ये च पृथिव्यादयो भावाः कल्पिताः, एवन् तर्हि सर्वसंविदाम् एवात्यन्तासन्नर्थ इति केन विशेषेणायं स्वप्नादिभ्रमाणाम् अत्यन्तासन्नर्थ इष्यते येनैवम् उपालभ्येमहि कथम् अत्यन्तासन्न् अर्थः स्वप्नादिविज्ञाने ऽवसीयते इति तद् एतद् आह -- विज्ञानस्ये ति. अत्र स्वप्नादिज्ञान इत्य् अर्थः

6.210

अतः सिद्धं भ्रान्तिज्ञानान्य् अप्य् अर्थम् एवान्यथा स्थितम् अन्यथा कल्पयन्ति, न पुनरात्मानम् अवस्यन्तीत्य् आह -- तस्माद् इति

6.211

यदि तर्हि सर्वसंविदाम् एव बाह्यालम्बनत्वं, किं तर्हि बाधकेन बाध्यते अत आह -- ततश् चे ति. बाधकेन न बाह्यं प्रतिक्षिप्यते, किन् तु बाधके सतीयं वाचोयुक्तिर् भवति यद् अन्यथा सत्य् अप्य् अर्थे ऽयम् आकारो दुष्टकारणजनितया धिया प्रतीयते न त्व् अनर्थिकेयं धीर् इति

6.213

{2,176} एवं तावद् वासनानिबन्धनेषु स्वप्नादिविभ्रमेषु अर्थाकारो दर्शितः. बाधकप्रत्ययार्थश् च व्याख्यातः. एतद् एवेन्द्रियविभ्रमेषु द्विचन्द्रादिविषयेष्व् अतिदिशति -- द्विचन्द्रादाव् अपि त्व् एवम् इति. यत् तूक्तं नैकत्रार्थे लिङ्गानेकत्वं सम्भवतीति. तत्र परिहारम् आह -- तारकादी ति स्याद् अन्तेन. अयम् अभिप्रायः -- तारकादिमताव् अपि स्त्रीत्वादिप्रत्ययो भ्रान्तिर् एव. प्राणिधर्मत्वाल् लिङ्गभेदानाम् अप्राणिष्व् असम्भवाद् भ्रान्त्यैवान्यत्र दृष्टम् अन्यत्रारोप्यते. अतो ऽन्यत्र दृष्टम् एव स्त्रीत्वादि तारकादिमताव् आलम्बनम् इति. कथं पुनस्तारकादिषु स्त्रीत्वादिप्रत्ययो भ्रान्तिर् इत्य् उच्यते. न ह्य् अत्र द्विचन्द्रादिबोधेष्व् इव बाधको दृश्यते. तम् अन्तरेण तु भ्रान्तिवादिनाम् एव भ्रान्तिर् आपाद्येत, अत आह -- कथम् इति. अयम् अभिप्रायः -- सत्यम्. न भ्रमस् तारकादिषु, वास्तवानाम् एव स्त्रीत्वादीनां सम्भवात्. ते हि स्त्रीपुन्नपुंसकलिङ्गेभ्यस् तारका तिष्यो नक्षत्रम् इति शब्देभ्यः प्रतीयन्ते. न च प्रतीयमाना न सन्तीति युक्तं वक्तुम्. यत् तु प्रमाणान्तरान् नावगम्यते, नायं दोषः. शब्दैकप्रमाणकत्वात्. न चैकप्रमाणावगतो ऽर्थः प्रमाणान्तरेणानवसीयमानो ऽसन् भवति. अतो येयं शब्दमात्राद् उपजाता प्रतीतिस् तयैव स्त्रीत्वादयः संविदिता इति पारमार्थिका एवेति. अयम् अपि तु शब्दैकप्रमाणकत्वपक्षो ऽतितुच्छ एव. न खलु पदतद्भागानाम् अगृहीतसम्बन्धानां प्रतिपादकत्वम् अस्ति. न च प्रमाणान्तरावेद्येन वस्तुना सम्बन्धो ग्रहीतुं शक्यः. अतो मन्द एवायम् अपि पक्ष इत्य् अपरितुष्यन् परिहारान्तरम् आह -- दृष्टैर् इति. न तारकादाव् अदृष्टपूर्वं लिङ्गं, दृष्टैर् एव कैश्चिद् रूपैरिङ्गनात्. वक्ष्यमाणान्य् एव दृष्टानि रूपाणि लिङ्गम् इति यावद् इति. किं पुनर् दृष्टं रूपं येनात्मना स्त्रीत्वादीनीष्यन्ते अत आह -- संस्त्यानप्रसवस्थानैर् (इति.) सत्त्वरजस्तमसां गुणानां यथोत्तरम् उपचयः संस्त्यानप्रसवस्थानानि. ते च गुणाः प्राण्यप्राणिसद्भावसाधारणा एव सर्वेषु तद्रूपप्रत्यभिज्ञानात्.{2,177}सुखदुःखमोहादिभेदवन्तो हि सर्वे भावाः आश्रयतया जनकत्वेन च प्राणिनः आश्रयतयाप्राणिनः जनकतया रमणीयादिभावव्यवस्थिता हि विषया अप्रार्थिनो ऽपि सुखयन्ति दुःखयन्ति मोहयन्ति च. सुखादयश् च सत्त्वादिधर्माः,
तद्दर्शनात् त्रैगुण्यं सर्वभावानाम् अवसीयते. तद् यदा सत्त्वोपचयः संस्त्यानाभिधानो ऽवगम्यते तदा पुंस्त्वं प्रतीयते. रजसस् तूपचये प्रसवे गम्यमाने स्त्रीत्वं, तमस उपचये स्थाने नपुंसकत्वम्. सा चोदासीनावस्था भावानां न कस्यचित् कार्यस्य सवित्री स्वरूपावस्थानमात्रं, तच् चैतद्रूपं दृष्टम् एव सर्वभावेषु. प्राणिनो हि पुमांसः सत्त्वोत्कटा दृश्यन्ते. रजोमय्यो नार्यः. तमोमयाः षण्डाः संमुग्धनिरुद्धाखिलचेष्टाः. एवं तिष्यादीनाम् अप्य् आपेक्षिकः सत्त्वादीनाम् उपचयो दर्शयितव्यः. अल्पप्रकाशनक्षत्रान्तरापेक्षया हि पटुप्रकाशः पुमान् इति तिष्यो लक्ष्यते. यदा तु तस्यैव रजस उद्भवो लक्ष्यते तदा स्त्रीत्वेन तारकेति. तमसस् तूपचये नक्षत्रम् इति नपुंसकत्वेन. एवम् एव तटस् तटी तटम् इत्यादिष्व् अपि गुणोपचयापचयात्मा लिङ्गभेदो ऽनुसन्धातव्यः. एवञ् च सर्वत्रैव पारमार्थिकं लिङ्गत्रयम् उपपन्नं भवति. बाधविरहो ऽप्य् अत एवेति सिद्धं नानर्थकास् तारकादिषु लिङ्गप्रत्यया इति. अत्रैव वृद्धानुमतिं दर्शयति -- यथे ति. पतञ्जलिना हि किं पुनर् इदं लिङ्गम् इति पृष्ट्वा बहुधा विकल्प्य प्राण्यप्राणिषु दर्शनाद् अविपर्यया(?चो।च् चो)भयत्र यथोक्तम् एव लिङ्गम् उपवर्णितम् इति

6.214

एवञ् चोपपन्नं लिङ्गत्रयम् अपीत्य् आह -- तेने ति. नन्व् अस्त्व् एवमात्मको भिन्नाधिकरणो लिङ्गभेदः, एकाधिकरणं तु लिङ्गभेदं न मृष्यामहे यस्य हि यत् स्वरूपम् उचितं तेनैव तन्नित्यं व्यपदिश्येत. अत आह -- अपेक्षे ति. तत्तद्भावभेदापेक्षया हि तस्य तस्य गुणस्योपचये लक्ष्यमाणे नैकत्रापि लिङ्गभेदावसायो ऽनुपपन्नः पुत्रादिभाव इवैकस्य पुंस इति.
तत् पुनर् इदम् उक्तप्रकारं लिङ्गस्वरूपं नानुमन्यामहे पारमार्थिकम् अप्राणिषु लिङ्गम् अनुपलभमानाः. प्राण्यवान्तरजातिम् एव तु लिङ्गं सङ्गिरामहे. पश्यामो हि वयं नराश्वमहिषगोवराहादिभेदभिन्नानेकप्राणिगणसाधारणं{2,178}स्त्रीत्वादिभेदभिन्नं विविधम् अवान्तराकारम् अप्राणिम्यो व्यावृत्तं यमानन्दसाध(?ना।न)स्तनवदनादिसन्निवेशविशेषा दर्शयन्ति. न च ते अप्राणिष्व् इति न लिङ्गभेदं प्रतिपद्यामहे. किम् इदानीम् अप्राणिषु लिङ्गावगमो भ्रान्तिर् एव. ननु साप्य् असति बाधकोदये दुर्भणैव. सत्यम्. गौणस् त्व् अप्राणिषु लिङ्गवादः प्रस्तरैककपालयोर् इव यजमानवादो माणवक इव ज्वलनवादः. न ह्य् असौ भ्रान्तिः, अभ्राम्यताम् एव तथावभासात्. कः पुनर् गुणः यतो ऽप्राणिषु गौणो लिङ्गवादः. पैङ्गल्यादयो ह्य् अग्निगुणा माणवके वर्तमाना गुणवादहेतवः. न त्व् इह तथा प्राणिगुणाः केचिद् अप्राणिषु दृश्यन्ते यद्वशेन गुणवादः समाश्रीयते. मैवम्. इहापि गुणावगतेः. उपचयापचयधर्माणौ हि स्त्रीपुमांसौ, अतस् तद्धर्मविवक्षया स्त्रीलिङ्गादिशब्दप्रयोगो ऽप्राणिष्व् अपि यथेहैव प्रकृते वर्णितम्. अपेक्षाभेदतश् चाविरोधः समान एव. अत्यन्तापचयविवक्षया च नपुंसकलिङ्गशब्दप्रयोगः, तद्रूपत्वात् तज्जातेः. स्याद् एतत् -- नाप्राणिषु गौणावगतिर् अतः कथं गौणत्वम् इति. अस्ति वा प्राण्यप्राणिनोः समानाकारा बुद्धिर् आयुष्मताम्. शब्दसल्लापमात्राद् एव हि नो वाक्स्रुगादिषु स्त्रीत्वादिमतिराविर् अस्ति. न तु प्राणिष्व् इव तेष्व् अप्य् अनुस्यूत आकारो दृश्यते. अतः शब्दसंव्यवहारमात्रसिद्ध्यर्थम् अप्राणिषु लिङ्गानुशासनम्. किं पुनर्लिङ्गानां वाचकम्. न तावद् एतद् अत्रोपयुज्यते, तत्सद्भावमात्रस्य प्रकृतौपयोगिकत्वात्. यदि तु प्रयोजनम् अभिधीयते श्रूयताम्. ये तावदप्राणिवाचिनः स्त्रीलिङ्गतया स्मर्यन्ते, तेष्व् अनुशासनकारैर् एवेयं स्त्री अयं पुमान् इदं नपुंसकम् इति गुणवादेनैव स्त्र्यादिशब्दाः प्रयुक्तास् तद्वचनपदान्तरसमभिव्याहारसिद्ध्यर्थम्. ते तु स्वभावतः स्वार्थमात्रम् अभिदधति. गुणवाद एव स्मर्तॄणाम् अत्यन्तं निरूढतया लिङ्गे ऽपि वाचकभ्रान्तिम् एव जनयति. एषा च निर्भागपदेषु स्थितिः वाक्स्रुवादिषु. सभागेषु तु तारकादिशब्देषु
प्रत्ययभागः स्त्रीत्वम् अभिधाय प्रकृत्यर्थे तदसम्भवाद् गौण्या वृत्त्या तत्समभिव्याहारं लभते. गुणवादसमाधानं चोक्तम् एव. ये ऽपि नक्षत्रम् इत्यादिषु प्रत्ययविकारविशेषास् तेष्व् अपीयम् एव स्थितिः. विकाराणां नपुंसकलिङ्गे ऽनुशासनादम्भावादीनाम्, अतो ऽम् (7.1.24) इति यथा. ये प्राणिवाचिनो ऽश्वो ऽश्वेत्य् एवमादयः, तेषां स्त्रीप्रत्ययान्तेषु तावत् स एव प्रत्ययः स्त्रीत्वम् अभिदधाति. स च{2,179}सम्भवत्स्वार्थो मुख्ययैव वृत्त्या प्रकृत्या समभिव्याह्रियते. अश्व इत्यादाव् अपि प्रत्ययविकाराद् एव लिङ्गविशेषावगतिः. प्रातिपदिकवाच्या एव स्त्रीत्वादयः प्रत्ययेन द्योत्यन्ते इति नानुज्ञायते. प्रत्ययोपजनापाययोर् एव लिङ्गावगतेः सदसद्भावदर्शनात्. प्रकृतेश् चान्वयव्यतिरेकनिर्धारितस्वार्थमात्रवचनत्वात्. अतः स्त्रियाम् अभिधेयायां (?धात्वा।टाबा)दयः इत्य् एतद् एव साम्प्रतम्. वार्त्तिककारेण च स्त्रीत्वाद् अन्यत्र दृष्टं स्याद् इति वदता प्राणिषु दृष्टं लिङ्गम् अभिदधतां शब्दानां गौण्यैव वृत्त्याप्राणिवाचिप्रकृतिसमभिव्याहारो ऽभिहित इति वेदितव्यम्. न पुनर् अन्यत्र दृष्टारोपेण भ्रान्तिर् उक्ता. अतो बाधकाभावो ऽपि न परिचोदनीयः. गौणे तद्दर्शनात्. अतस् तारकादिमतौ तथा स्त्रीत्वाद् अन्यत्र दृष्टं स्याद् इत्य् अयम् एव परिहारः साधीयान्. परयोस् तु कथञ्चिच्छब्दपरमतत्वोपन्यासाभ्याम् एवासाधुता प्रकटितेत्य् अवधातव्यम् इति

6.215

यत् पुनर् उक्तम् -- एकस्याम् एव प्रमदातनौ कथं परिव्राजकादीनां कुणपादिप्रत्ययाः सदर्था भविष्यन्तीति. तत् परिहरति -- कुणपादी ति. अस्यार्थः -- नानाकारं वस्तु नानाकारम् एवानुभूयत इति नानुपपन्नम्. यस् तु कश्चिद् एव व्यवस्थया कञ्चिद् आकारं प्रतिपद्यते न सर्वं सर्वः, तत्र सहकारिवासनासदसद्भावो निबन्धनम्. परिव्राजकादीनां हि कस्यचिद् एव काचिद् वासना कुतश्चिद् अभ्यासाद् हृदयम् अनुविष्टोद्भूता सती कञ्चिद् एवाकारम् एकस्याम् एव प्रमदातनौ दर्शयति. परिव्राजको हि देहाद् विविक्तम् आत्मानम् अभ्यस्यंस् तद्वासनावासितान्तःकरणो मृतशरीरवत् कुणप इत्य् एवं कामिनीं चिन्तयति. कामुकस् तु कामाभ्यासाहितवासनासहायो देहात्मनोर् विवेकम् अपश्यन् देह एवाहङ्कृतः कामिनीति. श्वानस् तु जात्यनुबन्धिपिशिताशनाभ्यासातिशयाहितवासनासनाथाः पृथुलनितम्बोर् उस्थलप्रस्तनशालिनीं कबलयितुम् अभिलषन्ति कामिनीम् इति वासनाव्यवस्थानुसारिणी संविद्व्यवस्थैकविषया परिव्राजकादीनाम् इति

6.216

आह -- किम् अपराद्धम् अस्माभिर् वासनानिबन्धनं नीलाद्याकारोपप्लवं विज्ञाने वदद्भिः. भवद्भिर् अपि वासनैवाकारदर्शनहेतुतया वर्णिता. अत आह -{2,180} स्वे ति. अयम् अभिप्रायः -- न वासना (ना)मान्या काचित् समनन्तरप्रत्ययरूपेति भणितम् असकृत्, यस्यैव च प्राचीनप्रत्ययजनितस्य संस्कारस्य तेनैव प्रत्ययेनानुकारः सादृश्यं स एव वासनेति चौरिका मन्यन्ते, स च संस्कारो बह्वाकारे वस्तुन्य् एकस्याकारस्याभ्यस्तपूर्वस्य निर्धारणे कारणं भवति इति युक्तम्. न त्व् अननुभूतम् एवाकारम् असन्तं वासना दर्शयतीति साम्प्रतम्. यथा भवन्तो मन्यन्त इत्य् अस्ति महानावयोर् विशेष इति

6.217

दीर्घादिप्रत्ययो ऽप्य् एकगोचरो ऽपेक्षाभेदाद् एव परिहर्तव्य इत्य् आह -- तथे ति. दीर्घह्रस्वबोधे भिन्नोपाध्यपेक्षा. घटपार्थिवादिभेदे तु कालाद्यपेक्षा एको ऽपि हि कदाचिद् घट इति तम् अर्थम् बुद्ध्यते कदाचित् पार्थिवो ऽयम् इति. भिन्नकालाद्यपेक्षया बोधवैचित्र्योपपत्तिर् इति

6.218

अपि च, इयम् अपूर्वा युक्तिः यत् किलानेकाकारात्मकं भासते, तस्माद् अनाकारम् एव वस्तु ज्ञानाकार एवायम् इति. एवं हि प्रतीतिभेददर्शनाद् अनेकाकारकल्पनैवाश्रयितुम् उचिता. न त्व् अनाकारकल्पनेत्य् आह -- ने ति

6.219

स्याद् एतत्. सन्त्व् एकस्मिन्न् अप्य् अविरुद्धानेकाकाराः, कथं तु विरुद्धानाम् अनेकेषां सम्भवो ऽत आह -- संवित्तेर् इति. इदम् अनेन विरुध्यत इति संवित्साक्षिकं तद् यत्रैव भवतो विरुद्धाभिमानः तत्र संविद्बलाद् अविरोधम् एव वक्ष्याम इत्य् अभिप्रायः. एतच् चान्वारुह्यवचनम् अपेक्ष्य, भेदात् त्व् अविरोधो दर्शित एवेति. भवेद् अप्य् अनेकाकारदर्शनाद् एकस्यानाकारकल्पना यद्य् एकम् एकाकारम् इत्य् अत्र{2,181}युक्तिर् भवेत्. ताम् अन्तरेण त्व् इदम् ईश्वराज्ञातुल्यम् एव भाषितं भवेत्. तच् चायुक्तम् इत्य् अभिप्रायेणाह -- एकाकारम् इति

6.220

संविदेकाधीनता हि वस्तूनां व्यवस्थितिः. अतो यद् एव येनात्मना संविदा व्यवस्थाप्यते तत् तेनैव रूपेणाभ्युपेतव्यम् इत्य् आह -- तथा ही ति. किञ्चैकत्वे ऽपि वस्तुनो नास्माकम् एकान्तवादः येनैवम् उपालभ्येमहि कथम् एकम् अनेकाकारम् इति. तद् अपि ह्य् एकानेकात्मकम् एवानेकान्तवादिनाम् अस्माकम् इत्य् आह -- न चे ति

6.221

अतः सिद्धं देशकालावस्थोपाधिसद्भावनिमित्तैः प्रत्ययैर् विद्यमाना एव वस्त्वाकारा उद्भवाभिभवात्मकाः पृथग् भेदेन गृह्यन्त इत्य् उपसंहरति -- तस्माद् इति. देशादयश् चाकारोद्भवाभिभवद्वारेण प्रत्ययानां निमित्तम् इति

6.222

ये तर्हि युगपद् एव ग्रहीतॄणां घटत्वाद्याकारा निर्भासन्ते तत्र कथम्. न हि त आपेक्षिकाः, स्वाभाविकत्वाभ्युपगमात्. उक्तं च घटत्वपार्थिवद्रव्येति. तत्र कः परिहारः अत आह -- युगपद् इति. यद्य् अप्य् अत्र नौपाधिकत्वान् न चोद्भवाभिभवौ, तथापि नानाकारे वस्तुनि यो यस्य वस्तु(?नि।नः) (?यो) यस्य वस्तुभागस्य शब्दं स्मरति, स तं विकल्प्यामुको ऽयम् इति जानाति नेतर इति व्यवस्थासिद्धिर् इति

6.224

अत्रैव दृष्टान्तम् आह -- नित्यम् इति. रूपादयो हि घटे नित्यं सन्त{2,182}एव, तथापि न सर्वे सर्वैर् अनुभूयन्ते ग्राहकाणां चक्षुर् आदीनां विषयव्यवस्थानाद् इति ॥ 223 ।
एवं दृष्टान्ते दर्शयित्वा दार्ष्टान्तिके योजयति -- एवम् इति

6.225

ननु बहिर् देशम् अर्थं तावदिन्द्रियाणि न प्राप्नुवन्ति अप्राप्यप्रकाशे नैवानवस्था. अतो न बहिस्सतो ऽर्थस्य कथञ्चिद् अवगतिर् उपपद्यते, अत आह -- तस्माद् इति. अयम् अभिप्रायः -- सिद्धं तावत् प्रतीतिबलाद् बाह्यालम्बनं ज्ञानम् इति, स बाह्यो ऽर्थात्मा प्राप्यैवेन्द्रियैः प्रकाश्यत इत्य् उक्तम्. प्राप्यकारिता चोपपादिता यदि कृतं न निर्वहति कामं, तथापि नानालम्बनं ज्ञानं, सविद्विरोधात्. अप्राप्यकारिणाम् एवेन्द्रियाणां कञ्चित् कार्यवशोन्नीयमानम् अतिशयं वक्ष्यामः, यद्बलेनाप्राप्तम् अपि बाह्यम् अर्थं प्रकाशयन्ति, न पुनः स्वांशालम्बनं ज्ञानम् इति कल्पना प्रमाणवतीति

6.226

यद् अप्य् उक्तं वक्तारश् चापि दृश्यन्ते इति, तत् परिहरति -- वदन्ती ति. यद् एतल्लौकिका वदन्ति नीलो ऽयम् अर्थो यतस् तद्रूपा मतिर् उत्पद्यते इति, ते ऽपि न ज्ञानाकारपरिचयपुरस्सरो ऽर्थसम्बोध इति तथा वदन्तीति

6.227

कथं नाम वदन्ति अत आह -- ग्राहकत्वेने ति. विदिते खलु नीले ऽन्येनोत्थापिताशङ्कः स्वयं वा जातविचिकित्सः प्रमाणतथात्वनिश्चयपुरस्सरम् अर्थतथात्वं निश्चिनोति, नेदम् अन्यादृशं हि ज्ञानं नो ऽर्थानां ग्राहकं तद् यथार्थं समर्पयति तथासौ तदुपाधिकत्वात् तस्य. इह च प्रथमं{2,183}तावज्ज्ञानेन नीलं समर्पितम्. तथैव चाद्ययावदनुवर्तमानं ज्ञानम् अस्ति यन्नीलम् एव प्रकाशते. तस्मान् नीलम् एवेदम् इत्य् उपायतया पश्चाद् अपि ज्ञातं ज्ञानं पुरस्सरीकरोतीति नानेन ज्ञानस्य पूर्वग्रहणम् आपादयितुं शक्यत इति

6.228

एवं तावत् परीक्षिता प्रत्यक्षशक्तिः. निर्णीतं च यथा बाह्य एव प्रवर्तितुं शक्तम् इति. एवं चानुमानस्य प्रत्यक्षबाधे सिद्धे लैङ्गिकं तावद् बाह्यासत्त्वम् अप्राप्तं बाह्यार्थवादिभिः. अतश् च तदभावद्वारिकां ज्ञानानुभवकल्पनाम् अतिक्रम्य तैर् बाह्य एव यत् प्रयत्यते तद् युक्तम् इत्य् आह -- लैङ्गिके ति

6.229

स्याद् एतत् -- बहिस्सन्तम् एवार्थं लौकिका बुध्यन्ते, परीक्षकास् तु युक्तितो ऽवस्थापयितुम् अशक्नुवन्तः स्वांशालम्बनत्वं संविदां प्रतिपद्यन्ते अत आह -- यथे ति. अयम् अर्थः -- यथा तस्यार्थस्य लोके बुद्धिर् उत्पद्यते, परीक्षकैर् अपि तथैव वाच्यम्. अयथार्थं ज्ञानं हि वदन्तो न परीक्षका एव भवेयुः. इदं तु परीक्षकाणां तत्त्वं यत् प्रमाणशरणत्वम्, असति तस्मिंस् तत्त्वहानिर् एव तेषाम् इति. लौकिकाश् च नान्तराकारवद् बाह्यं वस्तु बुध्यन्त इति. प्रतीतिम् एवानु(?सा।स्मा)रयति -- न यादृग् इति. अन्तराकारो यादृग् अवगम्यते न तादृशो बाह्यार्थः स ह्य् अयम् इदम् इति पररूपेण निरूप्यत इत्य् उक्तम्. अन्तराकारस्य त्व् अहम् इति निरूपणं भवेद् अस्माकम् इवात्मन इति

6.230

अत्र भाष्यं ननूत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवद् इति यद्य् उच्येतेत्य् एवमादि, तदाक्षिपति -- उत्पद्ये ति. अयम् अभिप्रायः -{2,184}तद् बाह्यापलापवादिना वक्तव्यं यत् तदभावानुगुणम्, इह चोत्पद्यमानाया बुद्धेर् अर्थस्य च ग्रहणम् आचक्षणो नार्थाभावं दर्शयतीति नेदं पूर्वपक्षवादिनो वक्तुम् उचितम् इति. स्याद् एतत्. नेदं पूर्वपक्षानुगुणतयोच्यते, किन् त्व् इदम् अर्थान्तरभूतम् अपरम् एव बुद्धावागतं सिद्धान्तिनो ऽसम्मतम् इत्य् एतावतैवोच्यते सिद्धान्तान्तरम् अस्य दूषयितुम् अत आह -- कथम् इति. पूर्वपक्षानौपयिकम् अर्थान्तरं ब्रुवाणस्य सिद्धान्तान्तरदूषणं निग्रहस्थानम् इति भावः

6.231

एवम् आक्षिप्य समादधाति -- बाह्ये ति. इदम् अनेन ग्रन्थेन बाह्यार्थवादिनं पूर्वपक्षवादी मीमांसकं ब्रूते -- किं भवान् बाह्यार्थग्रहणसमये ज्ञानस्य प्रतिबन्धाभावं नेच्छति येनार्थाकारो ऽयम् इति ब्रवीति. कथं ह्य् अप्रतिबन्धस्याग्रहणं भविष्यति. कथं चानाकारस्य ग्रहणम्. अतो ज्ञानाकारकल्पनैव साधीयसीत्य् अभिप्रायः

6.232

अत्रोत्तरं भाष्यं तन् न. न ह्य् अज्ञाते ऽर्थे कश्चिद् बुद्धिम् उपलभते. ज्ञाते त्व् अनुमानाद् अवगच्छतीत्यादि. तस्याम् अभिप्रायम् आह -- उत्तरम् इति. अस्यार्थः -- विदितपूर्वपक्षवाद्यभिप्रायः सिद्धान्तवादी वदति. सत्यम् उत्पत्तौ बुद्धेर् अप्रतिबन्धः, ग्राहकाभावात् तु तदानीम् अग्रहणं, तदभावश् च तत्कारणस्य लिङ्गस्य ज्ञाततादिपदास्पदस्याभावाद् इति. अन्यथोत्पद्यमानैवेत्यादिभाष्याभिप्रायम् आह -- अन्ये ति. अन्यतर्केषु स्थित्वेदं भाष्यकारेणोच्यते उत्पद्यमानैवेत्यादि. एतद् उक्तं भवति -- बाह्यार्थवाद्येकदेशिमतोपन्यासो ऽयं भाष्यकारेण कृतस् तन्निराकरणार्थम् इति

6.233

एकदेशिमतम् एवोपन्यस्यति -- ते ( ष्व् इति.) तर्कान्तरेष्व् अर्थज्ञानकाल एव ज्ञानम् अवगम्यत इतीष्यते. एवं हि मन्यन्ते स्वप्रकाशम् एव विज्ञानम्{2,185}आत्मानं विषयं च व्यवस्थापयतीति. एतच् चास्माभिः प्राग् एव प्रपञ्चितम् इति. यद्य् एवं किम् अस्य निराकरणे प्रयोजनम्. एवम् अपि द्वैतं सिध्यत्य् एवात आह -- तथे ति. यदि हि समसमयम् उभयम् उपलभ्यत इत्य् आश्रीयते, ततो बुद्धेर् अनाकाराया बोद्धुम् अशक्यत्वाद् एकाकारोपलम्भाच् च एकम् एव साकारं भवेत् सहोपलम्भनियमाच् चाभेदः परोक्तो नापाकर्तुं शक्यते. तत्रार्थनाश एवापद्येत. न ह्य् अभ्युपगममात्रेणार्थः सिध्यतीत्य् एतन् मतनिराकरणं भाष्यकारेणोपदिश्यत इति

6.234

अपरम् अपि -- ननूत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञात इत्य् उच्यते नानुत्पन्नायाम्. अतः पूर्वं बुद्धिर् उत्पद्यते पश्चाद् ज्ञातो ऽर्थ इति भाष्यं, तदाक्षिपति -- नन्व् इती ति. परिचोदना हि नामानिष्टापादनेन भवति. न चेदम् अनिष्टं मीमांसकस्य यद् उत्पन्नायां बुद्धाव् अर्थो ज्ञात इति. तस्माद् अनुपपन्ना परिचोदनेति. पूर्वं बुद्धिर् भवति पश्चाद् ज्ञातो ऽर्थ इति च पौर्वापर्याभिधानं पूर्वोक्तेन युगपदुपलम्भेन विरुध्यते इत्य् आह -- पौर्वापर्ये ति. उत्पद्यमानैवासाव् इत्यादिना भाष्येण युगपद् ज्ञानार्थयोर् उपलम्भो ऽभिहितः. तत् कथम् इदानीं पौर्वापर्यम् अभिधीयते इति

6.235

यदि तूच्यते -- पूर्वम् उत्पद्यमानैव बुद्धिर् ज्ञायते ज्ञापयति चार्थम् इत्य् उक्तम्, इह च बुद्ध्युत्पत्तिसमये ऽर्थो ज्ञायते इत्य् उच्यते. उत्पन्नायां त्व् असौ ज्ञातः सहैव ज्ञानेनातिक्रान्त इति यावत्. क्षणिकत्वेन हि धर्मेणासौ युक्तः कथम् अद्य यावदवस्था(?प्य।स्य)ते. अयं चार्थो ज्ञात इति निष्ठार्थभूतकालाश्रयणेन भाष्यकारेणोक्तः. अतो न कश्चित् पूर्वापरविरोध इति, तथाप्य् उक्तस्यार्थस्य पुनर्वचनम् अनर्थकं भवेत्. एवम् अपि प्रकारान्तरेण स एवार्थज्ञानयोर्{2,186}युगपदुपलम्भो ऽभिधीयते. स चोक्त एव. न चास्य प्रकारान्तरवचनस्य स्वरूपेण कश्चिद् उपयोगः तद् एतद् आह -- क्षणिकत्वेने ति

6.236

एवम् आक्षिप्य समादधाति -- अत्रापी ति. अयम् अर्थः -- यथोत्पद्यमानैवासाव् इत्य् अत्र न पूर्वपक्षिणा स्वसिद्धान्तस्थित्या पूर्वपक्षितम्, एवम् इहापि न बौद्धः स्वसिद्धान्तम् उक्तवान् यदुत्पन्नायां बुद्धाव् अर्थस्य ज्ञातताम् आह. एवं हि परमतम् एवाभ्युपगतं भवेद् इति. केनाभिप्रायेण तर्हीदम् उक्तम् अत आह -- वाक्याद् इति. अयम् अर्थः -- यदा परेण सिद्धान्तिना इदम् उक्तं न पूर्वं बुद्धिर् ज्ञायत इति, तदास्य तद्वाक्यश्राविणो भ्रान्तिर् जाता यद् अयं सिद्धान्ती बुद्धेः पूर्वं ज्ञानं प्रतिषेधति, तद् अस्य मन्ये बुद्ध्युत्पत्तिर् अपि न प्रागनुमता. न हि भवति स्वप्रकाशं सूत्पन्नम् अपि न गृह्यते. तद् एवं परस्य सिद्धान्तिनो वाक्याज् जातविभ्रमः सिद्धान्तिमतम् एवान्यथा बुद्ध्वा ननूत्पन्नायां बुद्धाव् इतीदृशं पृच्छति स्म. श्रुतं मया प्राग् वो मीमांसकानां बुद्ध्युत्पत्तिः सम्मता. तत् किम् इत्य् एवं यन् न प्राग् बुद्धम् इति

6.240

पूर्वपक्षवाद्यभिप्रायम् एव विवृणोति -- सहे त्य् अदर्शनम् अन्तेन. इयं किलास्य बौद्धस्य मृष्टाशा सहैव ज्ञानस्योत्पत्त्युपलम्भौ, उत्पन्नानुपलब्धस्यासम्भावनीयत्वात्. तद् इहैतावद् एव विमतिपदं किं नो बुद्धेर् उत्पत्त्युपलम्भाव् अर्थवित्तेः प्रागूर्ध्वं वा आहोस्वित् सहैवार्थवित्त्येति. एष च मीमांसकः पश्चादर्थवित्तेर् ज्ञानस्यावबोधम् आह. तन् नूनम् एतस्य ज्ञानं पश्चाद् एवोत्पद्यते. कथम् अपरथा प्रकाशस्वभावस्याग्रहणम्. तद् एनम् इतः पक्षाभासाद् व्यावर्तयामीति प्राक् तावदुत्पत्तेर् अपकर्षणं करोति. न हीदं शक्यते वक्तुं{2,187}यदनुत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञातो भवतीति, अतिप्रसङ्गात्. एवं च प्रागुत्पन्नस्य तदैव संवित्तिर् इति सुसाधम् एव. प्राग् च तत्संवित्तौ सिद्धायां ध्रुवम् आपन्नं बाह्याभ्यन्तराभिमतयोस् तत्त्वयोर् विवेकादर्शनम्. अर्थ एव हि प्राग् बुद्धेः साकारे तत्सामर्थ्याद् अनाकारा संवित्तिः. अतो विविक्ताकारता सिध्यति. इतरथा त्व् आकारविवेकस्यानुपलब्धत्वाद् अद्वैतं सिद्धम् एवेति. युगपद्ग्रहणपरिचोदनाप्य् एवम् अभिप्राया शक्या वर्णयितुम् इत्य् आह -- तस्माद् इति

6.241

एतद् एव विवृणोति -- युगपद् इति. ज्ञानेन सह युगपद् गृह्यमाणे ऽप्य् अर्थे नार्थस्याकारो लक्ष्यते. उक्तं हि नाकारविवेको लक्ष्यते इति. अपि चैवं सहोपलम्भनियमो बौद्धस्यानिवारितप्रसरो ज्ञानाद् भिन्नं साकारम् अर्थं निराकरोतीत्य् उक्तम् एवेति. यत एव प्राक् समकालं वा ज्ञानानुभवे ऽर्थनाशो भवति, तस्माद् अर्थसंविद एव प्राग्भाविता भाष्यकारेण सिद्धान्तावसरे यत्नेन साध्यत इत्य् आह -- तस्माद् इति

6.243

एवं तावद् ननूत्पन्नायाम् इत्यादिभाष्याक्षेपपरिहारौ वर्णितौ. अयम् अपरो ऽस्योत्तरग्रन्थः -- सत्यम्. पूर्वं बुद्धिर् उत्पद्यते न पूर्वं ज्ञायते. भवति हि कदाचिद् एतद् यज्ज्ञातो ऽर्थः सन्नज्ञात इत्य् उच्यते इति. तस्य यथाश्रुतगृहीतस्य तावदर्थम् आह -- यस् त्व् इति. यो ऽस्याः परिचोदनायाः सिद्धान्तग्रन्थः स प्राग् एव निरूपितः केवलग्राहकग्रहणप्रतिपादनावसरे. एवं हि तत्रोक्तं -
न पूर्वं ज्ञायते बुद्धिर् इत्य् अत्रैतद् वदिष्यते ।
ग्राहकस्यैव संवित्तिर् लक्ष्यते ग्रहणे क्वचित् ॥
{2,188}इति. तद् इदम् उक्तं भवति हि कदाचिद् एतद् यद् ज्ञातो ऽर्थः सन्नज्ञात इत्य् उच्यत इति. अर्थाकारविविक्तं ज्ञानमात्रम् एव स्मर्यत इति यावत्. उक्तं च न स्मरामीति. एवम् उक्तार्थं भाष्यम् आक्षिपति -- न त्व् एतद् इति सार्धेन. सत्यम्. पूर्वं बुद्धिर् उत्पद्यते न तु पूर्वं ज्ञायते इति प्रतिज्ञायाम् अयं हेतुर् उक्तः यत् किल ज्ञातो ऽप्य् अर्थः कदाचिद् अज्ञातवन् न स्मर्यते, तस्मान् न पूर्वं बुद्धिर् ज्ञायते इति. इदं च बालप्रलपितप्रायम्. किं खल्व् अत्र केन सम्बध्यते यज्ज्ञातो न स्मर्यते तत्र पूर्वं बुद्धिर् न ज्ञायत इति, तस्मान् न तावद् एतस्यां प्रतिज्ञायां साक्षात् साधनम् इति

6.244

तत् किं हेयम् एवेदं भाष्यं, नेत्य् आह -- अत इति. सत्यम्. नेदम् अस्यां प्रतिज्ञायां साक्षात् साधनं, किन् त्व् अनेन ग्रन्थेन फलद्वारेण प्रतिज्ञानिराकरणम् उक्तम्. पूर्वपक्षवादिनाप्य् अत्र ज्ञानस्य पूर्वोपलब्ध्या बुद्ध्याकारो वाञ्छितः. तद् अनेन निराक्रियते. यदि बुद्धिः साकारा भवेत् सा तर्हि तथैव स्मर्येत. न चैवं केषुचिद् अवसरेषु, केवलग्राहकस्मरणात्. अतः किं मुधा मुग्धैः प्रागुपलब्धौ प्रसय्स्यते. एवम् अपि हि धीरनाकारैव यद् असाव् आकारवियुक्ता स्मर्यते न पूर्वं ज्ञायत इति. किम् उक्तं भवति. नानेन प्रकारेण सिसाधयिषितं बुद्धेः साकारत्वं सिध्यति, अनाकारस्मरणात् कदाचिद् इति

6.245

अत्रापरं भाष्यम् अपि च कामम् एक(रूप)त्वे बुद्धेर् एवाभावो न त्व् अर्थस्य प्रत्यक्षयेति. तद् अयुक्तम्. कथं हि द्वैतसिद्धान्ती ज्ञानापलापम् आह. एवम् अपि हि न तस्य पक्षः सिध्यति. न चासति ज्ञाने निष्प्रमाणिका अर्थसिद्धिर् अवसातुं शक्यते. अतो व्याख्येयम् एतद् अत आह -- कामम् इति. नात्र बुद्ध्यभावे तात्पर्यं, किन् तु नासत्य् अर्थे बुद्धिः सिध्यतीत्य् एवं परम् इदम्. वरम् एकरूपत्वे बुद्धिर् अपह्नुता यद् असौ प्रत्यक्षार्थसामर्थ्यसमधिगम्या. यदधीना बुद्धिर् न तस्यैव प्रत्यक्षसिद्धस्यार्थस्य तामादायाभाववर्णनम् इति. अपरम् अपि न चार्थव्यपदेशम् अन्तरेण बुद्धेः रूपोपलम्भनम्. तस्मान् नाव्यपदेश्या बुद्धिः. अव्यपदेश्यं च नः प्रत्यक्षं तस्माद् अप्रत्यक्षा बुद्धिर् इति भाष्यम्. तद् व्याचष्टे -- न चे ति. बुद्धयो हि नार्थरूपाद् विना निरूप्यन्ते. न हि जातु नीलरूपाद् इयं नामेति विविच्य बुद्धिर् उपलभ्यते. अर्थाकारेणैव तु नीलादिना व्यपदिश्यते नीलज्ञानं पीतज्ञानम् इति. एवञ् च नित्यपररूपनिरूप्या बुद्धिः कथं प्रत्यक्षप्रमेयं भविष्यतीति. न हि मृगजलज्ञाने ऊषरं जलत्वेन ज्ञायमानं प्रत्यक्षप्रमेयम् इष्यते, भ्रान्तिविषयत्वात्. तस्याश् चाप्रत्यक्षत्वात्. अर्थस् तु नित्यं स्वरूपेण संवेद्यमानः प्रत्यक्ष इति युक्तम् अव्यपदेश्यं च नः प्रत्यक्षम् इति पररूपाव्यपदेश्यम् इति भाष्यार्थ इति

6.247

एवं तावत् सतापि पररूपेण निरूप्यमाणं न प्रत्यक्षम् इत्य् उक्तम्. त्वन्मते चायम् अपरो दोषः, यदसद्ग्राह्यानुसारेणैव तद् ज्ञानं संवेद्यते, स्वभावस्वच्छत्वात् ज्ञानस्य, नीलाद्याकारेण ग्राह्यता वासनोपप्लवात् कल्पितैव यतस् तद् एतद् आह -- असद् इत्य् उपप्लवाद् अन्तेन. अतो न कथञ्चिज्ज्ञानम् एव प्रत्यक्षप्रमेयं पारमार्थिकं वक्तुं शक्यत इत्य् आह -- तेने ति

6.248

अत्रापरम् अपि च, नियतनिमित्तस् तन्तुष्व् एवोपादीयमानेषु पटप्रत्ययः इतरथा तन्तूपादाने ऽपि कदाचिद् घटबुद्धिर् अविकलेन्द्रियस्य स्याद् इति भाष्यं, तदाक्षिपति -- निमित्ते ति. यद् एतन् निमित्तानां तन्त्वादीनां नियतत्वं कार्येषु{2,190}किञ्चिद् एव निमित्तं किञ्चिद् एव कार्यम् उपजनयति नापरम् इति, तदुभयोर् अपि ज्ञानबाह्यार्थवादिनोः समानम्, उभयोर् अपि निजशक्त्यनुसारित्वात् कार्यसिद्धेः. निजयैव हि शक्त्या किञ्चिद् विज्ञानं तन्त्वाद्याकारं किञ्चिद् एव तु पटाद्याकारं ज्ञानं जनयति तन्तव इव पटम्. न चात्रान्यतरः शक्यो ऽनुयोक्तुम् इति भावः

6.250

तुल्यताम् एवानुयोगस्य विवृणोति -- तन्त्वर्थैर् इति द्वयेन. निगदव्याख्यानौ ग्रन्थाव् इति

6.251

यदि तु सामर्थ्यनियमम् आश्रित्यार्थानां तन्त्वादीनां कार्यव्यवस्थोच्यत इति, तज्ज्ञानानाम् अपि ज्ञानान्तरारम्भे न दण्डवारितम् इत्य् आह -- अर्थे ति

6.252

अतो दोषपरिहारसाम्ये नान्यतरः शक्यो ऽनुयोक्तुम् इत्य् आह -- तस्माद् इति

6.253

अत्र परिहारम् आह -- देशे ति. अयम् अभिप्रायः -- यद् अपि यस्य कारणं तद् अपि कदाचिद् एव कार्यम् आरभमाणं दृष्टं न सर्वदा बीजम् इवाङ्कुरम्. न हि तत् कुसूलाधिकरणम् अङ्कुरम् आरभते, किन् तु देशविशेषं क्षेत्रादिं कालविशेषं च ग्रीष्मादिं निमित्तविशेषम् उदकादिम् आसाद्य कदाचिद् एव देशादिव्यङ्ग्यत्वात्{2,191}कारणशक्तीनाम्. नैतद् ज्ञानवादिनां सम्भवतीति वक्ष्यते. अतः कस्यहेतोर् उत्पन्नमृत्पिण्डविज्ञानस्यापि कदाचिद् एव घटप्रत्ययो न सर्वदा. कस्माच् चोत्पन्नव्रीहिबीजपरिचयस्यापि ज्ञातुर् भाव्यङ्कुराकारपरिचयः. न हि तत्र दण्डोदकादि किञ्चिद् अस्ति कारणशक्तीनां व्यञ्जकं, यदपेक्षया कारणानि विलम्बन्ते. स्यान् मतं - मा भूवन् बाह्या देशादयः. तज्ज्ञानान्य् एव च कारणानाम् अनुग्राहकाणि भविष्यन्तीति. तन् न, क्षणिकत्वेनानुग्राह्यानुग्राहकयोः साहित्यासम्भवाद् इति

6.254

न केवलं कारणशक्तीनां व्यञ्जकान्य् अर्थवादिनां सन्ति, शक्तयो ऽपि कार्यार्थापत्तिप्रमाणिकाः प्रतिपटादिकार्यं तन्त्वादीनां व्यवस्थिताः प्रसिद्धा इत्य् आह -- शक्तयो ऽपी ति

6.255

भवतस् तु बौद्धस्य (?ना।न वि)ज्ञानाद् भिन्ना अभिन्ना वा पारमार्थिकी शक्तिर् निरूप्यते येन कार्यारम्भव्यवस्था घटत इत्य् आह -- भवत इति. संवृतिसद्भावम् उत्सृज्येति. संवृत्या यः सद्भावस् तम् उत्सृज्य न पारमार्थिकी शक्तिर् अस्ति. न च संवृतिसत्तया व्यवस्थायाः सिद्धिर् इत्य् उक्तं निरालम्बनवाद इति

6.257

अपि च शक्तिर् इति वासनाम् एव भवन्तो गायन्ति. सा च पूर्वानुभवयोनिर् न तत्सदृशज्ञानान्तरोपजननाद् अन्यत्र समर्थेत्य् अभिप्रायेणाह -- वासने ति. ननु वासनानुसारेणैव निमित्तानां तन्त्यादीनां कार्यविशेषनियतत्वं भविष्यति शब्दवासनानाम् इवार्थबुद्धौ भवन्मते, अत आह -- निमित्ते त्य् एतद् अन्तेन. वासनाया इति हेतौ पञ्चमी. यद् एतद् वासनाहेतुकं निमित्तनियतत्वं{2,192}तद् वासनाया एवाभावाद् अयुक्तम्. तदभावश् च क्षणिकत्वेनासाहित्याद् वास्यवासकयोर् अनाश्रित(?त्वा।वा)सनाभावा(द् आ)श्रयानुपपत्तिश् चोक्ता. दुर्लभम् इति वक्ष्यमाणेन सम्बन्ध इति. अपि चेयं वासना न परस्य कस्यचिद् अनुग्रहे वर्तते. अस्थिरानुग्राह्यानुग्राहकत्वान् उपपत्तेः. अतः स्वतन्त्रैव कार्यम् आरभमाणा सर्वान् प्रत्यारभेताविशेषाद् इत्य् अभिप्रायेणाह -- अपारार्थ्याद् इति. एवं तावत् शक्त्यभावाद् एव न तत्कृता कार्यव्यवस्थेत्य् उक्तं, ये ऽपि चास्माकं देशकालादयः कारणशक्तीनां व्यञ्जकत्वेनाभिमताः, ते ऽपि तन्नियामका न सन्तीत्य् आह -- देशे ति

6.259

सर्वं चेदम् अभिप्रेत्यापिचेत्यादि भाष्यकारेणाभिहितम् इत्य् आह -- मत्वैतद् इति. एवं चेत् परिहृतं पर्यनुयोगतुल्यत्वम् इत्य् उपसंहरति -- तस्माद् इति. एवं चानुमानदूषणात् प्रत्यक्षस्य च स्वस्मिन् वर्तितुम् अशक्तेर् न तावद् भवद् अभिमताभ्याम् आद्याभ्यां प्रमाणाभ्यां बाह्यशून्यता सिध्यतीत्य् आह -- एवम् इति

6.260

आगमस् त्व् अनुष्ठाननिष्ठो नैवञ्जातीयके प्रमाणम् इत्य् आह -- आगमस्ये ति. न बाह्यसद्भावे अभावे चेत्य् अर्थः. उपमानं तु सिद्धवस्तुनः सादृश्यविषयं न वस्तुसदसद्भावयोर् व्याप्रियते, न च किञ्चिच्छून्यं नाम ज्ञानातिरेकि सिद्धं यच्छून्यतया ज्ञानम् उपमीयते गृहेणेव प्रोषितचैत्रेण शून्यं{2,193}मन्दिरान्तरम् इत्य् अभिप्रायेणाह -- नोपमे ति. अर्थापत्त्या तु तत्तद्भावभेददर्शनानुपपत्तिप्रभवया पृथिव्यादयो भावा व्यवस्थाप्यन्त एवेति सा परिपन्थिन्य् एव शून्यतायाम् इत्य् आह -- अर्थापत्तिर् इति

6.262

एवं चापन्नं षष्ठप्रमाणगोचरत्वं शून्यताया इत्य् आह -- तस्माद् इति. एवं तावन् न प्रमाणानुसारेण शून्यता सिध्यतीत्य् उक्तम्. इदानीं यत् तद् उक्तं तत्रास्तां यः प्रमेयतः इति, तदुपन्यस्य दूषयति -- एवम् इत्य् उपेयम् अन्तेन. अयम् अर्थः -- न तावज्ज्ञानालम्बनाः परमाणवः अतीन्द्रियत्वात्. तत्सद्भावे प्रमाणाभावाच् च. न तत्समूहः, तदतिरिक्तस्यानिरूपणात्. अवयविनश् च वृत्तिविकल्पातिरिक्तादिपरिचोदनादूरीकृतनिरूपणत्वात्. अतो बाह्यस्याण्वादेः ग्राह्यस्यासम्भवाद् एव पारिशेष्यसिद्धम् आत्मालम्बनत्वं सर्वसंविदाम् इति प्रमेयाश्रया च शून्यता यैर् उच्यते, तैर् अपि वादिभिर् यथोक्ताद् आन्तरस्य ग्राह्यस्यासम्भवात् स्वात्मनि वृत्तिविरोधाद् इदम् इति च पररूपनिरूपणाद् अवश्यम् एवान्यस्य ज्ञानाद् ग्राह्यत्वं बलाद् उपेयम् अनालम्बनज्ञानासम्भवाद् इति. (?द्वयोर् अपि समानो निराकरणमार्ग इत्य् आह) स्वांशवदण्वादयो ऽपि ग्राह्य न सम्भवन्तीत्य् उक्तम् अत आह -- ग्राह्या इति. अयम् अभिप्रायः -- यत् तावदणूनाम् अग्राह्यत्वं तद् अस्माकम् अपि सिद्धम् एवेति किं तन्निराकरणेन. समूहो ऽपि वनादितुल्यो ऽनभ्युपगमनिराकृत एवेति. यस् तु समूहापरनाम् आवयवी स यथा सत्यः, तथा वनोपन्यासावसरे प्रतिपादयिष्याम इत्य् आह -- सत्य इति

6.263

{2,194} एवं तावद् बाह्यसिद्धिर् उक्ता. इदानीं यत् तन्माध्यमिकमते बाह्यज्ञेयाभावाद् ज्ञे(?या।यज्ञा)नाभावो ऽपीत्य् उक्तं, तच् च बाह्यसिद्धिप्रतिपादनेन परिहृतम् इत्य् आह -- इती ति. बाह्याभावकृता मतौ संवृतिकल्पना नास्तीत्य् अर्थः. य एव तु ज्ञानज्ञेयात्मकस्योभयस्य तत्त्वं परमार्थतो जानन्ति मीमांसकाः, तेषाम् एव चेदं धर्मविचारणे धुरि समर्थम् इत्य् आह -- उभये ति. अयम् अभिप्रायः -- धर्मो रथो ऽस्यावयवो युगापरपर्यायो धूर्विचारः. तेन हि धर्मरथो घटितः, तद्वहनाय चेदं ज्ञानज्ञेयात्मकम् उभयं तत्त्वतो ज्ञातं क्षमं भवति. संवृतिकल्पितं तु न धुरं वोढुं क्षमम् इति धर्मरथो ऽवसीदेत्. न ह्य् असमर्थाभ्यां धुर्याभ्यां धूरुह्यते. न हि परमार्थतो ऽसतोः संवित्संवेद्ययोः सामर्थ्यम् अस्ति. अतो यद् उक्तं यदा संवृतिसत्येनेति, दूषितं च संवृतेर् न तु सत्यत्वम् इति तद् एवात्रोपसंहृतम् इत्य् अनुसन्धातव्यम् इति

मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc