भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसाश्लोकवार्त्तिक · अध्याय 5

5.1

इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
प्रत्यक्षसूत्रं समाप्तम्
शुभं भूयात्
पर्त् इइ
05औत्पत्तिकसूत्र
{2,1} अत्र भाष्यकारेण प्रत्यक्षाद्यनिमित्तत्वे प्रतिपादिते सदुप्लम्भकप्रमाणप्रत्यस्तम(?य।याद्
अभा)वप्रमेयतां धर्मस्याशङ्क्य तन्निराकरणपरतयौत्पत्तिकसूत्रम् अवतारितम् अभावो ऽपि नास्ति यतः औत्पत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् इति. तच् च चोदनैवेत्य् अवधारणं चाक्षिपति -- प्रत्यक्षादाव् इति. अयम् अर्थः -- भावगोचरनिखिलप्रमाणाभावे ह्य् अभावः प्रमाणम्. न चेह तथा, लोकप्रसिद्धेर् एवाभावात्. न च सा न प्रमाणं, ब्राह्मणादिवर्णविवेकस्य तदधीनत्वात्. इतरथा तदभावात्. न खलु सुनिपुणम् अपि विलोकयमाना वयं क्षत्रियादिविलक्षणं ब्राह्मणशब्दवाच्यं पिण्डानुगतम् अपरं रूपम् अपरोक्षम् ईक्षामहे. तदवश्यं वर्णविवेकाय लोकप्रसिद्धिः स्वतन्त्रा प्रमाणम् आस्थेया. अपि च सकलशब्दार्थावधारणम् एव तदायत्तं, ताम् अन्तरेण प्रमाणान्तरासम्भवात्. अतो निषिद्धे ऽपि प्रत्यक्षादौ नाभावश(ङ्का). न च चोदनैवेत्य् अवधारणोपपत्तिर् इति

5.3

{2,2} प्रसिद्धिम् एव दर्शयति -- धार्मिके ति ह्य् अन्तेन. अनुग्रहकारिणि हि लौकिका धार्मिकशब्दं प्रयुञ्जाना दृश्यन्ते. पीडाकारिणि चाधा(र्मिकशब्दम्). यश् च धर्मम् आचरति स धार्मिकः. तद् यद्य् अनुग्रहो धर्मः तद् एवम् उपपद्यते नान्यथेति. एतद् एव भगवतो व्यासस्याप्य् अभिमतम् इति दर्शयति -- तथे ति प्रयोजनम् अन्तेन. निर्(विषय)प्रयोगासम्भवात् तद्विषयम् इदमा प्रतिनिर्दिशति. तद् अयम् अर्थः -- विशिष्टविषये पुण्यपापपदद्वये आचण्डालं मनुष्याणां विद्यमाने तेनैव धर्माधर्मप्रमितिसिद्धेर् अनर्थकं शास्त्रम् इति. नन्व् एवं पुण्यपापप्रमाणकौ धर्माधर्माव् उक्तौ, न लोकप्रमाण(कौ). नैवम्. तत्प्रयोगस्यैव लोकायत्तत्वात्. तस्माद् अयम् अनुपालम्भ इति

5.4

एवम् आक्षिप्य समादधाति -- निर्मूले त् ईत्य् अन्तेन. अयम् अर्थः -- प्रसिद्धिर् हि प्रज्ञानम्. तच् च (ज्ञा)नद्रढिमा. न च निर्मूलं ज्ञानम् आत्मानं लभते प्राग् एव ज्ञानद्रढिमा. तद् एवं निर्मूलायाः प्रसिद्धेर् अभावात् कुतः सा प्रवृत्तेति प्रमाणैर् अन्विष्यत इति. ननु च कार्यद्रढिम्ना मूलं कल्पयिष्यते, स्मृतिद्रढिम्नेव श्रुतिर् अत आह -- प्रत्यक्षादी ति. सत्यम्. समूला प्रसिद्धिः प्रत्यक्षादिमूलतया प्रत्यक्षसूत्रे निवारिता चोदना (मूलं) भविष्यत्य् एवेति

5.6

ननु सन्निकृष्टार्थगोचरम् एव सर्वं प्रमाणम्. अतः प्रसिद्धेः प्रमाणान्तरागोचरार्थत्वं गुणः न दोषाय, अत आह -- न चे ति. न च प्रत्यक्षादीनि परित्यज्य लोको नाम प्रमाणगणे प्रमाणम् उपसंख्यायते. वर्णविवेकसम्बन्धावधारणयोस् तु प्रत्यक्षादिप्रमाणत्वं वनसम्बन्धपरिहारयोर् अभिधास्याम इति.{2,3}अपि च भवेद् अपि प्रसिद्धिः प्रमाणं, यदि व्यवस्थितैव प्रसिद्धिः स्यात्. सा त्व् अव्यवस्थिता. तथा हि -- संसारमोचका नाम नास्तिका बाह्यहिंसाम् एव धर्मम् आहुः. अन्ये तु तपः (?प्र।प्रा)जापत्यादि पीडात्मकत्वात् परपीडावत् अधर्म.......स्तु विधिनिषेधप्रमाणकौ तद्विपरीतौ धर्माधर्मौ सङ्गिरन्ते(?.) तद् एवं म्लेच्छार्याणां परस्परविगानान् न लोकप्रसिद्धत्वं धर्माधर्मयोर् उपपद्यत इत्य् आह -- संसारे ति सार्धेन

5.7

नन्व् अनुमानाभाससङ्करेण प्रमाणम् अप्रमाणीभवति. न हि प्रत्यक्षाभाससङ्करात् प्रत्यक्षम् अप्रमाणं भवति. अथ तत्र कारणदोषसदसद्भावनिबन्धनः प्रमाणतदाभासविवेकः, सो ऽत्राप्य् अविशिष्टः. अत्रापि स्मृतिकारैर् विवेकोपायो दर्शित एव. आचारश् चैव साधूनाम् इत्यादिना. साधवश् चार्याः. स्वाभाविककृष्णमृगचरणोपलक्षितार्यावर्तनिवासिनश् चार्यशब्दवाच्याः. अतस् तदाचारो धर्मो ऽन्यो ऽधर्म इति विवेको भविष्यति, अत आह -- न चे ति. शास्त्रसदसद्भावनिबन्धनो ह्य् आर्यम्लेच्छविभागः तद(नाश्रयेण) त्व् आर्यम्लेच्छविभागो दुर्भणः. अत एव शास्त्रस्था वा तन्निमित्तत्वात् (1.3.9) इति वक्ष्यतीति. अस्तु तर्हि शास्त्रमूलार्थप्रसिद्धिः प्रमाणम् अत आह तन्मूले ति. न स्वतन्त्रायाः प्रसिद्धेर् एव प्रामाण्यं सिध्यतीत्य् अभिप्रायः

5.8

अतः सकलभावप्रमाणनिराकरणात् शङ्किताभावनिराकरणेन चोदनैव धर्माधर्मयोः प्रमाणम् इत्य् उपपन्नम् इत्य् आह -- तस्माद् इति. पश्यताम् इति. षष्ठी चानादरे (2.3.38) इत्यनादरे षष्ठीति

5.9

{2,4} अत्र भाष्यकारेण औपत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तम् इत्य् उक्त्वा (कथम्) इति प्रश्नानन्तरम् उपदेशो हि भवतीति सौत्रम् उपदेशपदं व्याख्यातं, तत्र न ज्ञायते केनास्य सम्बन्ध इति योग्यपदान्वयं दर्शयति -- उपदेश इति. तस्य धर्मस्योपदेशो ज्ञानं प्रमाणम् इति. ननूपदेशो ग्रन्थसन्दर्भात्मा, ज्ञानं चार्थावग्रहः. कथम् अनयोः सामानाधिकरण्यम् अत आह -- ज्ञायत इति. भावसाधनो हि ज्ञानशब्दो नोपदेशशब्देन सामानाधिकरण्यं लभते. अयं तु ज्ञायते ऽनेनेति करणसाधन इति युक्तं सामानाधिकरण्यम् इति

5.10

कथं पुनर् उपदेशो धर्मे प्रमाणम् अत आह -- औत्पत्तिके ति. बाधकारणदोषाधीनं ह्य् अप्रामाण्यम्. तत्र सम्बन्धौत्पत्तिकत्वप्रतिपादनेन तद्द्वारा पुरुषानुप्रवेशाभावात्, पुरुषाश्रयत्वाच् च शब्दे दोषाणां कारणदोषनिवारणं तावत् कृतम्. तन्निराकरणेन सहाप्रामाण्यम् अनपोदितम् इत्य् अव्यतिरेकपदप्रयोजनम् आह -- अबाध इति. अव्यतिरेकपदेनाबाधः प्रतिपाद्यते न हि देशकालयोर् उभयोर् अपि चोदनाजनितं ज्ञानं विपर्येतीति. तद् एवं बाधकारणदोषनिराकरणे कृते ऽनपोदितम् औत्सर्गिकं प्रामाण्यम् इति तत् प्रमाणम् इत्य् अनेनोक्तम् इति दर्शयति -- स्वत इति

5.11

अत्र चार्थे ऽनुपलब्ध इत्य् उच्यते. तद् अयुक्तम्. उपलब्धार्थविषयम् अपि प्रमाणं भवत्य् एव. अनुभूतिर् हि प्रमाणं प्रत्युत्पन्नेन्द्रियलिङ्गादिजनिता च संविदनुभूतिः. अत एवोन्मीलि(ताक्ष)स्यैकभावगोचराणां धारावाहिकसंविदां प्रामाण्यम् उपपन्नं भवति. अन्यथा तन् न स्यात्. न हि तत्रानवगतं किञ्चिद् अनुभूयते. देशकालान्तरसम्बन्धो ऽनुभूयत इति चेद्, न. एकदेशस्थे ऽपि भावात्.{2,5}कालस् तु परोक्षः. न च परोक्षापरोक्षसम्बन्धो ऽपरोक्षो भवति, तरुमरुत्संयोगवत्. अतो (ऽवगतार्थम्) अनधिकार्थम् अपि ग्रहणं इति वाच्यम्. न चैवं स्मृतित्वापातः. स्मृतिर् हि पूर्वानुभवप्रभावितभावनावशलब्धसिद्धिर् नाधिकम् अपेक्षते (?ग्रहण + त्व) नेन्द्रियसापेक्षम् इत्य् उक्तम्. अत एव गृहीतम् अपि पुनर्गृह्यमाणं दृश्यत इति लौकिका व्यपदिशन्ति, न तु स्मर्यत इति. अतो न विद्मः किमर्थे ऽनुपलब्ध इत्य् अनेन निरस्यत इति (अत आह -) सर्वस्ये ति. अयम् अर्थः -- अनुपलब्धार्थविषयम् एव सर्वं प्रमाणम्. अन्यथा स्मृतित्वापातात्. न हि ग्रहणस्मरणयोर् गृहीतागृहीतगोचरयोर् गृहीतागृहीतगोचरगतो विशेष उपलभ्यते. यत् तु कारणभेदाद् भेद इत्य् उक्तम् सत्यम्. स्वरूपभेदौपयिकः कारणभेदः. स्वरूपं तु गृहीतागृहीतविषयत्वाद् एव भिन्नम्. अनुभूतिर् ग्रहणम् इति चेद्, यद्य् अपि सो ऽनुभूतिः अनुमानादिषु स्मृतित्वप्रसङ्गः. अतो ऽअवश्यं गृहीतागृहीतागोचरत्वम् एव ग्रहणस्मरणयोर् भेदः. किम् इदानीं धारावाहिकसंविदो न प्रमाणम्. न हि का .......क्तम्. अत्रोच्यते. तत्राप्य् उत्तरोत्तरकालाकलितभावप्रत्याकलनाद् उपपन्नम् एवाधिकगन्तृतया प्रामाण्यम्. न च वैशेषिकादिवत् परोक्षं कालम् आचक्ष्महे. प्रत्यक्षम् एव हि .....वर्तमानकालसम्बन्धान् भावानुपलभामहे. कथम् अरूपं प्रत्यक्षम् इति चेत्. आकाशवद् भविष्यति. न हि रूपि प्रत्यक्षम् इति नः प्रत्यक्षलक्षणम् अपि तर्हि संविद् एव परोक्षापरोक्षनिर्भासोदीयमानेदं प्रत्यक्षम् इदम् अप्रत्यक्षम् इति विभजते. तद् एवं विस्फारिताक्षस्य व्यक्तानुपलक्षितोत्तरोत्तरसूक्ष्मक्षणभेदभिन्नैकभाववि....कापरोक्षनिर्भासावभासोदयात् उपपन्ना प्रत्यक्षता प्रमाणता च. अतः प्रमाणान्तरानुपलब्धस्वगोचरप्रत्याकलनाद् उपपन्नम् उपदेशप्रामाण्यम् इति सूक्तम्
अर्थे ऽनुपलब्ध इति. अत्र भाष्यम् उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् इति. तत्र चोदना विधिपदपर्यायः शब्दविशेषो भाष्यकारस्याभिमतः इत्य् आह -- चोदने ति. एतद् उक्तं भवति -- विधायकशब्द उपदेश इति

5.13

अत्र चोदयति -- वाक्यान्तर इति द्वयेन. अयम् अर्थः -- यद् इदं शब्दविशेषस्य विधेर् धर्मे प्रमाणत्वम् आश्रितम्, अनेन वाक्यान्तरम् अपि हि{2,6}वर्तमानोपदेशकं धर्मप्रमितौ प्रमाणम् एव. श्रेयस् साधनं हि धर्मः. स च श्रेयसः स्वर्गादेः साधनेन यागादिना साध्यसाधनसम्बन्धः सर्वाख्यातेषु सम्भवति. स्वर्गकामो यजेतेत्य् अतो ऽपि हि यागेन स्वर्गः सिध्यतीति गम्यत एव. यथा लोके ओदनं पचतीति पाकौदनयोः साध्यसाधनसम्बन्धबुद्धिः. स्याद् एतत् -- आख्यातम् अन्तरेण साध्यसाधनसम्बन्धो न सिद्ध्येत्, तदर्थो विधिर् इति. तन् न. अनाख्यातवाक्यप्रयोगासम्भवात्. प्रयोजनाय हि वाक्यम् उच्चार्यते. निराकाङ्क्षं च वचः प्रयोजनक्षमम् आकाङ्क्षानिवर्तनं चाख्यातादृते न सम्भवति. इतरथा विधेर् अप्य् असम्भवात्. स्तुत्यापि ह्य् आख्यातम् एव खादिरादिवाक्येषु विधायकं परिकल्प्यते. अथोच्येत -- अनुष्ठितो यागादिर् धर्मः, न चानुष्ठानं (प्रव)र्तकादृते सम्भवति. न च विधिम् अन्तरेणान्यः प्रवर्तयतीति. तन् न. इच्छानिबन्धनत्वात् प्रवृत्तेः. अनिष्टेषु विधिशतेनाप्य् अप्रवृत्तेः. अतो ऽनेनेदं सिध्यतीति संविदि वोपायार्थी स तत्र प्रवर्तत इति. न चाधर्मवर्जनार्थो विधिः. प्रतिषेधाद् एव नञस् तत्सिद्धेः. रागादिप्राप्तकर्तव्यतानुवादेन नञ् एव निषेधाधिकारे निवर्तकः. एषा हि तत्र वचनव्यक्तिः यद्धन्यात् तन् नेति. अतो ऽनर्थको विधिप्रामाण्यप्रतिपादनप्रयासः. अपौरुषेयः शब्दः धर्मे प्रमाणम् इत्य् एतावद् एव वचनीयम् इति

5.14

परिहरति -- विधाव् इति. अयम् अभिप्रायः -- सत्यम् इच्छातः प्रवृत्तिः. इच्छैव तु प्रेक्षावतां पुरुषार्थसाधनविषया. न च विधिना विना पुरुषार्थसाधनत्वं यागादीनां शक्यते ऽवगन्तुम्. अत एवौदुम्बरादीनां सत्य् अपि फलपदसम्बन्धे विधिविरहात् फलार्थत्वं नेत्य् औदुम्बराधिकरणे वक्ष्यते. ननु लौकिकपाकौदनादिवत् साध्यसाधनसम्बन्धसिद्धिर् उक्ता.{2,7}सत्यम् उक्ता. अयुक्ता सा. लोके प्रमाणान्तरावगतेः सिध्यत्य् अपि. न तु वेदे. प्रमाणान्तराभावात्. ननु स्वर्गकामपदसमभिव्याहारः प्रमाणं, न. तस्य श्रुत्या बाधात्. इह हि यजत इति साध्याकाङ्क्षिणी भावनावगता सती समानपदोपादानश्रुत्युपनीतयो ...........र्धात्वर्थसम्बन्धनिराकाङ्क्षा सती न व्यवहितकर्तृविशेषणत्वोपयुक्तस्वर्गादिभाव्यसम्बन्धम् अनुभवति. सन्निकृष्टालाभे हि विप्रक्र्ष्टो ऽपि वैदिको भवति न सन्निकृष्ट, ..........च्यते. लभ्यते चेह धात्वर्थः सन्निकृष्ट इति न विप्रकृष्टफलपदसम्बन्धो युक्त इति

5.15

कृतिविधौ तर्हि कथं पुरुषार्थसाध्यसिद्धिर् अत आह -- विधाव् इति. अयम् अभिप्रायः -- विधिर् हि चेतनप्रवर्तनात्मकार्थे फले व्यापारे शक्यते पुरुषं प्रवर्तयितुम्. अतः समानप्रत्ययोपात्तविध्यवरुद्धा भावना विधेः प्रवर्तनाशक्तिर् मा व्याघानीति सन्निहितम् अप्य् अपुरुषार्थत्वादय............र्वम् अतिक्रम्य व्यवहितेनापि पुरुषार्थेन स्वर्गादिना साध्येन सम्बध्यते. धात्वर्थस् तु साध्यत्वात् प्रच्यावितो भावनायाम् एव साधनाकाङ्क्षिण्यां साधनतया निव........तमावाक्यार्थो भवति यागेन स्वर्गं कुर्याद् इति. अतः पुरुषार्थसाधनस्य यागादेर् धर्मत्वसिद्धिर् इति युक्तम् उपदेशप्रामाण्यप्रतिपादनम् इति.
इदं त्व् इह वक्तव्यम् -- का(र्य)विधौ पुरुषार्थः साध्यो लभ्यते. विधिर् हि शब्दभेदो वा लिङादिः, तद्व्यापारातिशयो वा, को ऽपि तदर्थभेदो वा. सर्वथा च न युज्यते. शब्दे हि प्रवर्तयितरि पुरुषार्थसम्बन्धे प्रमाणम् अस्ति. आप्ते हि बुद्धिपूर्वकारिणि प्रवर्तके हितकार्ययं मामफले न प्रवर्तयतीति बुद्ध्वा भवति प्रवृत्तिविषयव्यापारफलवत्ता(ध्य)वसायः. शब्दस् त्व् अचेतनो नास्मिन् प्रवर्तयत्य् अपि पुरुषार्थफलप्रतिलम्भः. न हि प्रबलपवनाभिहतो ऽवटे निपतत् फलं प्रतिलभते. अपि च प्रमाणं शब्दः. प्रमाणानां प्रमेयोपदर्शनाद् अन्यत्र व्यापारः. प्रत्यक्षं हि रूपादीन् उपदर्शयति न तु प्रवर्तयति. त्रेधा हि प्रामाणिकाः प्रमाणफलं विभजन्ते. हानम् उपादानम् उपेक्षा चेति. तद् इदं प्रमाणानां प्रवर्तकत्वे नोपपद्यते. तदा ह्य् उपादानम् एवैकं प्रमाणफलम् आपद्येत. कण्टकप्रत्यक्षेण हि कण्टकेषु प्रवर्त्यमानो जिहासन्न् अपि तान्{2,8}मृद्नीयात्. स्याद् एतत् -- शब्दप्रमाणधर्मो ऽयं न प्रमाणान्तराणाम् इति. न, प्रमाणत्वाविशेषात्. एवं हि प्रयोगो भवति. शब्दो न प्रवर्तकः प्रमाणत्वात् प्रत्यक्षादिवत्. अस्तु वा प्रवर्तकः. नियमेन .......प्रवृत्तिप्रसङ्गः. न च लिङादिश्राविणो नियमेन प्रवर्तमाना दृश्यन्ते. प्रथमश्रुताद् अप्रवृत्तेः. अविदितसमयत्वाद् अप्रवृत्तिर् इति चेत्, किम् इदानीं सम्बन्धसंविदपेक्षया यदि शब्दः प्रवृत्तेः कारकः. न हि कारकाणि स्वरूपसंविदम् अप्य् अपेक्षन्ते. (प्राग् एव समयसंविदं?) मृत्सलिलप्रच्छन्नं हि बीजम् अविदितस्वरूपसामर्थ्यम् अपि स्वकार्यम् अङ्कुरम् आरभमाणं दृष्टम्. एवम् एव शब्दव्यापारो विधिर् इत्य् अपि निरसनीयम्.
स्यान् मतम् -- अभिधेय एव लिङादीनां व्यापारो विधिः. अतो न पूर्वोक्तदोषप्रसङ्गः इति. न, अनिरूपणात्. स खलु प्रेषणादिलक्षणो वा स्याद्, अन्यो वा. न तावद् प्रेषणादिलक्षणः शब्दे सम्भवति. अचेतनत्वात्. न चान्यस् तत्समर्थाचरणलक्षणः, तस्य कारीषादिवदनिरूपणात्. कारीषस्य हि वह्नेः शीतापनोदनो ऽध्ययने दृष्ट(?मु।उ)पकारः. न शब्दे तथा सम्भवति. प्रमाणान्तराभावात्. शब्दस्य चागृहीतसम्बन्धस्याप्रत्यायकत्वात्. यदि ब्रूयाद् व्यापारान्तरकल्पने स्याद् अयं दोषः, कॢप्त एव तु लिङादीनाम् अभिधाभिधानलक्षणो व्यापारः शब्दान्तराणाम् इव स्वार्थप्रकाशनान्यथानुपपत्तिप्रमाणकः प्रवृत्तिहेतुत्वप्रतिलब्धप्रवर्तनापरनामा विधिर् इति प्रतिब्रूयाद् एनम्. स खलु व्यापारभेदो ऽभिधेयो वा स्याद् अनभिधेयो वा स्यात्. अनभिधेये अशब्दा.......स्यभावनासमभिव्याहारानुपपत्तिः. किञ् च सर्वशब्दानाम् एवानुमानेन स्वार्थगोचरो व्यापार उन्नीयते. न च तथावगतः. प्रवृत्तिहेतुभाव......पाराः प्रवर्तयन्तीति चेद्, विशेषहेतुर् वाच्यः. यद्य् अर्थविशेषगोचरता विशेषहेतुः, स तर्ह्य् अर्थभेदो विधिः, तदन्वयव्यतिरेकानुविधानात्. प्रवृ.......वर्थभेदः. यदि भावना न, तस्या वर्तमानापदेशेष्व् अप्य् अविशेषात्. अन्यश् चेत् नैनम् उपलभामहे प्रमाणाभावात्. अभिधीयत एव लिङादिभिर् आत्मीयम् अभिधानम् इति चेत्. ..........सर्वशब्देभ्यः प्रवृत्तिप्रसङ्गः शक्यते वारयितुम्. न च कार्योन्नेयम् अभिधानम् अभिधीयत इति साम्प्रतम्. अनन्यलभ्यं हि शब्दाभिधेयम् उपागमन् धीराः. किञ् च यदि व्यापारस्वरूपाभिधानं स ................प्रवर्तकत्वप्रसङ्गः. सोपश्लेषो विशेष इति चेद्, न. स्वरूपाभिधानप्रसक्तेः. न ह्य् अनभिधाय विशेषणं विशेष्याभिधानं सम्भवति. अपि{2,9}चाभिधाभिधानाभ्युपगमेन प......विशेषहेतोर् अभावात्. अस्तु तर्ह्य् अर्थभेदो विधिः. कः. कार्यम्. किं पुनः कार्यम्. कार्यम् एव हि कार्यम्. न हीदं रूपान्तरेणानुभूयते. ननु न क्रियातिरेकि कार्यं प्रमाणान्तरैर् अवगम्यते. सत्यम्. अत एव शब्दप्रामाण्यसिद्धिः. अन्यथा प्रमाणान्तरगोचरत्वेन सापेक्षत्वाद् अप्रामाण्यं चोदनायाः. अपि च कालत्रयविपरिवृत्त्यर्थगोचराणि मानान्तराणि. कार्यं च परामृष्टकालभेदं
स्वप्रमाणाद् अवगम्यत इति न प्रमाणान्तरगोचरः. कारकव्यापारो हि यागादिः कालत्रयावच्छेद्यो नाधिकारः. यद्य् एवम् असत्कार्यं कालत्रयापरामर्शात् शशविषाणवद् आपद्येत. न. कालेनानेकान्तात्. कालो हि न तावत् कालान्तरपरिच्छिन्नः. न च नास्ति कालः. कालान्तरावच्छेदे त्व् अनवस्थापातः. अलब्धकालान्तरसम्बन्धो ऽपि कालः प्रमाणसामर्थ्याद् अस्तीति चेत्. समानं हि कार्ये ऽपि. तद् अपि स्वप्रमाणेभ्यो लिङादिशब्देभ्यः कालानवच्छिन्नम् अवगम्यमानं कथम् असद् भविष्यति. प्रमाणसम्बन्धो हि सत्ता, न कालसम्बन्धः. कार्यम् एव तु मनसि वर्तमानं नियुङ्क्त इति नियोग इत्य् उच्यते.

ननु नियोगो नियुक्तिः. स च नियोक्तृव्यापारः. न च वेदे नियोक्तास्ति अपौरुषेयत्वात्. शब्दस्य चानियोक्तृत्वान् न तद्व्यापारो नियोगः. अदूरविप्रकर्षेण तु नियोगादिपदप्रयोगः. याथात्म्यवेदनायां तु लिङ् एव पठितव्यः. सा ह्य् अस्य प्रमाणम्. किम् आत्मकस् तर्ह्य् अयम्. उक्तं कार्यात्मेति. न च द्रव्याद्यनात्मकत्वाद् अभावः, तद्वद् एव कार्यम् अपि तद्विभक्तम् एव देशकालनरावस्थान्तराविपर्ययात् स्वसंवित्संवेद्यं नास्तीति शक्यते ऽवगन्तुम्. उदीयते खल्व् अपि लिङादिश्राविणां कार्यसंवित्. न चेयम् अनालम्बना, न च स्वांशालम्बनेति विज्ञानवादे वर्णितम्. अतो निर्विषया संविदात्मानम् अलभमाना स्वविषयभूतं कार्यम् उपकल्पयति. न च प्रतिभामात्रम् इदम् इति वाच्यम्. अनियतनिमित्ता हि प्रतिपत्तिः प्रतिभा. न चेयम् अनियतनिमित्ता, शब्दनिमित्तत्वात् तदनन्तरम् उत्पत्तेः. कथम् अनन्यगोचरे कार्यात्मनि व्युत्पत्तिः. तदभावे वा शब्दात् प्रतिपत्तिः कल्प्यताम्. लिङादीनां सकलेतरशब्दविलक्षणः को ऽपि महिमा, यदविदितसम(?या।या अ)पि स्वार्थं गमयन्ति. अथवा सर्वस्याकुमारमास्थविरं च कार्यावगतिः प्रवृत्तिहेतुर् इति प्रसिद्धिः.{2,10}तदन्यम् अपि लिङादिशब्दश्रवणानन्तरं चेष्टाविशिष्टम् उपलभ्याकलयति नूनम् इतः सकाशाद् अस्य कार्यसंविदासीत् कथम् अपरथा प्रवर्तत इति. नन्व् एवं क्रियाम् एव कार्यतया अज्ञासीद् इति परस्यापि तद्गोचराम् एव कार्यधियम् उन्नयति. न. वर्तमानापदेशेषु सत्य् अपि क्रियाज्ञाने प्रवृत्त्यदर्शनात्, क्रियात्मनः कार्यस्य व्यभिचारात् प्रवृत्तावहेतुत्वात्. एतद् एव फले ऽपि दर्शयितव्यम्. अतो निर्मुक्ताखिलफलादिविकल्पम् अव्यभिचरितप्रवृत्तिसम्बन्धं कार्यमात्रं लिङादिभ्यः प्रयोज्यवृद्धेनावगतम् इति व्युत्पद्यमानो जानाति. न हि कार्यावगतिर् भवति प्रवृत्तिश् च नेति सम्भवति. अतः कार्यम् एव कार्यविधिर् इत्य् आचार्याः प्रतिपेदिरे. ननु च प्रेषणादयो लिङर्थाः. न, स्वसन्ताने प्रवृत्तिहेतुत्वेन तेषाम् अनुपलब्धेः. वेदे च व्यभिचारात्. (ननु तर्)हीष्टाभ्युपायता लिङादीनाम् अर्थो भविष्यति. सर्वो हि समीहितोपायम् आकलय्य तत्र तत्र प्रवर्तत इति परम् अपि चेष्टमानम् उपलभ्य जानाति नूनम् इष्टो .......मव्यापारः शब्दश्रवणानन्तरं चायं चेष्टत इति शब्देनेष्टाभ्युपायता प्रतिपादिता भवति. स एव विधिः. प्रवर्तनारूपो हि सः. प्रवृत्तिहेतुं धर्मं च
प्रवदन्ति ...... . अतः प्रेषणाध्येषणाभ्यनुज्ञातिरिक्तम् अप्रवृत्तप्रवर्तनं नियोज्यार्थकर्मगोचरं लोकवेदसाधारणं चोदनोपदेशपर्यायपदवाच्यं लिङादीनाम् अर्थो विधिर् इति युक्तम्. हि ........त्य जैमिनिनोक्तम् उपदेश इति. भाष्यकारेण च उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् इति विवृतम्. पुरुषार्थोपायं किलानवगतम् अवगमयन् शब्दान्तरे दूरम् उत्क्र्ष्टो लिङादिशब्दो ऽविशिष्ट इत्य् उक्तम्. अतो लोकवेदतन्त्रान्तरानुगतो ऽयम् एव सिद्धान्त इति कैश् चिद् उन्नीतम्.
तद् इदम् अनुपपन्नम्. तथा हि -- संविद् एव तावत् परिपन्थिनी. न हि लिङादिश्रवणसमनन्तरम् इष्टाभ्युपायो ऽयं व्यापार इति भवति मतिः. अपि तर्हि, प्रवर्तनावगतिः. ननु चेष्टाभ्युपायतैव प्रवर्तना प्रवृत्तिहेतुत्वात्. तन् न. एवं सति यस्य पर्णमयी जुहूर् भवति इत्य् अत्रापि विधित्वप्रसङ्गः. तरति मृत्युम् इत्य् अत्रापि. भवति हि तत्रापि पर्णमयता अपापश्लोकश्रवणस्य अश्वमेधो वा ब्रह्महत्यातरणस्य साधनम् इति प्रतिपत्तिः. यदि मतम् -- अस्येदं भवतीत्य् अन्वयमात्रम् अत्रावगम्यते न व्यतिरेकः, न च तम् अन्तरेण साध्यसाधनसम्बन्धो{2,11}ऽवगम्यते इति. कथं तर्हि स्वर्गकामो यजेतेत्य् अत्रापि स्वर्गयागयोः साध्यसाधनसंवित्. न हि तत्रापि सति योगे स्वर्गो भवति असति नेति मतिः. यागेनेति हि तृतीया साधनभावम् अवगमयतीति चेद्, न. तृतीयाश्रवणात्. विधेर् अयं महिमा यदतृतीयान्तो ऽपि यजिः करणतया निर्दिश्यते. स चेद् अन्यो नाभ्युपगम्यते कथं स्वभावसाध्यो यजिः करणतया निर्दिश्यते. अपि च यत्र स्पष्टम् इष्टाभ्युपायत्वम् अवगम्यते यागस्य यथेष्टाभ्युपायो ऽयं यागः यागेन स्वर्गः सिध्यतीति वा, तत्रापि विधित्वप्रसङ्गः. किञ् च तद्द्वेषीति तत्कारि चायम् एवं ब्रुवाणो दृश्यते. तथा हि प्रतिभा विधिर् इति निरस्यतैतद् उक्तं -
न निरालम्बनं ज्ञानं क्रिया साधनयोगिनी ।
समान्यस्मिन्
इति. तद् इदं तवापि समानम् इति वर्णितम्. अपि च एवंवादिना साधु समर्थितं विधाव् अनाश्रिते इति. अत्र हि विध्यधीना यागादेर् इष्टाभ्युपायता न तु सैव विधिर् इति दर्शयति. तस्माद् अतिकुशलैर् उपदेशापदेशयोर् अविशेष एवोपपादित इति निर्मुक्ताखिलोपाधिविधितत्त्वम् अतीन्द्रियम् अन्यदेवेति पूर्वोक्तम् एव साधीयः.

अत्र वदामः -- नैवम् अपि यागस्वर्गयोः साध्यसाधनसम्बन्धसिद्धिः. नियोगो हि तदा साध्यः. न च साध्यद्वयम् एकत्र समवैति, समत्वाद् असम्बन्धात्. ननु नियोगसिद्धिनान्तरीयकी स्वर्गसिद्धिः. अत एव साध्यविवृद्धिर् इयं न तु स्वर्गो ऽपि स्वतन्त्रतया साध्यः. निरपेक्षं च साध्यद्वयम् एकत्र विरुध्यते, नानुगुणम्. यथाह -- नियोगसिद्धौ सर्वं तदनुगुणम् इति. केन नेष्यते. तस्माद् अविरोध इति. तद् असत्. किं हि स्वर्गसिद्धिम् अन्तरेण नियोगस्य न सिध्यति. न हि नित्याधिकारेषु नियोगः साध्यान्तरम् आकाङ्क्षति. कामाधिकाराः काम्यपर्यन्ता इति चेत्, को हेतुः. कमिसाध्यत्वागवतिः. तथा हि स्वर्गकामो यजेतेति साध्यस्वर्गविशिष्टाधिकारिसाध्यो नियोगो ऽवगम्यते. स कथम् असिध्यति स्वर्गे सिध्येत्. अतः स्वर्गसिद्धिर् अवगम्यत इति नः साध्यस्वर्गविशिष्टो ऽधिकारी.{2,12}कस् तर्हि. काम्यस्वर्गविशिष्टः. अतः स्वर्गं कामयमानः पुरुषो नियोगं साधयिष्यति. अन्यदिच्छतो ऽन्यत्र क्रिया नोपपद्यत इति चेद्, न. नियोगसामर्थ्याद् उपपत्तेः. नियोगो हि प्रधानभूतः साध्यतयावगतः स्वर्गम् अपि कामयमानम् आत्मन्य् आकर्षतीति किम् अनुपपन्नम्. अपि च सिध्यन्न् अपि स्वर्गो यागात् सिध्यतीति न नः प्रमाणम्. स्वर्गयागौ हि युगपदरुणैकहायनीवदेकप्रधानकार्यान्वयिनौ नान्योन्यान्वयम् अनुभवतः. न चारुणिम्न इव द्रव्यावछेदशक्तिर् यजेर् अपि स्वर्गसाधनशक्तिर् अवधृता प्रमाणान्तरेण. ननु किम् अत्र प्रमाणान्तरेण. स्वर्गे याग एव प्रमाणम्. स हि स्वर्गकामं यागे नियुङ्क्ते. न चाकामोपाये कामी नियोक्तुं शक्यते. उक्तोत्तरम् इदम्. किं हि भगवतो नियोगस्यालौकिकस्यासदृशमहिम्नो दुः(खत)या फले ऽपि नरं प्रवर्तयति. तस्य ह्य् अनुपाये कामिनं नियुञ्जानस्य किम् इव हीयेत. यागे नियोगो नियुङ्क्ते इति वदता नूनम् इदम् अवधीरितम्. आरम्भे हि पुरुषो नियुज्यते न कर्मणीति. तस्मान् न स्वर्गयागयोः साध्यसाधनसम्बन्धसिद्धिः. यद् अपि च क्रियादिकार्ये व्यभिचाराद् अनुपाधिके व्युत्पत्तिर् इत्य् उक्तं, तदयुक्तम्. प्रतीतविषयत्वाद् व्युत्पत्तेः. न हि क्रियादिव्यभिचारात् शशविषाणं लिङाद्यर्थ इति शक्यते वक्तुम्. यद् अपि मन्यते क्रियाकार्य एव लोके व्युत्पन्नः फलसमभिव्याहाराद् वेदे ऽन्यदविनाशि कार्यं लिङाद्यर्थ इति प्रत्येष्यते. लोके तु संमुग्धेनापि व्यवहारसिद्धेर् न शब्दार्थतत्त्वनिरूपणम्. बहव
एव गौणलाक्षणिकशब्दनिबन्धना लोके व्यवहारा दृश्यन्ते. वेदे तु स्वर्गकामो यजेतेति क्रियात्मनः कार्यस्य भङ्गुरत्वाद् आमुष्मिकस्वर्गादिफलसाधनाशक्तेः कालान्तरस्थायिक्रियातो भिन्नं कार्यम् उपेयते. वाक्यशेषाच् चैकत्र समुन्नीतः शब्दार्थो यववराहाद्यर्थवदन्यत्रासत्य् अपि वाक्यशेषे ऽवगम्यते. नित्याधिकारेष्व् असत्य् अपि फलपदसमभिव्याहारे तथाविधम् एव कार्यं लिङादीनाम् अर्थो भविष्यतीति. तद् इदम् अन्यद् एवाभ्यस्तम् अन्यच् चोपनिपतितम्. क्रियाकार्ये (विष्पन्न?) स्थायिकार्यं प्रतिपद्यते. न च क्रियायाः फलसाधनताशक्तेर् अशब्दार्थः सन् युक्तः कल्पयितुम्. कामं कर्मण एवाफलनिष्पत्तेः समस्ति रूपम् इति कल्पयितुम् उचितम्. न च पूर्वावगतशब्दार्थान्यथाकरणम्. न हि कर्मण्य् अनुशिष्टा द्वितीया सक्तुषु तदसम्भवाद् विपरिवर्त्य करणम् अभिधत्त इति युक्तम् अभिधातुम्. सर्वशब्देष्व् अनाश्वासप्रङ्गात्. अत एव{2,13}तत्र तत्र यथाश्रुतार्थसमन्वयानुपपत्तेः क्वचिद् गुणवादः क्वचिल्लक्षणा क्वचिद् विनियोगभङ्ग इति तन्त्रे व्यवहारः. न तु विनियोगभङ्गाद् अभिधानम् एव शब्दानाम् अन्यथा नीयते. अपि च श्रुतकर्मफलसम्बन्धानुपपत्तेर् अनवगतपूर्वम् अपूर्वं कार्यं लिङर्थम् उपयता साधु श्रुतम् उपपादितम्. किं हि लिङापराद्धं यत् तस्यालौकिकम् अर्थम् अतिक्रम्य कर्मफलसम्बन्ध उपपाद्यते. ननु नाद्यापि लिङर्थो निश्चीयते. अयम् एव हि निर्णयसमयः. अत्र च श्रुतफलपदान्तरसमभिव्याहारोपपत्तये ऽतीन्द्रियम् एव कार्यम् इति निश्चीयते. अतो न किञ्चिद् विरोत्स्यत इति. किम् इदानीं स्वर्गकामो यजेतेति श्रुतेर् अप्रतीतिर् एव, लिङर्थे संशयो वा. अप्रतीतौ क्रियात्मनः कार्यस्य फलसम्बन्धानुपपत्तिर् इत्य् एतद् एव दुर्भणम्. संशयस् तु पक्षद्वयावलम्बी. न चालौकिके क्रियातिरेकिणि कार्ये लिङादयो निरूपितप्रयोगाः. न चात्यन्तापरिदृष्टापूर्वार्थगोचरः संशयो दृष्टचरः. यवादिषु त्व् आर्यम्लेच्छप्रयोगनिबन्धनो दृष्टपूर्वार्थगोचरः संशयो युक्त एव. अत एवात्र न वाक्यशेषान् निर्णयः. सन्दिग्धे हि स वर्णितः. न च लिङर्थे संशयः. किन् तु लोके व्युत्पत्त्यनुसारेण क्रियात्मन्य् एव कार्ये निश्चयः. यद् अप्य् उच्यते कर्मफलसम्बन्धोपपत्तये ऽन्यत् कार्यम् उपलभ्यत इति. केन वा कर्मफलसम्बन्धो दर्शितः. न ह्य् अयं वैनियोगिकः. नियोग एवात्र प्रमाणम्. स चेत् तदधीनसिद्धिः दुरुत्तरम्
इतरेतराश्रयम्, सिद्धो हि नियोगो विषयीभूतस्य भावार्थस्य करणताम् आह. तत्सिद्ध्या च नियोगात्मलाभ इत्य् अलम् अनेनापि.

यथावार्त्तिकम् अनुसन्धास्यामः. एवं हि वार्त्तिककृता भावार्थाधिकरणे उक्तं लिङादिशब्दानां पुरुषं प्रति प्रयोजकव्यापारो ऽभिधात्मिका भावना विधिर् इति. द्वे किल भावने मीमांसकाः सङ्गिरन्ते शब्दात्मिकाम् अर्थात्मिकां च. तत्रार्थात्मिका सर्वाख्यातसाधारणी स्वर्गादिफलधर्मिका यागादिधात्वर्थकरणिका स्ववाक्यप्रकरणान्यप्रकरणानारभ्यवादस्मृतिलोकाचारप्राप्ततत्तद् इति कर्तव्यतावती तत्र तत्र सिध्यति. शब्दात्मिका तु लिङादिशब्दानां प्रयोजकानां प्रयोज्यपुरुषकर्मिकाभिधासम्बन्धज्ञानकारणिकार्थवादोदितप्राशस्त्येति कर्तव्यतावतीति विवेचनीयम्. कथं पुनरभिधा शब्दात्मिका. शब्दव्यापारो हि सः. न. व्यापारतद्वतोर् अनतिभेदाद् उपपत्तेः. द्रव्यम्{2,14}एव हि पूर्वावस्थातः प्रच्युतं पराम् अवस्थाम् अप्राप्तं पूर्वापरीभूतं व्यापारशब्दवाच्यम्. कथं लिङादीनाम् अभिधा पुरुषकर्मिका. न हि ते पुरुषम् अभिदधति भावनावचनत्वात्. सत्यम्. भावनैव तैर् अभिधीयमाना न स्वरूपमात्रेण वर्तमानापदेशवद् अभिधीयते. किन् तु कुर्याद् (इति) प्रवृत्तिविषयतया. न च शब्दशक्तयो ऽनुयोक्तुम् अर्हन्ति. तथा हि -- लिङादिश्रवणानन्तरं प्रयोज्यवृद्धं चेष्टमानम् उपलभ्य ततः प्रवृत्तिहेतुप्रत्ययः प्रयोज्यस्यावगम्यत इति तावत् सर्ववादिसिद्धम् अविवादम्. प्रवृत्तिहेतुस्वरूपे तु बहुधा विवादः. तत्र क्रियाफलादीनां व्यभिचाराद् अप्रवृत्तिहेतुत्वात्, प्रमाणान्तरागोचरे तु प्रवृत्तिहेतौ व्युत्पत्त्यसम्भवात्, कर्मफलसम्बन्धानुपपत्तेश् च सकलेतरप्रकारासम्भवाद् अविवादसिद्धम् अभिधेयप्रत्ययबलोन्नीयमानस्वरूपं लिङादीनाम् अभिधानम् एव प्रवृत्तिहेतुर् इति साम्प्रतम्. सा च प्रवर्तनेति स्थितम्. सा च प्रवर्त्यकर्मिका. प्रवर्त्यश् च पुरुष इति युक्तं पुरुषकर्मत्वम् अभिधायाः. लिङादिव्यापारो ऽप्य् अभिधेयप्रत्ययहेतुत्वाद् अभिधेत्य् उच्यते. पुरुषं च प्रवर्तयन् प्रवर्तनेति गीयते. न च सर्वाभिधासु प्रसङ्गः, शब्दशक्तिवैचित्र्याद् इत्य् उक्तम्. शक्तिर् हि कार्यदर्शनसमधिगम्या. तद् यतः प्रवृत्तिदर्शनं तद्व्यापारः प्रवर्तना, प्रवृत्तिहेतुत्वात्. न च शब्दान्तरेभ्यः प्रवृत्तिर् उपलभ्यत इति न तदभिधायास् तथात्वप्रसङ्गः. यश् चाभिधाया अनभिधाने दोषः उक्तः, सो ऽभिधानपक्षाभ्युपगमेनैव परिहृतः.
यत् तु कार्योन्नेयत्वाद् अनभिधानत्वम् उक्तं तद् अप्य् अयुक्तम्. किं हि कार्यम् अनुपपद्यमानं प्रवर्तनाम् अवगमयति. न तावद् भावनावगतिः, वर्तमानापदेशेष्व् अपि प्रसङ्गात्. अतो ऽनन्यप्रमाणत्वाद् उपपन्नम् अभिधेयत्वम् अभिधायाः. यत् तु अनन्यप्रमाणके व्युत्पत्त्यसम्भव इत्य् उक्तम्. न, अर्थापत्तिप्रमाणकत्वात्. नन्व् अर्थापत्त्या प्रवर्तनापदेशसाधारणम् अभिधाया रूपम् उन्नीयते. न च तावन्मात्रं प्रवर्तना लडादिभ्यो ऽपि प्रवृत्तिसंवेदनप्रसङ्गात्. असाधारणस् तु को ऽपि विशेषो लिङ्प्रवृत्तेः प्रमाणान्तरागोचर एवेति दुष्परिहरो व्युत्पत्तिविरहः. मैवम्. प्रवृत्तिहेतुत्वेनार्थापत्तितस् तदवगमात्. तथा हि -- यत्र तावत् लिङादिभ्यः प्रवृत्तिर् उपलभ्यते, तत्र मया प्रवर्तितव्यम् इत्य् अन्तःसङ्कल्पमूलात्मा लिङ्प्रवृत्तिविशेष उन्नीयते. अप्रवर्तमाना अपि प्रवर्तस्वेति मामयमाहेति लिङ्श्राविणो वक्तारं निर्दिशन्ति. तद् अवसीयते प्रवृत्तिहेतुर् अभिहितो लिङा. स च नर्ते वापारात् सिध्यतीत्य् उक्तम् एव. न च किम् आत्मको लिङ्व्यापार{2,15}इति वाच्यम्. अन्तःसङ्कल्पमूलात्मा ह्य् असाव् इति वक्ष्यति. नासाव् उदासीनः कदाचिद् अवगम्यते. प्रवृत्तिजनन एव हि भावभेदे व्युत्पत्तिर् आसीद् इति स्वयम् अपि प्रवर्तितव्यम् इति प्रतिपद्यमान एव हि लिङर्थं प्रतिपद्यते. नोदासीनम् आख्यातान्तरवत्. नो हि फलादयः स्वरूपेणावगताः प्रवर्तयन्ति. अस्य त्वयम् एवात्मा यत् प्रवृत्तिधियं जनयति. अपर्यनुयोज्यत्वाद् वस्तुस्वरूपाणां नामाख्यातविभागवदुपपत्तेः. सो ऽयम् एवमात्मनि लिङर्थे व्युत्पन्नः स्वप्रतिपत्तिकाले न शब्दादृते तम् अर्थं बुध्यत इत्य् अनन्यप्रमाणकत्वम्. न तु प्रवर्तनास्वरूपम् एवान्यतो नावगतं, येन मतान्तरवद् व्युत्पत्तिविरहश् चोद्येत. सम्प्रति तु न जातेर् इव व्यक्तिम् अन्यतः प्रवर्तनां प्रतिपद्यामह इति शाब्दीम् अभिदध्महे. न चाभिधा नाभिधीयत इति वाच्यम्. अभिधाशब्दवदुपपत्तेः. यद् एव हि शब्दश्रवणानन्तरम् अनन्यलभ्यं बुद्धौ विपरिवर्तते तदभिधेयम्. तथा च लिङादीनाम् अभिधानम् इति किं नाभिधीयते. उक्तं हि लिङादिभ्यः प्रवृत्तिहेतुरुपलभ्यत इति. न च लिङादीनाम् अभिधात्मनो व्यापाराद् अन्यः प्रवृत्तिहेतुः शक्यते निरूपयितुम् इति. अत एव नानवस्था. न हि प्रवर्तनावत् तदभिधानम् अपि शब्दाद् अवगम्यते, यत् तद्गोचरम् अपरम् अभिधानम् उपेयते. न च लिङादिस्वरूपाभिधानप्रसक्तिः, स्वयम् एव तद्व्यापारवैलक्षण्यात्. लिङुपश्लेषे
हि विशेषके विशेषणाभिधानम् आपादितम्. स्वगते तु विशेषे तदनवकाशम् एव. सर्वे शब्दव्यापाराः खल्व् अपि स्वरूपेणैव व्यतिभिद्यन्ते. अत एव विलक्षणाभिधेयप्रत्ययहेतुभावभाजः एकस्या अपि विधिविभक्तेः क्रियाकालादिवन्नाभिधाभिधानम् अनुपपन्नम्. अतो लिङादीनाम् अभिधा प्रवर्तना सो ऽयं विधिः. आह च --
अभिधां भावनाम् आहुर् अन्याम् एव लिङादयः ।
इति. तद् अनेनैवमात्मना विधिना सम्बद्धा भावना प्रवृत्तिविषयतयावगता फलवत्तया निश्चीयते, स्वसन्ताने फलवतः प्रवृत्तिविषयतयावगतेः. तथा चावगतानुष्ठीयत इति विधिशक्तिम् उपक्रान्ताम् अवसीदन्तीम् उत्तभ्नाति फलवत्ता, न तु सैव विधिर् इति. अत एवापुरुषार्थेषु सागरं तरेद् इत्य् एवमादिषु विध्यवगतिः. तथा तत्र न स्याद् इतरथा तत्र न स्यात् अपुरुषार्थत्वात्(?). लिङ्व्यापारस् तु तत्राप्य् अविशिष्टः, निर्वाहिकायास् तु फलवत्तायाः प्रमाणाभावाद् न{2,16}निर्वहति. तदभावश् चानाप्तवाक्यत्वात्. वेदे त्व् अपौरुषेयत्वान् न पुरुषदोषाशङ्कापीत्य् उपपादितम्. विधौ तु तम् अतिक्रम्येति प्रपञ्चितश् च विधिर् अपि मनाग् इत्य् उपरम्यते इति

5.16

(अपौरुषेयत्वात्?) अनपेक्षत्वाद् इति सूत्रावयवं व्याचष्टे -- स्वप्रत्यये ति. अनाप्तवाक्ये हि दृष्टव्यभिचारित्वात् तज्जनितात् प्रत्ययात् प्रत्ययान्तरं स्वीयम् अर्थावधारणायापेक्षते. न च तत्राप्य् अनाप्तवचः प्रमाणम् अनुवादत्वात्. आप्तोक्तीनां तु प्रमाणविषयगोचराणां प्रामाण्यात् तस्यैवाप्तस्य नरस्यापेक्षा किम् अयम् अर्थो ऽनेन प्रमाणेनोपलब्धो न वेति. न चेयम् उभय्य् अप्य् अपेक्षा चोदनांसु सम्भवति, अपौरुषेयत्वस्य वेदाधिकरणे वक्ष्यमाणत्वात्. तत उपपन्नं चोदनायाः प्रामाण्यम् इति

5.17

अत्रानन्तरं वृत्तिकारमतारम्भभाष्यं - वृत्तिआरस् त्व् अन्यथेमं ग्रन्थं वर्णयाञ् चकार तस्य निमित्तपरीष्टिः इत्येवमादिम् इति. तत्रादिशब्दे तावद् द्वैविध्ये साध्वसाधुविवेकार्थम् आह -- आदिशब्द इति. मकारान्तो ऽयमादिशब्दः न लुङन्त इति. कारणम् आह -- लिकी ति. सामान्यविवक्षायां तु नपुंसकलिङ्गता. अत्र च प्रथमम् एव ग्रन्थात्मके विशेषे ऽवगते न सामान्यविवक्षा युक्तेति. भित्त्वा तु वाक्यं सामान्यविवक्षायां क्लेशो भवतीति. अपरम् अपि वृत्तिकारमतेन परीष्टिसूत्रव्याख्यानार्थं भाष्यं न परीक्षितव्यं निमित्तम् इति. तद् अयुक्तम्. सूत्रे नञो ऽश्रुतत्वात्, अत आह -- नञ् इति. इदं हि सूत्रं विधिनिषेधशून्यम् अपरिपूर्णं नञध्याहारेण परिपूर्यते. प्रसिद्धस्यधर्मनिमित्तस्य परीक्षाविधेर् अयोग्यत्वाद् इति व्याख्याते तु नञध्याहारेण परीष्टिसूत्रे प्रत्यक्षसूत्रम् अवतारयितुं भाष्यकृतोक्तं - ननु व्यभिचारात् परीक्षितव्यं निमित्तं शुक्तिका हि रजतवत् प्रकाशते यतः इति. एवं ह्य् अत्र{2,17}परिचोदितं - न प्रसिद्धत्वं निमित्तापरीक्षायां हेतुः, प्रसिद्धतरस्य प्रत्यक्षस्य शुक्तिरजतवेदने व्यभिचाराद् इति. तद् अयुक्तं, न हि प्रत्यक्षं व्यभिचरति अपि तर्हि तदाभासम्. न चाभासव्यभिचारे प्रमाणव्यभिचारपरिचोदना युज्यते. अत आह -- सङ्कराद् इति. प्रत्यक्षतदाभासयोर् अक्षजत्वेन सादृश्यान् मोहाद् आभासव्यभिचारे ऽपि प्रत्यक्षव्यभिचारं चोदयतीति

5.18

तद् एव प्रपञ्चयति -- प्रमाणे ति. वक्ष्यमाणपारमार्थिकप्रत्यक्षलक्षणाज्ञानाद् व्यभिचारात् परीक्षा कार्येति चोदयति. एतत् परिचोदनोत्तरतया प्रत्यक्षसूत्रम् उपवर्णितं नैतद् एवम्. यत् प्रत्यक्षं न तद् व्यभिचरति. यद् व्यभिचरति न तत् प्रत्यक्षम्. किं तर्हि प्रत्यक्षम्. तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम्. यद्विषयं ज्ञानं तेनेन्द्रियाणां पुरुषस्य सम्प्रयोगे यद् बुद्धिजन्म तत् सत्प्रत्यक्षम्. न चेदृशस्य व्यभिचारो ऽस्ति. तद् इदं वार्त्तिककारो दर्शयति -- नैतद् इति. परीष्टिसूत्रेणापरीक्षा प्रतिज्ञाता प्रत्यक्षसूत्रेणोपपाद्योपसंहृतेति

5.19

कथं पुनर् एवंलक्षणके ऽपरीक्षा सिध्यतीत्य् अत आह -- तत्रे ति. तत्र हि प्रत्यक्षलक्षणे. यद् अनेवंलक्षणकं तद् अयथार्थम्. प्रत्यक्षं तु यथार्थम् एव. अयथार्थाशङ्का तु परीक्षायां हेतुर् इति युक्तम् अपरीक्ष्यत्वम् इति.
किं पुनर् अयथार्थज्ञानम्. शुक्तौ रजतम् इति. सा खलु दोषवशाद् अन्याकारेणावभासत इति भवति तद्गोचरज्ञानम् अयथार्थम्. तद् इदम् अयुक्तम्. न हि शुक्ती रजतम् इति भासते. किं तर्हि इदम् इति शुक्तिरजतसाधरणात्मना पुरोवर्ति द्रव्यं गृह्यते. अनन्तरं च सदृशदर्शनोद्बोधितप्राचीनरजतानुभवप्रभावितभावनाबीजजन्मा दोषवशाल् लुप्ततदवमर्शा रजतम् इति स्मृतिर् उदेति. तद् एते द्वे एव ग्रहणस्मरणात्मके विज्ञाने. तद्गोचरयोश् च दोषवशाद् एव भेदकधर्मानवधारणम्. भेदाग्रहणाद् एव विभ्रमव्यवहारः, न पुनर् अन्यस्यान्यथाभासनात्. इदम् इह भासत इति प्रतीतिसाक्षिकम्. अतः कथं रजतरूपरूपितस्य शुक्तिर् आलम्बनम्. इदम् एव ह्य् आलम्बनस्यालम्बनत्वं यदात्माकारज्ञानजननम्.{2,18}अतो नातदाकारस्य तदालम्बनम् इति ज्ञानम् एव साकारम् इति बलाद् आपतितम्. न खलु रजतम् इति शुक्तेर् आकारः. रजतं तु नासन्निहितम् अक्षजज्ञानालम्बनम् इति युक्तम्. अतो बाह्यरहितं निरालम्बनम् एव ज्ञानम् इति बलाद् आपन्नम्. एवञ् च मुधैव निरालम्बनानुमानप्रत्याख्यानप्रयासः. अपि च दोषनिबन्धनो विभ्रमः. दोषाश् च स्वकार्ये शक्तिविघातहेतवः. अतो युक्तं तद्वशेन भेदकधर्मानवधारणं, न पुनर् अन्यस्यान्यथा भानम्. अपि च एवम् अयं विपरीतख्यातिवादी वक्तव्यः रजतधियः शुक्तिगोचरायाः किं निबन्धनम् इति. न तावद् इन्द्रियं प्राप्यकारित्वाद्, असन्निहितरजतप्राप्त्यसम्भवात्. अन्यप्राप्तौ चान्यप्रकाशने ऽतिप्रसङ्गात्. प्रमाणान्तरं त्व् असम्भवाद् अनुपन्यसनीयम्. अतो ग्रहणकारणाभावात् स्मृतिर् इयम् इति निश्चीयते. अस्ति हि स्मृतेः कारणं पूर्वानुभवप्रभावितोभयवादिसिद्धा भावना. नन्व् असति तत्परामर्शे स्मरणम् अपि नोपपन्नम्. न नोपपन्नम्. अनुभूतविषयं हि ज्ञानं स्मृतिः. न तद् इति परामर्शः. तस्माद् इदं रजतम् इति ग्रहणस्मरणयोर् उभयोर् अपि यथार्थत्वाद् यथार्थायथार्थज्ञानविभागो दुर्भणः.
अत्र वदामः -- यदि द्वे अप्य् एते यथार्थे, न तर्हि भ्रान्तिः. अयथार्थज्ञानं भ्रान्तिर् इति लौकिका मन्यन्ते. स्मरामीत्य् अग्रहो भ्रान्तिर् इति चेत्. तन् न. भाष्यकारो हि स एवासमीचीनः प्रत्यय इति प्रत्ययम् असमीचीनं दर्शयति. अपि च को ऽयम् अग्रहः. ग्रहणाभाव इति चेत्. अभावो नाम न कश्चिद् आयुष्मतां यो भ्रान्तिर् इत्य् उच्यते. ननु स्मरणम् एव स्मरामीत्य् उल्लेखशून्यम् अग्रहणम् आचक्ष्महे न तत्त्वान्तरम्. एवं तर्हि रजतम् इति स्मृतिर् भ्रान्तिः. न च तद् युक्तम्. मिथ्या भ्रान्तिर् इति पर्यायौ, न स्मृतिर् मिथ्या, यथावस्थितार्थविषयत्वात्. पूर्वानुभूतदेशकालाग्रहो भ्रान्तिर् इति चेत्. न. अन्यानवभासो ऽवभासान्तरं मिथ्याकरोति, सर्वमिथ्यात्वप्रसङ्गात्. न ह्य् एकस्मिन् भासमाने सर्वं भासते. अतो यद्य् अपि रजतस्य देशकालौ न स्मर्येते, रजतं तु यथावस्थितं स्मृत्या विषयीकृतम् इति न भ्रान्तिः. अथ सापेक्षत्वात् स्मृतेर् अप्रामाण्यम्, अतो भ्रान्तिर् इति चेत्. यद्य् एवं सर्वस्मृतीनां भ्रान्तित्वापातः, अविशेषात्. न च स्मरन् भ्राम्यतीत्य् उच्यते. अथ मतं - गृह्यमाणस्मर्यमाणयोर् विवेकाग्रहो भ्रान्तिर् इति, उक्तम् अस्माभिः नाग्रहो नाम कश्चिदृते ग्रहणस्मरणाभ्याम्. तयोश् च न ग्रहणं भ्रमः, प्रमाणत्वात्. न च{2,19}स्मृतिः. व्यभिचाराद् अतिप्रसङ्गाच् च. विवेकाग्रहे च विभ्रमे सर्वसंविदां भ्रान्तित्वप्रसङ्गः. अवश्यं हि येन केनचिद् विवेको न गृह्यते. स्यान् मतं - व्यवहारविसंवादो मिथ्यात्वम् इति, तन् न. तद्धेतोर् अभावात्. यदि खल्व् इदम् इति ग्रहणं रजतम् इति देशकालानवच्छिन्नं रजतस्मरणं, को व्यवहारहेतुः. नो खलु रजतपदाद् अनधिष्ठानं रजतं स्मरन् रजतम् इति व्यवहरत्य् अत्रेदम् इति तद्विद्वान्. यो यदर्थी स तदुपादित्सया चेष्टते. अनधिष्ठानं तु रजतं जानतो न व्यवहारहेतुम् उपलभामहे. अपि च को ऽयं नियमः स्मृतरजतस् तदर्थी शुक्ताव् एव प्रवर्तत इति. यदि ह्य् अयं ताम् एव रजतं जानीयात्, ततस् तत्र प्रवर्तत इति युक्तम्. इतरथा लोष्टादाव् अपि प्रवर्तेत. न ह्य् अयं शुक्तेर् इव रजतं ततो ऽपि विविनक्ति. अवश्यं स्थूलो ऽपि विवेको जिघृ(?क्षि।क्ष)तो नानुभूयते. अथोच्येत -- ज्ञानद्वयम् अप्य् एतद् विवेकाग्रहणात् सत्यरजतसंविदो भिन्नम् इति नावभासते. सा च व्यवहारहेतुतयावगता. ततो ऽत्रापि प्रवर्तत इति. अहो दुरूहम् इदम् ऊहितम्. इदं तु ब्रूमः -- किम् इह सत्यरजतसंविदो विवेको

नावभासते, तदभेदो वा भासते इति. पूर्वस्मिन् कल्पे पूर्ववत् प्रवृत्त्यभावः. उत्तरस्मिन् विपरीतख्यातिवादः. संवित्ती भिन्ने अभिन्ने भासेते वस्तुनी चेति न विशेषः. अथ सत्यरजतबोधतुल्यतां मन्यते न तत्त्वं, न तर्हि तद्वद्भावे तद्व्यवहारः. न हि गवा सदृशं गवयं जानन् गौर् अयम् इति व्यवहरति. व्यवहारविसंवादे च भ्रान्तिहेताव् अतदर्थिनो व्यवहाराभावाद् भ्रान्त्यभावः. तस्यापि शब्दप्रयोगो ऽस्तीति चेद्, न. निर्विकल्पकभ्रान्तौ तददर्शनात्. स्वतन्त्रस्मृतं च रजतम् अप्रसक्तं कथं शुक्तौ निषिध्यते नेदम् इति. प्राप्तिपूर्वको हि प्रतिषेधो भवति. स कथम् असत्यां प्राप्तावात्मानं लभते. ननु नात्र किञ्चिद् बाध्यते. किन् त्व् अनवगतो विवेको ऽवगम्यते नेदं रजतम् इति. को ऽर्थः. शुक्तेर् विविक्तं रजतम् इति. अहो व्याख्यानकौशलं तत्रभवतां यत् संविदो ऽप्य् अन्यथा व्यवस्थिता अन्यथा व्याख्यायन्ते. रजतव्यवहारो बाध्यत इति चेद्, न. तस्याप्य् अप्रसक्तेर् उक्तत्वात्. अप्रसक्तव्यवहारस्य बाधविरहप्रसङ्गात्. व्यवहारबाधो ऽपि न राजाज्ञया. अपि तर्हि, प्रसक्तताद्रूप्यनिवारणेन. अतो ऽन्यद् अन्याकारेण प्रसक्तं बाध्यत इति साम्प्रतम्. अपि च स्पष्टीकृता ताद्रूप्यप्रसक्तिर् इदं रजतम् इति. नन्व् अनालम्बनता प्राप्नोतीत्य् उक्तम्. सत्यम्. यद् अन्यथासन्तम् अन्यथा प्रतिपद्यते तन्निरालम्बनं ज्ञानम्{2,20}इष्यते. किम् इहाद्भुतं बाह्यानालम्बनता हि यत्नतो नः प्रतिषेध्या, सर्वत्र देशान्तरादिगतबाह्यालम्बनताभ्युपगमात्. कथम् असन्निहितं ज्ञानम् उत्पादयतीति चेत्. किम् अयं प्रत्यक्षधर्मः सर्वज्ञानेष्व् आरोप्यते. प्रत्यक्षं हि सन्निहितवर्तमानगोचरं, न ज्ञानान्तराणि. न चेदं प्रत्यक्षम् आभासत्वात्. यद् अप्य् उक्तं - कथम् अन्यसम्प्रयुक्तम् इन्द्रियम् अन्याकारस्य ज्ञानस्य हेतुर् इति. उक्तम् अत्र भाष्ये -- दोषो मिथ्याज्ञानस्य कारणम् इति. तद्भावे हि मिथ्याज्ञानं भवति. असति तस्मिन् सम्यग्ज्ञानदर्शनात्. ननु दोषाः कार्यं विघ्नन्ति, न कार्यान्तरं जनयन्ति. न. स्वप्ने मनोदोषाद् अवर्तमानस्यापि वर्तमानवद् भानात्, कारणाधीनात्मलाभं हि कार्यं तद्दोषे दुष्यतीति नानुपपन्नम्.
एष च ज्ञानस्य दोषो यद्य् अन्यगोचरस्यान्याकारत्वम्. अतः सन्निहितम् असन्निहितरजताकारेणावलम्बते दुष्टकारणजं ज्ञानम् इत्य् उभयालम्बनस्य ज्ञानालम्बनत्वम्. आत्मेन्द्रियमनोर्थसन्निकर्षो हि ज्ञानस्य हेतुः. सो ऽसत्सु दोषेषु सम्यग्ज्ञानहेतुः, सत्सु तु विपरीतज्ञानहेतुर् इति सूक्तो यथार्थायथार्थज्ञानविभाग इति. किं पुनः प्रत्यक्षस्य लक्षणं येन तद् यथार्थम् अत आह -- यदाभासम् इति. यदाकारं ज्ञानं तेनेन्द्रियाणां सम्प्रयोगे यत् पुरुषस्य बुद्धिजन्म तत् प्रत्यक्षम् इष्यते. कथं तदयथार्थं भविष्यतीति

5.20

ननु लक्षणपरत्वे सूत्रस्यातिप्रसक्तिर् उक्ता. न चाप्य् एतेन सूत्रेण प्रत्यक्षं लक्ष्यत इति वदता कथम् इदानीं लक्षणपरतया सूत्रं वर्ण्यते. अत आह -- सम्पूर्णे ति. यथावस्थितं सूत्रम् आभाससङ्कराद् अलक्षणम्. वृत्तिकारमते तु व्यत्यस्तं शक्नोति लक्षणं लक्षयितुम् इति, कथं पुनः सम्पूर्णम् अत आह -- तत्सतोर् इति. यथाश्रुते हि सूत्रे इन्द्रियसम्प्रयोगजत्वमात्रं प्रत्यक्षलक्षणम्. तच् चाभासे ऽप्य् अविशिष्टम् इत्य् अतिप्रसज्यते. व्यत्यस्तेन तु तदा बुद्ध्याकारपरामर्शनाद् भासमानाकारेन्द्रियसम्प्रयोगे या बुद्धिः सा प्रत्यक्षम् इत्य् उपस्कारे शुक्तिरजतज्ञाने भासमानेन्द्रियसम्प्रयोगाभावान् न प्रत्यक्षम् अतिप्रसज्यत इति. उत्कृष्टस्य सच्छब्दस्यार्थम् आह -- शोभनार्थ इति. ननु पूर्वं{2,21} वर्तमानार्थतया सम्प्रयोगविशेषणार्थः सच्छब्दो व्याख्यातः. कथम् इदानीं शोभनार्थ इत्य् उच्यते. युक्तं च सम्प्रयोगविशेषणम्. अविशिष्टे हि तस्मिन्न् अनागतादिसम्प्रयोगजं योगिप्रत्यक्षम् अनिराकृतं स्याद् इति प्राग् एवोक्तम्. तद्वृत्तेनापि व्यवहितप्रठितेन समासो दुष्प्रतिपादतरः. पुनर् अपि चेदृशं यत् तत्सम्यक्प्रत्यक्षम् इति तदपेक्षा विद्यत एवेति व्यत्यये ऽपरितुष्यन् प्रकारान्तरम् आह -- यद्वे ति. द्वयोर् अपि तत्सतोर् अत्राध्याहारः. तत्र भासमानाकारपरामर्शार्थो ऽध्याहृतस् तच्छब्दः. परस् तु प्रत्यक्षरूपपरामर्शार्थः. सच्छब्दस् तु सम्प्रयोगसन्निधिपठितस् तद्विशेषार्थ एव. अध्याहृतस् तु शोभनार्थ इति विवेचनीयम् इति

5.21

ननु च आभासलक्षणाकथनान् न प्रत्यक्षतदाभासविवेको दर्शयितुं शक्यते, अत आह - अर्थापत्त्ये ति. ईदृशं प्रत्यक्षम् इत्युक्ते अर्थाद् अनीदृशम् आभासं भवतीति. अत्र भाष्यकारेण कथं तदतद्योगजत्वविवेको ऽवगम्यत इत्य् आशङ्क्योक्तं बाधकं हि यत्र ज्ञानम् उत्पद्यते नैतद् एवम् इति तदन्यसम्प्रयोगे. विपरीतस् तत्सम्प्रयोगे इति. तद् अयुक्तम्. किं हि कारणं यदुत्तरेण पूर्वं बाध्यते, पूर्वेणैव जघन्यम् उत्तरं बाध्यत इति युक्तम् अत आह -- बाधके ति. तद् धि बाधकं यदन्याबाधकम् आत्मानम् एव न लभते. तथाचोत्तरम्. अतस् तत् पूर्वं बाधत इति युक्तम्. जघन्यम् अपि पूर्वानपेक्षं बलवद् इति षष्ठे वक्ष्यते. यत्र पूर्वापेक्षम् उत्तरं, तत्र पूर्वं बलवद् इति तृतीय उक्तम् इति

5.22

किं पुनरुत्तरेण मिथ्या सतः पूर्वस्य बाधः प्रमाणस्य वा. प्रमाणस्य बाधे ऽतिप्रसङ्गः. मिथ्यात्वं तु नर्ते बाधात् सिध्यति, तदधीनो बाध इति इतरेतराश्रयम् अत आह -- स चे ति. न खलु पूर्वमिथ्यात्वावधारणाद् उत्तरस्य जन्म, अपि तर्हि. तन्निरपेक्षम् उत्तरं स्वकारणाद् एवोत्पन्नम्. अतो नोत्पत्ताव् अन्यापेक्षत्वम्. न च कार्यकॢप्तौ. अवबोधरूपत्वाद् अवबोधस्य. तस्य च स्वगोचरप्रकाशने ऽन्यानपेक्षणात्. अतो नान्योन्याश्रयत्वम् इति. यदि तर्हि पूर्वानपेक्षम् उत्तरम् इति तद् बाधकं, पूर्वं वा किम् उत्तरम् अपेक्षते येन बाध्यते.{2,22}तद् अपि हि निरपेक्षम् एव, अत आह -- न चे ति. यद्य् अपि तदुत्तरानपेक्षं, तथाप्य् अनागतोत्तरबाधकात्मकत्वेनानवभासान् न बाधकम् इति

5.23

यत्र तर्हि नैतद् एवम् इति न बाधकोदयः, अपि तर्हि निमित्तेदाषज्ञानं, तत्रेतरेतराश्रयम् अपरिहार्यम्. निमित्तदोषेण तत्रोत्थाप्यो बाधः. स च पूर्वाप्रमाणत्वे शक्यत उत्थापयितुं, तदुत्थापनाच् च तदप्रमाणम् इति नावकल्पते, अत आह -- निमित्ते ति. प्रायेण हि शङ्खादिषु पीतादिविभ्रमाः पित्तादिदोषेभ्यः समुत्पन्नाः पश्चाद् बाध्यन्ते. नेदं पीतं शुक्लो ऽयम् इति हि सम्प्रतिपत्तिः सम्भवति. अतो न तत्र निमित्तदोषबोधमात्रान् मिथ्यात्वम्. यत्र तु ज्ञाते ऽपि निमित्तदोषे तद्रूपप्रत्ययानुवृत्तेः पश्चाद् अबाधनम् एव, यथा दिङ्मूढस्य जानतो ऽपि निमित्तदोषाद् दिङ्मोहो न निवर्तते. तत्रापि नरान्तरविपर्ययाद् अन्यतः परिच्छेदान् नेतरेतराश्रयम् इति

5.24

यत्र तर्हि न नरान्तरादिषु विपर्ययः तत्र कथं यथा जात्यादिविज्ञाने. न च तत् सत्यं, तेषां व्यतिरेकाव्यतिरेकविकल्पाक्षमत्वाद् अत आह -- सर्वेषाम् इति. यद् धि देशान्तरादिषु न विपर्येति तदबाध्यं सम्यग् एवेति. ननु तत्राप्य् अनुपपत्तेर् बाधिका धीर् उत्पाद्या, कथं सम्यक्त्वम् अत आह -- न ही ति. प्रत्यक्षो ह्य् अविकलकरणस्य पिण्डात् पिण्डान्तरेषु पूर्वरूपावमर्शः. स कथं यौक्तिकेन बाधेन बाध्यते. यस्य ह्य् अव्युत्पद्यमानस्य बलवता मुखं निरुध्यते न तदात्मानं लभते. उक्तं च स्वयूथ्यैर् अपि -- न प्रत्यक्षविरुद्धकारणविषयम् अनुमानम् आत्मानं लभते अग्नाव् इव शैत्यानुमानम् इति

5.25

अयम् असाव् इतरेतराश्रयस्य व्यक्तो विषय इत्य् आह -- जात्यादिष्व् इति. अत्र हि जात्यादिज्ञानमिथ्यात्वाद् बाधकबुद्ध्युदयः. तदुदये तन्मिथ्यात्वम्. न च व्यक्तोदिता शुक्तिरजतज्ञानादिष्व् इव बाधिका धीर् अस्तीति.{2,23} यदि तर्हि बाधकज्ञानम् अन्तरेण न कारणदोषमात्रान् मिथ्यात्वम् अवगम्यते, कथम् उच्यते यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्यय इति भेदेन. तदा हि मिथ्यात्वप्रत्यय एवासमीचीनतायां हेतुर् उक्तः स्यात्. तस्माद् वक्तव्यो विषयः. स उच्यते -- येन तर्हि प्राग् एकश् चन्द्रो ऽवधारितः सम्प्रत्यङ्गुलीनिपीडितलोचनो द्वौ पश्यति. तस्य प्राचीनज्ञानानुसारेण जातविचिकित्सस्याधुना च व्यक्तं कारणदोषम् अवगतवतो भवति निर्णयः. यथा पूर्वज्ञानम् अदुष्टकारणजम्. इदं च व्यक्तावगतकारणदोषप्रभवम्. कारणदोषनियतश् च कार्यदोषः. तस्माद् असमीचीनम्. तद् इह पूर्वानुभवो विचिकित्सोदयहेतुः. कारणदोषावधारणाद् एव मिथ्यात्वावधारणम्. एवं बाह्यागमानाम् अपि कारणदोषावधारणाद् एव मिथ्यात्वावधारणम्. न हि तदर्थाः साक्षाद् बाध्यन्ते. पौरुषेयत्वात् कारणदोषाशङ्कयैव मिथ्यात्वं भवतीति युक्तम् एव द्वैविध्यम्

5.26

ननु मा बाधि जात्यादिज्ञानम्. प्रमाणत्वं तु तस्य कथं, प्रमाणतदाभाससाधारणं हि ज्ञानत्वम्. अतो व्यभिचारदर्शनात् संशयो युक्तः. वृत्त्यादिविकल्पाश् चाप्रामाण्यम् अनापादयन्तो ऽपि तद्वत् प्रामाण्यं विघ्नन्ति. अत आह -- स्वत इति. यदि ज्ञानत्वानुबन्धिनी प्रमाणत्वाप्रमाणत्वे द्वे अपि स्यातां, स्याद् एवानिर्णयः. स्वतस् तु प्रमाणम् इत्य् उपपादितम्. अतो जात्याद्यस्तित्वबोधाद् अनपोदितो निर्णयो युक्तः. स चायं बोधो न परम् अस्माकम् एव. ये ऽपि तु जात्यादीन् अपलपन्ति, तेषाम् अप्य् अस्ति. ते ऽपि हि न तद्बोधम् अनपलपन्तो जात्यादीन् अपलपितुम् अर्हन्तीति

5.4

इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
वृत्तिकारग्रन्थव्याख्या ॥
{2,24} अत्र भाष्यकारेण ननु सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः इत्याक्षेपपुरस्सरं जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यतीति बाह्यार्थसद्भावः प्रतिपादितः. तस्य प्रकृतवेदार्थविचारोपयोगं दर्शयति -- प्रमाणत्वे ति चतुर्भिः. सर्वो ह्य् अयं मीमांसाप्रपञ्चो बाह्यार्थाश्रय एव. यथा तावच्चोदनैव धर्मे प्रमाणं, योगिप्रत्यक्षबुद्धागमाद्यप्रमाणम् इति चोदनासूत्रे प्रतिज्ञातं, तदसति बाह्ये चोदनापदार्थे दुःस्थितम् एव. प्रमाणत्वोपन्यासेनैव तत्परिकरप्रथमपादोक्तसम्बन्धौत्पत्तिकत्वशब्दनित्यत्ववाक्यार्थप्रतिपत्तिमूलसद्भावापौरुषेयवेदवाक्यरचनादिपरिग्रहः. अप्रमाणत्वोपन्यासेन च प्रत्यक्षसूत्रनिर्दिष्टान्याप्रमाणत्वकारणोपादानम् इति दर्शयितव्यम्. तथा यद् अपि चोदनासूत्र एव श्रुत्यार्थेन च पुण्यपापापरनाम्नोर् धर्माधर्मयोः स्वरूपं प्रतिज्ञातं, तद् अपि नासति बाह्ये ऽर्थे शक्यं दर्शयितुम्. तत्र हि विधिनिषेधात्मकचोदनाप्रमाणकं पुण्यपापयोः स्वरूपम् इति वर्णितम्. आदिशब्देन पुण्यपापोभयरूपरहितम् अशुभेभ्यो निवर्तनम् उपादत्ते. यदर्थसाधनं वस्तु तद्विपरीतं वा तत् पुण्यपापपदयोर् अस्पदम्. अशुभेभ्यो निवर्तनं तु न सुखाय न दुःखायेत्य् उभयरूपरहितम्. एतद् अपि चोदनासूत्रस्थेनार्थपदेन प्रतिपादितम्. तत्फलम् इति च त्रिविधस्य पुण्यपापोदासीनात्मनो वेदप्रमेयस्येष्टानिष्टात्मकं फलम् उपादत्ते. एतद् अपि स्वरूपप्रतिज्ञान्तर्गतम् एव. न ह्य् अनाश्रितफलसम्बन्धं धर्मादिस्वरूपम् अनुभवितुं शक्यम् इति. तद् एवं{2,25}तावद् बाह्यार्थसिद्धेर् अस्ति प्रथमपादोक्तसमस्तोपयोगः. तथा वक्ष्यमाणोपयोगो ऽपि. न हि विध्यर्थवादमन्त्राणां साध्यसाधनसम्बन्धविधिविधेयस्तुतुविहितस्मृतिरूपार्था अर्थवादपादगोचरा बाह्यार्थं विना सिध्यन्ति. औदुम्बराधिकरणे हि औदुम्बरो यूपो भवत्य् ऊर्जोपरुध्या इत्य् अत्र विध्यभावान् न फलपदस्म्बन्धः सिध्यत्य् औदुम्बरत्वस्येति वक्ष्यते. तथार्थवादाधिकरणे ऽर्थवादानां स्तुत्युपयोगो दर्शितः. एवं हि तत्रोक्तम् आम्नायस्य क्रियार्थत्वादानर्थक्यम् अतदर्थानाम् (1.2.1) इति. अस्यार्थः -- यानि हि क्रियां क्रियासम्बद्धं वा किञ्चिदर्थं प्रतिपादयन्ति, तानि सन्तु प्रमाणम्. यानि त्व् अक्रियार्थानि सो ऽरोदीद् यदरोदीद् इत्यादीनि तानि न कञ्चिद्धर्मं प्रमिमते इति पूर्वपक्षिते
उक्तं विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः (1.2.7) इति. अस्यायम् अर्थः -- विधेयानां स्तुतिरूपेणार्थेनार्थवादाः प्रमाणं स्युर् इति. कथं पुनः स्तुत्यर्थता. न ह्य् अनपेक्षिता स्तुतिर् अर्थवादानाम् अर्थो भवितुम् अर्हति. न. अपेक्षितत्वात्. अपेक्ष्यते खल्व् अपि शब्दभावनापरनामधेयेन विधिना स्तुतिः. स हि पुरुषं प्रवर्तयन् प्रवृत्तिविषयप्राशस्त्यज्ञानम् अपेक्षते. अर्थवादाश् च स्वाध्यायविध्यध्यापितास् तद्बलेनैवाप्रयोजनसम्पदो न पर्यवस्यन्ति. तत्रैव किं कर्तव्यम् इत्य् अपेक्षिते तच्छक्तिनिरूपणायाम् अक्षरग्रहणादिक्रमेण कथञ्चित् प्ररोचनायां बुद्धाव् उत्पन्नायां तत्कार्यत्वम् अर्थवादानां निश्चीयते. विधिर् हि प्ररोचनाम् अपेक्षते, ते च तां शक्नुवन्ति कथञ्चिदुत्पादयितुम् इत्य् अनन्यप्रयोजनतया मनसि विपरिवर्तमानास्त एव तत्प्रयोजनतया निश्चीयन्ते. तद् एष शास्त्रार्थो भवत्य् अर्थवादैर् एव प्ररोचितं कर्माभ्युदयाय घटत इति. विधिस्वरूपं च प्राग् एवोक्तम् इति नेह प्रतन्यते. मन्त्रार्थो ऽपि मन्त्राधिकरणे वक्ष्यते. तत्र बर्हिर्देवसदनं दामीत्यादिमन्त्रानुदाहृत्य विचारितं - किम् अमी उच्चारणमात्रादेवादृष्टार्थाः, उतार्थप्रकाशनार्था इति. तत्र तदर्थशास्त्रात् (1.2.31) इत्याद्युपपत्तिभिर् अदृष्टार्थतया पूर्वपक्षितं यम् एव ह्य् अर्थं मन्त्रः प्रकाशयति तत्रैवायं ब्राह्मणेन विनियुज्यमानो दृश्यते. यथा प्रथममन्त्रः उरु प्रथस्वेति पुरोडाशं प्रथयतीति. यदि चायम् अर्थपरः, लिङ्गेनैव तत्र विनियोगे सिद्धे विनियोगानर्थक्यम्. अतो ऽविवक्षितवचना मन्त्राः इति पूर्वपक्षिते अभिहितम् -- अविशिष्टस् तु{2,26}वाक्यार्थः (1.2.40) इति. यथा हि ब्राह्मणवाक्यानाम् अर्थः प्रतीयमानो नाविवक्षितो भवति तथा मन्त्राणाम् अपि. ते ऽपि ह्य् अनुष्ठानौपयिकम् अर्थं प्रकाशयन्तः किम् अविवक्षितवचना मन्त्रा भविष्यन्ति. दर्शपूर्णमासादयो ह्य् अनुष्ठानकाले ऽस्मृतानुष्ठानासम्भवाद् अनु(ति)ष्ठासितस्वपदार्थस्मृतिहेतुम् अपेक्षन्ते. मन्त्राश् चार्थवादवद् एव स्वाध्यायाध्ययनविधिबलप्रतिलब्धाध्ययनसंस्कारसम्बन्धात् किंस्विद् अस्माभिः कर्तव्यम् इत्य् अपेक्षमाणा विलम्बन्ते. तत्राशक्तिके विनियोगासम्भवात् तच्छक्तिनिरीक्षणायां क्रत्वपेक्षितानन्यसाधितविहितस्मृतिप्रयोजना निश्चीयन्ते. यथाहुः --
अनुष्ठाने पदार्थानाम् अवश्यम्भाविनी स्मृतिः ।
अनन्यसाधनानन्यकार्यैर् मन्त्रैर् नियम्यते ॥
इति. यत् तु विनियोगानर्थक्यम् उक्तं, तन् न. अर्थवादार्थत्वाद् वाक्यस्य. प्रथनं हि तत्र श्रूयते. ईदृशम् इदं प्रथनं प्रशस्तं यत् क्रियमाणम् अनेन मन्त्रेण क्रियत इति. सो ऽयं विध्यर्थवादमन्त्राणाम् अर्थो नासति बाह्ये ऽर्थे सिध्यति. तथा उद्भिदा यजेत पशुकामः इत्य् उदाहृत्य विचारितं किम् अयं गुणविधिः उत कर्मनाम् अधेयम् इति संशय्य, प्रवृत्तिविशेषकरतया गुणविधिर् इति पूर्वपक्षितम्. गुणं हि विदधतां प्रवृत्तिविशेषकरत्वम्. इतरथा नाममात्रम् अनर्थकम्. शक्नुवन्ति चोद्भेदनक्रियायोगवशेन किञ्चित् खनित्राद्यर्थम् अभिधातुम् इति गुणविधय इति प्राप्ते उक्तं - न गुणविधयः. कर्मसमानाधिकरणा ह्य् एते, तृतीयानिर्देशात्. कर्म खल्व् इह उद्भिदा यजेत पशुकामः इति पशुभावनाकरणत्वेनाभिहितं यजेत पशुकाम इति. किम् उक्तं, यागेन पशून् भावयेद् इति. अत उद्भिदा यागेनेति व्यक्तम् एव सामानाधिकरण्यम्. गुणविधौ तु यागस्योद्भित्त्वाभावाद् उद्भिद्वता यागेनेति मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्. तत्र च लक्षणैव दोषः. नन्व् एवं व्रीहिभिर् यजेतेत्य् एवमादाव् अपि भावनाकरणेन यजिना समभिव्याहृता व्रीह्यादिशब्दाः कर्मनाम् अधेयतां प्रतिपद्येरन्. न. तेषां निरूढार्थत्वात्. अज्ञातसन्दिग्धार्थस्य हि पदस्य प्रसिद्धसामानाधिकरण्याद् एवार्थो निश्चीयते. निरूढं तु स्वार्थान् न प्रच्यावयितुं शक्यते. आह च --
पदम् अज्ञातसन्दिग्धं प्रसिद्धैर् अपृथक्श्रुति ।
निर्णीयते निरूढं तु न स्वार्थाद् अपनीयते ॥

{2,27}इति. अतः पशूनाम् उद्भेदनं प्रकाशनम् अनेन कर्मणा क्रियते इति योगाद् उद्भिच्छब्देन कर्माभिधीयते. गुणफलसम्बन्धविधानेनाम्नातानाम् अप्य् उपयोगो ऽस्तीति नानर्थक्यम्. अतः सिद्धं कर्मनाम् अधेयतयैवञ्जातीयकानां क्रियोपयोग इति. चित्रादिशब्दानां नामधेयत्वहेतवो विस्तरभयान् नानुक्रम्यन्ते. क्वचित् कर्मणः प्रापकशब्दान्तराभावाद् गुणविधित्वम् एव. यथा आग्नेयो ऽष्टाकपाल इत्य् आग्नेय इति सगुणकर्मविधायिनः शब्दस्य. न हि तत्र द्रव्यदेवतासम्बन्धविधानात् प्राक् कर्मणो रूपम् अवगम्यते यस्याग्नेयशब्दो नामधेयं भवेद् इत्येवमादि नामधेयपादोक्तम् आदिशब्देनानुक्रान्तं वेदितव्यम् अध्यायान्तम्. यावत्स्मृतिपादोक्तार्थो ऽप्य् अनेनैवानुक्तान्तो वेदितव्यः.
प्रत्यक्षवेदोपयोगप्रतिपादनप्रसङ्गेन चार्थवादाद्युपयोगानन्तरं नामधेयपादार्थो ऽनुक्रान्तः. तत्रादिशब्देनानुक्रान्तः स्मृतिपादार्थः. तथा हि -- अश्रूयमाणवेदानष्टकादीन् उदाहृत्य तेषां धर्माधर्मत्वसंशये, धर्मस्य शब्दमूलत्वादशब्दम् अनपेक्ष्यं स्यात् (1.3.1.) इति पक्षं परिगृह्य वेदमूलतया सिद्धान्तितं - सर्वाः स्मृतयो हि नासति पूर्वज्ञाने आत्मानं लभन्ते. पूर्वज्ञानं च मूलभूतं विभ्रमो वा स्यात्, प्रत्यक्षानुभवो वा, पौरुषेयागमजन्यं वा, विप्रलम्भो वा, चोदनाजनितं वा. तत्र तावद् भ्राम्यताम् आप्तानां मन्वादीनां स्मृतिनिबन्धनप्रणयनम् अयुक्तम्. ते हि तावद् ऋषयो भ्राम्यन्तीत्य् एतद् एव दुर्भणम्. भ्राम्यतां तु यन्महाप्रबन्धरचनं तत् स्मृतिभ्यश् चाद्ययावदार्यैः पश्यद्भिः परि(?ग्रह।गृह्यते) इति नैतद् उत्प्रेक्षितुम् अपि शक्यम्. अनुभवश् चातीन्द्रियगोचरः प्रत्यक्षसूत्रे निराकृतः. पुरुषवाक्यम् अप्य् असम्भवन्मूलम् अप्रमाणम् एव. विप्रलम्भो ऽपि भ्रान्तिवन्निराकार्यः. चोदना तु सम्भवद्वेदसंयोगिनां त्रैवर्णिकानां स्मृतिमूलं भवतीति तत्कल्पनैव लघीयसीति. नन्व् एवम् अग्निहोत्रादिचोदनावदष्टकादिचोदना अपि किं नोपलभ्यन्ते. नेदम् अनुपपन्नम्. विप्रकीर्णानेकशाखाश्रया हि श्रुतयः क्रतुपुरुषार्थोपदेशसङ्कीर्णाः प्रमाद्यद्भिर् अद्यतनैर् न विविच्योपलभ्यन्त इति किं नोपपद्यन्ते. अतो यद् अश्रूयमाणम् अप्य् अष्टकादिधर्मस्य निमित्तं चोदनेति सिद्धम् अष्टकादयो धर्मा इति. तद् एवं प्रत्यक्षश्रुत्यविरुद्धाभ्यः श्रुत्यनुमानम्. प्रत्यक्षश्रुतिविरोधे तु न श्रुतिर् अनुमातुं शक्यत इति विरोधाधिकरणे{2,28}उक्तम्. उपरिष्टाच् चाचारप्रामाण्यं स्मृत्या च सह बलाबलपरीक्षेत्यादि दर्शयितव्यम्. सर्वेषु च भेदादिलक्षणेषु स्वप्रमाणगणैः शब्दान्तरादिभिः सिद्धान्तस्थिति(?ः।र्) सति बाह्ये ऽर्थे न सम्भवति. सोमेन यजेत दाक्षिणानि जुहोति हिरण्यमात्रेयाय ददातीति यागहोमदानभावनानां शब्दभेदाद् एव भेदो वक्ष्यते. तथा च समिधो यजतीत्येवमादीनां पञ्चानां प्रयाजानाम् असत्य् अपि शब्दभेदे ऽभ्यासानर्थक्यप्रसङ्गाद् भेदो दर्शितः. तिस्र आहुतीर् जुहोतीति पृथक्त्वनिवेशित्वात् संख्याया आहुतीनां भेदो दर्शितः.
अथैष ज्योतिर् एतेन यजेतेति ज्योतिष्टोमाज् ज्योतिर् इति संज्ञान्तरेण कर्मभेदः. वैश्वदेव्याम् इक्षा वाजिभ्यो वाजिनम् इति च उत्पत्तिशिष्टश्रौताम् इक्षाविरोधाद् वाजिनं वैश्वदेवे कर्मणि निवेशम् अलभमानं स्वाश्रयं यागान्तरम् उपकल्पयति. सो ऽयं वाजिनगुणाद् भेदः. कुण्डपायिनामयने मासम् अग्निहोत्रं जुहोतीति नैयमिकाग्निहोत्रात् प्रकरणान्तरेण कौण्डपायिनहोमस्य भेदः. तद् एवं षोढा कर्मभेदो द्वितीये. अन्यदुपोद्धातादिना.
तृतीये तु पारार्थ्यलक्षणस्य शेषत्वस्य षोढैव विनियोगसिद्धिर् उक्ता. यथा तावदरुणिम्नः तृतीयाश्रुत्या क्रियाङ्गभावे सामान्यतो ऽवगते अरुणया क्रीणातीति क्रियाविशेषलाभो वाक्यात्. लिङ्गविनियोगस् तु -- यथाप्रकरणाम्नानसामर्थ्यावधृतसामान्याङ्गभावस्य बहिर्मन्त्रस्य सामर्थ्यापरनाम्नो लिङ्गाद् बर्हिर्लवने विनियोगः. प्रकरणविनियोगस् तु -- इष्टिप्रकरणाम्नातानां प्रयाजादीनां साध्याकाङ्क्षिणाम् उपकाराकाङ्क्षिण्या तया सह सम्बन्धः. उभयाकाङ्क्षालक्षणम् एव हि प्रकरणम् आचक्ष्महे. क्रमविनियोगस् तु -- प्राकृतोपकारनिराकाङ्क्षायां विकृतौ सन्निधिसमाम्नातानाम् अङ्गानाम्. न हि तत्र प्रकरणविनियोगः सम्भवति. उभयगामिनी ह्य् आकाङ्क्षा प्रकरणम्. अनाकाङ्क्षा चेह विकृतिः प्राकृतोपकारद्वारपरिप्राप्तपदार्थपरिष्वक्ता वैकृतम् एव त्व् अङ्गानां सन्निहितसमाम्नानम् अनर्थकं मा भूद् इति तत्सन्निधिपाठाद् एव तेषां तत्र विनियोगो निश्चीयते. समाख्याविनियोगस् तु -- आध्वर्यवसमाख्यातेषु पदार्थेष्व् अध्वर्योर् अनेनामी कर्तव्या इति.
चतुर्थे ऽपि श्रुत्यादिभिर् एवावधृताङ्गाङ्गिभावानां दध्यानयनाम् इक्षादीनां प्रयोज्यप्रयोजकत्वे वक्ष्येते. यद् धि श्रुत्यादिभिर् यच्छेषतयावगम्यते तत् तेन{2,29}प्रयुज्यत इति स्थापितम्. तद् इह प्रयुक्तिलक्षणे ऽपि श्रुत्यादिर् एव प्रमाणगणः, शेषलक्षणे ऽपि शेषिणां शेषाणाम् उभयेषां वा क्रमनियमः किञ्चिन्मात्रविशेषभिन्नश्रुत्यादिभिर् एव क्रियते. यथा तावद् अध्वर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति इति क्त्वाश्रुत्या क्रमनियमः. अग्निहोत्रं जुहोति यवागूं पचति इति पाठाद् अन्यादृशे ऽपि क्रमे ऽवगम्यमाने ऽर्थात् क्रमनियमविपर्ययः. होमोत्तरकालं हि पाकः क्रियमाणो ऽनर्थकः स्यात्. होमो ऽपि नासति हविषि सं(प्र)वर्तत इत्य् अर्थात् पाकोत्तरकालम् एव निश्चीयते. तद् इदं लिङ्गम् एवार्थ इति नाममात्रभिन्नं, सामर्थ्यम् एव हि भावानां लिङ्गम् इति निश्चीयते. इहापि द्रव्यक्रिययोः शक्तिनिरीक्षणाद् एव क्रमनियमावधारणम्. पञ्चानां तु प्रयाजादीनां समिधो यजतीत्येवमादीनां पाठात् क्रमनियमः. बहूनां हि पदार्थानां युगपदेकेन कर्त्रानुष्ठातुम् अशक्तेर् अवश्यम्भाविनि क्रमे ऽवगमाधीनत्वाद् अनुष्ठानस्य क्रमेण तूच्यमानेषु तथैवावगमाद् अनुष्ठाने क्रमापेक्षायां स एव क्रमो निश्चीयते. प्रतीतहानाप्रतीतोपादानयोर् अनुपपत्तेः. अयम् अपि पाठापरनाम्ना स्थानेनैव क्रमनियमः. स्थानात् क्रमनियमो यथा -- साद्यस्के कर्मणि सह पशूनालभते इत्य् अग्नीषोमीयसवनीयानुबन्ध्यानां सवनीयस्थाने सहोपलम्भे चोदिते कः प्रथमं प्रयुज्यताम् इत्य् अपेक्षायां स्थानात् सवनीयो बुद्धो भवन् प्रथमं नियम्यते. तस्य तदनुष्ठानस्थानम्. सो ऽयम् अनुष्ठानसादेश्यलक्षणः क्रमः. पूर्वं तु पाठसादेश्यलक्षणः. द्वेधा च तार्तीयक्रमो विभक्तः. यथोक्तं -
तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः ।
पाठानुष्ठानसादेश्याद् विनियोगस्य कारणम् ॥

इति. प्रवृत्त्या च क्रमनियमो यथा -- सप्तदश प्राजापत्यान् पशूनालभते इति चोदितेषु पशुषु चोदकप्राप्तानां प्रोक्षणादीनां यत्रक्वचिद् एकस्मिन्न् एकस्यानुष्ठाने द्वितीयादिषु किं प्रथमप्रवृत्त्यैव अथानियम इति संशये नियमकारणाभावात् प्रथमप्रवृत्तेश् चानियमात्मकत्वाद् अनियमः इति पक्षं परिगृह्य प्रथमप्रवृत्त्यैव नियमो दर्शितः. प्रयोगवचनबलेन हि पशूनां यौगपद्यम् अवधारितम्. तच् चावर्जनीयाद् विलम्बनान् न व्यवधानान्तरम् अङ्गानाम् अनुजानीते. साङ्गेषु हि पशुषु युगपदनुष्ठातव्यतया चोदितेष्व् अपीश्वरेणापि तथा सम्भावयितुम्{2,30}अशक्तेः अवर्जनीयव्यवधानं तु विधेर् अनुमतं भवति. तत्र च वैषम्यकारणाभावात् सर्वेषां सदृशम् एवाङ्गव्यवधानम्. प्रथमपदार्थकर्त्रानुष्ठिते तदैवाङ्गान्तरानुष्ठानाय तेनैव प्रधानेन चोद्यमाने कर्तरि प्रयोगवचनप्रमाणकयौगपद्यबलेन पश्वन्तरैर् आकृष्यमाणे तत्पदार्थमात्रस्य पश्वन्तरेष्व् अनुष्ठानं स पशुः प्रतीक्षते. तदन्ते च द्वितीयपदार्थानुष्ठानाय कर्तारम् आकर्षति. एवं सप्तदशानां पशूनां षोडशभिर् एकैकस्य व्यवधानं विध्यनुमतम्. व्यवधानविशेषस् तु विशेषाग्रहणान् नाश्रयितुं शक्यम्. अतो द्वितीयादीनाम् अप्य् अनुष्ठानं तत एवारभ्येति सिद्धान्तात् क्रमनियमः. अयं च प्रकरणान्तर्गत एवाकाङ्क्षैकप्रमाणकत्वाद् एकैको ऽपि पशुर् अव्यवधानेन पदार्थानुष्ठानम् आक्षिपति. पदार्थश् च तत्सन्निधावात्मनो ऽनुष्ठानम्. अत उभयाकाङ्क्षया क्रमनियमो जायमानः प्राकरणिको भवति. मुख्यक्रमेण चांशानां क्रमनियमो यथा -- सारस्वतौ भवत इति युगपदुत्पन्नयोः स्त्रीपुंदेवतयोः कर्मणोर् याज्याक्रमेणानुष्ठाने ऽवगते ऽङ्गेषु क्रमापेक्षायां मुख्यक्रमेणैव क्रमो नियम्यते. न ह्य् अङ्गानां प्रधानकालाद् बहिर्भावो ऽस्ति. साङ्गं प्रधानम् ऐकशब्द्याद् इति वक्ष्यति. सो ऽयं वाक्येनैव क्रमनियमः. साङ्गं हि प्रधानम् एकवाक्यचोदितम् एकोपक्रमावसानम् इति प्रधानक्रमेणैवाङ्गानां क्रमनियमो जायते. अत्रापि श्रुत्यादिर् एव प्रमाणगणः.
एवमधिकारविचारादाव् अपि शेषशेषिप्रपञ्चार्थत्वात् शेषलक्षणोक्तान्य् एव श्रुत्यादीनि सिद्धान्तस्थितिहेतुतया दर्शयितव्यानीति. यथा तावदाद्य एव स्वर्गकामो यजेतेति यागस्वर्गयोः कः शेषः को वा शेषीति चिन्तायां द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः (6.1.1) इति स्वर्गस्य यागशेषतया लिङ्गबलेन पूर्वपक्षः परिगृहीतः. तद् धि भूतस्य द्रव्यस्य सामर्थ्यं यद् भाव्यं कर्म निष्पादयति. द्रव्यं च स्वर्हः, स्रक्चन्दनवासस्सु तत्प्रयोगात् सूक्ष्माणि वासांसि स्वर्ग इति यथा. अतो द्रव्यम् एव कर्मार्थं, कामपदसम्बन्धश् च साधनविषयतया दर्शयितव्यः. यो हि यदर्थी स तत्साधनम् अपि कामयत एवेति लिङ्गबलेन पूर्वपक्षिते विधिश्रुतिबलात् सिद्धान्तितम्. विधिर् हि चेतनप्रवर्तनात्मकः. न चानर्थे पुरुषः प्रवर्तयितुं शक्यते इति यागार्थे स्वर्गे कर्मासाधकम् आपद्यते. यथोक्तम् असाधकं तु तादर्थ्यात् (6.1.2) इति. अतो विधेः प्रवर्तनाशक्तिर् मा व्याघानीति कर्मैव स्वर्गार्थम्.{2,31}न च द्रव्यं स्वर्गः. अन्वयव्यतिरेकाभ्यां प्रीतिवचनत्वावगमात्. तद् एव हि द्रव्यम् अप्रीतिकरं न स्वर्गशब्देनोपचरन्तो दृश्यन्ते इति प्रीत्यन्वयव्यतिरेकानुविधायित्वात् स्वर्गपदं तद्वचनम् इति निश्चीयते. न च सर्वस्येष्टतमा प्रीतिर् अन्यनिष्पत्तये भवतीति साम्प्रतम्. अतो यद् एव किञ्चित् प्रीत्या समभिव्याहृतं तत् तदर्थम् एवेति लिङ्गम् अपि विपरीतम्. अतः सिद्धं यागः स्वर्गार्थ इति सिद्धश् चाधिकार इति. परस्ताद् अपि शेषभूतस्यैव कर्तुस् तत्राधिकारो दर्शयिष्यत इति श्रुत्यादिबलेनैवाधिकारलक्षणे ऽपि सिद्धान्तस्थितिः.
उत्तरषट्के तु शेषा एव किं सर्वत्रोपदेशेनैव सम्बध्यन्ते, अथ यथा प्रकृति व्यवतिष्ठन्त इति श्रुत्यादिबलेनैव निर्णेष्यन्ते. औपदेशिके हि धर्मसम्बन्धे नातिदेशः सिध्यति, पारिप्लवा हि तदा धर्मा भवेयुः. तद् इहातिदेशोपोद्धातेनैव सप्तमाद्ये यज्यपूर्वप्रयुक्तत्वं विचारितं यज्युद्देशेन धर्मविधानात् यजेश् च सामान्यवचनत्वात् सर्वत्रेति प्राप्तम्, न च दर्शपूर्णमासपदं नियामकं, परिसंख्यानाद् विशिष्टोद्देशेन विशिष्टानुवादाद् इति प्राप्ते निरूपितं - नात्र दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति यागोद्देशेनाङ्गानि विधीयन्ते, किं तर्हि, साङ्गप्रधानविशिष्टापूर्वभावनैव चोद्यते. पश्चात् त्व् एकभावनापरिगृहीतानाम् अङ्गानां प्रधानानां चारुणैकहायनीवत् परस्परान्वयसिद्धिः. भिध्यन्ते च शब्दान्तरादिभिः प्रतिप्रकरणम् अपूर्वभावनेति कुतो धर्मसङ्करः. सेयं श्रुत्यादिप्रमाणकविनियोगपरामर्शाद् एव व्यवस्था सिध्यति. यदा ह्य् अपूर्वभावनान्वयगर्भो विनियोगो धर्माणां न यागसामान्योद्देशेनेति सिद्धं भवति, तदा व्यवस्था सिध्यति. तत्सिद्ध्या चाश्रुतेतिकर्तव्यताकेषु सौर्यादिषु विध्यन्तापेक्षायां सामान्यातिदेशसिद्धौ प्रत्यक्षवचननामाव्यक्तचोदनातदवयवद्रव्यदेवतासामान्यबाहुल्येन विशेषातिदेशसिद्धिः. यथेष्टौ समानम् इतरत् श्येनेनेति श्येनवैशेषिकाणां वाचनिको ऽतिदेशः. मासम् अग्निहोत्रं जुहोतीति कुण्डपायिनामयने होमनाम्ना नित्याग्निहोत्रधर्मातिदेशः. एकाहाहीनसत्राणाम् अव्यक्तचोदनाचोदितत्वेन सोमसादृश्यात् तद्धर्मातिदेशः इत्यादि दर्शयितव्यम्. सर्वश् चायम् अतिदेशः श्रुत्या विनियोगानुसारेणैव शेषाणां सिध्यतीति तत्प्रमाणगणकारित एव. ऊहो ऽपि षोढा विभक्तः. प्राकृतोपदेशानुसारेणैव मन्त्रादीनां सिध्यतीति सो ऽपि श्रुत्यादिप्रमाणक एव. सो ऽपि ह्य् अपूर्वार्थो धर्मविनियोग इति सिद्धे सेत्स्यति. अत{2,32}एवापूर्वप्रयुक्तिर् आद्ये साधिता. बाधो ऽपि श्रुत्यादिप्रमाणानुसारेणैव. तत्रापि प्राकृतशास्त्रातिदेशात् सर्वानुष्ठानेन पूर्वपक्षिते उपकारप्रधानत्वाद् अतिदेशस्य तदभावे ऽन्यतो वा तल्लाभे प्रतिषेधेन वा बाधो वक्ष्यते. यथा कृष्णलचराव् अवघातस्य, खलेवालीशराभ्यां यूपबर्हिषोर् इत्यादि दर्शयितव्यम्. एतद् अपि

प्रकृताव् एवोपकारपर्यन्तश्रुत्यादिविनियोग इति निर्णीयते. (?सिध्यति) एतावांस् तु विशेषः -- प्रकृतौ पदार्थपरिग्रहपुरस्सर्युपकारकल्पना, प्राक् तदसिद्धेः. विकृतौ तु प्रकृतिपरिकल्पितोपकारसन्दर्शनेन तत्परिग्रहपुरस्सरं पदार्थपरिग्रहः. स एव हि विधिनापेक्ष्य्ते. स तु प्रकृतावसिद्धो (ऽपि) कल्पयित्वा गृह्यते. विकृतौ च प्रकृतिसिद्ध एवोपादीयत इति. अत एव शास्त्रपदार्थयोर् अनतिदेशः, तयोर् विध्यनपेक्षितत्वाद् इति. तन्त्रावापलक्षणे ऽपि विशेषा एव प्रधानानां किं तन्त्रेणोपकारका उतावृत्त्येति शेषाणाम् एव विचार्यमाणत्वात् तत्प्रमाणगणानुसारी निर्णयो दर्शयितव्यः. तत्र हि देशकालफलादीनां तन्त्रसम्बन्ध आग्नेयादीन् प्रति प्रयाजादीनां तन्त्रानुष्ठाने हेतुर् भविष्यति. स च श्रुत्यादिप्रमाणक एवेति तत्रापि स एव प्रमाणगणः. प्रसङ्गलक्षणे ऽपि पश्वर्थानुष्ठितानां प्रयाजादिशेषाणां पशुतन्त्रमध्यपातिपुरोडाशोपकारकत्वं देशादितन्त्रनिबन्धनम् एवेति पूर्ववत् प्रमाणगणः. अत एव भाष्यकारेण प्रथमसूत्रे दशाध्याय एव शेषलक्षणशब्दः प्रयुक्तः. यो ऽपि वचनव्यक्तिभेदेन पूर्वपक्षसिद्धान्तविभागः यथा स्वर्गकामो यजेतेति स्वर्गकामो यागं कुर्याद् इति पूर्वः पक्षः यागेन स्वर्गं कुर्याद् इति सिद्धान्त इति, सो ऽपि नार्थशून्यासु बुद्धिषु सिध्यति. कर्मभ्यश् च दर्शपूर्णमासकारीर्यादिभ्यः परलोके इहलोके भवत्स्वर्गवृष्ट्यादिफलसम्बन्धो बाह्याश्रय एव, असति तस्मिन् द्वैविध्यानुपपत्तेः. अतः सर्वम् इदं बाह्यार्थसिद्धाव् असत्याम् अयुक्तम् आपद्येतेति तदुपपादनाय धर्मार्थिभिर् मीमांसकैर् लोकप्रसिद्धैः प्रत्यक्षादिभिः प्रमाणैः पूर्वोत्तरपक्षविभागेनार्थस्य सदसद्भावयोर् यत्नः कार्यः. पूर्वपक्षविशुद्धा हि बुद्धिः सिद्धान्तकरी भवति. अतो ऽनुमानेनैवार्थापह्नवपूर्वपक्षं कृत्वा प्रत्यक्षेण तत्सद्भावसिद्धान्तो दर्शयितव्यः. सर्वश् चायं प्रयासः सकललौकिकवैदिकक्रियां{2,33}प्रति तत्सिद्ध्यर्थम् इति यावत्. अन्यथा सर्वार्थक्रियाणाम् उच्छेदो भवेत्. अतः प्रयोजनवद् बाह्यार्थप्रतिपादनम्. अक्रियाङ्गस्य तु प्रतिपादितस्याप्य् अनर्थ(त्व)म् एवेति क्रियां प्रतीति युक्तम् एवेति

5.5

अत्र चोदयति -- यदे ति. ज्ञानमात्रपक्षे हि बौद्धानाम् इव सर्वो ऽयं प्रमाणादिव्यवहारः सिध्यत्य् एव. ते हि वदन्ति --
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥
इति. अतस् तद्वद् एव व्यवहारसिद्धौ किं पारमार्थिकार्थप्रतिपादनव्यसनेनेति

5.6

अत्र दूषणम् आह -- संवृतेर् इति. सत्यम्. संवृतिसत्येन सर्वम् इदं बौद्धैर् आश्रीयते. न त्व् एतद् युक्तम्. सत्यभेदानुपपत्तेः. यः खल्व् अयं सत्यभेदो बौद्धैर् आश्रितः संवृतिसत्यं परमार्थसत्यम् इति, नायम् उपपद्यते. संवृतेः सत्यत्वाभावात्. मिथ्यापर्यायो हि संवृतिशब्दः. कथं तस्य सत्यशब्दसमभिव्याहारः. न ह्य् अयम् अक्षशब्द इव विभीतकादीनां संवृतिपरमार्थयोः साधारणः सत्यशब्दः. अतः सत्यभेदानुपपत्तिर् इति. विरोधम् एव व्यनक्ति -- सत्यं चेद् इति

5.7

विरोधाद् एव च मृषार्थपरमार्थयोः सामान्यम् अपि सत्यत्वं नाभ्युपगन्तुं शक्यम्. समानानां भावः सामान्यम्. कुतस् तस्य विरोधिनोर् अवकाशः. न हि भवति धर्माधर्मयोर् धर्मत्वम् अधर्मत्वं वा सामान्यम् इत्य् आह -- सत्यत्वम् इति विरोधाद् अन्तेन. अन्यमात्रयोर् अपि तत्परामर्शाभावाद् दुरुपगमं सामान्यं वृक्षसिंहयोर् इव वृक्षत्वम्. किं पुनर्विरोधिनोस् तत् स्याद् इत्य् आह -{2,34}न हीति. अत्र चाक्षादिवत् साधारणशब्दता पूर्वं सत्यशब्दस्य निराकृता इह गवादिवत् सामान्यशब्दतेति विवेचनीयम् इति

5.9

अतो लोकं वञ्चयितुं मिथ्यापर्यायो ऽपि संवृतिशब्दो बौद्धविदग्धैर् अनुद्वेगकरतया मिथ्यात्व एव विवक्षिते स्वनास्तिक्यपरिजिहीर्षया प्रयुक्तो लालायाम् इव वक्त्रासवशब्द इत्य् आह -- तुल्यार्थत्व इति संवृतिर् अन्तेन. वक्ष्यमाणेनेतिकरणेन सम्बन्ध इति. कल्पनावाचोयुक्तिर् अपि स्वनास्तिक्यपरिहारार्थम् एव तैर् आश्रितेत्य् आह -- कल्पनेति चे ति. कल्पनामात्रकल्पितेन बाह्येन सर्वलौकिकव्यवहार इत्य् अपि निर्वस्तुके जगत्य् अभिन्नस्य चिन्मात्रस्य कल्पनाया भेत्तुम् अशक्यत्वाद् दुर्भणम्. क्वचिद् धि भिन्नम् एव किञ्चिद् रूपान्तरं कल्पनास् पदं भवति शुक्ताव् इव रजतरूपम्. यस्य तु न किञ्चिद् भिन्नम् अस्ति, तत् केन रूपेण कल्प्यताम्. तद् एतद् आह -- कल्पनापी ति

5.10

ननु त्रिधैव तत्त्वं विभजामहे सत्यम् असत्यम् संवृतिसत्यं चेति. संवृतं हि नात्यन्तम् असद् भवति, व्यवहाराविसंवादात्. नापि सद् एव, प्रमाणान्तरविरोधाज् जात्यादिवत्. अतो न संवृतिः प्रमाणं नाप्रमाणम् इति विधान्तरम् एवेदम् इति युक्तस् तदाश्रयतया व्यवहार इत्य् अत आह -- तस्माद् इति. यतः खलु संवृतिर् मिथ्याज्ञानं न वस्तुकॢप्त्यै प्रभवति, तस्माद् यत् परमार्थतो नास्तीति निरूप्यते न तत् संवृत्या तद्रूपं भवितुम् अर्हति. नास्त्य् एव तत्. यत् तु तावद् व्यवहाराविसंवादि तद् अस्त्य् एव, न ह्य् असतः सर्वदा व्यवहारहेतुभावः सम्भवति. यद् एवार्थक्रियाकारि तद् एव च परमार्थसद् इति वः सिद्धान्तः. अतः कथम् अर्थक्रियाकारित्वे सत्य् अपि जात्यादीनाम् असत्यत्वम्. तस्माद् यदि व्यवहाराङ्गतया बाह्यम् अस्ति, तत् तर्हि परमार्थत एवास्ति.{2,35}तद् एव सत्यम् इत्य् उच्यते. अन्यत् तु संवृतिर् मिथ्येति. न तु सत्यद्वयकल्पनात्मानं लभते. तन्त्रेण तद्वृत्तस्य पूर्वापराभ्यां सम्बन्धः. परमार्थत इति च नास्तीति पूर्वेण सम्बध्यत इति

5.11

अपि च स्वप्नावगता अप्य् अर्थाः केचिच्छोकहर्षादिव्यवहारहेतवो दृश्यन्ते. अतस् ते ऽपि सांवृता एव. तद्वच् च बाह्यार्थाभ्युपगमे स्वप्नादिभोगतुल्य एव शुभाशुभकर्मफलोपभोगो भवेत्. अतस् तन्निवृत्त्यर्थम् अपि परमार्थसत्ये बाह्ये प्रयस्यते इत्य् आह -- स्वप्नादी ति

5.12

कः पुनः स्वप्नतुल्यत्वे दोषः, अत आह -- न ही ति. किम् इति न प्रवर्तते अत आह -- यादृच्छिकत्वाद् इति. न हि स्वप्नसुखं मे भवतीति विद्वांसः प्रयस्यन्ति. यादृच्छिकं हि स्वप्नसुखम् अगणितसाम्परायिकैहिकनिमित्तं, न तत् प्रयस्यतो भवतीति बुद्ध्वा विद्वद्भिस् तूष्णीम् उदासीनैर् एवास्येत, न क्वचित् प्रयत्नः क्रियेतेत्य् अर्थः

5.13

अतो ऽवश्यं पारमार्थिकीं फलप्राप्तिम् इच्छद्भिर् उपपत्त्या बाह्यवस्तुविषया प्रतिपत्तिर् विधातव्येत्य् अस्ति विचारस्य प्रयोजनम् इत्य् उपसंहरति -- परमार्थे ति

5.16

अत्र भाष्यकारेण बाह्यार्थसद्भाव एव पूर्वपक्षपुरस्सरं प्रतिपादितः, न तु ज्ञानसद्भावः. तत् कस्य हेतोः. अस्ति हि तत्सद्भावविप्रतिपत्तिर् अपि. माध्यमिका हि ज्ञानम् अप्य् अपलपन्ति. अतस् तन्निराकरणम् अपि युक्तम्. यत्{2,36}पुनस्तदुपेक्ष्यैव बाह्यार्थापलापो निराक्रियते, तत्र कारणं वक्तव्यम् अत आह -- तत्रे ति त्रयेण. अस्यार्थः -- योगाचारा हि ज्ञानमात्रम् अर्थशून्यं पारमार्थिकं मन्यन्ते. माध्यमिकास् तु ज्ञेयाभावाद् अकर्मकज्ञानानुत्पत्तेर् ज्ञानस्याप्य् अभावम् इच्छन्ति. तत्र द्वयोर् अपि वादिनोस् तावद् बाह्यार्थशून्यत्वं साधारणम्. अर्थनिवृत्त्यधीनत्वात् ज्ञाननिवृत्तेः. अतो द्वयोर् अपि साधारणो बाह्यार्थापलाप इति स एव निराक्रियते. अपि च तन्मूलो ज्ञानापह्नवः. ततस् तस्मिन् निराकृते निराकृत एवेति बाह्यार्थसद्भावे पूर्वोत्तरपक्षविभागेन भाष्यकृता प्रयत्नः कृतः. आद्यस् तत्रशब्दो वाक्योपन्यासार्थः. द्वितीयस् तु पूर्वोक्तदर्शनभेदपरामर्शार्थः. तत्र मतभेदे इत्य् अर्थः

5.17

ननु बाह्यार्थापह्नवो द्विधैव बौद्धैर् आश्रितः प्रमाणतः प्रमेयतश् च. तथा हि -- एवं तैर् उक्तं - न तावदणवो ऽतीन्द्रियाः प्रमाणविषयाः. न तत्समूहः, तस्य तदतिरेकिणो ऽभावात्. नावयवी. तस्यावयवव्यतिरेकेणानुपलम्भात्. अव्यतिरेके च तन्मात्रापातात्. एवम् आन्त्यावयवेभ्यो विकल्प्य अवयवी निराकार्यः. ते त्व् अतीन्द्रिया एव. अतो न किञ्चन ग्राह्यम् अवतिष्ठते इति. तद् एतत् परित्यागे किं कारणं, यत् प्रमाणत एव बाह्यापह्नव उपन्यस्यते निरस्यते चेति. अत आह -- बाह्यार्थे ति सार्धेन. अयम् अर्थः -- यद्य् अपि द्वेधा बाह्यार्थापह्नवो बौद्धैर् आश्रितः, तथापि प्रमाणाश्रित एव मूलभूतत्वाद् इह विचार्यते. प्रमाणमूला हि प्रमेयस्थितिः. तद् यदि प्रमाणम् अनुगुणं, किं वस्तुविकल्पैः. न तद्बलेन तदनुपपत्तिं परिहृत्यार्थो व्यवस्थाप्यते. अथ तु{2,37}प्रमाणम् एवार्थं प्रत्याचष्टे, किं प्रमेयविकल्पैः कृतकरैर् इति. इह शाबरे तन्त्रे. इदानीम् अस्मिन्न् अवसरे. प्रमाणस्थ एव बाह्यापह्नवो विचार्यत इति

5.18

ननु यदि प्रमाणस्थो विचारयितव्यः, ततः प्रत्यक्षस्य मुख्यत्वात् तदनुसारेणैव विचारो युक्तः. बौद्धैर् अपि प्रत्यक्षसामर्थ्याद् एवैकं तत्त्वम् आश्रितम्. नैकस्मिन्न् आकारे भासमाने द्वैतम् आत्मानं लभते इति हि मन्यन्ते. अनुमानं तु भ्राम्यतः प्रत्युक्तम् इति किं तत्पुरस्सरीक्रियते अत आह -- प्रस्तुत इति. एवं हि मन्यते -- यद्य् अपि प्रत्यक्षशक्तिनिरूपणम् एव बाह्यार्थसदसद्भावयोः प्रधानं, तथापि परैर् अनुमानम् अपि बाह्यापह्नवे दर्शितम् इति तद् अपि निराकार्यम्. अनिराकृते हि तस्मिंस् तत्रैव केचिद् आस्थां प्रतिबध्नीयुः. अत्र चायम् एवोपन्यासक्रमो युक्तः यत् प्रथमम् अनुमानम् उपन्यस्यते, ततस् तस्य प्रत्यक्षेण बाधम् उपन्यस्य तस्मिंश् चोक्ते पुनः प्रत्यक्षशक्त्यपेक्षणेन पूर्वोत्तरपक्षावा(?दाव् ए।द ए)व प्रत्यक्षशक्तिनिरूपणेन निर्णये कृते ऽनुमानस्योपन्यासो ऽनवसर एव स्याद् इति

5.21

अनुमानभाष्यम् इदानीं प्रकृतसङ्गतिदर्शनार्थम् अवतारयति -- तत्रे ति इत्य् अन्तेन. सङ्गतिम् आह -- अस्ये ति दुर्लभ इत्यन्तेन. अयम् अर्थः -- यत् सूत्रकारेण तत्संयोगजं प्रत्यक्षम् उक्तं तदाक्षेपेणैव सङ्गच्छते. काल्पनिको ह्य् अयम् इन्द्रियार्थसम्प्रयोगः, इन्द्रियादेर् अभावात्. काल्पनिकश् च सकलमिथ्याज्ञानसाधारण इति तदतद्योगजत्वविभागो न युक्त इति सूत्रोक्ताक्षेप इति

5.22

{2,38} स्वोक्ताक्षेपेण वा सङ्गतिर् इत्य् आह -- मिथ्यात्वम् इति. यद् एतद्वृत्तिकारग्रन्थान्त उक्तं - यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनप्रत्ययः नान्यः इति तदनेनाक्षिप्यते. सर्वमिथ्यात्वे विशेषणोपादानवैयर्थ्यम् इति

5.23

भाष्यतिरोहितम् अनुमानम् इदानीं विस्पष्टम् उपन्यस्यति -- स्तम्भादी ति. स्तम्भादिप्रत्यय इति धर्मिनिर्देशः. मिथ्येति धर्मवचनं, प्रत्ययत्वाद् इति हेतुः. तथाहीति दृष्टान्तवचनम् इति

5.25

अत्र भाष्यं सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः इति. तद् यथाश्रुतं सर्वेषाम् अनालम्बनत्वं साधयति. तत्र चांशे सिद्धसाधनता स्यात्, विभ्रमाणाम् अनालम्बनत्वात्. यद्विज्ञानम् अन्यथा सन्तम् अन्यथा बुध्यते ऽर्थं तन्निरालम्बनम् इष्यत एव. तथा सर्वस्मिन् पक्षीकृते स्वप्नज्ञानस्यापि तदन्तर्भावाद् दृष्टान्ताभावः. सर्व एवेति चैवशब्दानुपपत्तिश् च. स हि विभक्तप्रतिषेधे दृष्टः. यथेदं देवेभ्य इदं ब्राह्मणेभ्य इति विभक्ते भवति वचनं सर्वम् एवेदं ब्राह्मणेभ्य इति. तत्र विभागप्रतिषेधपर एवकारो दृश्यते. सर्वस्मिंस् तु पक्षे सर्व इत्य् आचक्षीत, नैवकारं प्रयुञ्जीत. अतो जाग्रद्बुद्धिविवक्षयैव भाष्यं व्याख्यातव्यम् इत्य् आह -- सिद्धसाधने ति सार्धेन. नन्व् एवम् अप्य् अविशेषितनिरालम्बनत्वोपादाने ऽभ्युपगमविरोधः. स्वांशालम्बनत्वं ज्ञानानां बौद्धैर् इष्यत एवात आह -- स्वांशे ति. अत एव कारणाद् बाह्यविशेषणविशिष्टम् अनालम्बनत्वं साधनीयम् इत्य् अर्थः

5.26

{2,39} अपरम् अपि भाष्यं प्रत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्ने. जाग्रतो ऽपि स्तम्भ इति वा कुड्य इति वा प्रत्यय एव भवति, तस्मात् सो ऽपि निरालम्बनः इति. तस्यार्थम् आह -- प्रत्ययस्ये ति. प्रत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्ने इत्य् एतावता भागेन तावत् साध्येन निरालम्बनत्वेन व्याप्तं प्रत्ययत्वं हेतुर् निर्दिश्यते. दृष्टान्तवचनम् इति यावद् इति. ननु न प्रत्ययत्वाद् इति हेतुर् उपात्तः, कस्य व्याप्तिर् निर्दिश्यते. अत आह -- हेतुश् चे ति. यद्य् अपि प्रत्ययत्वस्य न व्यक्तं पञ्चम्या हेतुत्वम् उपात्तं, तथापि उपनयनाख्येन साधनवाक्यावयवेन जाग्रतो ऽपीत्यादिना हेतुः प्रदर्शित एव. यदैव हि साध्यान्वितं प्रदर्शितं प्रत्ययत्वं पुनः प्रतिज्ञार्थ उपनीयते, तदैव तद् अत्र हेतुर् इति प्रदर्शितं भवत्य् एव. साध्यान्वितस्यैव पक्षस्थस्य हेतुत्वाद् इति. कः पुनर् अयम् उपनयः. साधनवाक्यावयवविशेषः. पञ्चावयवं हि साधनवाक्यं प्रतिज्ञा हेतुर् उदाहरणम् उपनयो निगमनं चेति. तत्र साध्यनिर्देशः प्रतिज्ञा. यथा अनित्यः शब्द इति. उत्पत्तिधर्मकत्वाद् इति हेतुः. उत्पत्तिधर्मकं स्थाल्यादि द्रव्यम् अनित्यं दृष्टम् इत्य् उदाहरणम्. तथा चोत्पत्तिधर्मकः शब्द इत्य् उपनयः. स ह्य् उदाहरणापेक्षंस् तथेत्य् उपसंहारो न तथेति वा साध्यस्योपनय इति वर्णितम्. किम् उक्तं भवति. द्वेधा हि हेतुः साध्यं साधयति उदाहरणसाधर्म्याद् वैधर्म्याद् वा. तत्र साधर्म्यं प्रदर्शितम्. वैधर्म्यं तु यथा -- तस्याम् एव प्रतिज्ञायां तस्मिन्न् एवोत्पत्तिधर्मकत्वाद् इति हेतौ अनुत्पत्तिधर्मकम् आत्मादि द्रव्यं नित्यं दृष्टम्. न च तथा शब्दो ऽनुत्पत्तिधर्मक इति. तत्र यो ऽयं द्विविधोदाहरणापेक्षः साधर्म्योदाहृते तथेति वैधर्म्योदाहृते न तथेति साध्यस्य शब्दस्य सम्बन्धितयोत्पत्तिधर्मकत्वस्योपसंहारवचनम् उपनयः, स चोदाहरणापेक्ष एव. उदाहरणद्वैताद् एव तदुपसंहारद्वैतं भवति. वैधर्म्योदाहरणेन च विरुद्धनिवृत्त्या साध्यसम्बन्धित्वेन हेतोर् उपसंहारः. यथात्मादि द्रव्यं नित्यम् अनुत्पत्तिधर्मकम्, न च तथा शब्दः इत्य् अनुत्पत्तिधर्मकत्वप्रतिषेधेनोत्पत्तिधर्मकत्वम् उपसंह्रियते. प्रकृते तु साधर्म्योदाहरणे{2,40}तथैवेति हेतोर् उपसंहार उपनयो वेदितव्यः. निगमनं तु हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम्. तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति. निगम्यन्ते ऽनेन
प्रतिज्ञाहेतूदाहरणोपनया एकत्रार्थ इति निगमनम्. समर्थ्यन्ते सम्बध्यन्ते इति यावत्. असति हि तस्मिन्न् अनभिव्यक्तसम्बन्धानाम् अर्थप्रतिपादकत्वं न स्यात्. सति तु तस्मिन् सर्वेषाम् अवयवानां तात्पर्यदर्शनात् परस्परसम्बन्धः स्फुटो भवति. निगमनं सङ्गमनं सम्बन्धनम् इति यावद् इति

5.27

ननु नाव्यावृत्तो विपक्षाद् धेतुर् भवतीति वैधर्म्यदर्शनेन हेतोर् व्यतिरेको दर्शयितव्यः. न चात्र तथा दर्शितः, साधर्म्यमात्रवचनात्. अत आह -- विपक्षे ति. निरालम्बनत्वे हि साध्यमाने सालम्बनत्वं विपक्षः. न च सर्वानालम्बनत्ववादिनस् तद् अस्तीति किं तद्व्यतिरेकप्रदर्शनेनेति. ननु प्रत्यये पक्षीकृते तस्मिन्न् एव हेतौ प्रतिज्ञार्थैकदेशो हेतुर् अत आह -- सामान्यस्ये ति. सामान्यविशेषात्मका हि प्रत्ययाः. तत्र विशेषे पक्षीकृते सामान्यं हेतुर् इति न प्रतिज्ञार्थैकदेशतेति

5.30

अत्र सिद्धान्तभाष्यं जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यतीति. अनेन किल सुपरिनिश्चितत्वेन जाग्रद्धियां सालम्बनत्वं साध्यते. न च सुपरिनिश्चितत्वं बाह्यालम्बनसम्बद्धं परान् प्रति प्रसिद्धम्. अतो नानेनासिद्धावयवेनानालम्बनानुमानं पराणुद्यते, सप्रतिसाधनं वा भवति. तस्योभयप्रसिद्धावयवत्वात्. अस्य च तद्विपरीतत्वात्. अतो{2,41}जात्युत्तरम् एवेदं भाष्यकारेण दत्तम् इत्य् आक्षिपति -- जाग्रज्ज्ञान इति द्वयेन. वैधर्म्यविकल्पसमयोश् च स्वरूपं शब्दे वक्ष्यामः. सत्य् एव प्रत्ययत्वे सुपरिनिश्चितासुपरिनिश्चितधर्मान्तरविकल्पनात् साध्यधर्मविकल्पापादनेन विकल्पसमता. तथा साधर्म्ये वादिना प्रयुक्ते निरालम्बनानां स्वप्नज्ञानानाम् असुपरिनिश्चितत्वदर्शनात् साध्येषु जाग्रज्ज्ञानेषु सुपरिनिश्चितत्वेन वैधर्म्यात् प्रत्यवस्थानेन वैधर्म्यसमता. प्रपञ्चस् तु पश्चाद् भविष्यतीत्य् उक्तम् इति ॥ 28 --29 ॥
एवम् आक्षिप्तं भाष्यम् एकेन[704]मतेन समादधाति -- दुष्टत्वाद् इति. एवं हि मन्यन्ते -- दुष्टसाधनप्रयोगे दुष्टम् एवोत्तरं देयम् इति, एवं हि तदा वादी प्रतिबोधितो भवति यथा भवान् मदीयं दूषणं दुष्टं मन्यते तथाहम् अपि[705]त्वत्साधनम्, अतो ऽसौ स्वसाधनान् निवर्तते इति. इदं तु समर्थनं नोपपद्यते. निग्रहस्थानद्वयप्रसक्तेः. पर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगात्मकनिग्रहस्थानद्वयम् एवंवादिनो भवेत्, यः सन्तं दोषम् अनुक्त्वान्यम् असन्तं जल्पति. न चैवंवादिनः स्वसाधनदूषणावगमो भवति. परम् एव तु दुष्टदूषणप्रयोगेणोपालभते. अतः पाशुपतोत्तरतुल्यम् एकजातीयकं वर्जनीयम् इत्य् अन्यथा समाधानम् आह -- प्रतिज्ञे ति. नानेनानुमानम् उपन्यस्यते. किन् तु परोक्तानुमानस्य प्रत्यक्षविरोधो वर्ण्यते. असन्निकृष्टे ऽर्थे ऽनुमानं प्रमाणम्. इह तु सुपरिनिश्चिताभिर् जाग्रद्बुद्धिभिर् निश्चितसद्भावस्य बाह्यस्य प्रत्याख्यानानुमानं प्रत्यक्षेण मुखनिरोधान् न जायत एवाग्नाव् इव शैत्यानुमानम्. यदि परं बाह्यस्य प्रयोगमात्रपर्यवसितम् एव साधनवचनम्, अनुमिमानस्यापि स्फुतो बहिर्विषयबो(?धे।धो) जायत एव. तथाविधस्यापि मिथ्यात्वे कः समाश्वासः. नन्व् एवम् अनुमानम् अनाश्वासनीयम् एव, न. तदभावात्, उक्तम् एतत् प्रत्यक्षे परिपन्थिनि न तत्प्रतिपक्षम् अनुमानम् आत्मानं लभेत श्रौत इव विनियोगे लैङ्गिकः. साधनवाक्ये त्व् अयोग्यान्वयपदसन्निकर्षाद् वन्ध्यासुतवाक्यवत् संसर्गज्ञानं भ्रान्तिर् एव. न तु कस्यचिद् लैङ्गिकं स्तम्भादिष्व् अभावज्ञानम् उत्पद्यते. ननु व्याप्तं प्रत्ययत्वम् अनालम्बनत्वेन. व्याप्याच् च ज्ञातसम्बन्धस्य व्यापकज्ञानं नोत्पद्यत इति{2,42}हठ एवायम्. न. व्याप्तिभङ्गात्. संविदन्न् एव हि व्याप्तिम् अबाधितेन प्रत्यक्षेण सर्वदेशकालादिभाविना न प्रत्ययत्वप्रयुक्तं मिथ्यात्वम्, अपि तु पूर्वोक्तहेतुद्वयप्रयुक्तम् इति निश्चिनोति. तद् इदम् उक्तम् -- अन्यतस् तु स्वप्नप्रत्ययस्य मिथ्याभावो विसंवादाद् अवगम्यते इति

5.32

__________नोतेस्__________
[704] केषां म
[705] त (ख)
कथं पुनर् अत्र प्रत्यक्षबाधः. प्रत्यक्षं हि ग्राह्यम् अन्तरेणात्मानम् अलभमानं तन्मात्रम् अवस्थापयति न बाह्यम्. किं हि तस्य बाह्येन विना न सिध्यति. ग्राह्यश् च स्वांशो बौद्धैर् अभ्युपगत एव. अतो न बाह्यापह्नवे प्रत्यक्षत्वादिविरोधः. अत आह -- शक्ष्याम इति द्वयेन. अयम् अभिप्रायः -- शून्यवादे हि प्रत्यक्षस्य स्वांशगोचरत्वं निराकरिष्याम एव. तन्निराकरणे च बाह्यविशेषणोपादानम् अनर्थकम् एव, तद्व्यतिरिक्तग्राह्यान्तरासम्भवात्. अतो ऽनालम्बनपक्षो ग्राह्यमात्रनिवारण एव भवति. प्रत्यक्षादेः स्वांशनिराकर(णा)द् बाह्य एव विषयो ऽवशिष्यते. अतो बाह्यविशेषणेन विना ग्राह्यमात्रापह्नवे भवति प्रत्यक्षादिभिः पक्षबाधः. सत्य् अपि कथञ्चिद् बाह्यविशेषणे प्रत्यक्षादेर् अपि बाह्यविषयावशेषात् तन्निषेधं कुर्वाणस्य वादिनस् तैः प्रत्यक्षादिभिः पक्षबाधनं भवेत्. पूर्वं तु प्रत्यक्षग्रहणम् उपलक्षणार्थं सर्वप्रत्यक्षादिविरोध एव त्व् अनालम्बनानुमानस्य दर्शयितव्य इति

5.33

यत् तु सुपरिनिश्चयेन बाह्यालम्बनसम्बन्धः प्रसिद्धः. किं तदुपन्यासेनेत्य् उक्तम्, अत आह -- सुनिश्चयेने ति. उक्तम् इदम् अस्माभिर् नायम् अनुमानप्रयोग इति, किन् त्व् अनुमानेन जाग्रत्प्रत्यक्षधियां स्वप्नधीसामान्यं मन्यमानस्य तद्वैषम्यप्रदर्शनार्थं सुपरिनिश्चितत्वाभिधानम्. सुपरिनिश्चिता एते{2,43}प्रत्यया बलीयांसः. नैषु परिपन्थिष्व् अनुमानम् आत्मानं लभते. एतस्माद् अनुमानाद् इत्य् अर्थः

5.34

एतद् एव प्रपञ्चयति -- दुष्टज्ञाने ति. दुष्टेनासुपरिनिश्चितेन गृहीतो ऽर्थः प्रतिषेधम् अर्हति नेतर इति. गृहीतमात्रबाधे तु बहवः साधनदोषा भाष्यकारेणान्तर्णीताः. तान् प्रतिपादयिष्यन् पक्षाभावं तावद् आह -- गृहीते ति. यदि गृहीतमात्रं मिथ्येत्य् उच्यते, तदा यो ऽयं निरालम्बनाः प्रत्यया इति स्वपक्षः सो ऽपि गृहीतत्वान् मिथ्या स्यात्. अतः शक्यं वक्तुं पक्ष एवास्मिन् भवत्साधने नास्तीति

5.36

अपि च, निरालम्बनत्वेन विशिष्टाः प्रत्ययाः साध्यन्ते. तद् इह विशेषणविशेष्यभेदावग्रहस्यापि मिथ्यात्वान् न विशेषणविशेष्ययोर् विवेकः सिध्यति, तदभावाच् च वक्तुं शक्यम् अप्रसिद्धविशेषणविशेष्यः पक्षो ऽप्रसिद्धान्यतरो वेति. तद् एतद् आह -- अग्राह्यत्वाच् चे ति. अन्यतरस्य वा असिद्धिर् वक्तव्येत्य् अर्थः.
दूषणान्तरम् आह -- वक्तृश्रोत्रोर् इति. पञ्चधा स्ववाग्विरोधः. अभिधोच्चारणधर्मधर्म्युभयोक्तिभिः. तद् इदम् उभयोक्त्या स्ववाग्विरोधः. द्वयोर् अपि विशेषणविशेष्ययोर् निरालम्बनत्वप्रत्यययोर् यद् वक्तुः श्रोतुश् च ज्ञानं जायते, तद् अपि प्रत्ययत्वाद् अनालम्बनम् इति पक्षो न सिध्यतीति, तत्सालम्बनत्वे चानैकान्तिकत्वान् न प्रत्ययानाम् अनालम्बनत्वं भवेत्. सो ऽयम् उभयोक्त्या स्ववाग्विरोध इति

5.37

{2,44} दूषणान्तरम् आह -- सम्भवो न चे ति. एवं हि विकल्पनीयम्. किं निरालम्बनत्वं धर्मिणो भिन्नम् अभिन्नं वा. न तावद् अभिन्नं विशेषणम् अर्हति. न च भेदग्राहिणो ज्ञानस्य मिथ्यात्वाद् भेत्तुम् अर्हतीति. उपसंहरति -- तस्माद् इति

5.38

बौद्धानां प्रत्यवस्थानम् आह -- निरालम्बनते ति. एवं हि मन्यन्ते -- वस्तुनि व्यतिरेकादिविकल्पो युक्तः नावस्तुनि. यथाहुः -- वस्तुन्य् एष विकल्पः स्याद् इति. न चालम्बनप्रतिषेधो वस्तुनः किं तद्व्यतिरेकादिप्रश्नेनेति

5.39

दूषणा[706]न्तरम् आह -- यदी ति त्वम् अन्तेन. यदि तावद् अवस्तु, कथं तद् अस्मान् प्रतिबोधयितुम् इच्छा भवतः. स्वयं वा तद्विषया बुद्धिः. न ह्य् अवस्तु बुद्धिविषयो भवति. तद्विषयत्वे च वस्तुत्वापातात्. अर्थक्रियालक्षणत्वाच् च सत्त्वस्य. तल्लक्षणत्वाच् च वस्तुत्वस्येति. यदि तूच्यते - यद्य् अपि निरालम्बनत्वं नाम न किञ्चित् परमार्थतो ऽस्ति. तथापि तत्सत्त्वं कल्पयित्वानुमानव्यवहारः क्रियते प्रतिमायाम् इव देवतात्वम् आराधनादिव्यवहार इति. तद् अयुक्तम्. असतः कल्पनायोगात्. अन्यत्र प्रसिद्धसद्भावा हि विष्ण्वाद्या देवता युक्तं[707]यद् अन्यत्र कल्प्यन्ते. अत्यन्ताप्रसिद्धसद्भावं त्व् अनालम्बनत्वं न गगनकुसुमादिवत् कल्पनाम् अर्थति. तद् एतद् आशङ्कया सहाह -- कल्पिते ति

5.40

__________नोतेस्__________
[706] णम् आ
[707] क्ता (ख)
{2,45} अपि च केयं कल्पना. यदि ज्ञानं, किं तेन ज्ञायते. यदि निरालम्बनत्वम्, तत् तर्हि कल्पना ज्ञानोत्पत्तौ व्याप्रियमाणा कथम् अवस्तु भविष्यति. अर्थक्रियाकारित्वम् एव हि वस्तुत्वं, ज्ञानोत्पादनम् अपि चार्थक्रियेत्यभिप्रायेणाह -- कॢप्ताव् इति. अत्र चोदयति -- कथम् इति. यद्य् अवस्तु न साध्यं, कथं तर्हि भवताम् अपि मेघाभावेन वृष्ट्यभावः साध्यत इति. परिहरति -- वस्त्व् इति. भवेद् एवं यद्य् अभावो न वस्तु स्यात्. स वस्त्व् इत्य् अभावपरिच्छेदे वक्ष्यते. यद्य् अपि चाभावो न वस्तुशब्दवाच्यः लोकविरोधात्, तथापि नासौ निस्स्वभावः. प्रख्यायते ह्य् असौ स्वसंवेद्येन भावातिरेकिणा रूपेण. अतो ऽर्थक्रियाया एव घटिष्यत इति न किञ्चिद् अनुपपन्नम् इति

5.42

किञ् चेदम् अपि चात्र विकल्पनीयं - यो ऽयं धर्मिणो निर्देशकः प्रत्ययशब्दः स किं भावे कर्तरि करणे वा व्युत्पद्यते, कर्मणि वा. पूर्वोक्तेषु तावत् कल्पेषु विरोधः, अकर्मकप्रत्ययासम्भवात्. न हि प्रतीतिर् अस्ति प्रत्येतव्यं नास्तीति सम्भवति. तदनवष्टब्धस्य (?कृ।त)द्रूपस्याप्रकाशात्. एवम् एव कर्तृकरणयोर् अपि वाच्यम्. यदि ज्ञानम् एवार्थप्रकाशे तज्जन्मनि वा कर्तृत्वेनोपचर्यते करणत्वेन वा विवक्षाधीनत्वात् कारकाणां, तथापि तयोः प्रत्याय्येन कर्मकारकेण विनानुपपत्तिः. सो ऽयं स्ववाग्विरोधः. प्रत्यय इत्य् उक्तमात्र एव तत्स्वभावपरामर्शात् प्रत्येतव्याभावः प्रतिषिध्यते माता मे वन्ध्येतिवन्मातृत्वेन वन्ध्यात्वम्. अतो न प्रत्यये पक्षीकृते निरालम्बनत्वं साधयितुं शक्यम्. कर्मव्युत्पत्तौ सिद्धसाधनम् एव. तद् एतत् सर्वम् आह -- तथे ति ॥
सिद्धसाधनं विवृणोति -- प्रत्याय्यस्ये ति. न खलु जडो रूपादिः किञ्चिन्नालम्बत इति

5.43

{2,46} कर्तृकरणपक्षे त्व् अयम् अपरो दोषः यद्धर्मधर्मिवचनयोः शब्दयोर् अपि निरालम्बनत्वं प्रतिज्ञायेत. प्रतीते हि कर्ता करणं वा प्रत्ययः. यथा च कर्तृकरणत्वे विवक्षावशाद् ज्ञाने भवतः, तथा शब्द इति. अत एव वक्ष्यति --
शब्दानां करणत्वं वा कर्तृत्वं वा निरूपितम् ।
इति. किञ् चेदं शब्दयोर् अनालम्बनत्वम् अन्यद् अतो ऽभिधेयाभावात्. तदभावे च पक्षाभावः प्रसज्यत इत्य् आह -- कर्तृत्व इति

5.44

भावादिषु विरोधः स्याद् इति यद् उक्तं तद् विवृणोति -- प्रत्याय्येन चे ति. कर्त्रादिभावो हि न प्रत्याय्यभेदम् अन्तरेण सम्भवति. अतस् तत्प्रवृत्तिनिमित्ते प्रत्ययशब्दे स्ववचनविरोधः. स चायम् अस्माभिः प्राग् एव विवृतः. वाशब्दो ऽनन्तरविवृतकर्मव्युत्पत्त्यपेक्षयेति

5.45

यदि त्व् अविभक्तावयवो रूढिरूपेण प्रत्ययशब्द उपादीयते, तदर्थश् च पक्षीक्रियते, तथापि वस्त्व् अन्तरग्राहकस्यैव वस्तुतो ऽस्माकं प्रत्ययत्वेन प्रसिद्धेः स्ववचनविरोध एव भवेत्, तद् एतद् आह -- अथापी ति. तथापीति. तथापि स्ववचनविरोध इति पूर्वेण सम्बन्ध इति. कथं स्ववचनविरोधः. अत आह -- ग्राहकम् इति

5.46

वस्त्वन्तरस्यैव हि ग्राह्यस्य ग्राहकम् आत्मधर्माख्यं वस्त्व् एव प्रत्यय इति नः प्रसिद्धम्. अतः कथं तस्यासति ग्राह्ये सिद्धिर् इति दूषणान्तरम् आह -- तम् अभ्युपेत्ये ति. एवम् अयम् असाधनवादी वक्तव्यः किं याद्र्शो ऽस्माभिः प्रत्यय{2,47}इष्यते स तथाविध एवाभ्युपेत्य भवता पक्षीक्रियते, न वा. तत्राभ्युपगमे तावदभ्युपेतविरोध इति. अपि चैवं सति चाप्रसिद्धविशेष्यः पक्षो भवति, त्वन्मते बाह्यार्थग्राहिप्रत्ययानभ्युपगमाद् इत्य् आह -- विशेष्यस्ये ति. अतादृशे तु स्वाभिमते पक्षे ऽस्माकम् अप्रसिद्धविशेष्यः पक्ष इत्य् आह -- अस्माकम् इति

5.47

किञ् च यादृगात्मधर्मः प्रत्ययो ऽस्माकम् अभिमतः, स पक्षो भवदभिमतो ऽथवा स्वतन्त्रः. पूर्वस्मिन् कल्पे भवतो ऽप्रसिद्धविशेष्यता. उत्तरस्मिन्न् अस्माकम् इति पूर्ववद् एव दर्शयितव्यम् इत्य् आह -- आत्मधर्मे ति. यदि त्व् अनिर्धारितविशेषं प्रत्ययमात्रं पक्षीक्रियत इत्य् उच्यते, तन् न. तथाविधस्यानिरूपणाद् इत्य् आह -- न चे ति

5.48

ननु शक्यम् इदम् अन्येष्व् अपि पक्षीकृतेषु वक्तुं यथा -- किम् आकाशगुणः शब्दः स्वतन्त्रं वा द्रव्यं पौद्गलाख्यं वा नित्यतया पक्षीक्रियत इति. अथ तत्राविवक्षितविशेषं शब्दार्थसामान्योपलक्षितं रूपं पक्ष इत्य् उच्यते, तद् इहापि समानम् इत्य् अत आह -- शब्दे ति. यथा शब्दार्थसामान्यरूपेणान्येषां पक्षाणां निरूपणं भवति, नैवम् इह भवतः सम्भवति. असाधारणरूपातिरेकिणः सामान्यात्मनो वाच्यस्य भवताम् अनिष्टत्वाद् इति

5.49

एवं तावद् धर्मी विकल्प्य दूषितः. धर्मम् इदानीं निरालम्बनत्वं विकल्प्य दूषयति -- निरालम्बनते ति. सर्वथा निरालम्बनत्वे साध्ये ऽप्रसिद्धविशेषणः पक्षो भवति. न हि सर्वथा निरालम्बनत्वं नाम किञ्चिद्{2,48}अस्ति. सर्वत्र देशकालान्तरावस्थितबाह्यालम्बनाभ्युपगमात्. यश् च स्वप्नप्रत्ययो दृष्टान्ततयोक्तः, सो ऽपि न सर्वथा निरालम्बनः. सर्वत्र यथाकथञ्चिदालम्बनसिद्धेर् वक्ष्यमाणत्वात्. अतो दृष्टान्ताभावो ऽप्य् एवं सत्यापद्येतेति

5.50

यदि तु न सर्वथा निरालम्बनत्वं साध्यते. किन् तु सालम्बनस्यैव केनापि प्रकारेण निरालम्बनत्वम् अपीत्य् उच्यते, तदा रसादिज्ञानानां रूपाद्यालम्बनशून्यतया सिद्धसाधनम् इत्य् आह -- केनचिद् इति

5.51

ननु यदाकारा बुद्धिस् तन् नालम्बते इति साधयिष्यामः न सिद्धसाधनं भविष्यतीति, तद् एतदाशङ्कते -- अथे ति. एतद् अपि निराकरोति -- स्वाकारस्येति. अभ्युपगतो हि भवद्भिः स्वाकारो बुद्धेर् आलम्बनं यदाभासं[708]प्रमेयं तद् इति वदद्भिः. अतस् तदालम्बनाभावो ऽभ्युपेतेनैव विरुध्यत इति

5.52

__________नोतेस्__________
[708] कारं प्र (ख)
ननु किम् आपाद्य दूषणोद्भावनम्. बाह्यानालम्बनत्वं हि नः पक्षः. तथा च भाष्योपस्कारे वर्णितम् एव. अतो नाभ्युपेतबाध इत्य् अत आह -- बाह्ये ति. अयम् अभिप्रायः -- विकल्पनीयम् इदं बाह्यानालम्बनत्वम्. किं बाह्यम् इत्य् अनेन रूपेण नालम्बत इत्य् एवं साध्यते, वस्तुतो वा बाह्यं नालम्बत इति. पूर्वस्मिन् पक्षे सिद्धसाधनम्. परस्मिन् दोषो वक्ष्यते. स्तम्भादिधियो हि स्तम्भाद्याकारतयैव स्वविषयम् आलम्बन्ते न बाह्यतयेति

5.53

{2,49} यदि तु स्तम्भानालम्बनत्वम् एव साध्यते, ततस् तद्रूपसंवेदनस्य दृष्टत्वात् संविद्विरोध एवेत्य् आह -- तथे ति

5.54

अत्र चोदयति -- द्विचन्द्रादिष्व् इति. एवं हि मन्यन्ते -- समानो ऽयम् अनालम्बनत्वाभिमतेषु द्विचन्द्रादिबोधेषु संविद्विरोधः. तत्रापि द्वाव् एव चन्द्रौ भासेते. तदपह्नवे स्फुट एव संविद्विरोधः. अतः केन प्रकारेण तेषाम् अनालम्बनत्वं भविष्यतीति. परिहरति -- नेन्द्रिये ति. अयम् अभिप्रायः -- यदि वयं प्रतिभासविपर्यासाद् अन्यथात्वं ब्रूमः, तत एवम् उपालभ्येमहि. न त्व् एवम्. यद् एव विज्ञानम् इन्द्रियाप्राप्तम् अर्थं प्रकाशयति तदनालम्बनम् इति नः सिद्धान्तः. तथा च द्विचन्द्रादिज्ञानम्. ततो ऽनालम्बनम् इत्य् उच्यते. न पुनर्द्विचन्द्रादिप्रतिभासापह्नवेन, अतो न नः संविद्विरोधः, नचानालम्बनत्वस्याप्रसिद्धिर् इति

5.55

नन्व् एवं संवेदनानपह्नवे यथावभासम् अर्थस्य सत्त्वात् सदसद्विवेको न स्याद् अत आह -- सर्वत्रे ति. अस्यार्थः -- इदं सद् ग्राह्यम् इदम् असद् ग्राह्यम् इति नायम् अर्थ इदम् अर्थं प्रकाशयति इदं नेति. किन् तर्हि. जायमानायाम् एवार्थगोचरायां संवित्ताव् इन्द्रियार्थसंयोगसदसत्त्वतो ऽयं विभागः. यद् इन्द्रियसम्प्रयुक्तम् अर्थं प्रकाशयति तत् सद् ग्राह्यम्. विपरीतम् अन्यत्. न च यथावभासम् अर्थस्य सत्त्वम्. बाधकदर्शनात्. अतो यद् देशान्तरस्थम् इन्द्रियाप्राप्तम् अर्थं गृह्णाति तद् असद् ग्राह्यम्. तस्यार्थो नास्तीत्य् उच्यते. क्वचिद् धि किञ्चित् प्रतिषिध्यते. न स्वरूपेणैव किञ्चित्. चेदं रजतम् इति नायम् अर्थः{2,50} रजतं नास्तीति. अस्ति हि तद् देशान्तरादिषु. किन् तु इह नास्तीति यत्रेन्द्रियेण न प्राप्यते, इदम् अस्तीत्य् अपि यद् एव यत्रेन्द्रियेण प्राप्यते तद् उच्यते. इह घटो ऽस्तीति प्रतीतिः न पुनर् घटो ऽस्तीति

5.56

न चैष विभागो बौद्धस्य सम्भवतीत्य् आह -- भवत इति. न च बौद्धस्येन्द्रियादीनि सन्ति यत् प्राप्त्यप्राप्तिनिबन्धनं भावालम्बनालम्बनप्रतिषेधौ युज्येते इति

5.57

दूषणान्तरम् आह -- बहिर्भावे ति साध्यते न्तेन. न ह्य् अनालम्बनज्ञानवादिनां बहिर्भावो नाम कश्चित् सिद्धः, येन विशिष्टम् अनालम्बनत्वं बुद्धेः साध्यत इति. किम् इति न साध्यते, अत आह -- नैष इति. पक्षप्रज्ञापनार्थं हि साधनवचनं, नचाप्रसिद्धपदार्थविशिष्टः पक्षो ज्ञापयितुं शक्यत इति

5.58

किं पुनः पक्षो न ज्ञायते. अज्ञाते विशेषणविशेष्ये च विशिष्टो न ज्ञायते. तच् चोभयम् अपि प्रसिद्धम् एवेति किं विशेषणविशेषणाप्रसिद्ध्या, अत आह -- यथे ति. विशेषणाप्रसिद्धाव् एव किम्. न तावत् पक्षसिद्धिः, तथाविधम् अन्यो बोधयितुं न शक्यत इति चेत्, समानम् इदं तद्विशेषणाप्रसिद्धाव् अपीति तद्विशेषणाप्रसिद्धौ पक्षो न ज्ञायत इति सूक्तम् इति

5.59

एतद् एव प्रपञ्चयति -- नाप्रसिद्ध इति. प्रतिज्ञावाक्यार्थो हि{2,51}पक्षः, स च पदार्थपूर्वकः. अतो बाह्यादिपदार्थासिद्धौ पक्षो न सिध्यतीति

5.60

दूषणान्तरम् आह -- पर्युदास इति. (?न।ना)व्यतिरिक्तालम्बनः प्रत्ययः, (व्यतिरिक्तं नालम्बते) इति हि द्वाव् अर्थौ सम्भवतः पर्युदासप्रतिषेधाभ्याम्. पर्युदासे हि नामयोगान्नञो ऽव्यतिरिक्तालम्बनः प्रत्यय इत्य् अर्थो भवति. निषेधे तु आख्यातयो(गाद्) व्यतिरिक्तं नालम्बत इति. उभयथा हि सिद्धसाधनम्. प्रमेयत्वादिना हि जगतो न भेदम् आतिष्ठामहे. अतः स्तम्भादिज्ञानात् प्रमेयत्वादिनाव्यतिरिक्तं भवति. अत एवाभेदाद् व्यतिरिक्तं च न भवतीति सिद्धसाधनम् इति

5.61

किञ् च, इदम् अपि चात्र विकल्पनीयं किम् अत्यन्तभिन्नेन स्तम्भादिना निरालम्बनत्वं साध्यते, कथञ्चिद् भिन्नेन वा. पूर्वस्मिन् कल्पे तावत् सिद्धसाधनम् एवेत्य् आह -- यदी ति. सिद्धसाधनम् इत्य् अतीतेन सम्बन्ध इति. कथञ्चिद् भिन्नेन तु निरालम्बनत्वे साध्यमाने प्राक् कल्पितेन पक्षविरोधः. इष्यते हि कथञ्चित् कल्पनामात्रकल्पितं भवद्भिर् अपि बाह्यालम्बनम्. अतस् तन्निषेधे भवति प्राक्कल्पितेन पक्षबाधः. तद् एतद् आह -- कथञ्चिद् इति

5.62

अन्यथा सिद्धसाधनं दर्शयति -- वस्त्व् इति. बुद्धिर् हि वस्त्वाद्याकारेण जडरूपा न किञ्चिदालम्बत इति सिद्धम् एव. असाधारणेन तु प्रकाशात्मना{2,52}बाह्यम् आलम्बते. तत्राविशेषितोपादाने शक्यं सिद्धसाधनं दर्शयितुम् इति. ननु ग्राहकाद् ग्राह्यम् अभिन्नम् इतीदम् अत्र नः साध्यं, तत्र किं नानाविकल्पैः. अत आह -- ग्राहकाद् इति. न तावन्निरालम्बनाः प्रत्यया इत्य् अयम् अर्थः ग्राहकाद् ग्राह्यम् अभिन्नम् इति. एवं सत्य् अपि यद् द्विशक्तिकत्वं ज्ञानस्येष्टं ग्राह्यग्राहकशक्तिकं ज्ञानम् इति तद् विरुध्यते, ग्राह्यापलापात्. यद्य् अपि न बौद्धैर् आश्रयातिरेकिणी शक्तिर् इष्यते, तथापि शक्तिभेदद्वारेण द्व्यात्मकत्वम् एव दर्शयतीति द्रष्टव्यम् इति

5.63

यदि तु सर्वप्रकारासम्भवान् निरालम्बनबुद्ध्युत्पत्तिमात्रम् एव प्रसाध्यते, तत्रापि च सिद्धसाधनम् एव. उत्पद्यते हि निरालम्बनाः प्रत्यया इत्य् उक्ते निरालम्बनत्वबुद्धिः. न त्व् इयम् अर्थक्रियायै समर्था, अनर्थकत्वाद् इत्य् अभिप्रायेणाह -- निरालम्बने ति

5.64

नचानर्थकत्वम् एवास्या न सिद्धम् इति वाच्यम्. तत्सत्यत्वे हेतोर् अनैकान्तिकत्वप्रसङ्गात्. अतो मृगतृष्णादिज्ञानवद् एवात्मांशपर्यवसायिनी बुद्धिर् इयम् अभ्युपगन्तव्या. अस्माकम् अपि सर्वमिथ्यात्वग्राहिप्रत्ययमिथ्यात्वं सिद्धम् एवेत्य् आवयोर् अविवादात् सिद्धम् अनालम्बनबुद्धेर् अनर्थकत्वम् इत्य् आह -- सम्यक्त्वम् इति

5.67

एवं चोत्पन्नायाम् अप्य् अर्थशून्यायाम् आत्मांशपर्यवसायिन्यामनालम्बनबुद्धौ चैत्रादिप्रत्ययानां पक्षीकृतानां धर्मतया निरालम्बनता न गृहीता साधनोत्थितया धियेति, नानाविषयत्वात् प्रतियोगिना निरालम्बनत्वेनानिराकृता{2,53}सती चैत्रादिस्वरूपपर्यालोचनयालम्बनप्राप्तिः केन वारयितुं शक्या. स मानविषयोपनिपातिनोर् हि विरुद्धार्थगोचरयोः प्रत्यययोर् बाध्यबाधकभावो भवति, यथेदं रजतं नेदं रजतम् इति चानयोः. न चेह तथा. चैत्रादिप्रत्यया हि स्वविषयं स्थापयन्ति. न च तन्निरालम्बनबुद्धिः प्रतिक्षिपति, अर्थाभावात्. स्वांशगोचरा हि सा. अतो ऽस्याः स्वांशो विषयः. चैत्रादिप्रत्ययानां च चैत्रादय इति स्पष्टो विषयभेद इति किं केन बाध्यत इत्य् उच्यते. तद् एतद् आह -- चैत्रादी ति द्वयेन ॥ 65 -- 66 ॥
किञ्च यत् तत् पूर्वम् उक्तं कर्तृत्वे करणत्वे वा प्रत्ययत्वे शब्दो ऽपि प्रत्ययशब्दवाच्य इति, तद् यदि तथैव प्रत्ययशब्दो ऽप्य् अत्र प्रतीतिकर्तृकरणत्वात्मना प्रत्ययत्वेनोपादीयते, तत्संवित्त्यालम्बनत्वं चैत्रादीनां वार्यते, चैत्रादयः प्रत्ययशब्दसंवित्त्यालम्बना न भवन्तीति. ततस् तस्याचेतनत्वेन तत्संवित्त्यालम्बनत्वं चैत्रादीनां नास्ति अंशे सिद्धसाधनम् एवेत्य् आह -- यदी ति

5.76

अथ तु बुद्ध्युत्पादनशक्तिविरहस्तस्यानालम्बनत्वम् इत्य् उच्यते प्रत्ययशब्दो निरालम्बन इति, किम् उक्तं भवति. न किञ्चिद्विषयां बुद्धिम् उत्पादयितुं शक्यत इति. ततस् तेनाशक्तेन पक्षो न बोधित इति साध्यं न सिध्यतीत्य् आह -- बुद्ध्युत्पादने ति. साध्यासिद्धौ कारणम् आह -- साधनस्ये ति ॥
{2,54} पूर्वाभ्युपगमविरुद्धो ऽप्य् अयं पक्ष इत्य् आह -- न चे ति त्रयेण. न तावदनभिधायकेषु पदेषु साधनवाक्यं प्रयोगम् अर्हति. न चाभिधानम् अर्थसम्बन्धादृते पदानां सम्भवति. न च सम्बन्धो भेदम् अन्तरेण. न च भेदः शब्दार्थगतभेदं बोधयन्त्या धिया विना (?न) सम्भवति. तद् अत्र साधनं प्रयुञ्जानेन भिन्नौ शब्दार्थाव् अभ्युपगन्तव्यौ. तथा सति प्राश्निकाः सभ्या गृह्णन्ति च सावयवं साधनवाक्यं पृथक् च पक्षहेतुदृष्टान्तान् वादिप्रतिवादिनौ चेति. यावद् इदं नावस्थाप्यते न तावद् व्युत्थित प्रतिपादनाय साधनस्य प्रयोगो भवति. एतच् च सर्वम् अभ्युपेत्य निरालम्बनत्वे साध्यमाने भवति पूर्वाभ्युपगतविरोध इति ॥ 69 -- 71 ॥
आप्ततमत्वाभिमतबुद्धाभिप्रायविरुद्धो ऽप्य् अयं पक्ष इत्य् आह -- धर्मे ति भेदो न्तेन. यावद् धि धर्माधर्मौ भिन्नौ परमार्थौ न सिध्यतः शिष्यश् चोपदेश्यः आत्मा चोपदेष्टा, तावन् न धर्माधर्मोपदेशो घटत इति. उपदिष्टाश् च चैत्यवन्दनादयः शिष्येभ्यो धर्मत्वेन बुद्धैः. अतश् चेष्टादर्शनेन सर्वम् अनुमतं बुद्धानाम् इति तेषाम् आशय उन्नीयते. अतस् तद्विपरीतवचने भवति तदभिप्रायविरोध{2,55}इति. अपि च क्वचित् सूत्रविशेषे स्फुटम् एव तैर् बाह्यार्थो ऽभिमतः यदाश्रित्य सौत्रान्तिकेन बाह्यार्थसद्भावो ऽसङ्गीकृतः, अतस् तदीयागमविरुद्धो ऽप्य् अयं पक्ष इत्य् आह -- स्फुटम् इति ॥ 72 -- 73 ॥
तथा सर्वलोकप्रसिद्धमहीमहीधरोदधिनिषेधाल् लोकविरुद्धो ऽपीत्य् आह -- सर्वे ति. अपि च सर्वज्ञानानाम् अनालम्बनत्वे कृत्स्नसाधनज्ञानमिथ्यात्वात् सर्वसाधनाभावो वा यथेष्टं पक्षादिन्यूनत्वं वा शक्यम् आपादयितुम् इत्य् आह -- कृत्स्ने ति. यदि तु न साधनज्ञानं मिथ्येत्य् उच्यते, ततः पक्षादिप्रत्ययैर् एव हेतोर् अनैकान्तिकत्वम् इत्य् आह -- तेषाम् इति ॥ 74 -- 75 ॥
यदि पक्षादिग्राहिव्यतिरिक्ता एव प्रत्यया निरालम्बनत्वेन प्रतिज्ञायन्ते, ततस् तद्व्यतिरेक[709]ग्राहिणः प्रत्ययस्य पक्षाद्यविषयत्वान् मृषात्वम् आपद्यत इत्य् आह -- तदन्यस्ये ति. अभ्युपगमे दोषम् आह -- तन्मिथ्ये ति. तदन्यप्रत्ययमिथ्यात्वे हि यत् तेन पक्षादिप्रत्ययव्यतिरेकग्राहिणा गृहीतं तन्मिथ्येति सर्वमिथ्यात्वम् आपद्यत इति

5.82

__________नोतेस्__________
[709] कि (क)
कथं न सिध्यत्य् अत आह -- स्तम्भे ति. व्यतिरेकग्राहिप्रत्ययमिथ्यात्वे हि न स्तम्भादिज्ञानेभ्यः साधनज्ञानस्य कश्चिद् विशेषः. तद्वद् एव तु साधनज्ञानम् अपि मिथ्या भवेद् इति. एतद्दोषपरिहारार्थं तु व्यतिरेकग्राहिप्रत्ययव्यतिरिक्ता{2,56}एव प्रत्यया यदि पक्षीक्रियन्ते, ततो व्यतिरेकग्राहिप्रत्ययव्यतिरेकग्राहिणस् तद्व्यतिरेकान् मिथ्यात्वप्रसक्तौ सर्वपूर्वासिद्धिः, पुनर् अपि तदन्यविशेषणे ऽनवस्था. यत्रैव तु परः क्वचिद् अवतिष्ठते तन्मिथ्यात्वात् पूर्वपूर्वाभावो दर्शयितव्य इत्य् आह -- यावद् इति. किञ्चाद्यपक्षात् प्रभृति य एते तदन्यप्रतिज्ञादिभिः पक्षा दर्शिताः, तेषु सर्वेषु विरुद्धाव्यभिचारित्वम् अनुमानविरोधो वेत्य् आह -- विरुद्धे ति ॥ 77 -- 78 ॥
कथम् एतद् उभयम् इत्य् आह -- इत्थम् इति. इत्थं वक्ष्यमाणप्रकारेण. अत्र प्रतिसाधनं वक्तव्यम् इति. तद् एव प्रतिसाधनं दर्शयति -- बाह्ये ति. बाह्यार्थालम्बना बुद्धिर् इति धीर् धर्मिणी. सम्यग् इति साध्यो धर्मः, बाधकापेतबुद्धित्वात्, स्वप्नज्ञानादिबाधबुद्धिवत्. इदं च प्रसिद्धावयवत्वेन निरालम्बनानुमानाद् बलवद् इति तस्यानुमानबाधो भवति. यदि तुल्यबलत्वम् एव मन्यते, ततो विरुद्धाव्यभिचारित्वम् इति विवेको दर्शयितव्यः. (स्वार्थिकस् त्व् इति?) यदि तु स्वप्नादिबाधबुद्धिर् अपि मिथ्येति ब्रूयात्, ततस् तेषाम् अबाधितत्वाद् असत्यत्वे दृष्टान्ताभाव इत्य् आह -- सापी ति ॥ 79 -- 80 ॥
किञ्च भिन्नं ज्ञानमात्रं क्षणिकम् इति या बुद्धयः ताः सम्यङ् मिथ्या वा, सत्यत्वे तावदनैकान्तिकत्वम् इत्य् आह -- विज्ञाने ति. तन्मिथ्यात्वाभ्युपगमे{2,57}तु सविशेषणपक्षीकृतज्ञानाभावात् पक्षबाध इत्य् आह -- तन्मिथ्ये ति

5.83

एवं चासति ज्ञाने शून्यताप्रमाणार्थ इति को बद्धः को वा मुक्तो भवेत्. तद् एतद् आह -- तथे ति. मोक्षयन्तो ऽपि प्रव्रज्यादिर् एवं सति विफलस् तपस्विनाम् इत्य् आह -- तत इति

5.84

यदि तूच्यते -- सविकल्पकेन ज्ञानमात्रपक्षो व्यवस्थाप्यते सर्वविकल्पानां मिथ्यात्वाद्, निर्विकल्पकेन त्वात्मानं लभत इति. तद् अयुक्तम्. न हि ज्ञानमात्रं विश्वं क्षणिका भावा इत्य् आदि निर्विकल्पकेन कस्यचित् प्रतिभाति. अनुमानेन त्य् एवञ्जातीयका अर्थाः साध्यन्ते. तच् च सविकल्पलत्वान् मिथ्यैवेति ज्ञानास्तित्वादिपक्षो दुर्लभः. अतो युक्तं मोक्षयत्नस्य वैफल्यम् इत्य् आह -- विकल्पे ति सार्थेन. अत्र च निर्विकल्पकसत्यत्वे स्तम्भादिधियाम् अपि तथाविधानां सत्यत्वापत्तेर् न बाह्यार्थाभावः सिध्यतीति वक्तव्यम्. तदुपेक्ष्यैवोत्तरविभवात् परिहारान्तरम् उक्तम् इति

5.86

अपि च योगिभ्यो ऽर्वाचाम् अस्मदादीनां सर्वम् एव ज्ञानं कल्पनास्पदम् इति मिथ्याज्ञानम् एव. न हि प्रधानं जगत्कारणं पञ्चविंशतितत्त्वम् इत्यादिज्ञानेभ्यो ज्ञानमात्रं जगत् क्षणिकाः सर्वे भावा इत्यादिप्रत्ययानां कश्चिद्विशेषो दृश्यते.{2,58}सर्वस्य सविकल्पकत्वेन मिथ्याभ्युपगमात्. अतो गृह्यमाणविशेषेषु तीर्थकरप्रवादेषु यो ऽयं साङ्ख्यादिसिद्धान्तपरिवर्जनेन बौद्धसिद्धान्त एकस्मिन् पक्षपातः, तत्र न कश्चिद्धेतुर् उपलभ्यते. न च कल्पनास्पदत्वा[710]विशेषे ऽपि अर्थसदसद्भावकृतम् इन्द्रियसान्निध्यविप्रकृष्टकृतं वा सम्यङ्मिथ्यात्वं सम्भवति. सर्वकल्पनानाम् असदर्थत्वात्. सर्वबाह्यापलापे चास्य विभागस्य दुर्लभत्वात्. तद् एतद् आह -- सर्वं चे ति द्वयेन

5.87

__________नोतेस्__________
[710] त्व (ख)
अपि च बुद्धीनां मिथ्यात्वं मृगतृष्णादिज्ञानेषु बाधकेन व्याप्तम् उपलब्धम्. न च जाग्रद्बुद्धयो बाध्यन्ते. अतो व्यापकनिवृत्त्या व्याप्यनिवृत्तिर् इत्य् अभिप्रायेणाह -- मृषात्वम् इति

5.88

विनापि बाधकं मृषात्वाभ्युपगमे क्षणभङ्गादिप्रत्ययमिथ्यात्वाद् अव्यवस्थेत्य् आह -- बाधाद् इति. अपि च सम्यङ् मिथ्येति च प्रतियोगिसापेक्षम्. किञ्चिद् धि सम्यगपेक्ष्येतरन्मिथ्या भवति, मिथ्या च किञ्चिद् अपेक्ष्य परं सत्यम्. तव तु सर्वमिथ्यात्वाभ्युपगमे किंकृतः सम्यङ्मिथ्यात्वविभागः. अस्माकं तु जाग्रज्ज्ञानम् एव सत्यं प्रतियोग्य् अपेक्ष्य स्वप्नादिज्ञानं मिथ्या भवतीति युक्तं, तद् एतद् आह -- प्रती ति

5.89

न केवलं स्वप्नादिज्ञानानां प्रतियोग्यभावान् मिथ्यात्वं न सिध्यति, जाग्रज्ज्ञानानाम् अपि शोभनाभिधानसत्यप्रतियोग्यभावान् मिथ्यात्वं न सिध्यतीत्य् आह -- न चे ति

5.90

{2,59} जाग्रज्ज्ञानप्रतियोग्यपेक्षया स्वमते स्वप्नादिधियां मिथ्यात्वम् उक्तम्. तत्रैवोपपत्तिम् आह -- स्वप्ने ति. स्वप्नादिप्रत्ययविधर्माणो हि जाग्रत्प्रत्ययाः. सर्वलोकप्रसिद्धा हि ते. स्वप्नस् तु कस्यचिद् एव निद्राक्रान्तान्तःकरणस्य भवति. अतो यथा तद्बाधके प्रत्यये सार्वलौकिके स्वप्नादिप्रतियोगित्वम् एवम् अन्येषाम् अपि जाग्रत्स्तम्भादिज्ञानानां तत्प्रतियोगित्वं, तदपेक्षया च स्वप्नादिधियां मिथ्यात्वम् इति

5.91

अत्र चोदयति -- योगिनाम् इति. सत्यं प्रतियोगिसापेक्षं मिथ्यात्वं, जाग्रद्बुद्धीनाम् अपि भावनाबलनिष्पन्नप्रतियोगिज्ञानापेक्षया मिथ्यात्वं भविष्यति. सत्या हि सा विगलितनिखिलकल्मषस्य स्फुटाविकल्पप्रकाशा जायते. अतो युक्तं तदपेक्षया सांसारिकज्ञानानां मिथ्यात्वम् इति

5.92

ननु कस्यचिद् एव भावनाप्रकर्षकाष्ठाप्राप्तस्य योगिनो जाग्रद्बुद्धिपरिपन्थिनी बुद्धिर् आविर्भवति. तास् तु सर्वलोकप्रसिद्धा एवेत्य् उक्तम्. अतः कथम् एकदेशभुवा ज्ञानेन सार्वलौकिकाः प्रत्यया बाध्यन्ते, अत आह -- प्राप्तानाम् इति. अयम् अभिप्रायः -- तावद् एव हि संसारिणो न बाधं मन्यन्ते, यावन् न बुद्धभूमिम् अधिरोहन्ति. प्राप्ततद्भूमयस् तु सर्व एव प्राणभृतो बाधं मन्यन्ते. अतो न बह्वल्पविषयतया कश्चिद् विशेष इति सिद्धं योगिज्ञानेन प्रतियोगिना जाग्रद्बुद्धीनां मिथ्यात्वम् इति

5.93

अत्र दूषणम् आह -- इहे ति

5.94

{2,60} न तावद् वयम् अद्यत्वे कस्यचिज्जाग्रद्बुद्धिपरिपन्थिनं प्रत्ययम् उपलभामहे. योगिनस् तु किं भविष्यति न वेति न नः प्रमाणं क्रमत इति. विनैव तु प्रमाणेन योगिज्ञाने प्रतियोगिनीष्यमाणे शक्यम् अस्माकम् अपि वक्तुम्. अस्मदीयानां योगिनां त्वद्[711]उक्तप्रतियोगिनी विपरीता वा बाधबुद्धिर् भविष्यति स्वाच्छन्द्ये हि नियामकाभावाद् इत्य् आह -- योगिनाम् इति

5.95

__________नोतेस्__________
[711] नु (क)
बौद्धोक्तज्ञानमात्रपक्षविधर्मविविधविषयोपदर्शनेन प्रतियोगिनी साक्षाद् एव वा नैतद् एवम् इति प्रतिक्षेपात् तद्विषयविपरीतेति. न चैवम् आवयोर् अविशेष इति वक्तव्यम्. अनुमानेन हि वयं योगिबुद्धीनाम् ईदृशत्वम् उपपादयामः. य एव हि कश्चित् प्रमाता गृहीतस् तेनैव दृष्टान्तेन योगिनाम् अपि बहिर्विषयबोधो ऽनुमीयते. सर्वस्याद्यतनस्य ग्रहीतुर् बहिर्विषयबोधात्. ज्ञानमात्रं तु निर्मुक्ताखिलनीलादिविभागम् अवयन्ति योगिन इत्य् अदृष्टान्तः, तद् एतद् आह - ईदृक्त्वे ति. भवति चात्र (प्रयोगः.) योगिनस् त्वदुक्तविपरीतबुद्धिमन्तः, बोद्धृत्वाद् अद्यतनबोद्धृवद् इति

5.96

ननु योगिनां जाग्रद्बुद्धिप्रतियोगिनी बुद्धिर् उत्पद्यत इति न प्रमाणं क्रमत इति यद् उक्तं[712]तद् अयुक्तम्, कथम् अनुमाने जीवति तदप्रमाणकम् इति शक्यम् अभिधातुम्. एवं ह्य् अत्रानुमीयते -- जाग्रद्बुद्धयः सप्रतियोगिन्यो बाध्या वा, बुद्धित्वान्मृगतृष्णादिबुद्धिवद् इति, तद् एतद् आह -- अथे ति. प्रतियोगिताबाध्यत्वे प्राग् एव व्याख्याते इति

5.98

__________नोतेस्__________
[712] क्तं क (ख)
एतद् अपि दूषयति -- इष्टम् इति (बाध्य)त्वम् अन्तेन. सत्यं जाग्रद्बुद्धीनां हि मृगतृष्णादिबुद्धयः प्रतियोगिन्यः, एतदपेक्षयासां सत्यत्वावगतेः.{2,61}अतः सिद्धसाधनं, बाध्यत्वम् अपि सिद्धम्. बुद्धिरूपेण हि सत्यबुद्धयो ऽपि न मिथ्याबुद्धिभ्यो भिद्यन्ते. अतः तासु बाध्यासु ता अपि बाध्या भवन्तीति वाक्प्रवृत्तिर् इति. अन्यथा सिद्धसाधनं दर्शयति -- ग्राह्ये ति. सत्यबुद्धीनां ग्राह्याद् अन्यद् ग्राह्यान्तरं मिथ्याबुद्धीनां, तस्मिन् बाध्यमाने सर्वेषां ग्राह्यत्वेनाभेदात् सत्यधीग्राह्यम् अपि बाधितम् एव भवति. अपि च यान्य् एव योगिज्ञानानि जाग्रद्धियां बाधकानीष्यन्ते, तैर् एव हेतोर् अनैकान्तिकत्वम् इत्य् आह -- बाधकैर् इति. तदन्यविशेषणोपादाने च पूर्ववद् अनवस्था वाच्येत्य् आह -- तदन्यत्व इति

5.99

विशेषविरुद्धश् चायं हेतुर् इत्य् आह -- मिथ्ये ति सार्धेन. स्वप्नादिबुद्धीनां हि मिथ्याभूताः संसारिबुद्धयः प्रतियोगिन्यो दृष्टा इति प्रतिबन्धबलेन बुद्धित्वेन हेतुना जाग्रद्बुद्धीनां मिथ्याधीप्रतियोगित्वम् एव साध्यते. तत्र यः प्रतियोगिनीनां धियां सत्यत्वं विशेष इष्टः, स बाध्यते. तथा रागादिक्षयनिमित्तासौ योगिनाम् अधिगतिर् इति यः प्रतियोगिन्या योगिबुद्धेर् विशेष इष्टः, तस्य सर्वस्य बाधाद् भवति विशेषविरुद्धो हेतुर् इति. अयं च धर्मविशेषबाधाद् विरोधो ऽनुसन्धातव्य इति

5.100

दूषणान्तरम् आह -- महाजनस्ये ति. अयम् अभिप्रायः -- शक्यते हि प्रतिसाधनं वक्तुं, जाग्रद्बुद्धयः सत्याः इदानीं महाजनस्याबाधात् पराभिमतयोगिबाधबुद्धिवद् इति. इदं च यदि बाध्यत्वानुमानेन तुल्यबलं ततः सप्रतिसाधनम्. अथ तु प्रसिद्धावयवत्वेन बलवत् ततो ऽनुमानबाध{2,62}इति प्राग् अप्य् उक्तम् एव. सर्वथा तावत् परसाधनं प्रतिबध्नातीत्य् अत्र तात्पर्यम्. योगिज्ञानेन बाधाद् धेतोर् असिद्धिर् मा भूद् इति इदानीम् इत्य् आह. योगिनां बाधबुद्धेर् अप्य् अनागताया महाजनेनाबाधाद् व्याप्तिसिद्धिर् इति

5.102

मूलसाधने च ये धर्मादिविकल्पैर् दोषा उक्ताः, ते ऽप्य् अत्रानुमाने ऽनुसन्धातव्या इत्य् आह -- पूर्वे ति. एवं पुनस् तत्पातनिकां कृत्वा तत्रैव दूषणान्तरम् आह -- तस्य चे ति. तस्य च पूर्वसाधनस्याधुना दोषान्तरम् अभिदध्महे. धर्मधर्मिणौ विकल्प्य दूषितौ. हेतुर् अपि तस्योभयसिद्धो नास्ति, साध्याभेदात्. न हि प्रत्यय एष साध्ये स एव हेतुर् वाच्यो भवति, प्रतिज्ञार्थैकदेशत्वात्. अतो हेतुशून्यं साधनम् इति. ननु सामान्यस्य हेतुतया पक्षैकदेशत्वं प्रतिक्षिप्तम् अत आह -- सामान्यम् इति. उक्तम् इदम् अस्माभिर् उभयसिद्धो हेतुर् नास्तीति. भिन्नाभिन्नं हि प्रत्ययत्वं तवासिद्धम्, अत्यन्ताभिन्नं च न नः किञ्चिद् अस्तीति सिद्धं नोभयसिद्धो हेतुर् अस्तीति

5.103

सारूप्यान्यनिवृत्तिरूपं तु सामान्यम् उपरिष्टान् निषेत्स्यत इत्य् आह -- सारूप्ये ति

5.105

उपसंहरति -- तस्माद् इति. यदि तु मा भूत सामान्यं, विशेष एव{2,63}हेतुर् उच्यते, तद् अयुक्तम्. अपक्षधर्मत्वाद् अन्वयाभावाच् चेत्य् आह -- विशेषयोर् इति. द्वाव् अत्र विशेषौ परिप्लवेते पक्षस् तत्तुल्यापरनामा सपक्षश् च. पूर्वत्र हेतोर् अन्वयाभावः. परत्रापक्षधर्मत्वम्. पूर्वं तु विशेषस्यैव हेतुत्वे साध्याभेदाद् अवाच्यत्वम् उक्तम्. इदानीं विकल्प्य दूषणान्तराभिधानम् इति. ननु माभूत् सामान्यविशेषात्मको हेतुः, बुद्धिर् एव त्व् अर्थशून्या हेतुर् भविष्यति. उत्पद्यते हि नः प्रत्ययत्वाद् इत्युक्ते ऽनर्थिका काचिद् बुद्धिः. सर्व एवायं हेत्वादिव्यवहारो बुद्धिमात्रप्रभावित एवेति सौगता मन्यन्ते. अत आह -- न चे ति

5.107

अत एव दोषद्वयान् नार्थशून्या बुद्धिर् हेतुर् भवति. न हि सा बुद्ध्यन्तरं धर्मः. न हि क्षणिका साध्यान्वयभाजनम् इत्य् अप्रसिद्धाश्रयश् चायं हेतुर् विशेष्यग्राहिप्रत्ययनिरालम्बनत्वेन तदप्रसिद्धेर् इत्य् आह -- आश्रये ति. अप्रसिद्धविशेष्यं पक्षम् आचक्षाणैर् एवास्माभिर् हेतोर् आश्रयासिद्धताप्य् उक्तप्रायैवेत्य् अर्थः. तथा निरालम्बनता चेह सर्वथा यदि साध्यते विशेषणाप्रसिद्ध्यर्थं यो विकल्पः कृतः, तेनैव हेतोर् विरुद्धत्वं दृष्टान्ते च साध्यहीनता द्वे एते बोधिते. सर्वथा निरालम्बनत्वे हि साध्ये तथाविधस्य कस्यचिद् असिद्धेर् व्याप्तिबलेन यथाकथञ्चिन्निरालम्बनत्वं सिसाधयिषतः सर्वथा निरालम्बनत्वविरुद्धं प्रत्ययत्वहेतुः साधयतीति विरुद्धत्वं, स्वप्नादिज्ञानानाम् अपि सर्वथा निरालम्बनत्वाभावात् साध्यहीनो दृष्टान्तः. तद् एतद् आह -- तथे ति. साध्यहीनतां प्रपञ्चयति -- स्वप्ने ति

5.108

{2,64} किम् इति नेष्यते, अत आह -- सर्वत्रे ति. अस्ति हि सर्वज्ञानेष्व् एव देशान्तरादिस्थम् आलम्बनम्. यद् एव हि क्वचिद् देशे काले वा दृष्टं तद् एव देशान्तरादौ प्रतीयत इत्य् एतद् एवानालम्बनत्वम्. न तु सर्वथा ग्राह्याभाव इति. ननु यद् एव क्वचिद् देशे काले वाननुभूतपूर्वं, तद् अपि स्वप्नज्ञाने प्रकाशते. अतः कथं तस्य देशान्तरादिस्थबाह्यालम्बनत्वम् अत आह -- जन्मनी ति. अयम् अभिप्रायः -- पूर्वानुभूतगोचरा हि मनोमात्रसहाया स्वप्नस्मृतिः. दोषवशाच् च प्रत्युत्पन्नबोधः. न चेह प्रतिनियमः यद् एकत्र जन्मन्य् अनुभूतम् एव स्वप्ने ऽवसीयत इति, जन्मान्तरानुभूतम् अपि कुतश्चिद् अदृष्टाद् मनसि विपरिवर्तमानम् अलम् एव भवितुं गोचरः स्वप्नादिधियाम्. अतो ऽस्ति तावद् विभ्रमाणाम् अपि कथञ्चिद् अवस्थितं बाह्यालम्बनम्. एकत्रापि जन्मनि कालान्तर इत्य् अर्थः

5.112

एवम् अन्तःकरणजन्मनः स्वप्नविभ्रमस्यालम्बनम् उक्तम्. बाह्येन्द्रियजन्मनां विभ्रमाणाम् इदानीं बाह्यम् आलम्बनं दर्शयति -- अलाते ति धियो ऽन्तेन. अलातचक्रज्ञाने शीघ्रभ्रमणदूषितम् अलातम् एवालम्बनम्. गन्धर्वनगरविभ्रमे तु सन्निवेशविशेषावस्थितान्य् अभ्राण्य् एव दूरत्वात् पूर्वावगतगृहाकारेणालम्ब्यन्ते. तद् इह पूर्वदृष्टगृहाण्य् अभ्राणि च तत्सन्निवेशविशेषभ्राञ्ज्यालम्बनम्. तद् इह द्विप्रकारो विषयदोषो विभ्रमे कारणम्. मृगतोयज्ञाने पूर्वानुभूततोयमूषरं च सूर्यरश्मितप्तम् एवालम्बनम्. उभयं हि विगाह्य भ्रान्तिर् आत्मानं लभते, तदन्यतरापाये ह्य् अभावात्. इह चान्तःकरणविषयदोषाभ्यां विभ्रमः. पिपासादूषितान्तःकरणस्य हि सूर्यरश्मितप्तमूषरं तोयसदृशं तद्वदाभाति. शशविषाणबुद्धेस् तु मानसाद् एव कुतश्चिद् भ्रमनिमित्ताज्{2,65}जायमानाया. गवादिद्रव्यान्तरगतं विषाणम् आत्मा च शशस्य कारणम्. उभयभावभावित्वाद् एकतरापाये ऽपि चापायाद् इति. ननु शशविषाणं नास्तीति बुद्धेर् न किञ्चिद् आलम्बनं न तावत् शशो विषाणं वा तत्संयोगो वास्यालम्बनम्. प्रतिषेधरूपत्वान् नाभावः. स्वतन्त्रानिर्भासात्. तथा हि -- न वयं शशविषाणं नास्तीत्युक्ते स्वतन्त्रम् अभावम् अवगच्छामः. अतो ऽवश्यमात्मालम्बनम् एवेदं नास्तीति ज्ञानं वक्तव्यम्, अत आह -- मौण्ड्यम् इति. अस्य शृङ्गस्य निषेधे शशशिरोमौण्ड्यं कारणम्. एतद् उक्तं भवति -- यद्य् अपि स्वतन्त्रो ऽभावो न प्रतीयते, भावाश्रयस् तु प्रतीयत एव. अतः शशमूर्धवर्तिनो ऽवयवा उपर्युपरि हीयमाना दीर्घदृढसन्निवेशरूपे(?णा।ण)परिणता मौण्ड्यापरनामानः शृङ्गाभावात्मना ज्ञायन्ते. यद् धि यथा निर्भासते तत् तथेइवालम्बनम्. अभावो ऽपि पराधीन एवानुभूयमानस् तथैवालम्बनं भविष्यति. ज्ञानं तु सद्रूपं नास्या नास्तीतिबुद्धेर् आलम्बनं भवितुम् अर्हति. आह च --
भावरूपं च विज्ञानं नास्तीति कथम् उच्यते ।
इति. यत् तर्ह्य् अनाश्रितविषयं शून्यशब्दाज् ज्ञानम् उत्पद्यते तदनालम्बनं भवेत्, सर्वाभावस्य प्रत्येतुम् अशक्यत्वाद्, विशेषाप्रकाशाच् च. अत आह -- वस्त्व् इति. अयम् अभिप्रायः -- न स्वतन्त्रं शून्यज्ञानम् उत्पद्यते किञ्चिद् धि केनचित् शून्यम् अवसीयते. गृहं चैत्रेण जगद् वन्ध्यासुतेन. अतः केवलगृहाद्यालम्बनम् एव शून्यज्ञानं नानालम्बनं स्वांशालम्बनं वेति

5.113

एवम् अङ्गुल्यादिवाक्यजनितशाब्दविभ्रमाणाम् अपि सन्निधिदोषदूषिता एव पदार्थाः कारणम् इत्य् आह -- कारणत्वम् इति. यस् तर्ह्य् अत्यन्ताननुभूतपूर्वः{2,66}प्रधानादिर् अर्थो बुद्ध्या साङ्ख्यादिभिः कल्प्यते, तत्र न किञ्चिज् ज्ञानस्यालम्बनम् उपलभ्यते. विषाणादिर् हि क्वचिद् अदृष्टः क्वचित् तूपलभ्यत इति युक्तम्. स्वरूपासतस् तु कथं कुत्र वा कल्पनम् अत आह -- अत्यन्ते ति. पृथिव्यादि सूक्ष्मम् एव हि तैः प्रधानम् इति कल्प्यते. स्थूलस्य हि जगतो नाकस्मान् निष्पत्तिर् उपपद्यत इति प्रधानं कल्प्यते. न च तदन्यत् परमाणुभ्यो घटत इति कथञ्चित् सूक्ष्मरूपावस्थिताः पृथिव्यादय एव प्रधानबुद्ध्या गृह्यन्ते. सो ऽयं सूक्ष्मरूपतया तेषाम् अग्रहणात् तद्व्यतिरिक्तः प्रधानभ्रमः. परमार्थतस् तु तत्स्थाने प्रधानपरिकल्पनाद् एव तदालम्बनं प्रकल्प्यत इति. अतः प्रकृतं विपरिणतं प्रकल्पनं तस्येति परामृश्यत इति

5.114

नन्व् अत्र प्रकरणे ऽवर्तमान एवार्थो बुद्ध्या विषयीक्रियत इत्य् उक्तम्. तद् अयुक्तं, कथं हि वर्तमानाया बुद्धेर् अवर्तमानम् आलम्बनं भविष्यति. न ह्य् अवर्तमानघटविषयं वर्तमानघटज्ञानम् उपलब्धम् अत आह -- एष इति. यद् एव तद् वर्तमानार्थत्वम् इन्द्रियसन्निकृष्टार्थविषयत्वं च. अयं प्रत्यक्षप्रमाणधर्मो न ज्ञानान्तराणाम्. न तु विभ्रमाः प्रत्यक्षं, तदाभासत्वाद् इति

5.115

ननु किम् इदं प्रत्यक्षधर्म इति. न ह्य् अत्र वैदिको विधिर् अस्त्य् एवन्धर्मणा प्रत्यक्षेण भवितव्यम् इति. यथा त्व् अवर्तमानं न ज्ञानं जनयितुं क्षमम् इति प्रत्यक्षं वर्तमानविषयम्, एवम् आभासम् अपि तथा भवितुम् अर्हति. कथं हि तत्रावर्तमानेन ज्ञानम् उत्पादयितुं शक्यम् असतः करणत्वायोगात्. तद् एतद् आशङ्कते तावत् -- कथम् इति. परिहरति -- कुत इति. अवर्तमानं ह्य् अर्थक्रियान्तरेष्व् असमर्थं दृष्टं, ज्ञानं तु जनयत्य् एव. भूतभविष्यन्त्योर् अपि वृष्ट्योर् अनुमानोदये कारण[713]भावात्. प्रत्यक्षं त्व् इन्द्रियसन्निकर्षानुविधायि. न चात्रावर्तमानेनेन्द्रियं सन्निकृष्यत इति भवति वर्तमानविषयम्. दोषसहायेभ्यस् त्व् इन्द्रियेभ्यः प्राचीनानुभवजनितसंस्कारवशेनावर्तमानम् एव वर्तमानम् इव भासत इति न नोपपन्नम्. ननूक्तम् असतः कारणत्वानुपपत्तिर् इति. शक्तिमद् धि{2,67}कारणम्. नचासतः शक्तिसमवायः सम्भवति. न. सत्त्वात्. यदि तदेकान्तम् असद् भवेद्, न ज्ञानं जनयेत्. अस्ति तद् देशान्तरादिषु रजतादीति न तस्य शक्तिसमवायो ऽनुपपन्नः. सन्निधानं तु तस्य नास्तीति क्वचिद् एवावर्तमानम् आख्यायते. यत् तर्हि नास्त्य् एव स्वरूपतः यथा वृष्ट्यादि, तत् कथं ज्ञानस्य कारकम् अतीतम् अनागतं वा. तत्रापि सामान्यानुमानात्. तेनात्मना सत एव कारकत्वम्. अथ वा यदा तावत् तदासीत् यदा तावच्छक्तिमता कारकीभूतेनात्मनि ज्ञानं जनितं, तेनापि संस्कारः, तद् एवं परम्परया विषयशक्तिर् आत्मनि सङ्क्रान्ता. स चात्मा नित्य इति सदाश्रया शक्तिः कार्याण्य् आरभते. तयैव चात्मसमवायिन्या शक्त्या स्मृत्यादिज्ञानेषु जायमानेष्व् अतीतानागतार्थाः कारणम् इत्य् उच्यते याग इव विनष्टो ऽपि शक्तिद्वारेण. भवतु तावद् अतीतस्मरणे, अनागता(व)बोधे तु कथम्. तत्राप्य् अगृहीतपूर्वस्य सम्बन्धाग्रहणेनानुमातुम् अशक्यत्वाद् अवश्यं पूर्वानुभवो ऽभ्युपगन्तव्यः. अतस् तत्रापि परम्परया कार्यशक्तिसङ्क्रान्तेर् उपपन्नं कारकत्वम्. नन्व् अन्य एव पूर्वानुभूतो विशेषो ऽन्यश् चायं यः सम्प्रति भविष्यत् तया ज्ञायते. अतः कथम् अन्याहितशक्त्यान्यस्य कारकत्वम्. न. सामान्यात्मनैकत्वात्. तस्यैव च रूपस्यानुमेयत्वाद् इति

5.116

__________नोतेस्__________
[713] णा (ख)
नन्व् एवम् अपि न तावद् यथाप्रतिभासं भवद्भिर् अर्थो ऽभ्युपगतः. सन्निहितो हि प्रतिभासविषयः. न चासौ तथेष्यते. प्रतिभासविसंवादिवस्त्वभ्युपगमे न किञ्चित् प्रमाणं पश्यामः. तथा सति हि स्वांशालम्बनत्वं कल्पितं बाह्यालम्बनत्वं वा न कश्चिद् विशेषः, अत आह -- बाह्ये ति. अयम् अभिप्रायः - ज्ञानस्य[714]बाह्यविषयसदसद्भावगोचरो ऽयम् आवयोर् विवादः. न च बाह्यसद्भावे प्रतिभासविसंवादः. भ्रान्तिज्ञानेष्व् अपि बहिर् एव विषया भासन्ते. इदं तोयम् इति मृगजलज्ञानं नाहं तोयम् इति. अस्ति च तद्देशान्तरे.{2,68} न हि बाधकेनापि बहिर्विदितस् तोयसद्भावो बाध्यते. न हि तत् तोयं नास्तीति भवति मतिः. किन् तु इदं न तोयम् इति. किम् उक्तं भवति. इह तोयं नास्तीति. तद् इह क्वचिद् एव तोयसंयोगो वार्यते न तोयम्. अतः सन्निधिबाधे कः प्रतिभासविरोधः. नन्व् एवम् अपि सन्निधिज्ञानम् एवासत्सन्निध्यालम्बनत्वेन निरालम्बनं भवेत्. न. सन्निधिर् इत्य् ऊषरसंयोगस् तोयस्यापदिश्यते सो ऽपि क्वचित् प्रसिद्ध एवेह प्रतिषिध्यत इति न किञ्चिद् अनालम्बनम्. अतो यथाप्रतिभासम् एव सर्वम् इदम् उपदर्शितम् इति न क्वचित् प्रतिभासविसंवाद इति

5.117

__________नोतेस्__________
[714] स्थ (ख)
किम् इदानीम् अनालम्बनं नाम, न किञ्चित् तत्रभवतां, यद्य् एवम् अपह्नुतः सत्यमिथ्यात्वविभागः. अत आह -- तस्माद् इति ज्ञानम् अन्तेन. बाह्यम् एवान्यथासन्तम् अन्यथाप्रतिपद्यमानम् अनालम्बनं ज्ञानम् आचक्ष्महे. नासद् ग्राह्यम्. तद् एवं मिथ्योच्यते इति. अभावालम्बनस्य तर्हि ज्ञानस्य किम् आलम्बनं, न तावद् भावः, विरोधात्. नाभावः, तस्य भावाद् विविक्तस्यास्वतन्त्रस्यानिर्भासात्. अतो बलाद् अनालम्बनम् एवापतितम् अत आह -- अभावे ति

5.118

अत्र कारणम् आह -- भावे ति. सत्यं न स्वतन्त्रो ऽभावो ऽवसीयते, भावधर्मो ह्य् असौ कथं स्वतन्त्रो ऽपनीयेत. अतस् त्वदुक्ताद् एव स्वतन्त्रानिरूपणात् कारणात् सदात्मनावस्थिते गवादौ वस्त्वन्तराभावात्मना यज् ज्ञानम् उत्पद्यते तदभावालम्बनम् उच्यत इति, इदं च प्राग् अप्य् उक्तम् अधुनोपपादितम् इति विवेकः. बौद्धानां तु सर्वसंविदाम् आत्मपर्यवसायित्वाद् अर्थसन्निध्यसन्निधिकृतविशेषाभावाच् च द्वयम् अपि निरालम्बनत्वम् अभावालम्बनत्वं च दुर्निरूपं, द्वयहेतोर् अभावात्. सति हि हेतौ सहेतुकं सद् एतन्निरूपयितुं शक्यते, न त्व् एतद् अस्तीत्य् आह -- भवताम् इति. भवन्मत इत्य् अर्थः

5.119

{2,69} तद् एवं तावद् दृष्टान्ते साध्यहीनता विवृता. इदानीं विरुद्धो हेतुर् इति दूषणान्तरम् आह -- प्रतिज्ञे ति. यथा धर्मधर्मिबोधकप्रत्ययनिरालम्बनत्वान् न धर्मो धर्मी नोभयम् इति प्रतिज्ञादिदोषो ऽभिहितः, तथा समस्तव्यस्तयोर् धर्मधर्मिणोर् व्याप्तिबलेन स्वरूपस्वविशेषौ विघ्नन् विरुद्धो ऽपि प्रत्ययत्वं हेतुर् इति

5.120

दृष्टान्तो ऽपि न केवलम् साध्यहीनः सर्व एव तु दृष्टान्तदोषास् तद्वचनाभावप्रभृति योजयितव्याः. न ह्य् एकस्मिन् ज्ञानमात्रे वस्तुनि दृष्टान्तवच(सः) साध्यांशो निरालम्बनत्वं, हेत्वंशः प्रत्ययत्वं, तस्य चासाध्यांशेन व्याप्तिः दृष्टान्तधर्मितद्धर्मता च साध्यसाधनयोर् इति सर्वम् इदम् उपपद्यते. अतो यथेष्टम् एव दृष्टान्तस्य तेन तेन वचनादिना न्यूनत्वं शक्यं वक्तुम् इत्य् अभिप्रायेणाह -- दृष्टान्ते ति

5.121

वैधर्म्यदृष्टान्तन्यूनश् चायं प्रयोग इति केचिद् अनुयुञ्जत इत्य् आह -- केचिद् इति. द्वेधा हि दृष्टान्तवचनसमयः. केचिद् व्याप्त्या साधर्म्य उक्ते ऽपि वैधर्म्यवचनं कार्यम् इति मन्यन्ते. तद् इदम् एकेषां मतेन परिचोदितम् इति केचिद् इत्य् उक्तम् इति. ननु च विपक्षाद् हेतुं व्यावर्तयितुं वैधर्म्यवचनं, न चेह विपक्षानुवृत्तिः सम्भवति. साधनभाष्यस्य तदन्तरेण हेतोर् विपक्षाद् व्यावृत्त्यसिद्धेः. अ(?न्ये तु।न्यैस् तु) हेतोः साध्येन व्याप्तिं दर्शयितुं दृष्टान्तवचनम्. तद् यदि सम्यक् साधर्म्यवचनाद् एव व्याप्तिर् अवगता, न सहभावमात्रं, न च विपरीतान्वयः, तदा किं वैधर्म्यवचनेनेति साधनभाष्यव्याख्यानावसरे वर्णितम्. उक्तं च परैर् अपि न वा तदभावात् तत्रावृत्तेर् इति. अतो{2,70}वैधर्म्यस्यावचनम् इत्य् अदोषः. अत आह -- तदभावे ति. तदभावाद् अवृत्तिर् इति यद् एतद् तवाभिधानं तस्यात्र प्रकृतसाधने ऽवसरो नास्तीति

5.122

कथम् अनवसरो ऽअत आह -- विधिरूपे ति. तदभावाद् अवृत्तेर् इति यद् उक्तं तस्यायम् अर्थः -- भावे प्रतिज्ञाते विधिरूपेणाभावो विपक्षो भवति. तदभावे च विपक्षे ऽभावस्य निस्स्वभावत्वान् न हेतोर् वृत्तिः सम्भवतीति न वैधर्म्यं वचनीयम् इति. एतद् अपि बौद्धा वक्तुम् अशक्ता एव. न हि तेषां क्वचिद् अपि प्रत्यक्षवद् विधिरूपेण हेतुः प्रकाशकः. व्यतिरेकप्रधानवादिनो हि ते. सर्वत्र साध्यान्वितहेतुसंविदो दुर्लभत्वात्. अतो विपक्षव्यावृत्तिमुखेनैव सर्वत्र हेतोर् गमकत्वम् आश्रितम्. न चासति वैधर्म्यवचने विपक्षव्यावृत्तिः शक्यते दर्शयितुम्. अतः सर्वत्रैव त्वन्मते वैधर्म्यदृष्टान्त एव वाच्यः. तद् एतद् उपेत्यापि तावद् उच्यते. भवतु विधिरूपप्रतिज्ञास्वभावस्य विपक्षत्वात् तदभावाद् अवृत्तिः. आलम्बनाभावात्मकत्वे तु निरालम्बनत्वे वस्तुनि साध्ये प्रतिज्ञाते वस्त्वात्मकं सालम्बनम् एव विपक्षः. तत्र च हेतोर् वृत्तिसम्भावनायां व्यतिरेको[715]वक्तुम् उचित एव. अतो वैधर्म्यन्यूनता सूक्तेति

5.123

__________नोतेस्__________
[715] के (ख)
विधिरूपप्रतिज्ञायाम् अपि वैधर्म्यस्य प्रयोजनाभावमात्रम्. अवस्त्वात्मके तु विपक्षे वैधर्म्यस्य प्रयोगः सम्भवत्य् एव. क्रियते चानुमानकुशलैः. अतो ऽवश्यं वाच्यं वैधर्म्यं, यन् नोच्यते तन् नोचितम् इत्य् आह -- तत्रे ति. तद्वृत्तेन विधिरूपप्रतिज्ञा परामृश्यते. हिशब्दो हेतौ. यस्माद् अवस्तुविपक्षे प्रयोगः सम्भवति, तस्मात् सर्वत्रैव वैधर्म्यं वाच्यम्. तद् इहानवसरं प्रतिज्ञायोत्तरश्लोके पूर्वोत्तरार्धाभ्यां हिशब्दद्वयेन हेतुद्वयम् उक्तम् इति प्रयोगसम्भवम् एव दर्शयति -- यस्मिन्न् इति. शब्दो ऽनित्यः कृतकत्वाद् इत्य् उक्ते यद् अनित्यं न भवति तत् कार्यम् अपि न भवति यथा खपुष्पम् इति शक्यम् एव वैधर्म्यवचनम्.{2,71}सर्वाभावस्यावस्तुनि शक्यनिदर्शनत्वात्. भावो हि तत्र निदर्शयितुम् अशक्यः. विनाशाख्यक्रियासामान्यं चानित्यत्वम् इति विधिरूपप्रतिज्ञा दर्शयितव्येति

5.125

तद् एवं तावद् अवस्तुविपक्षे ऽपि प्रयोगसम्भवो दर्शितः. अत्र तु प्रकृतसाधने वस्तुन आलम्बनाभावस्य साध्यत्वं वस्तुनश् च सालम्बनस्य विपक्षता. वस्तुनि च हेतुवृत्तेः सम्भवाद् विपक्षाद् व्यतिरेकः प्रयोजनवत्त्वाद् वाच्य एवेत्य् आह -- अत्र त्व् इति वाच्यो न्तेन. यस् त्व् अत्रापि व्यतिरेकं दर्शयति तेनावश्यं[716]यन्निरालम्बनं न भवतीति नञात्मनः प्रतिषेधद्वयात् सालम्बनविधिर् एव प्रदर्शितो भवति. न च सर्वस्मिन्न् एवासति वस्तुन्य् आलम्बनविधिः शक्यो वक्तुम्. सेयम् उभयतःपाशा रज्जुः. वैधर्म्यवचने वस्तुत्वापातः. अवचने वाच्यावचनम् इति. तद् एतद् आह -- यश् चे ति चिद् अन्तेन

5.126

__________नोतेस्__________
[716] श्यं निरा (ख)
यदि तर्हि सर्वथैव वैधर्म्यं वाच्यं सर्वज्ञनिषेधे का वार्ता. तत्रापि ह्य् अवस्तुनि साध्ये वस्त्वात्मनः सर्वज्ञविपक्षाद् धेतुर् व्यावर्त्यः. तथा च तदभ्युपगमप्रसक्तिर् अत आह -- एवम् इति. एवं हि तत्र साध्यते बुद्धप्रत्यक्षम् असर्वविषयं, प्रत्यक्षत्वाद् अस्मदादिप्रत्यक्षवत्. सर्वविषयं तु न प्रत्यक्षं शब्दवद् इति. एवं तावद् व्यापकं वैधर्म्यं मन्वानानाम् अनुयोगो दर्शितः. न त्व् एवं मन्यामहे. वक्ष्यति हि --
व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यम् अपेक्ष्यते ।
इति

5.127

{2,72} अनैकान्तिकाशङ्कानिराकरणं तु तदुक्तेः प्रयोजनम् इह विपक्षाभावाद् एव तन् न सम्भवतीति किं तद्वचनेनेत्य् आह -- वैधर्म्ये ति. एतद् इति. प्रकृतसाधनम्. अदूषणम्. अविद्यमानदूषणम् इत्य् अर्थः

5.128

साधु तर्हि साधनम् आपन्नं सम्प्रतिपत्तिर् एवोत्तरम् अत आह -- सर्वथे ति. येषां हि साध्यसिद्धाव् उपायान्तराणि प्रतिज्ञाहेतुदृष्टा(?न्तानि।न्ताः) सन्ति, ते वादमार्गेष्व् अधिकृताः. सौगतास् तु न कथात्रये. अतो न नाम वैधर्म्यवचनन्यूनता दूषणम्. अनुपायस्य हि कथं साध्यसिद्धिर् भविष्यति. वयं हि साधर्म्यात् साध्यसिद्धिं मन्वाना वैधर्म्यं नाद्रियामहे. सर्वापलापवादी तु वादे नाधिकृत एव. प्रदर्शनमात्रं हि वादग्रहणम्. तिस्रो हि कथा भवन्ति. वादो जल्पो वितण्डा चेति. शिष्यविषयो हि वाहः. व्युत्थितं तु शिष्यमाणम् अर्थं प्रतिपादयितुं जल्पवितण्डे. तयोः स्वपक्षस्थापनाहीनं वचनं वितण्डा. तद् अत्र त्रये ऽपि शून्यवादिनो ऽनधिकृता इति

5.129

सर्वपूर्वोक्तदोषपरिहारेणेदानीं बौद्धः प्रत्यवतिष्ठते -- नन्व् इति. सालम्बनवादिनं हि भवन्तं प्रतिबोधयितुम् इदं साधनम्. ततस् त्वं प्रसिद्धैर् एव हेत्वादिभिः साध्यं बुध्यमानः किं मां प्रति बहुप्रकारं प्रतिज्ञादि विकल्प्य दूषणमात्थ ब्रवीषीति

5.130

मीमांसकः प्रक्षीणनिखिलकुहेतुजालम् एवंवादिनम् अपहसति -- विप्रलिप्सुर् इति. न्यायवित् किलासि. किम् अस्मान् विप्रलब्धुम् एवंविधं भाषसे. किं खलु कथास्व् अप्य् उभयसिद्धस्य साधनत्वम् इति नाश्रौषीर् इति

5.132

{2,73} ननु परासिद्धस् तावद् हेतुः प्रयुज्यमानो दृष्टः. शब्दो ऽनित्यः कार्यत्वाद् इति. न हि मीमांसकस्य शब्दकार्यत्वं सिद्धम्. अथासिद्धम् अपि व्यापारानन्तरदर्शनादिभिः साध्यत इत्य् उच्यते, स्वासिद्धे ऽपि तथाकरणे को दोषः, अत आह -- यो ऽपी तिद्वयेन. परासिद्धे हि स्वयंसिद्धे प्रसाधनं प्रतीकारो भवति. स्वतोसिद्धे तु प्रतिक्रियैव नास्ति. तस्मिन् साध्यमाने पूर्वाभ्युपगमविरोधो भवति. असाधितेन त्व् असता न साध्यं साध्यत इति

5.133

अत्र चोदयति -- परे ति. परप्रतिपादनार्थं हि साधनवचनम्. न चासौ[717]परो ऽसिद्धेन प्रतिपादयितुं शक्यते. अतः परासिद्धो न साधनम् इति युक्तम्. स्वासिद्धस्य तु किंकृतम् असाधनत्वम् इति न विद्म इति

5.135

__________नोतेस्__________
[717] चासिद्धौ प (क)
ननूभयसिद्धो हेतुर् इति भवद्वृद्धैर् अपि भाषितं तत् परित्यक्तम्, अत आह -- द्वयोर् इति. नायम् अदृष्टाय वृद्धोपदेशो दृष्टानुसारेण परासिद्धप्रतिषेधपरत्वम् एवास्य निश्चीयते इत्य् आह -- प्रत्येष्य(न्ती)ति. स्वसिद्धैर् हेत्वादिभिः परः साध्यं वक्ता तु स्वयम् असिद्धं कथं शक्नोत्य् अत आह -- वदेद् इति

5.136

{2,74} प्रत्यक्षपरिदृष्टं हि साधनवाक्यं वक्तृप्रयुक्तं तद्दर्शनेन भवति काचित् प्रयुक्तिशक्तिकल्पना. किं तद्विशेषावधारणेन. तव तु साप्य्[718]अप्रतिज्ञानार्थिनः साधनशक्तिपरीक्षैव युक्ता किम् अनेन कथं वक्त्रा साधनं प्रयुक्तम् इति. एतद् एव प्रपञ्चयति -- गृहीतम् इति

5.137

__________नोतेस्__________
[718] प्रज्ञा (ख)
पुरुषाधीने हि निर्णये तत्प्रत्ययानुसारित्वान् निर्णस्यय तज्ज्ञानकारणानुसरणम् उचितं, नात्रानुमान इत्य् आह -- यत्रे ति

5.138

अत्रापि तु पुरुषाधीने निर्णये प्रतिज्ञामात्राद् एव तदनुसारी निर्णयो भवेत्, न साधनापेक्षा स्याद् इत्य् आह -- यदि चैवम् इति

5.139

न त्व् एतद् अस्तीति व्यतिरेकेण दर्शयति -- यतस् त्व् इति. अस्यैव साधनस्यैवेत्य् अर्थः. किम् इदानीं वाक्यम् अनपेक्षितार्थम् एव, नेत्य् आह -- त(त्स्मृती ति). साधनस्मरणार्थम् एव वाक्यम्, अतस् तच्छक्तिर् एव चिन्तनीया. किं पुरुषनिरूपणेन. न ह्य् अयम् अप्राप्तप्रत्ययानुसारी निश्चय इति

5.140

अतो यथा स्वार्थानुमाने न वक्तारम् अपेक्षते, एवम् इहापि भवान् नापेक्षेतैवेत्य् आह -- तस्माद् इति. यतः स्मारकं वाक्यम् इत्य् अर्थः

5.141

{2,75} यदि तु सर्वप्रमाणेष्व् एव पुरुषापेक्षेष्यते सा तर्हि प्रत्यक्षेणार्थम् उपल(?भ्य।भ)मानस्य प्राप्नोति. न च मत्प्रसिद्धा युक्तिः साध्यं वा यत् प्रत्यक्षेण परिच्छिद्यते. तत्रास्ति यथात्र साध्यस्य निरालम्बनत्वस्य प्रत्ययत्वस्य हेतोः सिद्धिम् इच्छसीत्य् आह -- यच् चे ति

5.142

तस्मात् स्वयंसिद्धेनापि परासिद्धेन साध्यार्थप्रतिपत्तिर् न साहसास्पदम् इत्य् आह -- तस्माद् इति

5.144

परिहरति -- सत्यम् इति द्वयेन. अयम् अभिप्रायः -- स्याद् एतद् एवं यदि मत्प्रतिपत्तिमात्रफलम् एव साधनवचनं भवेत्. तथा हि -- किं साधनवचनेनापि अवधायकत्वं बुध्यध्वम् इत्य् एतावद् उपदिश्येत, सिद्धश् चायं भवतां ज्ञानमात्रं जगद् इति, तदा कुतः पुनर् इदम् अवगतम् इति पर्यनुयुक्ते त्वम् एव जानासीति नैवंविधम् उत्तरम् उपपद्यत इति

5.145

कथं नोपपद्यते अत आह -- स्वयम् इति. ज्ञानकारणम् अनुयुक्ते तद् एव वक्तव्यं न मत्प्रसिद्धिः. एवं हि मत्प्रसिद्धिवचनम् उपपद्यते यद्य् अगृहीतेन मत्प्रसिद्धेन वा हेतुना साध्यम् एतद् भवान् स्वयं प्रतिपन्नः. प्रतिपन्न इति कर्तरि रूपम्. न त्व् एतद् उभयम् अप्य् अस्तीति

5.146

{2,76} किञ् च भवदीयपरार्थानुमानलक्षणानुसारेणापि स्वप्रतिपत्तिप्रकाशनफलम् एव साधनवचनं येनैवम् उक्तम्. परानुमानं तु स्वदृष्टार्थप्रकाशनम् इति, अतो ऽवश्यं स्वज्ञानकारणम् अवस्थापनीयम् इत्य् अभिप्रायेणाह -- न चे ति. स्वनिश्चयहेतोः प्रतिपादनाद् अन्यत्र साधनवचनं न प्राश्निकान् सभ्यान् प्रति व्याप्तियते. ते हि प्रतिपाद्याः. व्युत्थितस् तु यदि वैयात्याद् उपपादितम् अपि न बुध्यते, किम् अत्र विधेयम्. प्राश्निकप्रश्ननिश्चयात् तु तत्त्वम् इत्य् अनादृत्य प्रतिवादिनं प्राश्निकपदं प्रयुक्तवान् इति

5.148

अपि च परबुद्धेर् अप्रत्यक्षत्वान् मत्प्रसिद्धत्वम् अपि भवतां दुरधिगमम् एवेत्य् आह -- मत्प्रसिद्धत्वम् इति. किञ् च विदितपूर्वम् अर्थं विवक्षित्वा साधनवाक्यं प्रयुज्यते. तव त्वजानतः किंकृता विवक्षा. न चातत्पूर्वा वाक्यनिष्पत्तिः सम्भवतीति आह -- कथम् इति. जिज्ञासमाने ऽपीति. न तावद् अहं जिज्ञासमानः व्युत्थितत्वात्. अतस् त्वन्निग्रह एव मम सर्वथा विधेयः. यद्य् अपि जिज्ञासुर् अहं, तथापि भवतो विवक्षाकारणं नोपलभ्यते पूर्वविज्ञानाभावाद् इति. यत एव स्वासिद्धं वक्तुम् अशक्यम्, अत एव वृद्धेर् अपि भवदीयैर् उभयसिद्धहेतुत्वं भाषितं न परसिद्धिपरम् इत्य् आह -- इती ति

5.149

यदि तु मत्प्रसिद्धिमात्रेण हेतुत्वं भवेत्, तेन तर्हि यथा त्वं मत्प्रसिद्धेन हेतुना मम साध्यज्ञानम् आधातुम् इच्छसि. एवम् अहं मत्प्रसिद्धैर् अप्य् अमीभिर् भवदसिद्धैर् हेत्वादिभिस् तत्तन्न्यूनतोद्भावनेन नानाविधैर् दूषणैस् तवाज्ञानम् आधातुम् इच्छामि. मत्प्रसिद्धा अपि हेत्वादयः तवासिद्धा इति ते भवति दूषणम्{2,77}को विशेषः यत् स्वयम् असिद्धं साधनम् उच्यते न दूषणम्. अतो ऽनभिज्ञस्य परार्थानुमानप्रयोगानुपपत्तिर् इत्य् अभिप्रायेणाह -- तेने ति

5.153

या चेयं भवतो मृष्टाशा स्वासिद्धैर् हेत्वादिभिः किल मया साध्यं बोद्धव्यम् इति, साप्य् अयुक्ता. तवैव ह्य् अतत्साधनात्. साध्यं बुध्यमानस्य ममापि प्रतिघातो भवेत्. साध्यसाधनयोर् इतरेतरप्रतिघातावगमाद् इत्य् आह -- यथे ति चतुर्भिः. निगदव्याख्यानाः श्लोका इति

5.154

हेतुप्रतिज्ञाविरोधाख्यम् अपि निग्रहस्थानम् आपद्यते इत्य् आह -- विस्पष्टश् चे ति. अक्षपादेन हेतुप्रतिज्ञाविरोधो[719]निग्रहस्थानम् इत्य् उक्तम्. उदाहृतं च, शब्दो नित्यः सर्वस्यानित्यत्वाद् इति. नित्ये हि शब्दे न सर्वानित्यत्वं सर्वानित्यत्वे वा न तदन्तर्गतस्य नित्यत्वम् इति हेतुप्रतिज्ञयोर् इतरेतरविरोधो निग्रहाधिकरणम् इति, तद् इदं भिक्षुणा दूषितम्. उक्तं च नायं हेतुः वैधर्म्यवचनत्वात्. यदाह --
__________नोतेस्__________
[719] धे (ग)
दृष्टान्तो ऽभिहितो ह्य् एष वैधर्म्येणासुशिक्षितैः ।
इति. हेतुर् हि पक्षधर्मो भवति. न च सर्वस्यानित्यता शब्दधर्मः, कथम् असौ हेतुः वैधर्म्यदृष्टान्तस् त्व् असौ नित्यत्वस्य. न हि ततो ऽन्यः साध्यविपक्षभाग{2,78} भवति. इह च नित्यता साध्या, तद्विपक्षो ऽनित्यता. तद् युक्तं सर्वं वैधर्म्यदृष्टान्त एवेति. तद् अत्रेदम् आकूतं - यन्नित्यं न भवति तत् सर्वं, नायं सर्वमतो ऽसर्वत्वान् नित्यः शब्द इति. असर्वत्वं हेतुः, अतः सर्वस्यानित्यत्वम् अहेतुर् इति न हेतुसाध्ययोर् विरोध इति. पुनश् चोक्तं - वैधर्म्यवचनम् अपि नेदं समञ्जसमभावनियमस्य विपरीतत्वात् हेत्वभावे ह्य् अत्र सर्वत्वे साध्याभावस्यानित्यत्वस्य प्रदर्शनं कृतम्. साध्याभावे तु वैधर्म्यदृष्टान्ते हेत्वभावो दर्शयितव्यः. व्याप्तिविपर्ययस्यानुमाने वक्ष्यमाणत्वात्. तद् इहानित्यत्वस्य सर्वत्वाद् इति वक्तव्ये सर्वस्यानित्यत्वाद् इति वचनं सुशिक्षितत्वाद् वैधर्म्यवचनस्येति. तद् एतद् अयुक्तं, हेताव् अस्मिन् विवक्षिते ऽक्षपादेन हेतुसाध्ययोर् विरोधो ऽभिहितः. यत्त्वपक्षधर्मत्वान् न हेतुर् इति, तद् दूषणान्तरं भविष्यति. असर्वत्वं वा कथं हेतुः, तद् अपीह सर्वान्तर्गतेर् असिद्धम् एव. अतः कृत्वाचिन्तामात्रेणेदं नैयायिकैर् उक्तं हेताव् अस्मिन् विवक्षिते हेतुप्रतिज्ञयोर् विरोध इति. मा भूद् वा तदुदाहरणम्. इह तु विस्पष्टो विरोधः, यम् एतम् अदृष्ट्वा परैर् बौद्धैर् उक्तं न प्रतिज्ञाहेतुर् विरोधो दूषणम् इति. किलशब्दो ऽरुचौ. अत्रोदाहरणं विस्पष्टत्वाद् विरोधस्येति

5.156

अत्र चोदयति -- नन्व् इति. संसारावस्थायाम् अनुमानानुमेयव्यवहारः. अत्र च हेत्वादयो लोकप्रसिद्धा एव. लोक इति लौकिकसंवृतिसत्यम् अपदिशति. अतः संवृतिसत्यसिद्धेन हेत्वादिना साध्यसिद्धिर् आसीद् एव प्राक्, परमार्थावस्थायां तु सर्वाभावम् आचक्ष्मह इत्य् अवस्थाभेदाद् अदोष इति ॥
परिहरति -- यो ऽधुने ति. यदि हि तद्बाधकबलेन नास्तीत्य् उच्यते, प्राग् अपि नासीद् एव. बाधकेन तत्प्राग् अपि प्रतिक्षिप्तं रजतम् इव शुक्ताव् अवगतिक्षणाद् आरभ्य. अतः प्राग् अप्य् असतः कथं साधनत्वम् इति

5.159

{2,79} प्राक् साधनत्वाभ्युपगमे वा परमार्थास्तित्वम् आपद्यत इत्य् आह -- साधने ति. कारणम् आह -- सिद्धिर् इति

5.158

किम् इति न युज्येत, अत आह -- न दृष्टे ति. नात्यन्तम् असतः साधनत्वं दृष्टं शशविषाणवद् इत्य् अनुमानम् अन्तर्णीतं, क्वचिद् दृष्टस्यापि रूपस्यान्यत्रोपचरितस्य परमार्थोपायता नास्ति. किम् उतात्यन्तासतो हेत्वादेर् इत्य् आह -- बाष्पादिने ति

5.159

उपसंहरति -- तस्माद् इति

5.160

ननु वर्णात्मना असत्यानाम् अपि रेखादीनां परमार्थवर्णोपायता दृष्टा, अतो नैकान्तिको ऽसत्यत्वं हेतुर् अत आह -- ये ऽपी ति. विपक्षवृत्तिर् हि हेतुर् अनैकान्तिको भवति. न च परमार्थोपायेषु रेखादिष्व् असत्यत्वम् अस्ति, स्वरूपसत्यत्वात्. तेन च रूपेण वर्णबोधोपायत्वात्. तद्दर्शिनो हि स्मृतसङ्केतस्य वर्णा बुद्धौ भवन्तीति

5.161

ननु भवन्तु स्वरूपसन्तः. वर्णात्मना तावदसत्या एव, अत आह -- वर्णे ति. सर्वे हि भावाः स्वरूपेण सन्तः पररूपेणासन्तः. केनचिद् विशेषेण रेखोदाहरणम् इति

5.162

{2,80} न चैष प्रकारो ऽत्यन्तासतां हेत्वादीनां सम्भवतीत्य् आह -- स्वरूप इति. असत्यम् अपि केनचिद् रूपेण सद् एव रूपान्तरेण भवति. न हि निस्स्वभावम् इति नाप्य् असत्यतेत्य् उक्तम् इति

5.163

एतद् एव स्फुटयति -- हेत्वादीनाम् इति. अत्र च बाष्पादीनाम् इवाग्न्यादाव् उपायत्वं हेत्वादीनां, न परमार्थेन तु लेख्यवद् इत्य् आह -- तेने ति. हेतुत्वाभावप्रतिपादनपरम् इदम् इति

5.164

अत्र चोदयति -- उपायानाम् इति. किम् इदं निस्स्वभावत्वम् उपायानाम् आपद्यते. संवृत्यात्मका हि ते. तेन च रूपेण सन्त एवेति

5.165

परिहरति -- संवृत्ये ति. सांवृतं हि रूपं वाङ्मात्रनिर्मितं, न परमार्थोपायो भवतीति

5.166

अपि च, परमार्थाल् लोकस्य संवृतिसत्यस्य भेदे न हेतुर् अस्ति, तद्भेदग्राहिणो ऽपि ज्ञानस्य मिथ्यात्वाद् इत्य् आह -- परमार्थे ति. अपि च यदि परमार्थो ऽपि लौकिकोपायगम्यः, न तर्हि परमार्थः, लौकिकोपायगम्यत्वाद् बाष्पादिवाग्निर् अवगम्यमान इत्य् आह -- लौकिके ति. पूर्वं च सत्यभेदो निराकृतः. इदानीं सांवृतस्य परमार्थोपायतेति विवेकः. नन्व् असत एव श्रुत्यादिप्रपञ्चात् प्रपञ्चविलयात्मनो ब्रह्मणो निरूपणं वेदान्तविद्भिर् इष्यते. यथाहुः --
{2,81} भेदप्रपञ्चविलयद्वारेण च निरूपणम् ।
इति.
विद्यां चाविद्यां च यस् तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥
इति. किम् उक्तम्. विद्यारूपं च ब्रह्म, अविद्यारूपं च श्रुत्यादि. तदुभयम् अपि यः सह वेद सो ऽविद्योपलक्षितं मृत्युं तीर्त्वा विद्यारूपेणोपलक्षितं ब्रह्मानन्दं प्रतिपद्यत इति. तद् एवम् अविद्यात एव विद्याप्राप्तिर् इष्यते इति. किम् अपराद्धम् एवं ब्रुवाणैर् अस्माभिः. नैष नः सिद्धान्तः यद् असन्न् एव श्रुत्यादिप्रपञ्चो ब्रह्मणि प्रमाणम् इति. तेषाम् अपि प्रत्यक्षादिप्रमाणसिद्धानाम् अशक्यापह्नवत्वात्. यथा हि सो ऽयम् इति प्रत्यक्षसिद्धः प्रत्यगात्मा, एवं तेष्व् इति तद्वद् एव सम्यञ्चो भवितुम् अर्हन्ति. तस्य च पूर्वोत्तरकर्मनिरोधानुत्पादाभ्यां विगलितभोगभोगायतनस्य कैवल्यं मोक्षम् आचक्ष्महे, न प्रपञ्चविलयम्. एकम् एवाद्वितीयम् इत्यादिवेदान्तास् त्व् अर्थवादान्तरवद् विषयवैराग्यप्रतिपादनपरतया कथञ्चिद् गमयितव्याः. स एष नेति नेतीतिकरणेन स्पष्टम् एव बहिर्विषयसद्भावम् उपदर्शयति. एष इत्य् अपरोक्षनिर्दिष्टस्य ब्रह्मणो विषयविवेकमात्रं कथयति न तदभावम्. श्रुत्यादिषु चाविद्यावादो ब्रह्मणः प्रशंसार्थः. अपशवो ऽन्ये गोश्वेभ्यः इतिवत् पश्वन्तरेष्व् अपशुवादः. अतो न क्वचिदपरमार्थस्य परमार्थोपायता. अस्तु वा नित्यनिर्दोषवेदान्तसिद्धम् अप्रपञ्चं ब्रह्म. न तु क्षणिकसंवेदनप्रवाहात्मकं द्वैतं कुतश्चित् प्रमाणाद् अवगच्छाम इत्य् अलम्बनेनापि

5.167

प्रत्यवस्थानान्तरम् इदानीं बौद्धस्योपन्यस्यति -- नन्व् इति. एवं हि मन्यन्ते -- यद्य् अपि बाह्यो हेत्वादिर् अर्थो नास्ति, तथापि बुद्ध्यारूढेनैव हेत्वादिनानुमानानुमेयव्यवहारः सेत्स्यति. अनादिवासनोपप्लाविता हि हेत्वादिविकल्पविभागा भवन्ति हेतुर् अयं दृष्टान्तो ऽयम् इत्यादयः. विकल्प इति सविकल्पिकां बुद्धिम् आचक्ष्महे. अतो वासनाभेदाद् बुद्धिभेदः, तद्भेदाद् धेत्वादिभेद इत्य् उक्तं भवति. अवश्याभ्युपगम(?नियम।नीय)श् चायं भवद्भिर् अपि. बुद्धिनिबन्धनो धर्म्यादिभेदः. न ह्य् अनित्यः शब्दः कृतकत्वाद् इति{2,82}परस्परं धर्मिणो वा भिन्नयोर् हेतुसाध्ययोर् अवगतिर् अस्ति. अतो ज्ञानभेदनिबन्धन एवात्र भिन्नत्वव्यवहारः. सर्वत्रैव च ज्ञानम् एव भेदनिबन्धनम्. सुदूरम् अपि गत्वा युक्तिभिर् अनुसंहितो भेदो ज्ञान एव पर्यवस्यति. अतो ऽस्तु तन्निबन्धन एव सर्वत्र भेदः. देशादिभेदाद् अपि हि भेदं ब्रुवाणस् तद्भेदं पर्यनुयुक्तो ज्ञानभेदम् एवालम्बते. तावतापि व्यवहारसिद्धौ किं प्रकारान्तरेण भेदो ऽनुस्रियत इति. अत्राप्य् अग्निधूमादौ कृतकानित्यत्वविलक्षणः स्फुटो भेदावग्रहो भवति. तत्रापि न जातिभेदो निबन्धनम् इति वाच्यम्. सो ऽपि चाग्निधूमशब्दनिर्मित एव. न हि संवृतिकल्पनाद् अन्येन प्रकारेण जातिभेदम् उपलभामहे. अतः शब्दभेदे ऽर्थविकल्पविलासिता एवाग्नित्वादय इति. इदं च बाह्यनिराकरणपरतयानास्थयोक्तम्. न शब्दभेदो ऽपि विज्ञानभेदाद् विना सम्भवति. सो ऽपि ज्ञानमात्रप्रभावित एवाभ्युपेत्य बाह्यहेत्वादिविकल्पविभागार्थम् उक्त इति

5.168

अयम् एवास्मदीयतन्त्रकाराणां सिद्धान्त इत्य् आह -- न्यायविद्भिर् इति. न्यायविद्भिर् हि दिङ्नागाचार्यैर् इदम् उक्तं सर्व एवायम् अनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन बहिः सदसत्त्वम् अपेक्षत इति

5.169

एतद् अपि दूषयति -- अस्ती ति. नासतः शशविषाणादेः शब्दनिबन्धनः तज्जनितबुद्धिनिबन्धनो वा भेदो दृष्ट इति दुरुक्तम् इदम् अपरेषां बुद्ध्यारूढेनानुमानानुमेयव्यवहार इति

5.170

अपि च अस्तु बुद्धिशब्दभेदनिबन्धनो हेत्वादिभेदः, तयोर् एव तु कथम् अकस्माद् उद्भवः. न ह्य् अकारणिका कार्योत्पत्तिः सम्भवति. न च शून्ये जगति{2,83}तयोः कारणम् उत्प्रेक्षितुम् अपि शक्यत इत्य् आह -- निर्वस्तुक इति. यश् चायं शब्दभेदो हेत्वादिभेदहेतुतयोपवर्णितः, सो ऽपि तदभावाद् अनुपपन्न इत्य् आह -- शब्दे ति

5.172

किञ् च यद्य् अविद्यमान एव बुद्धिमात्रकल्पितः साध्यादिभेदो ऽनुमानव्यवहाराय कल्प्यते, ततो दूषणव्यवहारो ऽपि तद्वद् एव स्यात्. उत्पद्यते खल्व् अस्मिन् साधने हेत्वादिन्यूनतोक्तिमात्राद् एव दूषणबुद्धिर् इत्य् आह -- यदि वे ति द्वयेन

5.173

शक्यते च वदितुम् एवम् अपि सर्व एवायं दूष्यदूषणव्यवहारो बुद्ध्यारूढेन दूष्यदूषणन्यायेन, न बहिः सदसत्त्वम् अपेक्षत इत्य् आह -- यश् चे ति

5.174

नन्व् एवम् अप्य् आवयोर् अविशेष एव, यथा हि नो दूषणज्ञानम् उत्पन्नम् एवं भवतो ऽपि साधनज्ञानम्. अतः कथं विजयसे अत आह -- बुद्धी ति. अयम् आवयोर् विशेषः बुद्धिमात्रव्यवहारिणो भवतो मदुक्तदूषणं सिद्धम् इति न ते पक्षः सिध्यति. त्वदुक्तं तु साधनम् अस्माकम् असिद्धम् इति न साध्यं प्रतिपद्यामह इति

5.175

कथं साधनम् असिद्धम् अत आह -- बाह्ये ति. बाह्यार्थव्यवहारिणो हि वयं, न त्वम् इव ज्ञानैकशरणाः. तत्र कथम् असति बाह्ये बुध्यामह इति

5.176

{2,84} पुनर् अपि परश् चोदयति -- नन्व् इति. यथा हि मे साधनम् असिद्धम्, एवं दूषणम् अपीति न दुष्टं साधनम् इति

5.177

मीमांसकस् तु पाशुपतो ऽयम् एवंवादी यद् विहाय साधनम् अभावाद् दूषणस्याप्य् अदुष्टत्वम् आतिष्ठत इति सापहासम् आह -- नेदानीम् इति

5.179

यश् च वासनाभेदनिबन्धनो विकल्पप्रविभागो वर्णितः, सो ऽपि तद्भेदनिमित्ताभावाद् अनुपपन्न इत्य् आह -- न चे ति. ननु ज्ञानभेदाद् एव वासनाभेदो भविष्यति, कथं निमित्ताभावः. न, तद्भेदस्यैव निर्निमित्तत्वाद्, वासनानिबन्धने तु तद्भेदे ऽन्योन्याश्रयत्वम् इत्य् आशङ्कया सहाह -- ज्ञाने ति. ननु स्वभावभिन्नम् एव ज्ञानं वासनाभेदनिबन्धनं भविष्यति, कथम् अन्योन्याश्रयत्वम् अत आह -- स्वच्छस्ये ति. स्वच्छस्य हि ज्ञानात्मनः स्वयम् अनुपलभ्यमानभेदस्यानादिवासनोपप्लावितनीलाद्याकारकलुषितत्वम् एव भेदकारणम् इति बौद्धैर् आश्रितम्, अतो दुरुत्तरम् इतरेतराश्रयम् इति

5.180

नन्व् अनादित्वाद् एव बीजाग्कुरवद् इतरेतराश्रयपरिहारो भविष्यत्य् अत आह -- प्रमाणम् इति. प्रसिद्धात्मनोर् हि बीजाङ्कुरयोर् अनादित्वाद् भवति दोषपरिहारः. वासना त्व् अस्ति भिन्ना चेति न किञ्चित् प्रमाणं क्रमते. यो हि{2,85}बहिर्देशसम्बद्धं प्रत्यक्षम् अर्थम् अवजानीते, स कथं वासनाम् अनुजानाति. तदनुज्ञाने वा किम् अपराद्धं भावान्तरैर् इति. अपि च पूर्वानुभवप्रभावितं स्मरणहेतुसंस्कारम् एव वासनाम् आचक्ष्महे. तद् असौ सत्य् अपि ग्राहकं ज्ञानम् एव विविधम् उपकल्पयति. यत् तु विचित्रा बहिर्भावा भासन्ते तत् कस्य हेतोर् इति न ज्ञायत इत्य् आह -- कुर्याद् इति

5.181

न ग्राह्यभेदे वासना कारणम् इत्य् अत्रोपपत्तिम् आह -- संवित्त्ये ति. स्मृतिहेतुर् हि वासना. न चानुभूतात् स्मृतिर् अधिकं मात्रयापि गोचरयति. न च बहिरत्यन्तासन्तो भावाः क्वचिद् अपि गृहीतपूर्वा इति न तान् वासना स्मारयितुं प्रभवतीति. किञ् च, अतश् च वासना नोपपद्यते यत् कारणं क्षणिकानि ज्ञानानि निरन्वयविनाशीनि परस्परम् असहितानि चेत्य् आह -- क्षणिकेष्व् इति. यथा तावत् क्षणिकानां निरन्वयविनाशिनां च न वासना, तथोपरिष्टाद् वक्ष्यतीति

5.183

असाहित्यान् न वासनेत्य् उक्तार्थम् एव प्रपञ्चयति -- पूर्वे ति. साहित्याभ्युपगमे ऽपि समवायाद्यन्यतमलक्षणसम्बन्धाभावाद् वासना नोपपद्यते. न ह्य् असम्बन्धः कालागरुधूमो ऽगारं वासयतीत्य् आह -- साहित्ये ति

5.184

क्षणिकत्वान् न वासनेत्य् उक्तम्, अत्र कारणम् आह -- क्षणिकत्वाद् इति. व्यापारनिबन्धनो हि वास्यवासकभावः कारकविशेषत्वात् तस्य. न च क्षणिकं पूर्वम् उत्तरं वा तयोर् एव व्याप्रियत इति सम्भवति. ननु जन्मैव बुद्धेर्{2,86}अर्थपरिच्छेदे व्यापार इत्य् उक्तम्, तद्वद् वासनायाम् अपि भविष्यति. न, दुष्टत्वाद् उपपत्तेः. दृश्यते खलूत्पद्यमानै(?र् ए)व बुद्धिर् अर्थं परिच्छिन्दन्ती. न ह्य् असौ क्षणम् अप्य् उदास्ते. न चार्थपरिच्छेदाद् अन्यत्र व्याप्रियत इति युक्तम्. जन्मनैव व्यापारेण कारकत्वं, न ज्ञानान्तरं वासयन्ती जायमाना बुद्धिर् दृश्यत इति कथं वासनायां जन्मना कारणत्वम्. न च जन्मापि किञ्चिद् बौद्धा मन्यन्ते यन्निबन्धनः कारणभावो भवेत्. अस्माकं तु समवायिकारणदशाविशेषः को ऽपि कार्यस्य जन्मेति मतम्. स च जायमानान्नात्यन्तभिन्न इति युक्तं क्रियाकार(?का।क)भाव इति. निरन्वयविनाशित्वान् न वासनेत्य् उक्तम्. तत्र कारणम् आह -- विनश्यद् इति. यद् धि स्वलक्षण एव निरुद्धं न केनचिद्रूपेणान्वेति न तत् तदीयं वा रूपं वास्यत इति सम्भवति. तथा वासकम् अपि यन्निरन्वयविनष्टं तत् केनात्मना परं वासयति. अवस्थिता एव हि भावा गृहादयो ऽवस्थितैर् एवागरुधूमादिभिर् वास्यन्त इति दृष्टम्. अयं चावीतहेतुर् उन्नेतव्य इति

5.186

अत्र चोदयति -- अवस्थित इति. अवस्थान्तरोपजननापाययोस् तदभिन्नस्यावस्थावतो नाशोत्पादाभ्याम् अवस्थितत्वानुपपत्तिः. अवस्थितत्वे वा पूर्वावस्थायाम् इवोत्तरत्रापि अवासनाप्रसङ्ग इति. अस्मन्मते तु भङ्गुरम् उत्तरं पूर्वं च ज्ञानं, नावस्थितः कश्चिद् एको ज्ञाताप्रच्युतप्राच्यरूपः. तद् इह भङ्गुरपक्षे पूर्वसादृश्यात् ततो भिन्नस्योत्तरस्य युक्तैव वासना. एषैव तु वासना यत् पूर्वसारूप्यम् उत्तरस्य. यथा लाक्षारसोपसिक्ते बीजपूरकुसुमे फलं तद्रूपं जायमानं तत्त्वान्वितम् इत्य् उच्यते. यत् तु व्यापारविरहाद् अकारकत्वम् उक्तं, तद् अयुक्तम्. न व्यापारतः कारकत्वम्, अपि तर्हि पूर्वभावात्. भावातिरेकिणो व्यापारस्यानुपपत्तेः. यच् चेदं पूर्वस्योत्तरकारणत्वम् इदम् एव वासकत्वं पूर्वेणोत्तरं{2,87}वास्यत इति. को ऽर्थः. स्वरूपं जन्यत इति. अतो भङ्गुरवादिनाम् एव वासनोपपत्तिमती न स्थिरवादिनाम् इत्य् आह -- भङ्गुर इति

5.189

तद् इह स्वमतसाधनम् उपेक्ष्यैव तावत् परमतदूषणम् अभिधीयते. दूषिते हि तस्मिन् सुखेन सिद्धान्तो ऽभिधीयते. तत्र यत् तावदुक्तं सद्रूपज्ञानजनकत्वम् एव वासनेति. तद् अयुक्तम्. यदि हि पूर्वज्ञानम् उत्तरस्य जनकं भवति, ततो ऽनुरूपं विरूपं वा जनयति, न तदुत्तरस्य जनकम्. अनुत्पन्नस्यासतो जनकत्वायोगात्. एवं विनष्टस्यापि, अजातातिवृत्तयोर् अनतिभेदात्. न च निष्पन्नस्य क्षणम् अप्य् अवस्थानम् अस्तीति कदा जनयिष्यतीति जनकत्वानुपपत्तौ दूरोत्सारितम् अनुरूपजननम्. न हि निरन्वयविनष्टस्य किञ्चिद् अनुरूपं सम्भवति, धर्मान्वयो हि आनुरूप्यम्. न पूर्वधर्मान्वय उत्तरज्ञाने ऽस्ति, तदुपगमे निरन्वयविनाशायोगात्. न च समानधर्मताम् अन्तरेणास्ति स प्रकारो येनानुरूप्यं भवतीति. तद् एतत् सर्वम् आह -- नैतद् अस्ती ति सार्धतृतीयेन. ननु पूर्वभावितैव कारकत्वम् इत्य् उक्तं किं क्षणान्तरावस्थानेन. न च व्यापारकारणभावः येन तत्सम्बन्धार्थं क्षणान्तरावस्थानम् इष्यते तदभावाद् इत्य् उक्तम् एव. मैवम्. न हि पूर्वभावितामात्रं कारणत्वम् इष्यते. मा भूद् गवाश्वस्यापि पौर्वापर्यमात्रात् कार्यकारणभाव इति पौर्वापर्यनियमे तु कार्यकारणत्वम्.[720]न चासौ क्षणिकेषु सम्भवति. व्यापारस् तु प्रत्यक्षादिप्रमाणको नापह्नोतुं शक्यत इति

5.191

__________नोतेस्__________
[720] णकत्वम् (क)
{2,88} दूषणान्तरम् आह -- यदी ति सार्धेन. यद्य् अपि ह्य् आनुरूप्याद् वासनेत्य् उच्यते यदा तर्हि गोबुद्धेर् अनन्तरं हस्तिबुद्धिर् उत्पद्यते तत्रैव वैलक्षण्याद् वासना न स्यात्. ततो ऽपि परस्ताद् गोज्ञानं निर्बीजं न सम्भवेद् इति. प्रदर्शनार्थं च गोहस्तिज्ञान उक्ते सर्वम् एव विलक्षणाद् विलक्षणज्ञानं न स्याद् इत्य् आह -- सर्वम् इति

5.192

एवं तावद् आनुरूप्यवासनापक्षो निराकृतः. इदानीं पुनर् अपि ज्ञानातिरिक्तवासनापक्षम् एवोपसङ्क्रम्य दूषणान्तरम् आह -- बाह्ये ति. बाह्यार्थवादिनां हि पूर्वज्ञानजनिता आत्मस्था वासनाः किञ्चिद् एव सदृशदर्शनाद्यपेक्ष्य लब्धोद्बोधाः कार्यं जनयन्ति क्रमेणेति युक्तम्. ज्ञानमात्रवादिनस् तु न किञ्चिद् वासनानां कार्यजनने ऽनुग्राहकम् अस्ति यद् अपेक्षया विलम्बन्ते. अतो युगपद् एव सर्वाः सर्वं कार्यम् आरभेरन्न् इति न क्रमेण जानानि दृश्येरन्. एकदैव विश्वज्ञानम् उत्पन्नम् इति क्षणान्तरे न किञ्चित् स्यात्. न चासां किञ्चिद् रूपम् अन्वेति यत् पुनः कार्यं जनयेत्. निरन्वयविनाशित्वान् न क्वचिद् अन्यत्र वासनानां पारार्थ्यं यथास्माकम् आत्मनि, संस्कार्यान्तराभावात्. अतः पारार्थ्येन वशीकाराभावाद् अपि न क्रमो युक्तः. पारार्थ्येन ह्य् अस्माकम् इव बोद्धुर् अवधानाद्यपेक्षया स्मृतिक्रम इव ज्ञानक्रमो भवेद् अपि. न त्व् एतत् सर्वम् अस्तीति कार्यक्रमानुपपत्तिर् इति

5.194

किञ्चैता वासनाः क्वचिद् आश्रिता न वा. यद्य् आश्रिताः, ज्ञानातिरिक्तस्य{2,89}कस्यचिदभावात् तदाश्रिता वाच्याः. तत्रैकज्ञाननाशे सकलतदाधारवासनाविनाशः. कारणविनाशाद् एव कार्यारम्भ इति वः सिद्धान्तः, प्रकारान्तरकारणत्वायोगात्. विनश्यद् एव हि कारणं कार्यं जनयतीति युगपन्नश्यन्तीभिर् वासनाभिः सकृद् एव सर्वाकारज्ञानम् उत्थापितं तथावस्थितं च एकदैवैकक्षणे विनष्टम् इति क्षणान्तरे न किञ्चिद् भवेद् इत्य् आह -- विनाश इति द्वयेन

5.195

यदि त्व् आश्रयभूतज्ञानविनाशे ऽपि शक्तिर् वासना न नश्यन्तीत्य् उच्यते, ततः क्षणिकत्वसिद्धान्तहानिः. स्थिरस्य च क्रमयौगपद्याभ्याम् अर्थक्रियानुपपत्तेः कार्यानारम्भप्रसङ्ग इत्य् आह -- यदी ति

5.196

यदि तु स्वतन्त्रा एव ज्ञानवद् वासनाः प्रवृत्ता इत्य् उच्यते, ततो ज्ञानवासनयोर् इतरेतरकार्यकारणभावानुपपत्तिर् इत्य् आह -- वासने ति

5.197

किम् इति न स्याद् अत आह -- कुर्याताम् इति. सदृशम् एव हि तदा ज्ञानवासने कार्यम् आरभेयातां ज्ञानं ज्ञानं वासना वासनां न पुनर् अन्योन्यम् इति. ननु विजातीयकारणोपनिपाताद् विसदृशकार्योत्पादो भविष्यत्य् अत आह -- नान्य इति. द्वयातिरिक्तवस्त्वभावाद् इति भावः

5.198

अतः संवृतिसत्यरूप इव वासना कल्पिता न परमार्थतः{2,90}काचिदस्तीत्य् आह -- तस्माद् इति. न चैवञ् जातीयकं कस्मैचित् कार्याय घटत इति प्राग् एव वर्णितम् इत्य् आह -- न चे ति

5.199

स्वमत इदानीं वासनाम् उपपादयति -- यस्य त्व् इति. अवस्थितो हि ज्ञाता यज्ज्ञानाभ्यासेन वासनाधारो भवति तद् युज्यते. क्षणिकं तु न वासयितुं शक्यम्. न च तदासना प्रयोजनवती, क्वचिद् उपयोगाभावात्. न च वासितः पूर्वावस्थातो ऽत्यन्तं भिद्यते, येनान्यत्वं प्रतिपद्यते. न च प्राग्वदविशिष्टः, येन वासना न स्यात्. न चावस्थान्तरोत्पादे ऽवस्थितत्वानुपपत्तिः, पूर्वापरयोर् अवस्थयोर् अनुगतस्य बोद्धुः प्रत्यभिज्ञानात्. तद् इहावस्थातद्वतोर् अभेदविवक्षायां पूर्वज्ञानाहितसंस्कारः पुमान् एव वासना भवेत्. भेदविवक्षायां तु तदाधार इति

5.200

यत्त्वानुरूप्यवासनापक्षे लाक्षोपसिक्तं बीजपूरकुसुमम् उपवर्णितं, तत् तद्रूपसङ्क्रान्तेर् उपपन्नम्, न तु ज्ञानस्य किञ्चिद्रूपं ज्ञानान्तरं सङ्क्रामति निरन्वयविनाशित्वाद् इत्य् उक्तम् एवेत्य् आह -- कुसुमे ति तस्या न्तेन. प्रकरणार्थम् उपसंहरति -- इत्य् अवासने ति

5.201

किञ्चेयं वासना तत्त्वदर्शिभिर् बौद्धैर् वस्तुतो वर्णितेति नेदं सम्भावयामः. असतीम् एव तु युक्त्यानुपेतां युक्तिशून्यां वासनां विकल्प्य विषयेष्व् आस्थां{2,91}निवर्तयितुम् अर्थनिराकरणम् उक्तम् एकम् एवाद्वितीयम् इत्याद्युपनिषद्भिर् इव. तत्रैव त्व् अर्वाचीनानां भ्रान्त्या सिद्धान्तावग्रह इति निराकृतं वादिनम् आश्वासयतीति -- युक्त्ये ति

मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc