मीमांसाश्लोकवार्त्तिक · अध्याय 4
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
निमित्तसूत्रं समाप्तम्
04 प्रत्यक्षसूत्र
{1,204} अत्रानन्तरं परीष्टिसूत्रप्रतिज्ञातां निमित्तपरीक्षाम् अवतारयितुं सूत्रम् -- सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् अनिमित्तं विध्यमानोपलम्भनत्वाद् इति. तद् इदं वृत्त्यन्तरे ऽनिमित्ताद् अवच्छिद्य तत् प्रत्यक्षम् इत्येवमन्तं लक्षणपरं व्याख्यातम्. तद् एतद् उपन्यस्य दूषयति -- वर्ण्यत इति. अस्यार्थः -- धर्मस्य निमित्तं परीक्षितव्यमिति हि प्रतिज्ञातम्. अनन्तरं च प्रत्यक्षस्य लक्षणम् उच्यमानं न पूर्वप्रतिज्ञया सङ्गच्छत इति
न परमसङ्गतिः, अनुपयोगो ऽपीत्य् आह -- लषणस्ये ति. लोकप्रसिद्धप्रमाणव्यवहारिणो हि मीमांसकस्य किं तल्लक्षणकरणेनेति भावः. द्व्यंशा हि पूर्वप्रतिज्ञा चोदनैव प्रमाणं प्रमाणम् एव चोदनेति तन्त्रार्थसंक्षेपप्रतिज्ञानम्. पुनश् च परीष्टिसूत्रेण निष्कृष्याद्यलक्षणविषयतया. न चान्यतरांशप्रसाधनेनापि लक्षणाभिधानम् उपयुज्यत इति. यदि तु नैयायिकादिप्रस्थानम् अनुविदधता प्रत्यक्षस्य लक्षणं प्रणीयते, तद्वद् एव हि तत्पूर्वकं त्रिविधम् अनुमानम् इत्यादिवदनुमानादेर् अपि लक्षणप्रणयनम् आपतितम् इत्य् आह -- किमर्थम् इति
स्याद् एतत्. अप्रमाणम् एवानुमानादि प्रत्यक्षाद् अन्यत्वात् तदाभासवद् इति तल्लक्षणानभिधानम् इति, तद् अयुक्तम् इत्य् आह -- न तावद् इति. अयम् अभिप्रायः -- यद् एव किञ्चित् तदप्रामाण्यसिद्धये प्रमाणम् उपन्यस्यते, तत् तेनैव बाध्यते. अपि चानुमा(?न।ना)प्रामाण्यसिद्धये ऽनुमानम् उपन्यस्यते इति स्ववाग्विरोधः. तद् अलं नाप्रत्यक्षं प्रमाणम् इति पाषण्डजल्पितेनेति.{1,205}स्याद् एतत् -- सम्भवैतिह्ययोर् इवानुमानागमयोः प्रत्यक्षान्तर्भावाद् इतरेषां लक्षणानभिधानम् इति, तन् न. लक्षणवैलक्षण्याद् इत्य् आह -- नापी ति वक्तुम् अन्तेन. स्याद् एतत् -- लक्षणवैलक्षण्यम् एवासिद्धं, सर्वेषां सत्य् एवेन्द्रियार्थसन्निकर्षे जायमानत्वाद् इति. तन् न. न हि चक्षुषा सन्निकृष्टधूमो ऽप्य् अविदितास्मृतव्याप्तिर् अनुमिमानो वह्निम् उपल(?भ्य।भ)ते. अत इन्द्रियलिङ्गशब्दसादृश्या(न)न्यथासिद्धबुद्धिसमुपलम्भकप्रमाणाभावा एव यथाक्रमं प्रत्यक्षादिप्रमाणोदये साधनम् इति साधनभेदाल् लक्षणवैलक्षण्ये सति नान्योन्यान्तर्भावोपपत्तिः. तद् इदम् आह -- न चे ति
न च वाच्यं सर्वादौ प्रत्यक्षलक्षणाभिधानाद् एव तत्पूर्वकत्वेनेतराणि लक्षितानीति पृथग्लक्षणानभिधानम् इति, तत्पूर्वकस्मृत्यादीनाम् अप्रामाण्यदर्शनेनाभाससङ्करप्रसक्तेर् इत्य् आह -- न चापी ति
न च सामान्यातिदेशलक्षणम् इव विशेषातिदेशलक्षणं प्रत्यक्षलक्षणोक्तिर् अनुमानादीनां पारमार्थिमं लक्षणम् आक्षिपति, तेन विना तदुपपत्तेः. सामान्यं तु नानाक्षिप्तविशेषम् आत्मानं लभत इत्य् आक्षिपत्य् अर्थविशेषम्. तद् एतद् आह -- प्रत्यक्षे ति
तत्पूर्वकत्वसिद्ध्यभ्युपगमेन चास्माभिः पूर्वं[609]स्मृत्या व्यभिचार उक्तः. तद् अपि प्रत्यक्षलक्षणोक्तेर् अनन्यथासिद्ध्यभावान् न सिध्यतीत्य् आह -- तदतद् इति. तच् चातच् च तदतदी. ते पूर्वे यस्येति बहुव्रीहिः. तद् अयम् अर्थः -- तद् वा प्रत्यक्षम् अन्यद् वा पूर्वम् अनुमानादीनाम् इति न प्रत्यक्षलक्षणाद् अवगम्यत इति.{1,206}यदि तु विनैव कारणेन प्रत्यक्षलक्षणोक्तेर् इतरेषां तत्पूर्वकत्वम् आश्रीयते, हन्त अतत्पूर्वकत्वम् अपि वाङ्मात्रेण शक्यम् आश्रयितुम् इत्य् आह -- तदुक्तेर् इति. तदपूर्वं यस्येति विग्रहो दर्शयितव्य इति
__________नोतेस्__________
[609] र्व (ग)
सिध्यतु वा प्रत्यक्षलक्षणोक्तेर् अनुमानादीनां तत्पूर्वकत्वम्. यस् त्व् एषाम् अवान्तरलक्षणभेदः स्वरूपं च, संख्या चेयन्ति प्रमाणानीति, तत् सर्वं न सिध्यतीत्य् आह -- न चे ति
स्यान् मतं - प्रसिद्धान्य् एवानुमानादीनि प्रमाणानि, किम् अमीषां लक्षणकरणेनेति. तत् प्रत्यक्षे ऽपि समानम् इत्य् आह -- प्रसिद्धत्वाद् इति. अतो बहुषु प्रमाणेषु यद् एकलक्षणकरणं तद् अन्यपरिसंख्यार्थम् एव स्यात्. तद् एतद् आह -- तेनान्ये ति सूत्रम् अन्तेन. अभिमतप्रमाणपरिसंख्यानं चायुक्तम् इति भावः. मूढेन वा जैमिनिना प्रत्यक्षमात्रं लक्षितम् इत्य् अभ्युपगन्तव्यम् आपद्येत. एवं चात्मीयम् अज्ञानम् ऋषेर् आरोपितं भवेद् इत्य् आह -- मूढेन वे ति ना न्तेन. अपि च वाक्यभेदो नामागत्या क्वचिद् आश्रीयते यथाग्नयश् च स्वकालत्वात् इत्य् अत्र वक्ष्यते. न चेह सूत्रे किञ्चिद् अनुपपन्नं दृश्यते यद् भित्त्वा व्याख्यायत इत्य् आह -- सम्भवती ति
लक्षणम् अप्य् एतद् अतिव्याप्तेर् अयुक्तम् इत्य् आह -- न चापी ति. अतिव्याप्तिम् एव दर्शयति -- तदभासेष्व् इति. सर्वे हि मृगतृष्णादिविभ्रमाः{1,207}सूर्यरश्मितप्तोषरादिसंयुक्तनयनजन्याः. संशयाश् च स्थाण्वादिसंयुक्तनयनजन्मान इति प्रत्यक्षताम् अश्नुवीरन्. सेयम् अतिव्याप्तिर् इति. अल्पं चेदम् अस्माभिर् उक्तं तदाभासेषु तुल्यत्वाद् इति. एकं तु स्वप्नज्ञानं वर्जयित्वा सकलप्रमाणाप्रमाणसजातीयविजातीयज्ञानमात्रसाधारणम् इदं लक्षणम् इत्य् आह -- स्वप्ने ति. लिङ्गशब्दसदृशादिसम्बद्धेष्व् एवेन्द्रियेष्व् अनुमानादिप्रमाणपञ्चकोत्पत्तिर् इति भावः
स्वप्नज्ञानवर्जने कारणम् आह -- तद्धी ति. बाह्येन्द्रियसम्प्रयोगाभावाभिप्रायेण चेदम् उक्तम्. स्वप्ने त्व् आत्ममनोदेहैः सङ्गतिर् अस्त्येवेति तद् अप्य् अनेन लक्षणेन व्याप्यत इति दर्शयितव्यम् इति. स्वप्नज्ञानातिरिक्तं तु यत् किञ्चिद् भ्रान्त्यादि, तत् केनचित् सम्प्रयोगे सत्य् एव जायत इति प्रत्यक्षम् आपद्येतेत्य् आह -- केनचिद् इति. यथा केनचित् सम्प्रयोगे भ्रान्त्यादिर् भवति, तथा पूर्वम् एवास्माभिर् विवृतम्. आदिशब्देन प्रमाणसंशययोर् उपादानम् इति
ननु केनचित् सम्प्रयोगमात्रं न प्रत्यक्षकारणम् अभिप्रेतम्. अपि तर्हि ग्राह्येण. न च भ्रान्त्यादयो ग्राह्यसंयुक्तनयनस्य जायन्ते. किं तर्हि. अन्यसंयुक्तेन्द्रियस्यान्यार्थविषयाः. न चेदं ग्राह्यविशेषणम् अस्माभिर् एव केवलम् आश्रितम्. अपि तु वृत्तिकारेणापि प्रत्यक्षलक्षणपरं सूत्रं व्याचक्षाणेन. तन्मतं च भवद्भिर् उपरिष्टाद् वक्ष्यत एवेति नावयोर् विशेषम् उपलभामहे, अत आह -- ग्राह्येणे ति. अयम् अभिप्रायः -- सत्यम् अभिमतं विशेषणं भवतो ऽपि. तत् त्व् अनुपात्तं न लभ्यते. वृत्तिकारमते तु व्यत्यस्तेन तद्वृत्तेन तदुपादास्यते.
{1,208} यदाभासं हि विज्ञानं तत्संयोगे तद् इष्यते ।
इति वक्ष्यते. अतो भवन्मते ग्राह्यविशेषणानुपादानाद् ग्राह्यसम्प्रयोगजम् अन्यसम्प्रयोगजं वा ज्ञानं प्रत्यक्षम् आपद्येत. अतो ऽस्ति महान् वक्ष्यमाणेन विशेष इति
यत एव यथावस्थितम् इदं सूत्रं न प्रत्यक्षं लक्षयितुं क्षमते, अत एव वृत्तिकारेणापि प्रासङ्गिकलक्षणकरणे व्यत्ययेन पठितम् इत्य् आह -- असामर्थ्यं चे ति
प्रकृतम् अतिव्यापकत्वं लक्षणस्योपसंहरति -- तेने ति
पर इदानीं सत्सम्प्रयोगविशेषणोपादानसामर्थ्याद् एव ग्राह्यविशेषणाक्षेपं मन्वानः प्रत्यवतिष्ठते, तदाह -- सत्सम्प्रयोगनिर्देश इति. एवं हि मन्यते --
सम्भवव्यभिचारौ हि विशेषणकराव् उभौ
तद् यदि सम्प्रयोगमात्रजं ज्ञानं सूत्रकारस्याभिमतम् अभविष्यत्, तदा विशेषणोपादानम् अनर्थकम् आपत्स्य(?ते।त.) न ह्य् असम्प्रयोगजं प्रमाणम् अप्रमाणं वा ज्ञानम् अस्ति. अतो विशेषणोपादानसामर्थ्याद् एव ग्राह्यविशेषणम् अवगम्यते. अतो न किञ्चिद् दोक्ष्यतीति. एतद् एव[610]दूषयति -- एतद् एव ही ति. एवं हि मन्यते -- नैवंविधेनोत्तरेण व्युत्थितो बोधयितुं शक्यते. तस्य ह्य् एतद् एव प्रतिपाद्यं यत् त्वन्मते[611]विशेषणानर्थक्यं, लक्षणस्य चातिव्याप्त्यादिभिर् असिद्धिर् इति
__________नोतेस्__________
[610] द् अपि दू
[611] ते अवयवानामानर्थ (ग)
उपेत्य वा ब्रूम इत्य् आह -- स्वप्नादीनाम् इति. उक्तम् एतद्{1,209}बाह्येन्द्रियव्यापारादिनिरपेक्षं स्वप्नज्ञानम् इति तन्मात्रं वर्जयित्वा सर्वम् एव प्रत्यक्षं प्राप्नुयाद् इति. आदिशब्देन चादृष्टमात्रोद्बोधितसंस्कारकारणिका स्मृतिर् अभिप्रेतेति. तस्माद् अनुपात्तम् एवात्र[612]समग्रं प्रत्यक्षलक्षणम् इति न तद् विधातुम् अनुवदितुं वा शक्यम् इत्य् आह -- तस्माद् इति. यत् प्रत्यक्षं तद् एवंलक्षणकम्[613]इति लक्षणविधिः. यद् एवंलक्षणकं[614]तत् प्रत्यक्षम् इति लक्षणानुवादः. न चानुक्तो ऽर्थो विध्यनुवादभाग् भवति, उभयोर् अपि साधारणत्वाद् अभिधानस्येति
__________नोतेस्__________
[612] व स
[613] णम् इ
[614] णं त (ग)
एवं लक्षणपरतां प्रत्याख्यायानभिमतवचनव्यक्तिनिराकरणपुरस्सरम् अभिमतां सूत्रस्य वचोभङ्गिम् आह -- तेने ति द्वाभ्याम्. एतद् उक्तं भवति -- यद् एवंलक्षणकं तत् प्रत्यक्षम् इति नैष सूत्रार्थः. किं तर्हि. यल्लोकप्रसिद्धं प्रत्यक्षं तस्य सत्सम्प्रयोगजत्वं नाम धर्मो ऽस्ति. तद्धर्मकत्वाच् च विद्यमानोपलम्भनत्वं भवति. ततश् च भविष्यत्य् अविद्यमाने धर्मे ऽनिमित्ततेति
ननु शाबरे ऽपि प्रत्यक्षम् अनिमित्तम्, एवं लक्षणकं हि तद् इत्य् उच्यते. तदलक्षणपरत्वे सूत्रस्यानुपपन्नम् अत आह -- एवम् इति. अयम् अभिप्रायः -- शाबरा अपि ये लोकप्रसिद्धलक्षणानुवादेनानिमित्तत्वं विदधति तान् अपि न मृष्यामहे, सम्पूर्णलक्षणाभिधाने सूत्रस्याशक्तेः. अतो लक्षणोक्तिर् इह लिङ्गविवक्षयैव. यथा धूमो लक्षणम् अग्नेः, एवं विद्यमानोपलम्भनत्वम् अनिमित्तत्वस्य. लक्ष्यते हि तत् तेनेति भाष्यकारस्याभिमतम् इति
{1,210} यल् लिङ्गं यस्य च, तदुभयम् अपि व्यनक्ति -- यत इति. विद्यमानोपलम्भनत्वं नाम धर्मो लिङ्गम्. अनिमित्तता तु लिङ्गि. यदि तु तल्लिङ्गम् असिद्धम् इति कश्चिद् ब्रूयात्, तं प्रति सत्सम्प्रयोगजत्वहेत्वन्तरप्रसिद्धेन तेनानिमित्तताधिगन्तव्येति प्रसिद्धेनेत्य् उक्तम् इति
कुतः पुनर् हेत्वन्तरस्यैव प्रसिद्धिः, अत आह -- प्रत्यक्षत्वम् इति. एतद् उक्तं भवति -- त्रय एते प्रयोगाः -- प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात्. विद्यमानोपलम्भनत्वं च सत्सम्प्रयोगजत्वात्. सत्सम्प्रयोगजत्वं च प्रत्यक्षत्वात्. अत्र च विद्यमानोपलम्भनत्वस्य व्यक्तम् एव पञ्चम्या हेतुत्वम् उपात्तम्. इतरयोस् तूपादानेनैव हेतुत्वं सूत्रितम् इति द्रष्टव्यम् इति. अयं च प्रत्यक्षं यज्जने सिद्धम् इत्य् अस्यैव प्रपञ्चो वेदितव्यः. तथा हि -- तत्रैव विद्यमानोपलम्भनत्वाद् अनिमित्तत्वम्, एवंधर्मकत्वोपात्तसत्सम्प्रयोगजत्वाद् विद्यमानोपलम्भनत्वं, प्रत्यक्षं यज्जन इति च प्रत्यक्षत्वाद् एवंधर्मकत्वम् उक्तम्. इदं हि तत्राकूतं प्रत्यक्षं सदेवंधर्मकं भवतीति. इदं त्व् इह वक्तव्यम्. किम् अनया प्रयोगप्रपञ्चरचनया. विमतिपदास्पदं हि प्रत्यक्षम् अनिमितं प्रत्यक्षत्वाद् इत्य् एतावतापीष्टं सिध्यत्य् एव. तत् तु शुष्कतर्कहेतोर् उद्भावकत्वान् न तथाश्रितम् इति समाधातव्यम्. एवं हि श्रुतिसाधारण्यमात्रेणानिमित्तत्वम् उक्तम् इति मन्वीरन्. न च श्रुतिसामान्यमात्रेणैव सर्वसाधर्म्यं भवति. न हि भवति गोपदास् पदं वाग् इति विषाणवती. विद्यमानोपलम्भनत्वाद् अनिमित्तत्वम् उच्यमानं चित्तं भावयति. कथं च[615]विद्यमानोपलम्भनम् अनागते निमित्तं भवति. कथं च सत्सम्प्रयोगजम् अविद्यमानोपलम्भनम्. वर्तमानसम्प्रयोगजं हि सत्सम्प्रयोगजम् अभिधीयते, सच्छब्दस्य वर्तमानवचनत्वात्. न चानागतेन धर्मेण वर्तमानः सम्प्रयोगः सम्भवति. सम्बन्धिद्वयाधारो हि सम्बन्धः. नासाव् अन्यतरस्मिन्न् अवर्तमाने वर्तत इति युक्तम् अभिधातुम्. एवं प्रत्यक्षशब्दो ऽपि प्रत्युत्पन्नेन्द्रियसम्प्रयोगाधीनवृत्तिर् नावर्तमानसम्प्रयोगजे वर्तितुम् अर्हतीति युक्तं क्रमाभिधानम्. प्रपञ्चरूचयश् च मीमांसका इति युक्तं प्रपञ्चाभिधानम् ॥
__________नोतेस्__________
[615] हि (ग)
{1,211} इदं तु वाच्यम् -- अनैकान्तिकं सत्सम्प्रयोगजत्वं विद्यमानोपलम्भनत्वे. सत्य् एव हि नदीपूरनयनसन्निकर्षे अतीता[616]दिवृष्टिविज्ञानं भवति. वर्तमान एव च मेघचक्षुस्सन्निकर्षो भविष्यद्वृष्टिविषयं विज्ञानं जनयति. अतो नायम् एकान्तः यत् सत्सम्प्रयोगजं ज्ञानं विद्यमानोपलम्भनम् इति. अपि च अपरोक्षनिर्भासम् अपि ज्ञानं वर्तमानसम्प्रयोगजम् अविद्यमानविषयं दृष्टम्. भवति हि वर्तमाने शुक्तिनयनसन्निकर्षे ऽतीतानागतव्यवहितरजतावग्रहः. उक्तं च भवद्भिर् अपि भवदासदूषणावसरे सकलप्रमाणाप्रमाणज्ञानसाधारण्यं सत्सम्प्रयोगजत्वस्य. स्यान् मतम् -- न तावदतीतानागतगोचरम् अनुमानं सत्सम्प्रयोगेण जन्यते, अविदितास्मृतव्याप्तेर् अभावात्. अस्ति हि तस्यापि नदीपूरजलदचक्षुस्सन्निकर्षः. न चातीतानागतवृष्टिपरिचयो भवति. शुक्तिरजतवेदने ऽपि पुरोवर्तिद्रव्यग्रहण एव सन्निकर्षः कारणम्. रजतानुभवस् तु दोषसाहाय्यात् प्राचीनज्ञानजन्मनः संस्काराद् यत्कारणं सन्निकृष्यते खल्व् अस्य नानार्थैर् इन्द्रियम्. न चासत्सु दोषेष्व् अविद्यमानप्रकाशनम् उपकल्पयति. अतो विषयादिदोषान्वयव्यतिरेकानुविधायिनो विभ्रमास् तम् एव स्वात्मनि कारणीकारयन्तीति. तन् न. कारणकारणस्यापि कारणत्वानपायात्. शुक्ति[617]नयनसन्निकर्ष एव हि संस्कारोद्बोधे कारणं भ्रान्तौ. अनुमाने च लिङ्गसन्निकर्षो व्याप्तिस्मरणे. अतः शक्यं तदुभयम् अपि परम्परया सत्सम्प्रयोगजम् इति वक्तुम्. अविशेषितं चेह सत्सम्प्रयोगजत्वमात्रं हेतुर् उक्तः. अतो दुष्परिहरम् अनैकान्तिकत्वं तादृशस्य.
__________नोतेस्__________
[616] तवृ (ग)
[617] क्तिस
अत्रोच्यते -- उक्तम् इदं लोकप्रसिद्धस्य प्रत्यक्षस्यायं धर्मः यत् सत्सम्प्रयोगजत्वं नाम विद्यमानोपलम्भनत्वसिद्धौ हेतुर् उक्तः. लोके च ग्राह्येणैव सति सम्प्रयोगे प्रत्यक्षम् इति सिद्धम्. न ह्य्[618]अन्यसम्प्रयुक्तचक्षुषो ऽन्यत् प्रत्यक्षम् इति दृष्टम्. तद् इह ग्राह्येणैव वर्तमानसम्प्रयोगजत्वं विद्यमानोपलम्भनत्वे हेतुर् उक्तः. न च तद् अनुमानादिषु सम्भवति. न हि तत्र ग्राह्येण वृष्ट्यादिनेन्द्रियसन्निकर्षो वर्तते. लक्षणपक्षे तु यावच्छ्रुतमात्रपरतन्त्रत्वाद् आपद्येतैव भ्रान्त्यादि प्रत्यक्षम्. तत्रापि तु लोकपारतन्त्र्ये वृथा लक्षण[619]करणम् इति. ननु प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वाद् इत्य् अत्र को दृष्टान्तः.{1,212}यदि प्रत्यक्षम् एव, तन् न. पक्षसपक्षयोर् अभेदापातात्. तच् चायुक्तं सिद्धसाध्ययोर् भेदात्. साध्यो हि पक्षः सिद्धश् च सपक्षः. न चैकम् एव सिद्धसाध्यस्वभावम् इत्य् उपपद्यते. सिद्धं चास्मदादिप्रत्यक्षस्य धर्मे ऽनिमित्तत्वं, किं[620]तत्साधनेन. अत आह -- अस्मदादाव् इति. अयम् अभिप्रायः -- प्रत्यक्षविशेषं पक्षीकृत्य प्रत्यक्षान्तरं सपक्षीक्रियते इति न पक्षसपक्षयोर् एकता. नापि सिद्धसाध्यतेति
__________नोतेस्__________
[618] न्यत् सम्प्रयुक्तम् अन्यत् प्र (क)
[619] णम् इति (ग)
[620] तत्र सा (ग)
एवं स्वमतेन सूत्रं व्याख्यायेदानीं परपक्षोक्तान् दोषान् इह परिहरति -- प्रकृतेने ति. परपक्षे हि प्रकृतासङ्गतिर् उक्ता. सेह नास्ति. चोदनैव प्रमाणम् इति हि प्रतिज्ञातम्. तच् च प्रत्यक्षानिमित्तत्वप्रतिपादनेनैव[621] शेषाणाम् अप्य् अनुमानादीनाम् अप्रामाण्यदर्शनेनावधारितरूपं सिध्यतीति. कथं पुनः प्रत्यक्षानिमित्तत्वे सत्यनुमानादीनाम् अप्य् अनिमित्तत्वम्. न हि प्रत्यक्षम् अनागतातिवृत्तयोर् असमर्थम् इत्यनुमानेनापि[622]तथा भवितव्यम्. मेघोन्नतिनदीपूराभ्याम् अनागतातिवृत्ताया वृष्टेर् अननुमानप्रसङ्गाद् अत आह -- तद् इति. अयम् अभिप्रायः -- व्याप्तिसंवेदनाधीनजन्मत्वाद् अनुमानस्य नित्यपरोक्षेण च धर्मेण व्याप्तिसंवेदनासम्भवाद् अनुमानोदयाभावः. न च वृष्ट्यादौ प्रसङ्गः. तेषां दृष्टपूर्वकत्वेन व्याप्तिसंवेदनोपपत्तेः. आदिशब्देन धर्मसादृश्यम् उपादत्ते. एतच् चोपरिष्टात् प्रपञ्चयिष्यत एवेति
__________नोतेस्__________
[621] न शे (क)
[622] पि भ (ग)
नन्व् एवम् अपि प्रत्यक्षवदितरेषाम् अप्य् अनिमित्तत्वं किं सूत्रैर् न निबद्धम् अत आह -- शक्यम् इति. एकलक्षणकरणे हीतरलक्षणासिद्धेः सर्वेषां लक्षणकरणम् आपादितम्. अनिमित्तत्वे तु प्रत्यक्षस्योक्ते तत्पूर्वकत्वाद् इतरेषाम् अप्य्{1,213}अनिमित्तत्वं शक्यावगमम् इति न पृथङ् निबध्यते. यथा वक्ष्यति -- प्रत्यक्षद्वारत्वाद् अनुमानादीनाम्[623]अप्य् अकारणत्वम् इति. लक्षणानुपयोगे[624]ऽपि यः पर्यनुयोगो दत्तः, सो ऽप्य् अत्र लक्षणानभ्युपगमाद् एव नास्तीत्य् आह -- न चे ति
__________नोतेस्__________
[623] म् अका
[624] गेनापि (क)
तथा ग्राह्यविशेषणानुपादानाद् अनुमानाद्यनुपसङ्ग्रहाच् च न्यूनं लक्षणं, सर्वसंविदां च सत्सम्प्रयोगेणाव्यभिचारात् सत्सम्प्रयोगनिर्देशो ऽतिरिच्यत इत्याद्य् अपि यद् उक्तं तद् अप्य् अत्र नाशङ्क्यत इत्य् आह -- न चे ति. लक्षणकरणस्य हि न्यूनातिरेकादयो दोषाः नालक्षणे प्रसजन्तीति. एतद् ध्य् अत्र सर्वथा प्रतिपाद्यं यल्लोकप्रसिद्धं प्रत्यक्षं तद् एवंधर्मकम् इति. सम्पूर्णं तु प्रत्यक्षस्य स्वरूपम् अनेनाभिधीयतां मा वा. न नस् तत्र तात्पर्यम्. अतश् चान्यपरत्वात् सूत्रस्य लक्षणपक्षोक्ता मृगतृष्णादिसंविदाम् अपि प्रत्यक्षता नापद्यते इत्य् आह -- सर्वथे ति
ननु यदि लोकप्रसिद्धधर्मोपदर्शनेनानिमित्तत्वमात्रम् अत्र साध्यम्, एवं तर्हि प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वाद् इत्य् एतावद् एव वक्तव्यम्. किं सत्सम्प्रयोगजत्वाद्युपन्यासेन, अत आह -- अतीते ति सार्धद्वयेन. अयम् अर्थः -- सत्यम् एतावताप्य् अनिमित्तता प्रतिपादितैव.[625]किन् तु विद्यमानोपलम्भनत्वम् एवासिद्धं योगिनां मुक्तात्मनां चातीतानागतादिविषयज्ञानोत्पत्तेर् इति ये मन्यन्ते, तान् प्रति हेतुसिद्ध्यर्थं सत्सम्प्रयोगजत्वम् अपि हेत्वन्तरम् उपन्यस्तं, न पुनः प्रत्यक्षस्वरूपविवक्षया. तथा विद्यमानोपलम्भनत्वाद् इति हेतुम् अभिदधता अविद्यमानो[626]भविष्यद्धर्मो भविष्यत्त्वाद् एव न प्रत्यक्षेणानुभूयत इति यो हेतुर् अन्तर्णीतः, तस्यापि योगिम् उक्तात्मनां ग्राह्यैर् अर्थान्तरैर् भविष्यद्भिर् व्यभिचारिता मा भूद् इत्य् एतद् अर्थम् अपि सत्सम्प्रयोगजत्वस्योपादानम्. एतद् ध्य्{1,214}अनेनोच्यते -- सर्वम् एव प्रत्यक्षं सत्य् एवेन्द्रियसम्प्रयोगे जायते. अतो न किञ्चिद् भविष्यद्विषयम् इति नास्ति व्यभिचारः. असिद्धताव्यभिचारिते समाहृत्य मा भूताम् इति द्विवचनाभिधानम् इति.
__________नोतेस्__________
[625] ता भवति. कि
[626] नो धर्मो (ग)
इदं त्व् इह वक्तव्यं - निराकृतम् एव अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनाद् इत्य् अत्र योगिप्रत्यक्षस्यानागतादिविषयत्वम्. अत्र किं पुनर् उपन्यासेनेति. तत्रैके वदन्ति -- तत्र हि वचनादृते पुरुषाणाम् अतीन्द्रियानुभवशक्तिर् निराकृता. अत्र पुनर्वचनाद् एव प्रतीत्य चिरं भावयतो धर्माधर्मौ प्रत्यक्षौ भविष्यत इति प्रत्यवस्थानं निराक्रियत इति. तद् अयुक्तम्. सर्वं हि तदनागतावेक्षणेन भाष्यवार्त्तिककाराभ्याम् उक्तम्, इहैव सूत्रकारेण स्वयम् उक्तत्वात्. न चैष परेषाम् अपि सिद्धान्तः यद् अकस्माद् एव बुद्धस्य[627]वान्यस्य वा तद्भूमिम् अधिरूढस्याजातातिवृत्तप्रत्युत्पन्नसूक्ष्मव्यवहितविप्रकृष्टादयः साक्षाद् भावा भासन्त इति. अपि तर्हि आगमाद् एव सामान्यतो विदितान् धर्मांश् चिरं भावयतः स्फुटम् अविकल्पकाश् च प्रकाशन्त इति. भावनाबलजम् एव ज्ञानं दिव्यं चक्षुर् इत्य् आचक्षते. यत् तु भौतिकेनैव चक्षुषा सर्वम् अपरोक्षीक्रियत इति, तदतिस्थवीयः. प्रौढिप्रदर्शनपरतया तैर् उक्तम्. तादृशम् अपि चात्रैव निराकार्यम्, इहैव सूत्रकारेण निराकृतत्वात्. तस्माद् अत्रत्यम् एवानागतावेक्षणेन तत्रोक्तम् इत्य् उक्तम् एव. ननु च पूर्वपूर्वहेत्वसिद्ध्याशङ्कयोत्तरोत्तरहेतुप्रदर्शनम् इति यतो ऽस्ति तत्र धर्मो ऽयम् इत्यादिना प्रत्यक्षत्वमदोहेतुर् इत्य् एवमन्तेनोक्तम् इति गतार्थम् इदम्.
__________नोतेस्__________
[627] स्यान्य (ग)
अत्रोच्यते -- प्रत्यवस्थानबीजम् इदानीं परेषाम् अभिधीयते. अविद्यमानोपलम्भनम् एव हि योगजधर्मबलेन योगिनां प्रत्यक्षम् इति हि ते प्रतिपन्नाः. अत एव अतीतानागते ऽप्य् अर्थे इत्यादिना हेत्वसिद्धिबीजम् उपदर्शितम्. पूर्वं त्व् असिद्ध्याशङ्कया हेतुक्रमाश्रयणम् इत्य् एतावद् एवोक्तम्. कथम् असिद्धिर् इत्य् अत्र न किञ्चिद् उक्तम्. योग्यर्थम् अभिधीयते इत्य् अत्रापि योगिनाम् अतिशयविशेषो ऽन्तर्णीतः. स एव अतीतानागतेत्यादिना प्रकटीकृतः. कः{1,215}पुनरतीतानागतादिविषयत्वे प्रत्यक्षस्य तेषाम् अभिप्रायः. श्रूयताम्. एवं हि मन्यन्ते -- यद् विद्यमानोपलम्भनम् अस्मदादिप्रत्यक्षं तेन मा नाम धर्मो ऽनुभूयताम्. भावनाबलभुवा तु सकलातीता[628]नागतादिविषयेण किं नानुभूयते. तदसिद्धेर् अनुपपन्नम् इति चेत्. न. अनुमानाद् उपपत्तेः. तत्रैतत् स्याद् -- न तस्य भावनाबलभुवः प्रत्यक्षस्यास्मदादाव् अदृष्टचरस्य सद्भावे किञ्चन प्रमाणम् अस्तीति. तच् च न. एवम् अनुमानाद् उपपत्तेः. विजातीयान्तरायपरिहारेण भाव्यमानेषु भावेषु[629]प्रज्ञाप्रसादाद् अतिशयो दृश्यते. तथा हि -- किम् अन्यत्. इह खलु नितान्तदुरधिगमम् आत्मानम् एव निर्धूतनिखिलकायकरणोपरागोपप्लवं विगलितसकलमितिमातृमेयमानविभागोद्ग्राहमयम्[630]अहम् इति विशदतरम् अवलोकयन्ते कृतिनः केचिद् इति वेदान्तवादिनो वदन्ति. न हि तदस्मदादिवेद्यं नेति योगिनो ऽपि न बुध्यन्ते. तद्वद् वा वयम् अपि विजानीमः. भवति चात्र कारणप्रकर्षो हि कार्यप्रकर्षेण व्याप्तो दृष्टः चित्रकारादिशिल्पप्रकर्ष इव चित्रादिकर्मप्रकर्षेण. प्रकृष्यते च कस्यचिद् योगिनो भावनाबलभुवः प्रत्यक्षस्य कारणम् इति स्वभावहेतुः. अथापि स्यात् कुतः कारणप्रकर्षो ऽवगम्यत इति. स्वभावहेतोर् एव. यो यदभिनिविशमानो ऽभ्यस्यति स तस्य प्रकर्षकाष्ठाम् आसादयति
चित्रकारस्येव शिल्पम्. अभ्यस्यति च कश्चिद् अवहितो ध्यानम् इति साध्यान्वितहेतुप्रदर्शनम्. अतो ध्यानप्रकर्षात् तद्बलभुवो ज्ञानस्य प्रकर्षः. कश् च ज्ञानस्यापरः प्रकर्षः स्फुटाविकल्पकप्रकाशात्. यथाहुः --
__________नोतेस्__________
[628] तादि (ग)
[629] प्रतिज्ञा (क)
[630] यम् इ (ग)
तस्माद् भूतम् अभूतं वा यद्यद् एवातिभाव्यते ।
भावनाबलनिष्पत्तौ तत्स्फुटाकल्पधीः फलम् ॥
इति. ननु जीवनाय शिल्पिनां शिल्पाभ्यासो युक्तः. न तु ध्यानाभ्यासस्य किञ्चिन्निबन्धनम् अस्ति. कथं नास्ति. करुणा हि ध्यानाभ्यासे निबन्धनम्. कश्चित् खलु भवान्तरीयात् संस्कारात् कारुणिको भवति.{1,216}स करुणाम् एवाभिनिविशते. अभ्यासातिशयाच् च सा तस्य प्रकर्षकाष्ठाम् आसादयति. स काष्ठाप्राप्तप्रकर्षकरुणो दुःखोत्तरान् संसारिणो दृष्ट्वा दूरं दूयमानमानसश् चिन्तयति कथम् एतान् उद्धरेयम् इति. ततः स पुरुषार्थसाधनम् अन्विच्छन् ध्यानाय प्रयस्यति. ततश् चिराभ्यासान् निष्पन्नध्यानो धर्माधर्माव् अप्य् अपरोक्षम् ईक्षते. अन्यन् मतं - संसारिणो हीन्द्रियाधीनज्ञानजन्मानः. प्राग्भवीयक[631]र्मार्जितदेहेन्द्रिया हि ते. अतो युक्तं यद्देहेन्द्रियानुविधायिसंवेदना भवन्तीति. यदा पुनर् अमी योगाभ्यासाद् एव प्रक्षीणनिखिलज्ञानकर्माशया भवन्ति, तदा देहेन्द्रियैर् विमुच्यन्ते. तदा नियामकाभावात् स्वयं च प्रकाशस्वभावत्वात् सर्वम् अतीतादि बुध्यन्ते. अतस् तान् प्रति विद्यमानोपलम्भनत्वम् असिद्धम् इति तत्प्रतिबोधनाय लोकप्रसिद्धं सद् इत्याद्य् अयं जैमिनिर् आहेति. तान् इन्दानीं प्रतिबोधयति -- न लोकव्यतिरिक्तम् इति. अयम् अर्थः -- तेषाम् अपि प्रत्यक्षं न लोकोत्तरं भवितुम् अर्हतीति
__________नोतेस्__________
[631] ध
अत्र कारणम् आह -- प्रत्यक्षत्वेने ति. अयम् अभिप्रायः -- तद् योगिनां ज्ञानं प्रत्यक्षं नवा. यद्य् अप्रत्यक्षं न तर्हि प्रमाणं, प्रत्यक्षानुमानव्यतिरिक्तप्रमाणानभ्युपगमाद् अनुमानलक्षणाभावाच् च. न चाप्रमाणम् अर्थव्यवस्थापनायालम्. अतः किं तद् अभ्युपगमेन. अथ प्रत्यक्षम्, अन्वर्थत्वात् प्रत्यक्षशब्दस्य अवश्यम् एव तेनेन्द्रियजन्मना भवितव्यम्. न ह्य् अनिन्द्रियजं प्रत्यक्षम् इति लौकिकानाम् उपचारो दृश्यते.
ननु नेन्द्रियजत्वं प्रत्यक्षलक्षणम्, अपि तर्हि, कल्पनापोढम् अभ्रान्तं प्रत्यक्षम् इति. अभिलापसंसर्गयोग्यप्रतिभासाप्रतीतिः कल्पना. तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभणाद्यनाहितविभ्रमम् अभ्रान्तं ज्ञानं प्रत्यक्षम् इति. इदं च लक्षणं योगिनाम् अपि ज्ञानं व्याप्नोत्य् एव. तद्[632]धि निर्विकल्पकम् अभ्रान्तम्. अत एव प्रत्यक्षं चतुर्धा विभजन्ते तच् चतुर्विधम् इन्द्रियजम् इन्द्रियजसमनन्तरप्रत्ययोद्भवं मानसं सर्वचित्तचैत्तानाम् आत्मसंवेदनं योगिज्ञानं चेति. यदि हीन्द्रियजत्वम् एव प्रत्यक्षलक्षणं स्यात्, त्रितयम् अप्रत्यक्षं स्यात्. मानसं च मीमांसकैर् अपि प्रत्यक्षम् इष्यत एव. अतः सर्वानुगतापरोक्षावभासित्वमात्रवचन एव प्रत्यक्षशब्दो{1,217}निश्चीयते. यथा गमेर्डोर् इति डोप्रत्ययान्तो व्युत्पादितो गोशब्दो ऽगच्छत्य् अपि प्रयोगदर्शनात् सर्वानुगतगोजातिमात्रवचनो निश्चीयते, एवं नष्टावयवार्थविभागः प्रत्यक्षशब्दो ऽपरोक्षावभासिनि समुदायशक्त्यैव[633]वर्तत इति. तन् न. अवयवान्वयाव्यभिचारात्. अवयवान्वयव्यभिचारे हि समुदायशक्तिर् आत्मानं लभते. न च प्रत्यक्षशब्दवाच्यम् इन्द्रियान्वयं व्यभिचरति. मानसे व्यभिचार इति चेत्. न. मनसो ऽपीन्द्रियत्वात्. अथ नास्ति मनो नामेन्द्रियम्, इन्द्रियजम् एव तु ज्ञानं धारावाहिकेषु सन्तन्यमानेषूत्तरक्षणग्राहिणो ज्ञानस्य कारणं मन इति गीयते. उत्तरं च मानसम् इति. तद् अयुक्तम्. अतीते हीन्द्रियज[634]ज्ञान उत्तरक्षणो ऽनुभूयते. स कथम् असम्बद्धेन तेनावभासयितुं शक्यते. अक्षवद् इति चेद्, न. प्राप्यकारित्वस्याक्षाणाम् इहैव वक्ष्यमाणत्वात्. अतो द्वितीयक्षणग्रहणम्[635]अपीन्द्रियजम् एवेति नास्ति व्यभिचारः. तस्यापीन्द्रियान्वयव्यतिरेकानुविधानात्. न हि निमीलितनयनस्य रूपबुद्धिर् अनुवर्तमाना दृश्यते. अतो ऽवयवान्वयाव्यभिचारान् न समुदायशक्तेर् आत्मलाभः. अतो ऽनिन्द्रियजं सद् योगिनां मुक्तात्मनां वा ज्ञानं न प्रत्यक्षम्. प्रत्यक्षं सन्नियतं विद्यमानोपलम्भनम्, अप्रत्यक्षं तु प्रमाणान्तरानभ्युपगमाद् एव निरस्तम्.
__________नोतेस्__________
[632] द् अपि (ग)
[633] व प्रव (ग)
[634] जे
[635] ग्राहिण (क)
यच् च भावनाबलं योगिज्ञानजन्मनि कारणम् उक्तम्. तन् न, अवगतविषयत्वाद् भावनायाः. न चाकस्माद् एवावगतेर् उत्पत्तिः सम्भवति. सर्वोत्पत्तिमतां कारणवत्त्वात्. अथ प्रमाणान्तरावगतं भाव्यते किं भावनया, तत एव तत्सिद्धेः. किञ् च तत् प्रमाणं न तावदनुमानं, धर्माधर्मयोः पूर्वम् अग्रहणेन तद्व्याप्तलिङ्गदर्शनाभावात्. जगद्वैचित्र्यार्थापत्तेर् अपि किम् अपि कारणम् अस्तीत्य् एतावद् उन्नीयते. न तु कश्चिद् विशेषः. न चानिर्दिष्टविशेषविषया भावना भवति. योगशास्त्रेष्व् अपि विशेषा एव ध्येयतयोपदिश्यन्ते --
ध्येय आत्मा प्रभुर् यो ऽसौ हृदये दीपवत् स्थितः
इत्यादिभिः. तर्ह्य् आगमाद् अवगतं भावयिष्यते. यदि प्रमाणात्, तत एवावगतेः किं भावनया. हानोपादानार्थं हि वस्तु जिज्ञास्यते. ते च तत एव सिद्धे इति व्यर्था भावना. कारुणिको ऽपि धर्मागमान् एव प्रयत्नतः शिष्येभ्यो व्याचक्षीत. न भावना[636]परिखेदम् अनुभवेत्. अथ विप्रलम्भभूयिष्ठत्वाद् आगमानां प्रमाणम् आगमो न वेति विचिकित्समानो भावनया जिज्ञास[637]ते. तन् न.{1,218}ततो ऽपि तदसिद्धेः. भावनाबलपरिनिष्पन्नम् अपि ज्ञानम् अनाश्वासनीयार्थम् एव, अभूतस्यापि भाव्यमानस्यापरोक्षवत् प्रकाशात्. तथा तैर् एवोक्तं - तस्माद् भूतम् अभूतं वेति.
__________नोतेस्__________
[636] नाखे (ग)
[637] स्य (क)
अपि च भावनाबलजम् अप्रमाणं गृहीतग्रहणात्. यावद् एव हि गृहीतं तावद् एव हि भावनया विषयीक्रियते. मात्रयापि त्व् अधिकं भावनया न गोचरयति. योगाभ्यासाहितसंस्कारपाटवनिमित्ता हि स्मृतिर् एव भावनेत्य्[638]अभिधीयते. सा च न प्रमाणम् इति स्थितम् एव. न च तदुत्तरकालं साक्षात्कारिज्ञानम् उदेतीति प्रमाणम् अस्ति. इन्द्रियसन्निकर्षम् अन्तरेणार्थसाक्षात्कारस्य क्वचिद् अप्य् अदर्शनात्. भवति चात्र[639]प्रयोगः -- योगिनां धर्माधर्मयोर् अपरोक्षावभासि ज्ञानं नास्ति इन्द्रियसन्निकर्षाभावाद्, अस्मदादिवत्. यच् च कारणप्रकर्षात् कार्यप्रकर्ष इत्य् उक्तं, तद् अयुक्तम्. कारणप्रकर्षानुपपत्तेः. भावनाप्रकर्षानुपपत्तिश् च वर्णितैव प्रयोजनाभावाद्, अनालम्बनत्वाद् अनधिकविषयत्वाच् च. न च तथाविधातिशयवतः कस्यचिद् अद्यत्वे दर्शनं, येन दृष्टत्वाद् अभ्युपगम्येत. नित्यनिर्दोषवेदान्तप्रमाणके तु ब्रह्मातिशये न किञ्चिद् अनुपपन्नम्. तत्रापि तु नानिन्द्रियजं प्रत्यक्षम् उपपद्यते. समुच्छिन्नसकलमितिमातृमेयमानप्रपञ्चा हि सावस्था. यत्रापि चाभ्यासात् प्रकर्षो दृश्यते तत्रापि स्मृतिर् एव प्रकृष्यते, न पुनरभ्यासतो ऽनिन्द्रियसन्निकृष्टम् अपि च वस्त्वपरोक्षं भवति. न ह्य् अभ्रान्तस्यासन्निहितम् अवर्तमानं च पुरःस्थितवदवभासत इत्य् उत्प्रेक्षितुम् अपि शक्यम् इत्य् अलम् अनेनेति.
__________नोतेस्__________
[638] ति गीय (ग)
[639] त्र यो
ननु च शेषहेतुप्रसिद्धये प्रत्यक्षत्वं हेतुर् इति पूर्वम् उक्तम्. कथम् इदानीं तेन विद्यमानोपलम्भनत्वं साध्यते, अत आह -[640] सत्सम्प्रयोगजत्वम् इति. अयम् अभिप्रायः -- नायं शास्त्रीयो हेतुक्रमः, येन तदतिक्रमे दोषो भवति. अतो व्याप्तिबलेन शक्यम् अनेनास्मदादिप्रत्यक्षवद् उभयं साधयितुम् इति यथेष्टाभिधानम् इति
__________नोतेस्__________
[640] सत्सम् इति (क)
अत्र सूत्रकारेण प्रत्यक्षत्वाभ्युपगमेन योगिप्रत्यक्षस्यानिमित्ततां प्रतिपादयता निमित्तत्वाभ्युपगमे वा न प्रत्यक्षत्वम् इत्य् अर्थाद् आवेदितम्. तत्{1,219}प्रयोगद्वयेन दर्शयति -- तेषाम् इति द्वयेन. ततस् त्व् एवेति. अवर्तमानविषयत्वाद् एवेत्य् अर्थः. यदि तु निराकृतस्वपक्षो बौद्धो ऽप्रत्यक्षशब्दवाच्यम् एव तत् प्रमाणान्तरम् इति ब्रूयात्, तदर्थं प्रमाणत्वनिराकरणम्. एतच् च सूत्रकारेणैव सत्सम्प्रयोगग्रहणसामर्थ्याद् एवोपात्तम् इति सद् इत्य् एतेन कथ्यते इत्य् उक्तम् इति ॥ 30-31 ॥
अन्यन् मतं - सिद्धानां खलु धर्मानुग्रहवशेनानागतादिविषया प्रतिभैव जायते. सा चाद्यत्वे क्वचिद् अस्मदादीनाम् अप्य् उत्पद्यते यथा श्वो मे भ्रातागन्तेति. प्रायेण त्व् ऋषीणां तज्ज्ञानम् उत्पद्यत इत्य् आर्षम् इत्य् उच्यते. यथाहुः -- आर्षं सिद्धदर्शनं च धर्मेभ्यः इति. तन् निराकरोति लौकिकी ति. अयम् अर्थः -- योगिनाम् ऋषीणां वा प्रतिभा नार्थनिश्चयाय प्रभवति, प्रतिभात्वाद् अस्मदादिप्रतिभावत्. अस्मदादीनां हि विसंवादभूयिष्ठा प्रतिभोपलभ्यत इति
एवं तावद् विद्यमानोपलम्भनत्वस्य हेतोर् असिद्धिम् आशङ्क्य सत्सम्प्रयोगजत्वाद् इति यद् उक्तं तद् विवृतम्. इदानीं भविष्यत्त्वस्य हेतोर् अनैकान्तिकशङ्कानिराकरणार्थं यद् उक्तं तद् विवृणोति -- अविद्यमाने ति. अयम् अर्थः -- यदि सत्सम्प्रयोगजं प्रत्यक्षम् इति नोच्येत, ततो ऽविद्यमाने ऽपि संयोगे योगिनां क्वचित् प्रत्यक्षं जायत इति तस्य भविष्यत्य् अपि धर्मे शक्तिर् अनिवारिता स्यात्. ततश् च भविष्यत्त्वस्य हेतोर् अनैकान्तिकत्वम्[641]इति सदित्यादि जैमिनिर् आहेति
__________नोतेस्__________
[641] त्वं स्याद् इति (ग)
{1,220} ननु भविष्यत्त्वाद् धर्मो न प्रत्यक्ष इत्य् उच्यते, तद् यदासौ भविष्यंस् तदा मा नाम प्रत्यक्षो भवतु. यदा तु प्रवर्तते तदा किन् नाम न प्रत्यक्षेणानुभूयते, अत आह -- प्रत्यक्ष इति. अयम् अभिप्रायः -- अनुष्ठानार्थं हि प्रमाणम् अन्विष्यते. तदनुष्ठानात् प्राग् एवान्वेष्यम्. न चानुष्ठानात् प्राग् धर्मो ऽस्तीति कथं प्रत्यक्षो भवेद् इति. किम् इदानीम् अन्येनानुष्ठितो विद्यमानः प्रत्यक्षो[642]धर्मः नेत्य् आह -- अनुष्ठित इति. न प्रत्यक्ष इति सम्बन्ध इति. अत्र कारणम् आह -- फलसाधनरूपेणे ति. भवेद् एतद् एवं यदि द्रव्यादयः स्वरूपेण धर्मा भवेयुः. फलसाधनरूपेण चैते धर्मा इति ताद्रूप्येण च धर्मत्वम् इत्य् अत्रोक्तम्. तच् च रूपम् अनुष्ठानकाले नास्ति. आमुष्मिकफलेष्व् अत्र फलस्याभावात्. ऐहिकफलेष्व् अपि चिरेण. निरन्तरयोर् हि साध्यसाधनयोः साधनं प्रत्यक्षं भवति मर्दनसुखयोर् इव. इह तु फलकाले साधनं चिरातिवृत्तं, साधनकाले फलम् अजातम् इति न फलसाधनं प्रत्यक्षम्. शक्तिस् तु सर्वभावानां नित्यपरोक्षैव. तेन न तद्विशिष्टो धर्मः प्रत्यक्षो भवतीति
__________नोतेस्__________
[642] क्षो ने (ग)
प्रकृतम् इदानीं विद्यमानोपलम्भनत्वेन प्रत्यक्षस्य धर्मे ऽनिमित्तत्वम् उपसंहरति - अस्मद् [643]इति धर्मे न्तेन. ध्यायिनां प्रत्यक्षं विद्यमानोपलम्भनं सद् धर्मे न प्रमाणम् अस्मत्प्रत्यक्षवत्. वक्ष्यमाणहेत्वपेक्षया चशब्दः. नेष्यत इति वक्ष्यमाणेन सम्बन्ध इति. अयं च सूत्रकारेणोपपत्तिक्रमोक्त्या सर्वेषां चित्तं भावयितुं[644]हेतुक्रमो दर्शितः. शक्यते च प्रत्यक्षत्वमात्रेणैवानिमित्तता साधयितुम् इत्य् आह -- प्रत्यक्षत्वाद् इति
__________नोतेस्__________
[643] स्मत्प्रत्यक्षवदि
[644] तुं क्र (क)
एवं सूत्रतात्पर्यं व्याख्यायेदानीम् अवयवाननुसन्धत्ते. तत्रापि{1,221}सच्छब्दम् आदौ चिन्तयति. अत्र भिक्षुणोक्तं सद्विशेषणम् अनर्थकम्, असता सम्प्रयोगाभावेनाव्यभिचारात्. यथोक्तं -
सद् इत्य् असद्व्युदासाय न नियोगात् स गंस्यते ।
सम्प्रयोगो हि नियमात् सत एवोपपद्यते ॥
इति. एतद् अनभ्युपगमेन निराकृत्य कर्मधारयसमासम् एव दर्शयति -- अविद्यमाने ति. अस्यार्थः -- नायम् अर्थः सूत्रस्य सता सम्प्रयोगः सत्सम्प्रयोग इति. किं तर्हि. संश् चासौ सम्प्रयोगश् चेति कर्मधारयो ऽयम्. सच्छब्दश् च विद्यमानवचनः. तद् अयम् अर्थो भवति -- विद्यमानसम्प्रयोगजं प्रत्यक्षम् इति. ततश् च यत् तेषाम् अविद्यमाने ऽर्थे इत्यादिना योगिज्ञानस्य प्रत्यक्षत्वनिराकरणम् उक्तं तद् एवं लभ्यते. वर्तमानार्थवाचिनो हि सच्छब्दस्यासद्[645]व्युदासः. स कथम् असति तस्मिन् सिध्येत्. अयं च सूत्रार्थः सतीन्द्रियार्थसम्बन्धे इति व्याचक्षाणेन भाष्यकारेणोक्त इति द्रष्टव्यम् इति
__________नोतेस्__________
[645] सौ प्रसादः. स (ग)
नन्व् अयम् अर्थो निमित्तसप्तम्यैवात्र लभ्यते. न ह्य् असत्सम्प्रयोगो निमित्तं भवति. अत आह -- ससम्ये ति. अयम् अभिप्रायः -- सत्यम् अवर्तमानः सम्प्रयोगो नाक्षजे ज्ञाने कारणम्. अपि तु तम् अपि केचित् कारणतया मन्यन्ते. तद् इह सम्प्रयोग इत्य् एतावति श्रुते सति भाविन्य् अतीते चेति यथेष्टं कल्पयेयुः. अतस् तत्कल्पनानिराकरणार्थं व्यक्तम् एव जैमिनिना सद्विशेषणम् उपात्तम् इति
व्याख्यातः सच्छब्दः. संशब्दम् इदानीम् अनुसन्धत्ते -- सम्यग् इति. सम्यक्प्रयोगः सम्प्रयोगः. तेन दुष्प्रयोगो निवारितो बह्वतीति. आह -- विशेक्ष्यति भवान् समा प्रयोगं, प्रयोगम् एव[646]तावदादौ भवान् व्याकुरुताम् अत आह -- प्रयोग इति. रूपादिसंवित्कार्योन्नेयम् इन्द्रियाणां व्यापारं प्रयोगापरपर्यायम् आचक्षत इति
__________नोतेस्__________
[646] वादौ व्या (क)
{1,222} कः पुनर् अत्र दुष्प्रयोगः यः संशब्देन व्यावर्त्यते, अत आह -- दुष्टत्वाद् इति. कथं पुनर् असौ दुष्टः. प्रयोगस्य ह्य् अत्यासत्त्यादयो दोषाः. न च ते शुक्तिसम्प्रयुक्तचक्षुषो भ्राम्यतो दोषा भवन्ति. विषय एव तु तत्र सादृश्यद् ऊषितो विपरीतख्यातिहेतुः. अत आह -- रजतेक्षणाद् इति. अयम् अभिप्रायः -- ज्ञानकारणं हि सम्प्रयोगः स दुष्टो ऽन्यदन्यात्मना भासयति, कारणदोषाविनाभावात् कार्यदोषस्य. अदुष्टस् तु सम्यग्ज्ञानं जनयति. सर्वकारणदोषाभावेन च तस्य सम्यक्त्वं भवति. यदा पुनर् इन्द्रियार्थयोर् अन्यतरद् अपि दुष्यति, तदा तदाश्रितः संयोगो ऽपि दुष्टो भवति. अतः संयोगस्य स्वदोषा अत्यासत्त्यादयो विषयदोषाश् च सादृश्यादयो दूषका भवन्ति. तद् इह शुक्तौ रजतम् इति गृह्यमाणायां कार्यदोषात् शुक्तिकायोगो दुष्ट इत्य् अवगम्यते. अतो ऽसौ सम्यगर्थवाचिना संशब्देन वार्यत इति. एवञ् चावयवव्याख्यायाम् आश्रीयमाणायां लोकसिद्धलक्षणानुवादेनाप्य् अनिमित्तत्वविधिर् न दुष्यतीत्य् आह -- एवम् इति
तथा यद् अपि बौद्धैः प्राप्तिवचनं प्रयोगशब्दं मन्वानैः श्रोत्रचक्षुषोर् अप्राप्यकारित्वाद् अव्यापकं लक्षणम् इत्य् उक्तं, तद् अपि व्यापारमात्रवचनं प्रयोगशब्दं व्याचक्षाणैर् अस्माभिः परिहृतम् इत्य् आह -- ततश् चे ति. व्यापारमात्रवाचित्वाद् अविरुद्धम् इत्य् उपरितनेन सम्बन्ध इति
श्रोत्रचक्षुषोर् अप्राप्यकारित्वे बौद्धानाम् अभिप्रायम् आह -- प्राप्ये ति नो न्तेन. एवं हि तैर् उक्तं -
सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञाने ऽधिकस्य च ।
इति. यदि चक्षुश्श्रोत्रे विषयं प्राप्य गृह्णीतः, यद् इदं दूरे शब्दो दूरे ऽर्थ इति सान्तरग्रहणं यच् च सुमहतां महीमहीधरादीनाम् अधिष्ठानाधिकपरिमाणानां{1,223}ग्रहणं तत् किलोभयम् अपि न स्यात्, प्राप्यकारिषु त्वगादिष्व् अदर्शनात्. तद् एतद् उक्तं भवति -- यत् प्राप्यकारि न तत् सान्तरम् अधिकं च वेदयति, यथा कायः न च तथा श्रोत्रचक्षुषी इत्य् आवीतहेतुः. उपालम्भे किलशब्दः. उभयस्यापि समाधास्यमानत्वाद् इति. आर्जवावस्थानं वा सम्प्रयोगो ऽभिमत इत्य् आह -- यदि वे ति. आर्जवावस्थितस्य हि रूपादिज्ञानम् उत्पद्यते. तत्रैव सम्प्रयोगशब्दोपचारः. त्वगादिषु सम्प्रयोगशब्दार्थो ज्ञानहेतुर् उपलब्धः. तद् इदम् आर्जवावस्थानम् अपि तद्धेतुतया तथा व्यपदिश्यते. एवम् एव व्यापारे ऽपि दर्शयितव्यम् इति ॥ 41-42 ॥
कार्यलक्षितयोग्यतालक्षणो वा यः शब्दार्थयोर् इव रूपादिचक्षुराद्योः सम्बन्धः सम्प्रयोग इत्य् आह -- योग्यते ति. अथवास्तु साङ्ख्यादिसिद्धान्तसिद्धः प्राप्तिरूप एव सम्बन्धः. नात्रापि किञ्चिद् दुष्यतीत्य् आह -- साङ्ख्यादीन् इति. निर्जित्य हि साङ्ख्यादीन् प्राप्तिपक्षो ऽत्र दूष्यते. न च ते निर्जेतुं शक्याः. अप्राप्यकारिपक्षे हि सूक्ष्मव्यवहितविप्रकृष्टादीनाम् अप्राप्तत्वाविशेषेण ग्रहणप्रसङ्गाद् इति भावः
अनुमानेनापि श्रोत्रचक्षुषोः प्राप्यकारित्वम् अवगम्यते इत्य् आह -- तयोर् इति. तयोः श्रोत्रचक्षुषोर् इत्य् अर्थः. चक्षुश्श्रोत्रे प्राप्यकारिणी, बाह्येन्द्रियत्वात् त्वगिन्द्रियवद् इति. ननु च कर्णशष्कुली चक्षुर्गोलकं च शरीरस्थम् एवोपलभ्यते, कथं तत् प्राप्यकारीत्य् उच्यते. तद् एतद् एतेषां तावत् प्राप्यकारिवादिनां साङ्ख्यानां मतेन समादधाति -- केचिद् इति. एवं हि साङ्ख्या मन्यन्ते -- आहङ्कारिकयोः श्रोत्रचक्षुषोर् वृत्तिः शरीराद् बहिर् भवति अर्थदेशं प्राप्नोति. सा च कार्यदर्शनोन्नेया यथाकार्यम् अवतिष्ठत इति
{1,224} नन्व् अधिष्ठानम् एवेन्द्रियं, तत्रोद्धरणपूरणादिनिग्रहानुग्रहदर्शनात्. इतरथा तदसम्भवात्. यदि ह्य् अधिष्ठानातिरिक्तम् अक्षं भवेत्, तर्ह्य् अधिष्ठानसंस्कारो ऽनर्थकः स्यात्, अत आह -- चिकित्सादी ति. अयम् अभिप्रायः -- यदीन्द्रियम् अधिष्ठाने न सम्बद्धं भवेत्, ततो ऽधिष्ठानसंस्कारस् तस्योपकारको न स्यात्. अधिष्ठानाधारं तु तत्. अतस् तस्यैवाधारभूतस्याधिष्ठानस्य संस्कार आधेयस्येन्द्रियस्योपकारको भविष्यति गजाश्वपर्याणसंस्कार इवारोहकस्येति
नन्व् एवम् अपि गोलकाधिकरणस्यैव तत्संस्कार उपकारको भवतु, तस्य त्व् असम्बद्धस्य भागस्य गोलकेन गोलकसंस्कारो नोपकारकः स्यात्. तेन च संस्कृते न प्रयोजनम्. तस्यैव प्राप्तत्वेन प्रकाशकत्वात्. अतो यत् प्रकाशकं तत् संस्कर्तुम् अशक्यम् असम्बन्धात्. यच् च शक्यं न तेन संस्कृतेन प्रयोजनम्, असम्बद्धस्य हि भागस्य प्रकाशयितुम् अशक्तेः, अत आह -- तद्देश इति. अयम् अभिप्रायः -- एकैवेन्द्रियवृत्तिर् अनुगताधिष्ठानदेशसम्बन्धा अर्थदेशं यावत् प्राप्ता, अतो ऽधिष्ठानदेश एव संस्कारः सर्वोपकारको भविष्यति. यथा पादयोः प्रयुक्तः संस्कारो दूरस्थस्यापि चक्षुष उपकारको भविष्यतीति
अतो नायम् एकान्तः यदधिष्ठानदेशे संस्कारात् तद्वर्त्येवेन्द्रियमितीत्य् आह -- तस्माद् इति. निरन्तराधिकग्रहणम् उपपादयति -- बहिर् इति स्याद् अन्तेन. कार्यदर्शनबलेन हि तद्वृत्तिः कल्प्यमाना यथाकार्यम् अवतिष्ठत{1,225}इत्य् उक्तम्. अतो ऽधिष्ठानाधिकपरिमाणार्थदर्शनात् पृथ्वग्रा कल्पयिष्यते. निरन्तरदर्शनाच् च सन्तता. अतो यत्र यादृशं वृत्तिभागे पार्थवं पृथुत्वं भवति, तदनुरूपम् एवाधिष्ठानाधिकं महीधरादि गृह्यते. अमूर्ताया अपि वृत्तेर् औपाधिको व्योम्न इव भागव्यपदेशः. यद् एव तया प्रकाश्यते तदौपाधिकम् एव भागव्यपदेशं लभते इति. न च वाच्यं यदि वृत्तिर् गत्वार्थं प्रकाशयति किम् इति तर्हि नितान्तदूरवर्तिनो ऽपि भावान् न प्रकाशयतीति. यावति हि दूरे कार्यम् उपलभ्यते तावन्तम् एवाध्वानम् असौ सर्पतीत्य् अधिकदर्शनवत् कल्पनीयम् इत्य् आह -- दूरे ऽपी ति
नन्व् एवम् अपि यदीन्द्रियवृत्त्यार्थाः प्रकाश्यन्ते, सा तर्हि निर्गत्य गतास्त्य् एवेति किं न पिहितेन्द्रियस्यापि भावा भासन्ते, अत आह -- दीपप्रभे ति. नावश्यं पिहितेन्द्रियस्य वृत्तिर् अस्ति कार्याभावात् तु सा दीपनाशे प्रभावन्निमीलयतो ऽपि नष्टेत्य् उन्नीयत इति
अस्तु वा अधिष्ठानपिधाने ऽपि वृत्तिः. आत्मप्रयत्नानुगृहीता तु सा आत्मन्य् अर्थम् उपनयति. अधिष्ठानपिधाने ह्य् आत्मनः प्रयत्नोच्छेदात् प्रयत्नानधिष्ठितया तयानुपनीतो ऽर्थो नात्मनानुभूयत इत्य् आह -- अधिष्ठाने ति
विच्छिन्नबोधम् इदानीम् उपपादयति -- विच्छिन्न इती ति. विभोर् अप्य् आत्मनः प्राग्भवीयक[647]र्मार्जितं सकलभोगायतनं शरीरम् इति. तदपेक्षया विच्छेदबुद्धिः. कायेन्द्रिये तु शरीरविच्छेदाभावाद् अविच्छेदबोधो युक्त इति. शब्दे तु विच्छेदाधिकबोधो भ्रान्तिर् एवेति किं तदुपपादनेन.[648]तथा हि -- स्वदेश एव शब्दः श्रोत्रेण प्रकाश्यते. कुतस् तस्य विच्छेदः. कुतः विभोर्{1,226}अमूर्तस्य वृद्धिह्रासाव् इत्य् आह - शब्दे [649] त्व् इति. एतत् तु स्वमतेनोक्तम्. साङ्ख्यमते तु श्रोत्रवृत्तिः शब्ददेशं गच्छत्य् एव. तत्र शरीरापेक्षयैव विच्छेदबोधो वक्तव्यः. असम्भवं च शब्दाधिकरणे वक्ष्याम इति.
__________नोतेस्__________
[647] ध (ग)
[648] न. स्व (क)
[649] शब्देति (क)
अयं च साङ्ख्यसिद्धान्तसिद्धो वृत्तिगमनपक्षो वार्त्तिककारेण प्राप्तिसाधारण्यमात्रेणोक्तः, न पुनरभिप्रेतः. न हीन्द्रियवृत्तिर् नाम काचित् प्रमाणेनावगम्यते. तथा हि -- आहङ्कारिकाणीन्द्रियाणीति कापिला मन्यन्ते. यथाहुः --
सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात् ।
इति. कश् चायम् अहङ्कारः. यदि यो ऽयम् आत्मानं प्रकाशयति, स तर्हि ज्ञानमितीन्द्रियाणां कथं प्रकृतिर् भविष्यति. आत्माधारम् आन्तरं ज्ञानं कथं तेन बाह्येन्द्रियाण्यारब्धुं शक्यन्ते. अथ मतं तत्त्वान्तरम् अहङ्कार इति. तन् न. प्रमाणाभावात्. अपि च तत्त्वान्तरम् अपि तत् कापिलैर् विभुः सङ्गीर्यते. ततस् तन्मयानीन्द्रियाण्य् अपि विभूनि भवेयुः. न च विभूनां वृत्तिर् उपपद्यते. वृत्तिर् निर्गमनम्. न च तद् विभूनां सम्भवति. स्यान् मतम् -- न च ब्रूमो विभूनीन्द्रियाणि गच्छन्तीति, किं तर्हि. तदाधारा वृत्तिर् इति. केयं वृत्तिर् इति वक्तव्यम्. यदि श्रोत्रादीनां शब्दादिग्रहणयोग्यता, सा तर्ह्य् अमूर्ता शक्तिः कथं गच्छेत्. अपि च त्रीण्य् अन्तःकरणानि महानहङ्कारो मन इति कापिला मन्यन्ते. न च करणं करणान्तराणां प्रकृतिर् उपपद्यते करणत्वात् मनोवत्. अतो नाहङ्कारिकाणीन्द्रियाणि. न च तद्वृत्तिर् अमूर्ता प्राप्यकारिणीति प्रमाणवती कल्पना. तथा शब्दाधिकरणे वक्ष्यति श्रोत्रागमनपक्षे चेत्य् अत्र वृत्तिगमनप्रतिषेधम्. अतो भौतिकान्य् एवेन्द्रियाणि प्राप्यकारीणीति वक्तव्यम्.
किं पुनर्भौतिकत्वे प्रमाणम् इन्द्रियाणाम्. दृष्टानुसारः. तथा हि -- बहिर्भूतानाम् एव यथायथं रूपाद्यभिव्यञ्जकत्वम् उपलब्धम्. तेजसा हि रूपं प्रकाश्यते यथा दीपेन. रसो ऽद्भिः. शुष्काणाम्[650]अपि द्रव्याणां सन्न् अपि रसो न व्यक्तम् उपलभ्यते यथार्द्राणाम्. न च शुष्केषु रसो नास्ति, यावद्द्रव्यभावित्वात्. अतो ऽद्भी रसो ऽभिव्यज्यते. पार्थिवं च किञ्चिद् द्रव्यं{1,227}गन्धस्याभिव्यञ्जकं दृष्टम्. यथा निम्बत्वक् चन्दनगन्धस्य. तत्कषायपरिषिक्तस्य हि चन्दनस्य स्फुटतरं गन्धो ऽभिव्यज्यते. न चाद्भिर् असाव् अभिव्यज्यते, केवलानाम् अनभिव्यञ्जकत्वात्. वायुनापि बहिः स्पर्शाभिव्यक्तिर् उपलब्धा, यथा हेमन्तशिशिरयोर् वियति विततानाम् अपां सूक्ष्मत्वाद् अनुपलक्ष्यमाणानां वापि वाते शीतस्पर्शो ऽवगम्यते. न चासौ वायोः. अनुष्णाशीतस्पर्शत्वाद् वायोः. अतो रूपाभिव्यञ्जकं चक्षुस् तैजसम्. आप्यं रसनम् अभिव्यञ्जकं च रसस्य. घ्राणं पार्थिवं गन्धस्य. वायवीयं त्वगिन्द्रियं स्पर्शस्य. श्रोत्रम् इदानीं किंप्रकृतिकम्. तद् अपि भौतिकम् इन्द्रियत्वात्. किं पुनर्भूतं तस्य प्रकृतिः. आकाश इति वदामः. तथा हि -- द्विविधं कार्यं सर्वभूतानां शरीरम् इन्द्रियं च. आकाशस्याप्य् अवकाशदानेन शरीरोपकारकत्वात् कार्यकारणत्वम्. अतस् तस्यापीन्द्रियेण कार्येण भवितव्यम्. तत्रेन्द्रियान्तराणां भूतान्तरप्रकृतित्वाद् आकाशम् एव श्रोत्रस्य प्रकृतिर् इति निश्चीयते. अपि च स्वगुणम् एव भूतान्तराणि व्यञ्जयन्ति. न च तेषां शब्दो गुणः, आकाशगुणत्वात्. अत आकाशम् एव तस्याभिव्यञ्जकम् इति युक्तम्. एवञ् च दृष्टानुसारिणी कल्पना कृता भवति. सन्ति हि देहेषु पृथिव्यादिभूतभागाः कॢप्तगन्धाद्यभिव्यक्तिशक्तयश् च बहिर् इति शरीरे ऽपि वर्तमानानां तेषाम् एव व्यञ्जकत्वानुमानं युक्तम्. एवञ् च प्राप्तिर् अपि स(?मि।म)र्थिता भवति. त्वग्घ्राणरसनानां हि स्थितम् एव प्राप्यकारित्वम्. श्रोत्रस्यापि कर्णच्छिद्रपरिमितनभसो धर्माधर्मोपगृहीतस्य स्वदेश एव विभुं शब्दं प्रकाशयतः प्राप्यकारित्वम् एव. तेजसो हि विसरणस्वभावस्य चक्षुषो निर्गतस्यार्थदेशप्राप्तिर् उपपन्नैव. अनुद्भूतरूपत्वाच् च तस्य रूपानुपलम्भः. अत एवाग्नितेजसः पृथ्वग्रादिकल्पना च तस्य कार्यदर्शनानुसारेण
मूर्तत्वाद् उपपत्तिमती. सर्वत्र च यथाकार्यदर्शनं योग्यतासनाथा प्राप्तिर् इन्द्रियार्थयोः सम्बन्ध इति दर्शयितव्यम्. अतो न काचिद् अतिप्रसक्तिर् वक्तव्या यथा वक्ष्यति -- प्राप्तिमात्रं हि सम्बन्धः इति. अतः सिद्धम् इन्द्रियाणि भौतिकानि प्राप्यकारीणि चेति
__________नोतेस्__________
[650] णां सन्न् अ (ग)
एवं तावत् सत्सम्प्रयोगशब्दाः विवृताः. पदान्वयम् अतः परम् अनुसन्धास्यामः. अत्र किल पुरुषस्य सम्प्रयोग इन्द्रियाणां बुद्धिजन्मेत्य् उच्यते.{1,228}तच् चायुक्तं, विभोः पुरुषस्य सर्वभावैर् एव सम्प्रयोगाव्यभिचारेण विशेषणोपादानवैयर्थ्यात्. इन्द्रियाणां च भौतिकानाम् अचेतनत्वात्. चेतना हि बुद्धिर् इति सर्वलौकिकाः परीक्षकाश् च मन्यन्ते. न पुनरिन्द्रियव्यापारो बुद्धिर् इति. साङ्ख्या हीन्द्रियवृत्तौ बुद्धिशब्दम् उपचरन्ति. तत्र तेषाम् एव परिभाषामात्रम्. अतो ऽत्र वक्तव्यं कीदृशो ऽत्र पदान्वय इत्य् अत आह -- पुरुषेन्द्रियशब्दाव् इति. अयम् अभिप्रायः -- किम् अत्र वक्तव्यम्. भाष्यकारेण पुरुषेन्द्रियशब्दौ व्यवहितकल्पनया व्याख्यातौ येनैवम् आह सतीन्द्रियार्थसम्बन्धे पुरुषस्य या बुद्धिर् जायते तत् प्रत्यक्षम् इति. कः पुनर् अयं पुरुषः यस्य बुद्धिजन्मना सम्बन्धः, अत आह -- पुरुष इति. नात्र तात्पर्यमन्यपरत्वात् सूत्रस्य. परमार्थतस् तु पुरुषो ऽत्रात्माभिप्रेतः य आत्मवादे प्रसाधयिष्यते. न शरीरं, तस्य भौतिकत्वेनाचेतनत्वाद् इति
नन्व् एवम् अपि यन्नित्यम् आत्मानं मीमांसका मन्यन्ते, तन् न सिध्येत्. ज्ञानजन्मनि विकारापत्त्या चर्मवदनित्यत्वप्रसक्तेः. ज्ञानजन्मना त्व् अविकृतस्य पूर्वावस्थायाम् इवाप्रमातृत्वप्रसङ्गः, अत आह -- विक्रिये ति. एवं हि मन्यन्ते -- न किञ्चिद् विकार्मात्रेण वस्तु नश्यति, तत्प्रत्यभिज्ञानात्. एतच् चात्मवाद एव भाष्यकारेण वक्ष्यते. अतो दुरुक्तं परैः
बुद्धिजन्मनि पुंसश् च विकृतिर् यद्य् अनित्यता ।
अथाविकृतिर् आत्मायं प्रमातेति न युज्यते ॥
इति. अत्र बुद्धिजन्म प्रत्यक्षम् इत्य् उच्यते. तस्य को ऽर्थः. किं बुद्धेर् जन्मातिरिक्तम् अनतिरिक्तं वा, यद्य् अतिरिक्तं तद् वाच्यं कीदृशम् इति. न च स्वमते जन्मस्वरूपम् अभिहितम्. यदि वैशेषिकोक्तस्वकारणसमवायो जन्माभिधीयते, तस्य नित्यत्वेनाक्षानधीनत्वात् प्रत्यक्षशब्दाभिधेयत्वानुपपत्तिः. अनतिरिक्तत्वे तु पुनरुक्ततैव दोषः, अत आह -- बुद्धिजन्मे ति. अयम् अर्थः -- नायं बुद्धिजन्मेति षष्ठीसमासः. किन् तु बुद्धिश् चासौ जन्म चेति कर्मधारयः. जन्मशब्दश् च कर्तरि मनिन्प्रत्ययान्तः. तेन जायमाना बुद्धिः{1,229}प्रमाणम् इत्य् उक्तं भवति. न पुनर्वैशेषिकादिवन्नित्यम् अत्यन्तभिन्नं समवायम् आचक्ष्महे. कारणदशाविशेष एव कार्यजन्मेत्य् उच्यते. नासाव् अत्यन्तं कार्यकारणाभ्यां व्यतिरिच्यते. अतः किम् अन्यदोषोद्भावनेनेति
जायमानविशेषणोपादाने प्रयोजनम् आह -- व्यापार इति. कारकान्तराणि जनित्वा कियन्तञ्चित् कालं स्थित्वा स्वकार्येषु वर्तमानानि दृष्टानि. तद् बुद्धाव् अपि प्रमाणे मा भूद् इति जन्मविवक्षा सूत्रकारेण कृतेति.
किं पुनः कारकान्तरसाधर्म्ये दुष्यति, अत आह -- न ही ति. अयम् अभिप्रायः -- न किञ्चिद् दुष्यति. किन् तु नेन्द्रियादिवद् जाता सती बुद्धिः क्षणमात्रम् अप्य् आस्ते. अतः कथं तद्वद् एव स्थित्वा प्रवर्तत इति. न केवलं जाता नास्ते, किन् तु जायमानापि नोदास्ते. सा ह्य् उत्पद्यमानैव स्वार्थं प्रकाशयन्त्य् एवोत्पद्यत इति न क्षणान्तरं प्रतीक्षते. न ह्य् अर्थप्रकाशनाद् अन्यद् बुद्धे रूपम् उपलभ्यत इत्य् आह -- जायत इति. कारकान्तरवैधर्म्यप्रतिपादनेनात्र नित्यबुद्धिवादिनो निराकर्तुं बुद्धेर् अनतिचिरविनाशित्वम् उक्तम्. तत्र चायं हेतुः. यदीयम् उत्पत्तिमती तस्या विनाशेनावश्यं भवितव्यम्. न चाहैतुको विनाशः सम्भवति, उत्पत्तिमत्त्वाद् एव. न च प्रहारादिरस्या विनाशहेतुः, अमूर्तत्वात्. अतो ज्ञानान्तरेण वा नाश्यते, तज्जन्मना वा संस्कारेण. तच् चोभयम् अपि सहसैव निष्पन्नम्. अस्ति हीन्द्रियादिका सामग्र्यप्रतिबन्धा. सा किम् अपरं विज्ञानं न जनयति. स्मृतिहेतुर् अपि संस्कारो ऽनयैव जातमात्रया जनित इति कर्मवत् कार्यविरोधित्वाद् अपि तादात्विको विनाशो बुद्धेर् इति युक्तम्. न च सैवेति बुद्धेः प्रत्यभिज्ञानम् अस्ति. न च भेदानध्यवसायमात्राद् एकत्वसिद्धिः. अपि चार्थान्तरदर्शने स्फुट एवाशुतरविनाशो बुद्धेः, एवञ् च व्यवस्थितैकदर्शने ऽपि तद्वद् एव तदनुमानम्. अपि च तत्रापि व्यवहिते ज्ञानं निवर्तते, तच्चिरावस्थायित्वे ऽनुपपन्नम्. एवं हि व्यवहिते कुम्भे प्रत्यक्षज्ञानम् अनुवर्तेत. न चैवम्. स्मृतिस् तु परस्ताद् दृश्यते. सा प्रत्यक्षज्ञानव्याप्तत्वे{1,230} न स्यात्.[651]परोक्षापरोक्षयोर् एकगोचरयोर् एकदा विरोधात्. स्याद् एतद् अव्यक्तग्रहणम् अनवस्थायित्वाद्[652]विद्युत्सम्पाते रूपाव्यक्तग्रहणवद् इति. न. प्रतिषेद्धव्याभ्यनुज्ञानात्. यदि मन्यते बुद्धेर्[653]अनतिचिरानुवृत्तौ प्रकाशस्य गत्वरत्वाद् विद्युत्सम्पात इव न व्यक्तं भावाः प्रकाशेरन्, अतो नाशुतरविनाशिनी बुद्धिर् इति. तन् न. प्रतिषेद्धव्याभ्यनुज्ञानात्. एवं हि विद्युत्प्रकाशजनिते ऽव्यक्तबोध उत्पन्नमात्रापवर्गितां बुद्धेर् ब्रुवाणो निषेध्यम् एवाशुतरविनाशम् अभ्यनुजानाति.[654]अपि च विशेषाग्रहणे सामान्यमात्रग्रहणम् अव्यक्तग्रहणम्. न तु स्वगोचरे किञ्चिद् अव्यक्तं नामास्ति, विषयाभिरूपत्वाद् ग्रहणानाम्. विशेषाग्रहणं च तद्ग्रहणनिमित्ताभावाद् एव, न तु बुद्धेर् अनवस्थानात्. विद्युत्प्रकाशे[655]ऽपि यावदाशुतरविनाशिन्या
धिया विषयीकृतं तद् व्यक्तम् एव. विशेषास् तु तत्र ग्रहणहेत्वभावाद् अगृहीता एव, न पुनरव्यक्तपरिच्छिन्नाः. न हि गृहीतम् अव्यक्तं नाम सम्भवतीति नानवस्थायित्वे ऽपि धियाम् अव्यक्तग्रहणापत्तिः. नित्यबुद्धिवादिनश् चायम् अभिप्रायः शब्दाधिकरणे भाष्यकारेण वक्ष्यत इति
__________नोतेस्__________
[651] भवेत् (ग)
[652] त्वे
[653] द्धेर् अचि
[654] ति. वि
[655] शे या (क)
ननु प्रमाणं नाम कारकविशेषः. न चाकुर्वत् क्रियां कारकं भवति. यदि तु बुद्धिर् जनित्वा न व्याप्रियते, कथम् असौ कारकं प्रमाणम् इति च सामान्यविशेषशब्दाभ्याम् अभिधास्यते, अत आह -- तेने ति. सत्यं, न व्यापारसम्बन्धम् अन्तरेण कारकत्वं भवति. जन्मैव तु बुद्धेर् व्यापारः, व्यापारान्तरासम्भवात्. तद् एव च विवक्षावशात् प्रमेत्य् उपचर्यते. जन्मना हि तस्याः प्रमाणत्वं भवति. अतस् तयैव क्रियया कारकं प्रमाणम् इति च सामान्यविशेषशब्दाभ्याम् अभिधानसिद्धिः. चशब्दात् प्रमाणं चेत्य् अर्थः
अयं च जन्माव्यतिरेकपक्षो या बुद्धिर् जायते इति वदता भाष्यकारेणैव वर्णित इत्य् आह -- जम [656] चे ति. अपरम् अपि जायमानावस्थाविशेषणोपादानस्य{1,231}प्रयोजनम् आह -- तच् चे ति. बुद्धिः प्रमाणम् इत्य् एतावत्य् उक्ते भूता भविष्यन्ती वा प्रमाणम् इत्य् अपि केचित् सम्भावयेयुः, यथा सद्विशेषणोपादाने वर्णितम्. अतस् तदाशङ्कानिराकरणार्थं जायमानविशेषणोपादानम्. भूतभविष्यत्त्वादि(?त्यपादाने।त्यापादने) पञ्चमीति[657]
__________नोतेस्__________
[656] न्मेति (ग)
[657] मी. अ (क)
अस्तु वा वैशेषिकसिद्धान्तसिद्धः स्वकारणे कार्यसमवायो व्यतिरिक्त एव जन्म, तथापि न किञ्चिद् दुष्यतीत्य् आह -- यदा त्व् इति. स खलु नित्यो ऽपीन्द्रियाधीनाभिव्यक्तिर् इति प्रत्यक्षम् अपेक्ष्यत इति
अत्र भाष्यकारेण बुद्धिर् वा जन्म वेत्यादिना प्रमाणानियमो दर्शितः, तत्राभिप्रायम् आह -- प्रमाणफलभावस् त्व् इति. अयम् अभिप्रायो भाष्यकारस्य -- एकम् इदं सूत्रं नोभयम् उत्सहते कर्तुं यत् प्रमाणं च नियच्छति, अनिमित्ततां च विदधातीति. भिद्येत हि तथा वाक्यम्. तद् अत्रानिमित्ततामात्रम् एव विद्यमानोपलम्भनात् प्रतिपाद्यम्. प्रमाणं तु विवक्षावशेन बुद्ध्यादीनाम् अन्यतमं भविष्यति. करणं हि प्रमाणं, साधकतमं च करणं, विवक्षाधीनश् च साधकतमभावः. अतो यद् एव तु बाह्यापेक्षया फलं प्रत्यासन्नम् इति विवक्ष्यते तद् एव प्रमाणं भविष्यति. ततः परं चाभ्यर्हितत्वविवक्षया फलम् इति
यथेष्टकल्पनाम् एव दर्शयति -- यद्वे ति. असतीन्द्रिये ज्ञानोदयाभावात् तद् एव प्रमाणम्. सद् अपि चेन्द्रियम् असङ्गतम् अर्थेन न ज्ञानं जनयतीति तदर्थसङ्गतिः प्रमाणम्. सम्बद्धम् अपि चेन्द्रियम् अर्थेन मनसानधिष्ठितं न प्रमाणम् इति तन्मनस्संयोगः प्रमाणम्. सर्वस्मिन्न् अपि च सत्यसत्यात्ममनस्संयोगे ज्ञानानुदयात् स च प्रमाणम्. अथवा सर्वेषाम् एकतरापाये ऽपि न ज्ञानं{1,232}जायत इति सर्व एव संयोगः प्रमाणम्. आत्मना वा मनसो योग इति योजनीयम् इति
एषु प्रमाणेषु फलं दर्शयति -- तदे ति. इन्द्रियादिप्रामाण्यपक्षे ज्ञानं फलम् इत्य् अर्थः. ननु यदीन्द्रियादि प्रमाणं, तेन तर्हि सदा ज्ञानं जनयितव्यम् एव. न च तद् अस्ति, अस्ति खलु पिहितचक्षुषो ऽपि चक्षुः. न च तद् ज्ञापयति. संयुक्तं ज्ञापयतीति चेद्, न. व्यभिचारात्. संयुज्यते खल्व् अस्य नानार्थैर् नायनं तेजः. किञ्चिद् एव तु जापयति. अतो व्यभिचाराद् अकारणम् इन्द्रियादि ज्ञानजन्मनीति, अत आह -- तत्रे ति. उक्तम् इदम् अस्माभिर् व्यापारवचनः प्रयोगशब्द इति. फलानुमेयश् चासौ व्यापारः. अतो यत्रैव फलम् उपलभ्यते तत्रैव व्यापारवत्त्वात् तेषां प्रमाणत्वम् इति. असति तु व्यापारे न फलम् उत्पद्यत इति नातिप्रसङ्ग इत्य् आह -- व्यापार इति
नन्व् अस्तु व्यापारवाचिप्रयोगशब्दपक्षे ऽतिप्रसङ्गपरिहारः. प्राप्तिवचनत्वे ऽतिप्रसङ्गो दुष्परिहरः. अस्ति हि चाक्षुषस्य तेजसो नानार्थैः सम्प्रयोगः. न च तावद् ज्ञापयति, किञ्चिद् एव तु कदाचित्. अपि च का चेयं प्राप्तिः. यदि संयोगः, स च द्रव्येणैवेति रूपसंविन्न स्यात्. अथ तेनापि संयुक्तसमवायाद् अस्ति सन्निकर्ष इत्य् उच्यते, समानो ऽसौ रसादिष्व् अपीति ते ऽपि चक्षुषानुभूयेरन्न् इति सर्वात्मकार्थग्रहणम् इतीन्द्रियसंयोगप्रमाणपक्षे परैर् उक्तं यत् तत् परिहरति -- न चे ति
कः पुनः
सर्वात्मना सम्बन्धो नास्तीति वदतो ऽभिप्रायः -- यदि गुणैः संयोगो न रसादिभिः सम्भवतीति, स तर्हि रूपेणापि गुणत्वाविशेषान् न स्याद् एव. संयुक्तसमवायस् त्व् अविशिष्टः सर्वेषाम् इत्य् उक्तम् एव, अत आह -{1,233} प्राप्ती ति. अयम् अभिप्रायः - भवेद् अयं दोषः यदि प्राप्तिमात्रम् एवेन्द्रियार्थयोः सम्बन्धः प्रमाणम् आश्रीयत इति. स तु योग्यतासहायः. योग्यता च कार्यदर्शनोन्नेया. अतो यद् एव यदिन्द्रियसंयोगानन्तरम् अनुभूयते तत्रैव तत्सम्प्रयोगस्य योग्यत्वं, नेतरत्र, प्रमाणाभावात्. अत एव जिघृक्षितसूक्ष्मरूपादिग्रहणप्रसङ्गो ऽपि परिहर्तव्य इति किम् इति नाभ्युपेयते, अत आह -- मा भूद् इति. अयम् अभिप्रायः -- यो हि ज्ञानं प्रमाणम् इष्ट्वा सत्सम्प्रयोगं प्रमाणकारणम् आतिष्ठते न तु प्रमाणं, तेनापि प्राप्तेर् अविशेषात् त्वचा रूपावधारणं मा भूद् इति न प्राप्तिमात्रं सम्बन्धो ऽभ्युपगन्तव्य इति
अथ तु प्रमाणनिष्पत्तौ योग्यतासहिता प्राप्तिर् इष्यते, शक्यं तत् फलनिष्पत्ताव् अपि वक्तुम् इति दोषप्रसङ्गपरिहारतुल्यत्वान् नैकः पर्यनुयोज्यो भवतीत्य् आह -- यथे ति. नियता हि काचिद् एव स्वविषयेण रूपादिना चक्षुरादीनां सङ्गतिर् इति. योग्यत्वाद् इति. तत्रैव कार्यदर्शनयोग्यत्वाद् इत्य् अर्थः
एवं तावदिन्द्रियार्थसम्बन्धप्रमाणपक्षे ऽतिप्रसङ्गपरिहारो ऽभिहितः. इदानीं द्व्याश्रयो योगः कथम् अक्षेणैव व्यपदिश्यत इति चोद्यं परिहरति -- योगस्ये ति. अस्यार्थः -- नेदम् अदृष्टपूर्वं यदनेकैर् अपि सम्बद्धम् एकेनैव व्यपदिश्यत इति. भवति हि डित्थडवित्थयोर् मातुर् डित्थमातेति व्यपदेश इति. आह -- अस्त्व् अन्यतराश्रयो व्यपदेशः. इह तु नियमेनैवाक्षेण व्यपदेशो दृश्यते नार्थेन. मातुस् तु डवित्थेनापि कदाचिद् व्यपदेशो भवत्य् अत आह -- अथवे ति. असाधारणेन हि व्यपदेशो भवति. ज्ञानस्यासाधारणम् अक्षं, तदर्थम् एवाक्षाणां निर्माणात्. अर्थस् तु कार्यान्तरसाधारणः नासौ व्यपदेशहेतुर् इति
{1,234} अत्र चेन्द्रियार्थसम्बन्धप्रमाणपक्षे विषयभेदो ऽपि प्रमाणफलयोर् नास्त्य् एव, सम्बन्धस्यार्थाश्रयत्वाद् ज्ञानस्यापि तद्विषयत्वाद् इति. आत्ममनस्सम्बन्धप्रमाणपक्षे तर्हि विषयभेदो भवेत्. स ह्य् आत्ममनआश्रयः ज्ञानं चार्थविषयम् इति शङ्कते तावत् -- संयोगे त्व् इति[658] फलयोर् अन्तेन. परिहरति -- ने ति. कारणम् आह -- अर्थे ही ति. अस्यार्थः -- यद्य् अप्य् आत्ममनस्सम्बन्धो नार्थाश्रयः, तथाप्य् अर्थे व्याप्रियते. ज्ञानम् अपि तद्विषयम् एवोत्पद्यत इति व्यापारतः समानविषयत्वम् इति
__________नोतेस्__________
[658] ति प (ग)
अथ पुनराश्रयो विषयो ऽभिप्रेतः, तदुभयोर् अप्य् आत्मस्थत्वात् सुतरां समानविषयत्वम् इत्य् आह -- अथापी ति
अयम् एवात्ममनस्संयोगो ज्ञानोत्पत्तेः प्रत्यासन्नतया कारकान्तरेभ्यो विशिष्ट इत्य् अयम् एव प्रमाणम् इत्य् आह -- प्रकृष्टसाधनत्वाद् इति
सर्वसंयोगप्रमाणपक्षे ऽपि पूर्वोक्तसमस्तदोषपरिहारो ऽनुसन्धातव्य इत्य् आह -- प्रमाण इति. इन्द्रियप्रामाण्यपक्षे ऽपि तस्यार्थप्राप्त्या ज्ञानस्य च तद्विषयत्वेन स्फुटं विषयसाम्यम् इत्य् आह -- प्रमाणम् इति
एवं तावदिन्द्रियादिप्रामाण्यपक्षे प्रमाणफलयोर् विषयसाम्यम् उक्तम्. इदानीं ज्ञानप्रामाण्यपक्षे ऽप्य् एवम् एव दर्शयितव्यम् इत्य् आह -- प्रमाणे ति.{1,235}सर्वसविकल्पकज्ञानानि विशेषणज्ञानपूर्वकाणि, यथा दण्ड्य् अयं गौर् अयं शुक्लो ऽयं गच्छत्य् अयं डित्थो ऽयम् इति. तद् इह विशेषणज्ञानं प्रमाणं विशेष्यज्ञानं च फलम्. विशेष्यज्ञानसिद्ध्यर्थत्वाच् च विशेषणज्ञानस्य. तत्रापि व्यापारतः समानविषयत्वम् इति
यदा तु विशेषणम् एव बोद्धव्यं प्रमित्सितं भवति, तदा तर्हि कः प्रमाणफलयोर् विवेकः, कथं वा समानविषयत्वम् अत आह -- विशेषणे त्व् इति. अयम् अभिप्रायः -- तत्रापि विज्ञानद्वयम् उपलभ्यते. आलोचनाज्ञानं हि तत्र विशेषणे निश्चयं प्रसूते. तादर्थ्याच् च समानविषयत्वम् इति विवेक इति
आलोचनाज्ञानमात्रपर्यवसाने तर्हि को विवेकः, अत आह -- निश्चय इति. अयम् अभिप्रायः -- आलोचनाज्ञाने ऽपि हि तद् इदम् इति प्रत्यभिज्ञानात्मकम् ईदृशो ऽयम् इति वा निश्चयात्मकं ज्ञानान्तरं शब्दयोजनाशून्यम् अस्त्य् एव, यथा तिरश्चाम् अन्येषां वा अस्मृतशब्दानां वाचकरहितम् असाधारणं वस्तु प्रतिपद्यमानानाम्. अतो ऽस्त्य् एव ज्ञानद्वयप्रदर्शनात् प्रमाणफलविवेकः. यदा पुनरालोचिते ऽर्थे निश्चयो न जायत एव, तदा प्रमाणत्वम् एव नास्तीत्य् आह -- नासाव् इति. अर्थावधारणफलत्वात् प्रमाणत्वस्य, तस्य च तदानीम् अभावाद् इति
विशेष्यज्ञान इदानीं का वार्ता. न तावदप्रामाण्यं, सर्वत्र प्रसङ्गात्. न चासति फले प्रमाणत्वम् अपि शक्यं समर्थयितुम्. अथ तद् एव प्रमाणं फलं चेति द्विरूपम् इष्यते, अस्तु तर्हि विशेषणज्ञानादिष्व् अपि द्विरूपत्वम् एव, किं भेदोपन्यासेन. युक्तं चैतद् एवम्. एवं हि प्रमाणफलयोर् अत्यन्तप्रत्यासत्तिर्{1,236}आश्रिता भवति. सैव चोपपत्तिमती. न ह्य् अन्यत्र साधनम् अन्यत्र साध्यं दृष्टम्. न हि परशौ खदिरं प्राप्ते पलाशे छिदा भवति, अत आह -- हानादी ति. अयम् अभिप्रायः -- यत् तावद् इदम् अतिप्रत्यासत्तितृष्णयैकत्वं प्रमाणफलयोः, तदनन्तरम् एव निराकरिष्यामः. यत् तु विशेष्यज्ञानस्य फलान्तरं न दृश्यत इति. तन् न. अस्ति तत्रापि तदुत्तरकालभावि हानादि फलम्. अथ ज्ञानस्य ज्ञानम् एव फलम्, एवम् इहापि हानादिधीर् एव फल[ं] भविष्यतीति. अथोपकारादिस्मृतिव्यवहिता हानादिबुद्धिर् न फलम् इति किं मन्यसे, अस्तु तर्हीयम् एवोपकारादिस्मृतिः फलम् इत्य् आह -- उपकारादी ति
यस् तु विषयैकत्वम् इच्छता प्रमाणफलयोर् एकत्वम् आश्रितं, तदलौकिकम् अयुक्तं चेत्य् आह -- विषये ति
यच् चेदम् उक्तं परशौ खदिराश्रिते पलाशे न छिदा दृश्यते इति. इदं वा किं दृश्यते यत् परशुच्छेदनयोर् एकत्वम् इति. अतो यत्र साधनं व्याप्रियेत तत्र फलं निष्पद्यते. तच् च पूर्वं प्रतिपादितम् एव, न तु साधनम् एव फलम् इत्य् अभिप्रायेणाह -- छेदन इति
यदि तूच्यते -- साध्यसाधनयोर् विषयभेदो[659]न दृष्टः एकत्वं च, तदन्यतरस्मिन् नाश्रयितव्ये ऽस्मभ्यं विषयाभेदो रोचत इति. तन् न. शक्यम् इदम् इतरेणापि वक्तुम् इति सापहासम् आह -- भवत इति
__________नोतेस्__________
[659] दो दृ (ग)
{1,237} यदि तूच्यते -- फलभूतस्यैव ज्ञानस्य करणत्वम् औपचारिकं कथञ्चित् कल्प्यते, न तु पारमार्थिकम्. पारमार्थिकं हि द्विरूपत्वम् एकस्य न सम्भवति. तदौपचारिकं करणत्वम् आश्रित्य तदुभयम् उपपादयिष्याम इति. एवं तर्हि भिन्नयोर् एव प्रमाणफलयोः कथञ्चिद् विषयैकत्वं किम् इति न कल्प्यते, तथा सत्य् उभयं पारमार्थिकं भविष्यतीत्य् आह -- करणत्वे ति. तच् च कथञ्चिद् विषयैकत्वं पूर्वम् उक्तम् एव. परैर् इति. बौद्धापेक्षया स्वात्मनि परशब्द इति
प्रकृतम् इदानीं प्रमाणफलविवेकम् उपसंहरति -- परिच्छेदे ति. अर्थपरिच्छेदफले आत्ममनस्संयोगाद्यानन्तर्यविवक्षया प्रमाणम्. ज्ञाने च प्रमाणे पूर्वम् आलोचनादिज्ञानं प्रमाणम्. परं तु विशेषणादिज्ञानं फलम् इति प्रकरणार्थः. सर्वं चेदम् एवं सत्य् अनुवादत्वम् इत्य् एतत् पक्षाश्रयणेनोक्तम् इति द्रष्टव्यम् इति
यदि तूच्यते -- नेदम् औपचारिकं करणत्वम्, अपि तर्हि द्विरूपम् एकम् एव ज्ञानं स्वसंवित्त्या विषयाकारेण च. तद् अत्र स्वसंवित्तिः फलं, विषयाकारः प्रमाणम्. यथाहुः --
विषयाकार एवास्य प्रमाणं तेन मीयते ।
स्वसंवित्तिः फलं चात्र तद्रूपो ह्य् अर्थनिश्चयः ॥
इति. स तु विषयाकारः स्वयम् अनाकारस्य न स्वाभाविको ज्ञानस्य केवलम् अर्थेनाधीयत इति सौत्रान्तिकमतम् उपन्यस्य निरस्यति -- स्वसंवित्ती ति. इदं नीलम् इति बहिर्विषयानुभवसमर्थम् एव ज्ञानं न स्वरूपानुभवक्षमं, स्वात्मनि क्रियाविरोधाद् इति विज्ञानवादे वक्ष्याम इति. यच् चेदम् उक्तं विषयाकारः प्रमाणम् इति. तन् न, प्रमाणाभावात्. विषयाकारो{1,238}नामार्थेन ज्ञानम् आधीत्यत इति न[660]नः प्रमाणं, तदधीनज्ञानवैचित्र्यानुपपत्तेः. यदि त्व् अयं विषयाकारो विषयस्थ एव, तदा तस्मिन् प्रमाणे भिन्नार्थत्वम् अपरिहार्यम् एवेत्य् आह -- प्रमाण इति
__________नोतेस्__________
[660] नास्ति नः (ग)
अन्यन् मतं - स्वभावतः स्वच्छं ज्ञानम् अनादिवासनोपप्लावितानेकनीलाद्याकारम् आत्मानम् आत्मनैव गृह्णाति. तद् अस्य स्वाकारः प्रमाणं, विषयाकारः प्रमेयं, स्वसंवित्तिः फलम् इति. यदाहुः --
यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ।
ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक् कृतम् ॥
इति. तद् एतद् उपन्यस्य दूषयति -- स्वाकारश् चे ति. स्वसंवित्तिस् तावन्निषेध्यत इत्य् उक्तम्. यश् चायं स्वाकारः प्रमाणतया कल्पितः सो ऽपि स्वसंवित्तेर् अन्यो नावगम्यते. संविद्रूपतैव ज्ञानस्य स्वाकारः. तच् च फलम् एव किम् अन्यत् प्रमाणं भविष्यतीति. विषयाकारस् तु बहिर् एव[661]बाधिताकारसंवित्संविहितो नान्तर्वृत्तिम् अनुभवितुम् अर्हतीति नैवम् अपि समानविषयत्वम् उपपादयितुं शक्यम् इति भावः
__________नोतेस्__________
[661] वा (क)
अस्तु वा स्वसंवित्तेर् अन्यः स्वाकारः. स तु परिच्छिन्नो वा प्रमाणम् अपरिच्छिन्नो वा. न तावदपरिच्छिन्नः. अपरिच्छिन्नस्य सत्त्वायोगात्. परिच्छेदश् च न तेनैव तस्येत्य् अपरापराकारकल्पनायाम् आकारानन्त्यप्रसङ्ग इत्य् आह -- स्वाकारस्ये ति. असञ्चेतितस्य स्वाकारस्य न सत्ता सिध्यतीत्य् आह -- न चे ति. इदं चानागतावेक्षणेन पूर्वम् अस्माभिर् उक्तम् एव. यश् चायं विषयाकारो ज्ञानाद् अभिन्नो ग्राह्य इति कल्पितः, तस्यापि स्वात्मनि{1,239}वृत्तिविरोधेन ज्ञानेन ग्रहीतुम् अशक्यत्वाद् अन्यस्य च ग्राहकस्यानुपलम्भनाद् अभावः स्याद् इत्य् अभिप्रायेणाह -- ग्राह्य इति. तद् एवं परपक्षे त्रितयम् एव मानमेयफलात्मकं लुप्यत इति दर्शितम् इति
ननु भवत्पक्षे ऽपि सुखादिप्रत्यक्षेषु स्वसंवित्तिर् एव फलम् अभ्युपगन्तव्यम्, ज्ञानातिरिक्तानां सुखादीनाम् असम्भवात्. तान्य् अपि ज्ञानसमानहेतुकानि. ज्ञानं हि समनन्तरप्रत्ययाद् वासनासहायाद् भवति. सुखाद्य् अपि रूपादिज्ञानेभ्यो वासनासहायेभ्यः परिनिष्पद्यते. अतस् तद् अपि ज्ञानम् एव, कारणाभेदे कार्यभेदायोगात्. यथाहुः --
तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः ।
तत्सुखादि[662]किम् अज्ञानं विज्ञानाभिन्नहेतुजम् ॥
__________नोतेस्__________
[662] क (ग)
इति. एवं ज्ञानानां सतां ग्राह्यान्तराभावात् संवेदनत्वम् एव, अत आह -- मनसश् चे ति. अयम् अभिप्रायः -- न सुखादिसंवेदनान्य् अपि विज्ञानान्तरविधाम् अतिवर्तन्ते. तान्य् अप्य् अन्तःकरणेन मनसेन्द्रियेण संयुक्तान्य् आत्मगुणान्तर्भूतान्य् एवात्मना प्रतिपद्यन्ते. अतो मातृमेयमानमितयस् तत्रापि भिद्यन्ते. यत् तु ज्ञानकारणत्वेन ज्ञानत्वम् उक्तं, तत्र किं समवायिकारणं सुखस्य ज्ञानमाहोस्विन्निमित्तम्. न तावत् पूर्वः कल्पः, तेषां ज्ञानवदात्मसमवायित्वात्. निमित्तत्वं तु सर्वार्थक्रियास्वविशिष्टं ज्ञानस्येति तासाम् अपि ज्ञानत्वापातः. तस्मान् न किञ्चित् स्वसंवेदनम् इति. यद् उक्तं परैः -- सर्वचित्तचैत्तानाम् आत्मसंवेदनं प्रत्यक्षम् इति, तत् प्रत्युक्तं भवतीति
ननु समस्तो ऽयं प्रमाणफलप्रपञ्चो लक्षणाभ्युपगमेन भवता दर्शितः. तद् इह विषयविशेषो ऽपि दर्शयितुम् उचितः. यथान्यैः कल्पनापोढम् अभ्रान्तं प्रत्यक्षम् इति प्रत्यक्षलक्षणम् उक्त्वा तस्य स्वलक्षणविषयत्वं दर्शितम् अत आह -- सम्बद्धम् इति. अयम् अभिप्रायः -- स नाम विषयं दर्शयतु[663]यस्य किञ्चिद्{1,240}व्यावर्त्यम् अस्ति, यथा बौद्धस्यैव सामान्यम्. अस्माकं तु सम्बद्धवर्तमानविषयं प्रत्यक्षं, न सामान्यविशेषयोर् अन्यतरद् अपि व्यावर्त्यम् इति किं विषयनिर्देशेनेति
__________नोतेस्__________
[663] ति (क)
नन्व् अत्र भाष्यकारेण प्रत्यक्षम् अनिमित्तम्, एवंलक्षणकं हि तत् इत्य् उक्तम्. अतो यद् एवंलक्षणलक्षितं तन्नामानिमित्तं भवतु. बौद्धादिलक्षितं तु किं निमित्तं न भवतीत्य् आशङ्क्याह -- लक्षणम् इति. एवं हि मन्यते -- बौद्धादिलक्षणलक्षितम् अपि यदि लौकिकं प्रत्यक्षं, तर्हि नियतं विद्यमानोपलम्भनम्. नो चेत् प्रत्यक्षम् एव न भवतीति सिद्धा सर्वस्यानिमित्ततेति
ये च निर्विकल्पकप्रत्यक्षवादिनो बौद्धाः तेषां सुतरां धर्मे प्रत्यक्षस्यानिमित्ततेत्य् आह -- निर्विकल्पके ति. अत्र कारणम् आह -- साध्यसाधनेति. स्वर्गयागादिसाध्यसाधनसम्बन्ध एव धर्मः, नासाव् अविकल्प्य ग्रहीतुं शक्यत इति
अत्र भाष्यकारेण प्रत्यक्षस्यानिमित्ततां प्रतिपाद्य तत्पूर्वकत्वाच् चानुमानादीनाम् अप्य् अनिमित्तत्वम् उक्तम्. तच् च तत्पूर्वकत्वासम्भवेनाक्षिपति -- कथम् इति. किम् इति न भवतीत्य् अत आह -- यदे ति. एवं हि मन्यते -- इन्द्रियार्थसामर्थ्यमात्रजन्मा हि धीः प्रत्यक्षम्. सा च स्मृत्याक्षिप्तनाम् अजातिगुणद्रव्यकर्मविकल्परहिता. न हीन्द्रियाणि स्मर्तुं शक्नुवन्ति. नाप्य् अर्थः. यथाहुः -- न हीन्द्रियमियतो व्यापारान् कर्तुं समर्थं,{1,241}सन्निहितविषयबलेनोत्पत्तेर् इति. अतो नैवंविधप्रत्यक्षपूर्वकत्वम् अनुमानादीनाम् उपपद्यत इति
ननु निर्विकल्पकप्रत्यक्षपूर्वकाणि किम् इत्य् अनुमानादीनि न भवन्ति, अत आह -- न चे ति. अयम् अभिप्रायः -- लिङ्गादिविकल्पपूर्वकाण्य् अनुमानादीनि. न तेषां निर्विकल्पकाद् एवात्मलाभः सम्भवति. न च विकल्पसम्भिन्नानां ज्ञानानां प्रत्यक्षत्वम् उपपद्यते. आन्तरालिकविशेषणविशेष्यार्थस्मरणेनेन्द्रियार्थव्यापारख्यवधानात्. न च निर्विकल्पकोदये व्यापृतं सदर्थेन्द्रियं पुनः सविकल्पकोत्पत्ताव् अपि व्याप्रियत इति प्रमाणम् अस्ति, विशेषणादिस्मरणसमनन्तरम् सम्भवत् सविकल्पकं तद्भावभावात् तत्कारणकम् एव भवेत्. अपि च यदि तदिन्द्रियं पुनः सविकल्पकोत्पत्ताव् अपि कारणं, तत् प्राग् अप्य् आसीद् इति किं न सहसैवं सविकल्पकप्रत्ययान् अपि जनयेत्. अतो नेन्द्रियार्थसामर्थ्यजन्मानः सविकल्पकप्रत्यया इति न प्रत्यक्षम्. इन्द्रियव्यापारासत्तिमात्रेण तु प्रत्यक्षत्वे निमीलितनयनस्यापि विकल्पः प्रत्यक्षो भवेत्. यच् च नामाविकल्पकं प्रत्यक्षं न तल्लिङ्गादिविकल्पकम् इति न कथञ्चित् प्रत्यक्षपूर्वकत्वम् अनुमानादीनाम्. उपमाने ऽपि वनस्थस्य[664]गवयदर्शिनः[665]स्मृते नगरस्थे गवि यत् सादृश्यग्रहणं,[666]तद् अपि नाविकल्प्य भवतीति सम्बन्ध इति
__________नोतेस्__________
[664] स्थग
[665] यसदृशस्मृ (ग)
[666] श्यं त (क)
अर्थापत्तिर् अप्य् अतीन्द्रियेषु विषयेष्व् एव शक्ता श्रोत्रादिषु न परं प्रत्यक्षेण अन्येनापि प्रमाणेनाद्र्ष्टपूर्वेषु प्रवर्तते. सा कथं प्रत्यक्षपूर्विका भविष्यतीत्य् आह -- अर्थापत्तिर् इति. क्वचित् पूर्वदृष्टे ऽपि सन्निवेशविशेषविशिष्टे प्रवर्तते, यथा गृहाभावदृशः पुरुषस्य देवदत्तस्य बहिर्भावावगम इति प्राय इय् उक्तम्. ननु भवत्व् अतीन्द्रियविषया अर्थापत्तिः. यत् तु अनुपपद्यमानम् उपलभ्य प्रवर्तते तत् प्रत्यक्षपूर्वकं भविष्यतीत्य् अत आह -- प्रवर्तते{1,242}चेति. यो ऽपि दाहादिः शक्त्याद्यर्थापत्तेर् निमित्तं सो ऽपि यावत् कथम् इदं कदाचित् कार्यम् अकस्माज् जातम् इति न विकल्प्यते, न तावदर्थापत्तेर् निमित्तं भवतीति
अपि च यत्र देशान्तरप्राप्त्या सूर्यस्य गतिम् अनुमाय गतिसाधनं लिङ्ग्य् अनुमीयते, तत्र कथं प्रत्यक्षपूर्वकत्वम् इत्य् आह -- यत्र चे ति. लिङ्गं सूर्यगत्यादीति सम्बन्धः. लिङ्गि तु गतिसाधनम् अत्र दर्शयितव्यम् इति
प्रत्यक्षपूर्वकत्वे च गृहीतग्राहित्वाद् अनुमानादीनाम् अप्रामाण्यं प्रसज्यत इत्य् आह -- प्रत्यक्षे ति. नन्व् अन्यदा प्रत्यक्षं प्रमाणं भवति, अन्यदा चानुमानादीनि प्रमाणं भविष्यन्तीत्य् अत आह -- तैर् यदे ति. यद्य् अनुमानादिप्रवृत्तिकाले न प्रत्यक्षं प्रवर्तते, तदा सो ऽर्थो ऽक्षस्य न गोचरो भवतीति कथं प्रत्यक्षपूर्वकत्वम्. प्रत्यक्षावगतिवेलायां तु गृहीतग्राहित्वेनाप्रमाणम् इत्य् उक्तम् एवेति
अथोच्येत -- न ब्रूमः प्रमेयम् एवानुमानादीनां प्रत्यक्षेण गृह्यत इति प्रत्यक्षपूर्वकत्वम्. अपि तु लिङ्गादेर् अन्यतरस्यादौ प्रत्यक्षेण ज्ञानात्, तद् इदम् आशङ्कते -- अथ कस्यचिद् इति. सर्वस्य हि जातमात्रस्य प्रथमं किञ्चित् प्रत्यक्षं, ततो ऽनुमानादीति सदृशं तत्पूर्वकत्वम् इति. एतद् अपि दूषयति -- तदे ति. अत्र हि भविष्यंश् चैषो ऽर्थो न ज्ञानकाले ऽस्तीति भविष्यत्त्वं धर्मरूपस्य प्रमाणान्तरेणाज्ञाने कारणम् उक्तम्. तन् न प्राप्नोतीत्य् अर्थः
किम् इति न स्याद् अत आह -- वर्तमान इति. एवं हि मन्यते -- प्रमाणान्तरावेद्यतासिद्ध्यर्थं हि धर्मस्य प्रत्यक्षत्वं विनिवार्यते, न पुनः प्रत्यक्षमात्रेण{1,243}निवारितेन किण्चित् प्रयोजनम्. तावतापि चोदनैवेति प्रतिज्ञाया असिद्धेः. तद् यदि क्वचिद् एव प्रत्यक्षेण गृहीते ऽनुमानादीनि प्रवर्तन्त इतीदृशं तत्पूर्वकत्वम् अनुमानादीनां, तदा प्रत्यक्षेण वर्तमान एव क्वचिद् अर्थे विज्ञाते अनुमानेनाविध्यमान एव धर्मो ऽवगम्यते. एवं प्रमाणान्तरैर् अपि. ततश् च भविष्यत्त्वेन प्रत्यक्षाग्रहणम् अकिञ्चित्करम् एव स्यात्. यदि प्रत्यक्षविषय एव तानि प्रवर्तन्त इतीदृशं तत्पूर्वकत्वं भवति, तदा प्रत्यक्षाविषये तान्य् अपि न प्रवर्तन्त इति प्रमाणान्तरावेद्यता सिध्यति. चोदनैवेति च प्रतिज्ञातार्थः. लिङ्गाद् इति प्रदर्शनमात्रम्. तैर् अनुमानादिभिर् इत्य् अर्थः
इष्टविघातका(?री।रि) चेदृशं तत्पूर्वकत्वम् इत्य् आह -- प्रत्यक्षेणे ति
एवं दूषितम् अन्येषां मतेन समर्थयते -- केचिद् इति. किं नामेदम् अत आह -- तत्पूर्वे ति. एवं हि मन्यते -- नात्र तत्पूर्वकत्वं प्रमाणान्तराणाम् अनिमित्तत्वे हेतुर् उच्यते, किन् तु प्रत्यक्षानिमित्तत्वे प्रतिपादिते यत् तावत् तत्पूर्वकतया प्रामाण्यसम्भावनम् अनुमानादीनां, तत् तावन् नास्तीत्य् एतद् अनेन भाष्येणोक्तम् इति
अत्र चानुमानाद्यनिमित्तत्वे हेत्वनभिधानाद् अपरितुष्यन् समाधानान्तरम् आह -- प्रत्यक्षेणे ति. अयम् अभिप्रायः -- प्रत्यक्षदृष्टगोचराण्य् एवानुमानादीनि. तथा हि -- नागृहीते ऽग्नौ धूमस्य तद्व्याप्तिर् अवधारयितुं शक्यत इति धूमदृशापि नाग्निर् अनुमीयत एव. यावन्नगरे गौर् न प्रत्यक्षेणावसीयते, तावद् वने गवयं पश्यतापि नोपमातुं शक्यते. तद् यदि धर्मो ऽपि प्रत्यक्षेणावसीयते, कदाचित् ततस् तद्व्याप्तलिङ्गदर्शनाद् अनुमीयेत वा, उपमीयेत वा. न{1,244}त्व् असौ कदाचिद् प्रत्यक्ष इत्य् उपपादितम्. अयं चार्थो लिङ्गशब्दं प्रयुञ्जानेन वार्त्तिककारेण दर्शितः. न ह्य् असति व्याप्तिदर्शने धूमो ऽग्नेर् लिङ्गं भवति. न च व्याप्तिदर्शनम् असत्य् अग्निज्ञाने. एवमुपमाने ऽपि दर्शयितव्यम्. आदिशब्देन सदृशम् उपादत्त इति
यच् चानुमितानुमानं न प्रत्यक्षपूर्वकम् इत्य् उक्तं तद् अप्य् अयुक्तम्. तत्रापि हि यावद् गतितत्साधनयोः प्रत्यक्षेण सम्बन्धो नावगम्यते, लिङ्गीयगतिसाधनं लिङ्गं च सम्प्रति दृश्यमाना देशान्तरप्राप्तिर् आदित्यस्य न तावदनुमानं प्रवर्तत इत्य् आह -- अनुमाने ति
अनुमाने सर्वत्र धर्मी धर्मविशिष्टः प्रमेयो भवति, न वस्तुसत्तामात्रम्. धर्मानुमाने तु धर्मो ऽस्तीति सत्तामात्रम् अनुमेयम् आपद्यते. न च तद् युक्तम् इत्य् आह -- सत्ता चे ति. यदि त्व् इहापि धर्मविशिष्टः कश्चिद् धर्म्य् एको ऽनुमीयेत, तद्धर्मविशेषणासिद्धेर् अयुक्तम् इत्य् आशङ्कया सहाह -- धर्मेणे ति
एवम् उपपादितम् अननुमेयत्वं प्रयोगेण दर्शयति -- तस्माद् इति
अनुपमेयत्वे ऽपि धर्मस्य प्रयोगम् आह -- अदृष्टे ति. यस्य हि सादृश्यम् अस्ति तत् सदृशम्. अवयवसामान्यानुवृत्तिश् च प्रतियोगिनि सादृश्यम्. न चासाधारणस्य सामान्यानुवृत्तिः सम्भवति. तथा हि तस्यासाधारणतैव{1,245}न स्यात्. तद् अयम् ईदृश(?मे।ए)कः प्रयोगो भवति. धर्मो नोपमीयते अदृष्टसदृशत्वाद् असाधारणवत्. तथैव वा नानुमीयते नोपमीयते स्वयम् अनुपलम्भाद् गगनकुसुमवद् इत्य् ऊहनीयम्
आह -- अस्तूपमानानुमानयोर् अनिमित्तत्वम्. अर्थापत्तिस् तु प्रायशो ऽतीन्द्रियार्थविषया दृष्टेति तयैव जगद्वैचित्र्यदर्शनप्रसूतया धर्मो ऽवगंस्यते इत्य् आह -- नन्व् इति. जगद्वैचित्र्यम् एव दर्शयति -- सुखी ति. ईश्वरदरिद्रादिभेदेन हि सुखिदुःख्यादिभेदभिन्नं जगद् उपलभ्यते. तद् एवं जगतो वैचित्र्यम् असति कारणे ऽनुपपद्यमानं कारणम् अवगमयति, तच् च धर्माधर्माव् इति. ननु सुखदुःखयोस् तावद् यद् अनन्तरं दर्शनसद्भावः, तद् एव कारणम्. तत्रापि दृष्टम् एवासीद् इति किम् अदृष्टकल्पनया, अत आह -- दृष्टस्ये ति. सत्य् अपि च दृष्टे तन् न सम्भवति. अव्यभिचारि च कारणं कारणविदाम् इष्टम्. अतो ऽदृष्टकल्पनैव प्रसक्तेति भावः. न केवलं सति दृष्टे न भवति, असत्य् अपि भवत्य् एव. यद् यस्मिन्न् असति भवति तद् न तत्कारणकं घट इव शशविषाणाकारणक इत्य् आह -- तदभाव इति. व्यभिचारम् एव प्रपञ्चयति -- सेवाध्ययनतुल्यत्व इति
एतद् एव निराकरोति -- स्याद् एवम् इति. निराकृते स्वभाववादे ऽदृष्टं कल्पयितुं शक्यते. न च स्वभाववादो निराकर्तुं शक्यते. कर्मशक्तिवैचित्र्यसिद्ध्यर्थम् अवश्याभ्युपगमनीय इत्य् आह -- कर्मशक्तेर् इति. अवश्यं हि फलवैचित्र्यसिद्ध्यर्थं कर्मणां शक्तिभेदो ऽङ्गीकरणीयः. न हि तत्र स्वभावाद् अन्यो हेतुर् उत्प्रेक्षितुम् अपि शक्यत इति
अथ तत्र स्वभावो हेतुर् इष्यते, एवं तर्हि[667]सो ऽपि जगद्वैचित्र्यार्थम् एवास्तु. किम् अन्तर्गडुना कर्मशक्तिकल्पनया. तद् एतद् आह -- यथा चे ति
__________नोतेस्__________
[667] र्हि तद् अपि (क)
अथोच्येत -- स्वभावो नामानपायी भवति, यथा शीतौष्ण्ये तोयतेजसोर्[668]इति. इह तु धनवानेवाकस्माद् दरिद्रः. न तत् स्वाभाविकत्व उपपन्नम् इति कल्पनीयम् अदृष्टम् इति, यद्विनाशाद् अस्य धनविनाशो जायत इति. अस्तु तर्ह्य् अनिर्धारितरूपा अदृष्टसिद्धिः, किम् अतिनिर्बन्धेन यस् त्व् अयं विभागः इदं धर्मफलम् इदम् अधर्मफलम् इति, स नावगन्तुं शक्यते. न च तस्मिन्न् अनवगते किम् अपि कारणम् अस्तीति ज्ञानं क्वचिद् उपयुज्यत इत्य् आह -- अधर्म इति
__________नोतेस्__________
[668] सोः. इ (ग)
एतद् एव प्रपञ्चयति -- किन् न्व् इति. न केवलं धर्माधर्मफलविवेको न सिध्यति. धर्मफलानाम् अपि स्वर्गपुत्रादीनां कीदृशात् कर्मभेदतः सिद्धिर् इत्य् एतद् अपि न ज्ञायत इत्य् आह -- स्वर्गपुत्रादी ति
न च वाच्यं मा ज्ञायि कर्मफलविवेकः. अस्ति तावत् कारणसामान्यज्ञानम् इति. तावता च प्रवृत्त्यभावाद् इत्य् आह -- इती ति. प्रवृत्त्यङ्गस्य च ज्ञानस्य हानोपादानार्थिभिर् मूलं परीक्ष्यत इत्य् आह -- प्रवृत्ती ति
{1,247} उपसंहरति -- तस्माद् इति. सूत्रकारेणापि विशेषजिज्ञासैव प्रतिज्ञाता, उपरिष्टाद् विशेषाणाम् एव जिज्ञास्यमानत्वात्. स च विशेषो ऽनन्यप्रमाणक इत्य् उक्तम् इत्य् आह -- विशेषस्ये ति
काणादास् तु जगद्वैचित्र्यात् सामान्यतः सिद्धेर् आगमेन विशेषतो ऽवगम्यते. तद् अयं द्वाभ्याम् एव प्रमाणाभ्यां परिनितिष्ठतीति वदन्ति, तत्राह -- गम्यमान इति. एवं हि मन्यते -- सामान्यावगतौ त्व् इह विशेषो न निर्धार्यते व्यभिचारात्. विशेषस् तु सिध्यन् नानालीढसामान्य एव सिध्यतीति किं पृथक् तत्र प्रसिद्ध्या. तस्माद् अकारणम् अर्थापत्तिः सामान्यसिद्धाव् इति
ये तु वदन्ति -- नेयम् अर्थापत्तिः, किन् तु सामान्यतोदृष्टानुमानम् इदम्. कार्यसामान्यस्य कारणसामान्येन व्याप्तेः. अतो जगद्वैचित्र्यार्थापत्तिवादिनाम् इवानुमानम् एवेदम् इति. ते ऽप्य् अर्थापत्तिनिरासेनैव निरस्ता इत्य् आह -- यथे ति. अयम् अर्थः -- जगद्वैचित्र्यार्थापत्तिर् इव सामान्यतोदृष्टानुमानं प्रवर्तत इति यानुमानस्योपमा कृता, सार्थापत्तिनिराकरणमात्रेणैव नेष्यते नानुमेष्यते नोपमेष्यत इति तु ये वदन्ति, तेषाम् उपमायाम् अभागी प्रतिषेध इति. यदि त्व् अनुमानम् अपि विशेषावधारणे शास्त्रापेक्षम् इत्य् उच्यते, तद् एव तर्हि सामान्यविशेषयोर् अपि निरपेक्षं प्रमाणम् आपद्यत इत्य् आह -- शास्त्रं चेद् इति
एवं तावत् प्रत्यक्षेण लिङ्गाद्यन्यतमं गृहीत्वानुमानादि प्रवर्तत इति प्रत्यक्षपूर्वकम् इत्य् उक्तम्. इदानीं तु यद् उक्तं न लिङ्गादिप्रत्यक्षम् अविकल्पनात्, प्रत्यक्षस्य लिङ्गादिग्रहणस्य च सविकल्पकत्वाद् इति. तद् दूषयितुम् अनुभाषते -- प्रत्यक्षे ति. एवम् अनुभाष्य दूषयति -- तन्ने ति. कारणम् आह -- इष्टत्वाद् इति. अयम् अभिप्रायः -- नायम् एकान्तः निर्विकल्पकम् एव{1,248}प्रत्यक्षम् इति. तदुत्तरकालं हि यदनुपरतेन्द्रियव्यापारेण विकल्पोपकृतम् अर्थरूपम् अनुभूयते, तद् अपि प्रत्यक्षम् इत्य् उपरिष्टात् प्रपञ्चयिष्यामः. अतः सविकल्पकप्रत्यक्षपूर्वकत्वम् अनुमानादीनाम् उपपन्नम् इति
अत्र कश्चिद् अपिशब्दम् असहमानः प्रत्यवतिष्ठते. एवं हि मन्यते -- सर्व एव सविकल्पकः प्रत्ययः, वाग्रूपानुविद्धबोधात्. न हि स नाम लोके प्रत्ययो दृश्यते यः शब्दानुगमाद् विना भवति. व्यवहारार्थं च प्रमाणम् अनुध्रियते. न च निर्विकल्पकेन कश्चिद् व्यवहारो ऽस्ति, सर्वव्यवहाराणां विशेषनिश्चयाधीनत्वाद् निश्चयस्य च विकल्पम् अन्तरेणाभावात्. यदि तूच्यते अस्ति बालानां तिरश्चां चाविकल्पः प्रत्ययः व्यवहारश् चेति. तन् न. तेषाम् अपि सूक्ष्मवाग् उपपत्तेः. त्रेधा हि वाचं विभजन्ते वैखरी मध्यमा सूक्ष्मा चेति. यथोक्तं -
शब्दब्रह्मैव तेषां हि परिणामि प्रधानवत् ।
वैखरीमध्यमासूक्ष्मावागवस्थाविभागतः ॥
इति. किं पुनर् बालानां सूक्ष्मशब्दसद्भावे प्रमाणं, प्रत्ययत्वम् एव. प्रत्यया हि ते कथम् अशब्दा भविष्यन्ति अस्मदादिप्रत्ययवद् एव. कथम् अव्युत्पन्ना बालाः शब्देनार्थं योजयन्तीति चेद्, न. प्राग्भवीयशब्दवासनावशाद् उपपत्तेः. अस्ति हि तेषां भवान्तरीयशब्दवासना. सादृष्टवशाद् अभिव्यक्ता सती शब्दस्मरणम् उपकल्पयति. ततः सूक्ष्मशब्दसम्भिन्नम् अर्थं बाला अपि प्रतिपद्यन्ते इत्य् अतो ऽयुक्तो विकल्पस्यापीत्य् अपिशब्द इत्य् अत आह -- अस्ती ति. अयम् अभिप्रायः -- अयम् अप्य् अनेकान्तः यः सविकल्पक एव प्रत्यक्ष इति. आलोचनाज्ञानम् अपि सविकल्पकात् पृथग्भूतम् अस्ति. प्रतीमो हि वयम् उन्मिषितचक्षुषः सहसा संमुग्धं द्व्याकारं परमार्थं वस्तु, यत् सामान्यं विशेष इति च पश्चात् परीक्षका विभजन्ते. यदि तु नादाव् उदीयते निर्विकल्पकं विज्ञानम् इत्य् उच्यते, ततः सविकल्पकम् अपि कथम् आत्मानं लभते. तद् धि सङ्केतकालभाविशब्दादिस्मरणपूर्वकम्. न चाकस्माद् एव तत्स्मरणम् आविरस्ति, निर्विकल्पकोद्बोधितप्राचीनभावनाबीजजन्मान्{1,249}अस्तु विकल्पा इति युक्तं यदात्मानं लभत इति. यद् अपि चाव्यवहाराङ्गत्वं निर्विकल्पकस्येत्य् उक्तम्. तद् अयुक्तम्. न हि व्यवहारार्थम् एव प्रमाणम् आश्रीयते. उपेक्षा हि प्रमाणफलम् इष्यत एव. अपि च सन्ति केचिद् व्यवहाराः ये निर्विकल्पकमात्राद् एव भवन्ति, यथाग्निना दह्यमानस्य सहसापसरणम्. तद् धि परामर्शानपेक्षम् एव झट् इति जायमानम् उपलभ्यते. तिर्यग्बालानां चाविकल्पकेनैव सर्वो व्यवहारः. न च तेषां सूक्ष्मशब्दसद्भावे प्रमाणम् अस्ति. प्रत्ययत्वस्यास्मदादिस्वसंवेद्याविकल्पकप्रत्ययेनानैकान्तिकत्वात्. कथं च तेषाम् अगृहीतसम्बन्धानां शब्दसम्भिन्नार्थबोधः. यद् उक्तं प्राग्भवीयवासनावशाद् उपपत्तिर् इति, तन् न. तस्याः प्रायेण मरणेनोच्छेदात्. भवान्तरानुभूतस्मरणे वा परस्ताद् अपि सम्बन्धग्रहणानर्थक्यम्. यो हि जातमात्रः सूतिकाशयन्ते शयानः कुमारको भवान्तरीयं स्मरति, स कथम् उपरिष्टान् न स्मरिष्यति. अथ मतं परस्ताद् अस्य संस्कारो नश्यतीति. तन् न. यस्य हि निधनेन योनियन्त्रपीडया च संस्कारो न विनष्टः, तस्य कथम् अकस्माद् एव द्वित्रैर् एव वर्षैः संस्कारनाशो भवति. तस्माद् अस्ति बालानाम् अविकल्पः प्रत्ययः, तन्मूलश् च व्यवहार इति सिद्धं निर्विकल्पकम् अपि प्रत्यक्षम्
इति. आदिशब्देन च जातमात्रस्य बधिरस्य तिरश्चां च ज्ञानम् उपादत्त इति
नन्व् अर्थेन्द्रियसामर्थ्यमात्रजं ज्ञानं निर्विकल्पकम्. न तत्रानुवृत्तिव्यावृत्ती प्रतिभासेते. न च ते अन्तरेण सामन्यविशेषौ प्रकाशेते. अतः कथं तद्विषयं निर्विकल्पकं भविष्यतीत्य् आशङ्क्याह -- न विशेष इति. एवं हि मन्यते -- सत्यम् आपातजं निर्विकल्पकं सामान्यविशेषौ न प्रकाशयति. किम् अत्रानिष्टम् आपादितम् इति. ननु यदि सामान्यविशेषौ न प्रतीयेते, किं नाम तेनावगन्तव्यम्. न हि तदतिरिक्तं वस्त्व् अस्तीत्य् अत आह -- तयोर् इति. अयम् अभिप्रायः -- व्यक्तिमात्रगोचरं निर्विकल्पकम्. अस्ति वा विशेषातिरिक्ता व्यक्तिः. बाढं, यो ऽर्थः सामान्यस्य विशेषाणां चाश्रयः सा व्यक्तिः. के पुनर् अमी विशेषाः. खण्डादयः, यैर् इतरेतरं व्यक्तयो विशेष्यन्ते. सामान्यं तु{1,250}स्वप्रकाशम् एव. इदं च निर्विकल्पकेन सामान्यविशेषयोर् अग्रहणं सामान्यम् इदं विशेषो ऽयम् इति च विविच्याग्रहणाद् उक्तम्. तयोर् अपि तु स्वरूपं प्रकाशत एव. तद् एतद् उपरिष्टाद् वक्ष्याम इति
अद्वैतवादिनस् तु सन्मात्रविषयं निर्विकल्पकं प्रत्यक्षम् इत्य् आचक्षते, तद् एतद् उपन्यस्यति -- महासामान्यम् इति. एवं हि मन्यन्ते -- निर्विकल्पकं प्रत्यक्षं वस्तुस्वरूपं विदधाति न वस्त्वन्तरेभ्यो विविनक्ति. इदम् इति हि तत् प्रकाशते न पुनर् नेदम् इति. न चाप्रकाशमाने विवेके विशेषाः प्रतिभाता भवन्ति. अपि च गवाश्वयोर् इतरेतरव्यवच्छेदो विशेषः. तद् इह किम् एकव्यवच्छेदपूर्वको ऽपरस्य विधिः, आहोस्विदेकविधिपूर्वको ऽन्यस्य व्यवच्छेदः, अथ युगपदुभयम्. न तावद् व्यवच्छेदपूर्वको विधिः सम्भवति, निराश्रयव्यवच्छेदानुपपत्तेः. निर्ज्ञातस्वरूपं कुतश्चिद् व्यवच्छिद्यते. अनवगते तु किं कुतो व्यवच्छिद्यते. अत एव यौगपद्यम् अप्य् अनुपपन्नम्. विधिपूर्वकस् तु व्यवच्छेदो न क्षणान्तरम् अध्रियमाणे ज्ञाने सम्भवति. न हि तदेकं विधाय सहसा निरुद्धं क्षणान्तरे ऽन्यं व्यवच्छेत्तुम् उत्सहते. अपि च इतरेतराभावो विशेषः. स कथं प्रत्यक्षविषयो भविष्यति, षष्ठप्रमाणविषयत्वात्. अतः सन्मात्रग्राहि प्रत्यक्षम्. तद् अयम् अर्थः -- द्रव्यं सद् इत्य् एवमादिपर्यायवाच्यं महासामान्यम् अन्यैः प्रत्यक्षस्य ग्राह्यम् उच्यत इति. एवम् अनेन प्रकारेण सामान्यविषयत्वं प्रत्यक्षस्य तैर् आश्रितम् इत्य् आह -- सामान्ये ति
नन्व् एवम् अप्य् अप्रतिभासमाना विशेषा न सन्त्य् एवेति कथं सामान्यम् अपि सेत्स्यतीत्य् अत आह -- विशेषास् त्व् इति. अनादिकालीनवासनोपप्लावितविचित्रविकल्पवतीभिर् बुद्धिभिर् विशेषाः प्रकाश्यन्ते. अतस् तदाश्रयः सामान्यव्यवहारो भवति. परमार्थतस् तु न तत् सामान्यम्. एकम् एव तु प्रत्यस्तमितसमस्तसामान्यविशेषादिप्रपञ्चं तत्त्वम् आस्थीयते वेदान्तविद्भिः. तथा च{1,251}सर्वविशेषोपसंहार उक्तं - सद् एव सोम्येदम् अग्र आसीत् नेह नानास्ति किञ्चनेति. के पुनस् ते विशेषाः ये सविकल्पकबुद्धिभिः प्रतीयन्त इति तत्स्वरूपं दर्शयति -- ते चे ति. द्विधा खलु विशेषाः साधारणा असाधारणाश् चेति. साधारणा यथा द्रव्यत्वादयः.[669]तर्हि पृथिव्यादयः सदन्तरेभ्यो गुणकर्मभ्यो विशि[670]ष्यन्त इति विशेषा इत्य् उच्यन्ते. तान् एव तु बहुषु संश्रिता इति
__________नोतेस्__________
[669] यः स (क)
[670] शे
आह -- द्रव्यत्वं हि नवसु पृथिव्यादिषु संश्रितम् असाधारणास् तु ये प्रतिद्रव्यम् अन्ये ऽन्ये च. के पुनस् ते. यदि खण्डादयः, तन् न. तेषाम् अपि साधारणत्वात्. खण्डमुण्डादीनाम् अपि[671]ह्य् अन्या अन्या व्यक्तयो भवन्ति. एवं रूपादिष्व् अपि दर्शयितव्यम्. अतो नासाधारणा नाम विशेषाः केचिद् अवगम्यन्ते. ये तु नित्यद्रव्यवृत्तयो ऽन्त्या विशेषाः, ते व्यावृत्तिबुद्धेर् एव हेतुत्वाद् विशेषा एवेति कैश्चिद् उक्तम्. तद् अयुक्तं, प्रमाणाभावात्.[672]तथा हि -- न तावद् अर्वाग्दृशाम् अस्मद्विधानां ते बुद्धिविषयाः. योगिनस् तु तान् पशन्तीति न नः प्रमाणं क्रमते. न चैवं तैर् अदृष्टपूर्वैः किञ्चिद् विदितसम्बन्धं लिङ्गम् अस्ति यतः प्रमास्यन्त इति वक्तव्याः प्रतिद्रव्यवर्तिनो विशेषाः. त उच्यन्ते. सत्यम् एकैकश आलोच्यमाना रूपादयो नासाधारणाः यावता गुणजात्यादिगणेनैकैका व्यक्तिः व्यक्त्यन्तरेभ्यो विशिष्यते सो ऽसाधारण एव. बहुसाधारण्ये ऽपि हि यद् एव किञ्चिद् यस्याम् एव व्यक्तौ न्यूनम् अधिकं वा भवति, तेनैवासाधारणव्यपदेशो भवति. तच् चैतद् आकृत्यधिकरणे असाधारणविशेषा व्यक्तिर् इति व्याख्यानावसरे वार्त्तिककारो वक्ष्यति.[673]तान् इमान् व्यावृत्त्यनुगमा[674]त्मनावस्थितानुभयविधान् अपि विशेषानकल्पयत्. गव्य् अश्वे वा प्रत्यक्षम् उत्पन्नं न विशिष्यते. विषयविशेषनिबन्धनो हि ज्ञानविशेषः.
न चेद् विषयविशेषो निर्भासते दुरधिगमो ज्ञानविशेषः. अतः प्रत्यक्षज्ञानं सन्मात्रगोचरम् एवेति सिद्धम्. तद् एतद् आह -- तान् इति
__________नोतेस्__________
[671] ण्डा अपि (ग)
[672] त्. न (क)
[673] तीति त
[674] ता (ग)
{1,252} एतन् निराकरोति -- तद् अयुक्तम् इति. अयम् अभिप्रायः -- किम् उन्मिषितचक्षुषो विचित्रान् भावानुपलभमानस्य बुद्धिर् विशिष्यते न वा. यदि नेत्य् आह, किम् अस्योत्तरेण. अथ विशिष्यते, सैव तर्हि विलक्षणाकारा बुद्धिर् उपजाता असंशयिता देशादिभेदे ऽप्य् अनुपजातव्यतिरेका एकत्वम् इव नानात्वम् अपि स्थापयति. कथं ह्य् एकबुद्धिगोचरयोर् नानात्वैकत्वयोर् एकं सत्यम् इतरच् चालीकं भविष्यति. यत् तु विदधाति वस्तुनः स्वरूपं प्रत्यक्षं न निषेधतीत्य् उक्तम्. सत्यम्. विदधद् एतद् भिन्नम् एव विदधाति तथा प्रतीतेः. नन्व् इतरप्रतिषेधाद् विना भिन्नं विधातुम् एव न शक्यते. मैवम्. न हीदम् इतरप्रतिषेधाद् वस्तुभिन्नं, किं तर्हि स्वरूपेणैव. अतस् तत् प्रकाशते. भिन्नं न प्रकाशत इति दुर्भणम्. अत एवेतरेतराभावस्य प्रत्यक्षतापत्तिर् इति यद् उक्तं तद् अपि प्रत्युक्तम्. न हि भिन्नं ग्रहीतुम् इतरेतराभावो ग्रहीतव्यः. सो ऽपि तत्रास्तु तावत्. न प्रत्यक्षेणावसीयते. पश्चात् तु प्रतियोग्यादिस्मरणपुरस्सरं भावविकल्पेनासाव् अध्यवसीयते. यो ऽपि विधिव्यवच्छेदयोः क्रमयौगपद्यविकल्पः, सो ऽप्य् असदर्थ एव. न ह्य् अत्र निर्विकल्पकोदयकाले व्यवच्छेदावगतिर् अस्ति. किं तत्क्रमादिपरिचोदनया. स्वरूपमात्रं तु वस्तुनः प्रकाशते. तच् चानुभवबलाद् एव विलक्षणम् इत्य् उक्तम्. ननु यदि स्वरूपभिन्नं वस्तु किं विशेषैः. न प्रयोजनवशाद् वस्त्व् आश्रीयते. किण् तु संविद्वशेन. सा चाविशिष्टा विशेषेष्व् इति विशेषाः कथं नाश्रीयेरन्. अपि च असत्सु विशेषेषु तद् भिन्नं स्वरूपम् एव न संवर्तते. यथा असत्सु चित्रावयवनीलादिषु चित्ररूपम्. न चैतावता तत् तेभ्यो भिन्नं भवति. न च तद्ग्रहणम् अन्तरेण गृह्यते. तद्वद् विशेषवशप्रभावितम् एव द्रव्यस्य भिन्नं रूपं तद्ग्रहणसमकालं चानुभूयत इति तन्निरपेक्षग्रहणप्रसङ्गो ऽपि न चोदनीयः. सर्वं चैतत् संचिद्बलाद् एवास्माभिर् अभिधीयते. न पुनर् अलौकिकं किञ्चिद् उपकल्प्यते. एतद् एवाभिप्रेत्य भिन्नरूपोपलम्भनात् इत्य् उक्तम्. किम् उक्तं भवति. रूपम् एव तद् यद् एतद् भिन्नम्. अतो युक्तं यदन्यव्यवच्छेदादिबोधनिरपेक्षेण प्रत्यक्षेणावसीयत इति. आह -- तत् तर्हि रूपं व्याक्रियताम् इदं नामेति, अत आह -- न ही ति. अयम् अभिप्रायः -- नोपाख्या{1,253}वस्तुनः सत्त्वे कारणम्. अपि तर्हि, प्रख्या. अस्ति चात्र निर्विकल्पकदशायाम् अपि विलक्षणवस्तुसंविद् भिन्नरूपविषया सा इति च दर्शितम्.
तच् च निर्विकल्पकप्रतिभातं रूपं पश्चात् तु द्वित्रादिभिर् विशेषैः परस्मा अप्य् अदूरान्तरेण दर्शयितुं शक्यम् एवेति
किम् इदानीं व्यावृत्तरूपविषयम् एव[675]निर्विकल्पकं, नेत्य् आह -- निर्विकल्पके ति ग्रहणम् अन्तेन. सामान्यविशेषात्मनो ऽपि वस्तुनो ग्रहणम् इत्य् अर्थः. तथा हि -- यदायम् एकदा नानात्मनो गोपिण्डानुपलभते, तदास्य सहसैवाविकल्पकेन द्व्याकारा मतिर् आविरस्ति. एकव्यक्तिबोधे ऽपि चासावाकारो ऽवभासत एव. रूपं हि तद् व्यक्तेः, कथं तस्यां प्रकाशमानायां न प्रकाशेत. तथा दृष्टैकव्यक्तेर् अपरदर्शने स एवायं गौर् इति प्रत्यभिज्ञानम् उदेति. न च तददृष्टपूर्वे सम्भवति. आह च --
__________नोतेस्__________
[675] त्तविषयरूपम् एव
तत्रार्थापत्तितः पूर्वं दृष्टेयम् इति गम्यते ।
नैव हि प्रागदृष्टे ऽर्थे प्रत्यभिज्ञानसम्भवः ॥
इति. ननु न विशेषः न सामान्यं निर्विकल्पकेनानुभूयत इत्य् उक्तम्. कथम् इदानीं द्व्यात्मकस्यापि ग्रहणम् इत्य् उच्यत इत्य् अत आह -- लक्षणाख्येयम् इति. अयम् अर्थः -- लक्षणाख्येयम् इदं निर्विकल्पकस्य रूपं सामान्यविशेषात्मकं वस्तु निर्विकल्पकेन विषयीक्रियत इति. तच् च निर्विकल्पकलक्षणकारैर् एव परीक्षकैर् आख्यायते. प्रमाता तु सामान्यम् इदं विशेषो ऽयम् इति च विवेकविधुरम् इदम् इति संमुग्धरूपम् एव वस्तूपलभते. शुद्धम् इति. अनुवृत्तिव्यावृत्तिपरामर्शरहितं गृह्यत इत्य् अर्थः. शुद्धवस्तुजम् इत्य् अत्रापि शुद्धशब्दस्यायम् एवार्थो द्रष्टव्यः
शुद्धं गृह्यत इत्य् एतद् एव प्रपञ्चयति न [676] ही ति. अयम् अभिप्रायः -- स्वरूपमात्रेण सामान्यविशेषौ निर्विकल्पकेन गृह्येते. नासाधारणतया.{1,254}सामान्यतया च व्यावृत्त्यनुगमविकल्पाभावात्. ननु किं तदन्यद् व्यावृत्तेर् अनुगमाच् च विशेषस्य सामान्यस्य च स्वरूपं यद् गृह्यत इत्य् उच्यते. स एव तयोर् आत्मा. कथं तदग्रहे तयोर् अग्रहणम् उपपत्स्यते. अहो विवेककौशलं तत्रभवताम्. अनुगमव्यावृत्तिधर्माणौ सामान्यविशेषौ न पुनरनुगतिव्यावृत्ती एवेति यत् किञ्चिद् एतत्
__________नोतेस्__________
[676] त्व् इ (ग)
एवं निर्विकल्पकं व्याख्यायेदानीं तद्बलभाविनः सविकल्पकस्य प्रत्यक्षत्वप्रमाणत्वे दर्शयिष्यन् प्रत्यक्षतां तावद् आह -- ततः परम् इति. अस्यायम् अर्थः -- ततो निर्विकल्पकात् परं जातिगुणकर्मनाम् अभिर्यया बुद्ध्या विकल्प्य वस्तु गृह्यते यथा गौर् अयं शुक्लो ऽयं डित्थो ऽयम् इति, सापि प्रत्यक्षत्वेन सम्मतेति
ननूक्तम् इन्द्रियार्थसामर्थ्यमात्रजं हि ज्ञानं प्रत्यक्षम् इति स्मृत्याकृष्टसमस्तनामजात्यादिबलभुवश् च विकल्पाः. न चेन्द्रियाणाम् अर्थस्य च स्मरणसामर्थ्यम् इत्य् अप्रत्यक्षं सविकल्पकम् इत्य् अत आह -- करणं चे ति. अयम् अर्थः -- यदीन्द्रियाणि स्मृत्वार्थं विकल्पयन्तीत्य् अस्माभिर् उच्येत, तद् एवम् उपालभ्येमहि यत् तानि स्मर्तुं न शक्नुवन्तीति. न त्व् एतद् एवम्, इन्द्रियाणां करणत्वात्. कर्तरि चात्मनि स्मरणसमवायात्. अतस्[677]तत्स्मृत्याद्यशक्तिर् अदोष एवेति
__________नोतेस्__________
[677] तः स्मृ (क)
किम् आश्रितं तर्हि ज्ञानम् अत आह -- आत्मन्य् एवे ति. आत्मा हि चेतयते. स च प्राग्भवीयधर्मोपार्जितेन्द्रियोपनीतम् अर्थं बुध्यते स्मरत्य् अनुसन्धत्ते चेति न किञ्चिद् अनुपपन्नम् इति
{1,255} नन्व् एवम् इन्द्रियसम्प्रयोगस्य शब्दादिस्मरणेन व्यवहितत्वाद् अप्रत्यक्षम् आपद्येतेत्य् उक्तम्, अत आह -- तेने ति. अयम् अभिप्रायः -- नात्रेन्द्रियार्थसम्बन्धो विच्छिन्नः. विद्यमाने च तस्मिन् शब्दादि स्मरन्न् अपि येनैव जात्यादिना वस्तु विकल्प्य गृह्णाति तत्र प्रत्यक्षवान् नरो भवत्य् एव. स्मरणेनेन्द्रियाणाम् अदूषितत्वाद् इति भावः
नन्व् इन्द्रियमात्रप्रभावितं प्रत्यक्षम् इत्य् उच्यते. तत्र शब्दादिस्मरणसहितानीन्द्रियाणि कारणम् इति कथं प्रत्यक्षशब्दवाच्यत्वम् अत आह -- तच् चैतद् इति. इन्द्रियाधीनं ज्ञानं प्रत्यक्षम् आख्यायते. गौर् अयम् इत्य् अपरोक्षाभासं ज्ञानम् अनुपरतेन्द्रियव्यापारस्य जायमानम् इन्द्रियाधीनम् एवेति तैर् इन्द्रियैर् व्यपदिश्यत एव, स्मृतिसहायानाम् अपि तेषाम् एव कारणत्वाद् इति भावः. ये त्व् अनपेक्षिताक्षव्यापारा एव गौर् अयम् इत्यादिस्मरणविकल्पाः ते ऽस्माभिर् अपि स्मृतिमात्रहेतुत्वान् न प्रत्यक्षतयेष्यन्त इत्य् आह -- तदसम्बन्धे ति
इन्द्रियसम्बन्धानुसारिणस् तु भूयांसो विकल्पाः प्रत्यक्षशब्दवाच्या एवेत्य् आह -- पुनर् इति
यत् तूक्तं - यदीन्द्रियाणि विकल्पोदये कारणं किं न सहसैव जनयन्तीति, तत्राह -- न ही ति
अथास्फुटावभासमापातजं तत्रैन्द्रि(?य।यि)कं ज्ञानम् अस्तीत्य् उच्यते, तद् अत्रापि समानम् इत्य् आह -- यथे ति
यत् तूक्तं - किञ्चिद् दृष्टवतो निमीलितनेत्रस्यापि विकल्पः इन्द्रियव्यापारासत्तिमात्रेण प्रत्यक्षो भवेद् इति, तन् न. अनभ्युपगमाद् एवेत्य् आह -- यदि त्व् इति. अयम् अभिप्रायः -- नेन्द्रियव्यापारासत्तिरैन्द्रि(?य।यि)कत्वे कारणं, किं तर्हि, इन्द्रियव्यापारानुपरति. अत इन्द्रियसम्बन्धानुसाराभावात् तत्र प्रत्यक्षता न स्याद् इति
नन्व् अनेकात्माक्षादिकारणं सविकल्पकं, कथं तदक्षेणैव व्यपदिश्यते अत आह -- असम्बन्धे ति. अयम् अर्थः -- असाधारणं हि शब्दप्रवृत्तौ कारणम्. आत्मादि च कारणम् इन्द्रियासम्बन्धार्थेषु[678]विकलपेषु स्मरणानुमानादिषु तुल्यम्. अक्षम् एव त्व् अपरोक्षावभासिनः[679]सविकल्पक[680]स्योदये ऽसाधारणकारणम् इति तेनैव व्यपदिश्यते. कल्पन इति सविकल्पकज्ञान इत्य् अर्थः.
__________नोतेस्__________
[678] म्बन्धवि
[679] नि
[680] कोदये
निर्विकल्पकप्रत्यक्षवादिनाम् अपीदं चोद्यं समानम् इत्य् आह -- निर्विकल्पके ति. यदि त्व् इन्द्रियजन्मनो हि निर्विकल्पकस्यानन्तरं सम्भवद् एतत् सविकल्पकं तत्कारण[681]कम् एव, इन्द्रियं तु निर्विकल्पकोत्पत्ताव् एवोपक्षीणव्यापारम् इत्य् उच्यते, तथापि परम्परयाक्षकारणत्वेन प्रत्यक्षं व्यपदेक्ष्यते. यथा कुसुमं पङ्कजम् इति. न हि तत् पङ्काज् जायते. किं तर्हि पङ्कभुवः कन्दात् केवलम्. इदं परम्परयाक्षजत्वम् अविशिष्टम् अनुमानादीनाम् इति तेषां प्रत्यक्षशब्दवाच्यतानिराकरणार्थं रूढिम् अप्य् एषिष्यामः. यथा पङ्कज[682]शब्द एव व्यवहितस्य योगस्य सौगन्धिकादिसाधारण्यान् नियामिका रूढिर् इष्यते. सेयं योगरूढिर् इति वार्त्तिककारीयैर् आख्यायते. तद् एतद् आह -- तत्पारम्पर्ये ति. इदं त्व् इह वचनीयम् -- रूढिश् चेद् आश्रिता किं योगाभ्युपगमेन. समुदायशक्त्यैव हि तदाश्वकर्णादिवत् क्वचिद् एव शब्दो वर्तिष्यते क्वचिच् च नेति किं{1,257}योगव्यसनेन. न व्यसनितया योगम् आश्रयामः, प्रतीतं तु योगं न हातुं क्षमामहे अवघात इव दृष्टम्. यथा तत्रैव नियमान्यथानुपपत्त्या दृष्टकल्पना, तथात्रापि प्रयोगनियमाय[683]समुदायशक्तिकल्पनेति किम् अनुपपन्नम्. नन्व् अप्रयोगाद् एवान्यत्राप्रयोगो भविष्यतीति. किम् इदम् अप्रयोगाद् अप्रयोग इति. यदि पूर्वपूर्वेषां प्रयोक्तॄणाम् अप्रयोगाद् उत्तरोत्तरेषाम् अप्रयोग इति. तद् अयुक्तम्. अप्रयोगाभावात्. प्रयोगमात्रे हि प्रवृत्तिहेतुता, अवयवयोः स्वार्थे प्रयोगो दृश्यत एव. समुदायस् तु नान्यः कश्चिद् यस्याप्रयोग इति शक्यते वक्तुम्. समुदायशक्तेर् अनभ्युपगमात् प्रयोगमात्राद् एव पङ्कजादिशब्दप्रवृत्तेः. प्रयुक्तो हि पङ्कशब्दः पङ्के. जनिः प्रादुर्भावे. तदतिरिक्तं वस्तु समुदायो नास्त्य् एव. कस्याप्रयोग इति वक्तव्यम्. अर्थान्वयो हि तथा प्रवृत्तौ हेतुः. स च सौगन्धिकादिष्व् अपि समान इति तेष्व् अपि पङ्कजशब्दप्रवृत्तिः. अतो ऽवश्यम् अन्यत्राप्रयोगार्थं रूढिर् आश्रयितव्या. यद् उक्तम् अन्यत्राप्रयोगस् तु रूढिम् आपादयतीति, तद् इष्यत एव. योगो ऽपि दृष्टो न हातुं शक्यत इत्य् उक्तम्. अश्वकर्णादौ त्व् अवयवानुगमाभावात् क्वचिद् एव रूढिर् आत्मानं लभते. अतो नेयं रूढिर् एव केवला नापि केवलयोगः. योगरूढिर् इति मन्यन्ते वृद्धा इति ॥
__________नोतेस्__________
[681] णम् इ
[682] ज ए (क)
[683] य श
अथ व्यवधानाद् अकारणं योग इति मन्यसे, तथापि रूढ्यैव केवलया प्रत्यक्षशब्दः सविकल्पके वर्तिष्यते. भूम्ना हि तत्रैव लौकिकाः प्रत्यक्षशब्दम् उपचरन्ति. अल्पं निर्विकल्पक त्य् आह -- अनिमित्तैवे ति
यदि तूच्यते सत्यं वृद्धाः प्रयुञ्जते. लक्षणकारास् तु निर्विकल्पकम् एव प्रत्यक्षम् आतिष्ठन्ते. यथाहुः -- कल्पनापोढम् अभ्रान्तं प्रत्यक्षम् इति. अत आह -- वृद्धप्रयोगे ति द्वयेन. अयम् अभिप्रायः -- लौकिको हि शब्दार्थ{1,258}सम्बन्धः. तेन परीक्षकैर् अपि यथालोकम् एव वर्तितव्यम्. अन्यथाकरणे तेषां लोकबाध एवेति
अपि च कल्पनापोढवादिनाम् अपि कल्पनाज्ञानं स्वसंवेदने प्रत्यक्षम् इष्टम् एव. यद् एवम् आहुः --
कल्पनापि स्वसंवित्ताविष्टा नार्थे विकल्पनात्
इति. एवं हि मन्यन्ते -- न कल्पना स्वसंवित्तिर् आत्मानं विकल्पयति, बहिरर्थविकल्पावभासित्वात्. असाधारणस्य च कल्पनात्मनो ऽपि कल्पनास्पदत्वात्. अत्राप्य् आहुः -- नैनम् इयम् अभिलापेन संसृजति तथा वृत्तेर् आत्मनि विरोधात् इति.
तेषाम् अतः स्वसंवित्तिर् नाभिजल्पानुषङ्गिणी
इति च. तद् इदं कल्पनास्वसंवेदनं प्रत्यक्षं नोपपद्येत. तद् अपि हि निर्विकल्पकप्रत्ययान्तरिताक्षव्यापारम् एव. अथ तत्र रूढ्या प्रत्यक्षशब्दो वर्तत इत्य् उच्यते, तद् गोत्वादिबहिर्विषयप्रकाशे ऽपि समानं, न परं स्वसंवित्ताव् इत्य् अभिप्रायेणाह -- कल्पने ति. यदि मतम् अस्ति तत्रेन्द्रियजं निर्विकल्पकज्ञानं समनन्तरप्रत्ययः. तद् एव मन इत्य् आचक्षते. यथाहुः -- तच् चतुर्विधम् इन्द्रिय(?ज)म् इन्द्रियजं समनन्तरप्रत्ययोद्भवं मानसम् इति. मनो ऽपि चेन्द्रियम् इति मनोधीनतया प्रत्यक्षं भविष्यतीति. तद् गोत्वादिबोधे ऽपि समानम्. तद्बोधे ऽपि वयं मनोव्यापारम् आतिष्ठामह एव. मनःस्वरूपे तु विवदामः. तत् तावद् अन्यद् एवेत्य् आह -- मन इति
नन्व् आन्तरं मनः कथं बहिर्विषयबोधे वर्तिष्यत इति, तत् तावद् आशङ्कते -- स्वसंवित्ताव् इति. परिहरति -- लोक इति. अयम् अभिप्रायः -{1,259}सत्यम् इष्टं कल्पनाज्ञानं स्वसंवेदने प्रत्यक्षम् इति भवद्भिः. लौकिकास् तु विपरीतं मन्यन्ते. अयं गौर् इति पररूपनिरूपणं सविकल्पकं लौकिका मन्यन्ते न पुनर् अहं गौर् इत्य् आत्मनिरूपणम्. यद् अपि बाह्येषु मनो न वर्तत इति. सत्यम्. बहिरिन्द्रियानपेक्षं न प्रवर्तते. गोत्वादयस् तु संयुक्तसमवायेन चक्षुषा सन्निकृष्यन्त इत्य् अस्ति तेषु मनोव्यापार इति तन्निबद्धम् अक्षव्यपदेशं लभत इति भावः. अतो ऽवश्यं स्वसंवेदने कल्पनाप्रत्ययं प्रत्यक्षम् आचक्षाणैर् मनो वा अक्षम् अभ्युपगन्तव्यं रूढिर् वा परिभाषा वा. सर्वथा वयम् अपि प्रत्यवस्थातुं शक्ता इत्य् अभिप्रायेणाह -- तस्माद् इति
सुखादिस्वसंवेदने ऽपि मन एवाक्षम् आश्रितं भवद्भिः. तद्वद् इहापि जातिविकल्पो भविष्यतीत्य् आह -- मनसस् त्व् इति
अथ समाने ऽपि मनोधीनत्वे स्वकीयकल्पनापोढलक्षणानुसारेण किञ्चिद् एव प्रत्यक्षम् आश्रीयते. तथा सतीच्छानुसारेण व्यवस्थायाम् इष्यमाणायां वयम् अपि यथाशयं किञ्चिद् एव प्रत्यक्षं वक्ष्याम इत्य् आह -- तदधीनत्वे ति
पारिशेष्याद् अपि प्रत्यक्षान्तर्भाव एवास्याः सविकल्पकधियो युक्त इत्य् आह -- लिङ्गादी ति. ननु सति प्रामाण्ये पारिशेष्यं भवति, न त्व् इयं प्रमाणम् अत आह -- बाधके ति
इदं त्व् इह वक्तव्यम् -- सत्यं नेयम् अप्रमाणं, मृगतृष्णादिज्ञानवद् व्यवहाराविरोधात्. न च प्रमाणम् असदर्थगोचरत्वात्. निर्विकल्पपरिप्लावितस्वलक्षणप्रापकतया स्मृतिर् इत्य् आख्यायते. न च स्मरणं प्रमाणम् अत आह -- न चे ति. पूर्वदृष्टार्थविषयं स्मरणं भवति. न च निर्विकल्पकेन सामान्यदर्शनम्{1,260}अस्ति, अप्रत्यक्षविषयत्वात् तस्य भवत्सिद्धान्ते. अस्माकम् अपि स्वलक्षणान्तरसम्भेदः पूर्वम् अदृष्ट एव. न चासदर्थत्वं, वक्ष्यमाणन्यायेन जात्यादीनां स्थास्यमानत्वात्. अतो नागृहीतग्रहणाद् अप्रामाण्यं नासदर्थतया वेति, अतः प्रमाणं सत् पारिशेष्यात् प्रत्यक्षे ऽन्तर्भवतीत्य् उपसंहरति -- तस्माद् इति. भवन्तो ऽपि वाङ्मनसविसंवादेनैवास्याः बुद्धेर् अप्रामाण्यम् आचक्षते. सर्वव्यवहाराणां सविकल्पकाधीनत्वाद् इत्य् आह -- व्यवहार इति
ननु किम् इदं नाप्रामाण्यं च युज्यत इति. विशिष्टावगाहिनो हि विकल्पाः. भिन्नं च विशेष्याद् विशेषणम्. अभेदे विशेषणविशेष्यानुपपत्तेः. अतो ऽर्थान्तरभूतैर् जात्यादिभिर् विशिष्टे वस्तुनि गृह्यमाणे अतस्मिंस् तद्ग्रहणाद् भ्रान्तिर् एव सविकल्पकज्ञानम् इत्य् आह -- जात्यादी ति
परिहरति -- नैतद् इति. कारणम् आह -- स्थितम् इति. पररूपेण हि परस्मिन् निरूप्यमाणे भ्रान्तिर् भवति. न च जात्यादीनां पाररूप्यं, तेषाम् अनतिभेदाद् इति भावः
नन्व् अभेदे विशेषणविशेष्यभावानुपपत्तिर् उक्ता, अत आह -- यदि ही ति. न विशेषणम् एकान्ततो जात्यादि विशेष्याद् भिद्यते, सर्वदैव तदाकारावबोधाद् इत्य् अर्थः
नन्व् अत्यन्तभिन्नम् एव लाक्षादिरूपं स्फटिकादि स्वाकारेण विशिष्टं बोधयद् दृष्टं, तद्वद् एव हि जात्यादिविशिष्टबोधो ऽपि भवन् मिथ्या स्याद् इति, अत आह -- स्फटिकादाव् इति. अयम् अभिप्रायः -- उक्तम् अस्माभिः{1,261}सदैव जात्यादिविशिष्टं वस्तु गृह्यते. कस्यचित् कदाचिद् विवेकानवगमात्. अतः कथं मिथ्या भविष्यति. लाक्षोपहितं तु स्फटिकं कश्चिद् एवाव्युत्पन्नो ऽजातविवेको ऽरुणम् इति बुध्यते. अतस् तज्ज्ञानं भ्रान्तिर् भवति. तदैव हीतरे दृष्टविवेका जानन्ति नेदम् अरुणम् औपाधिको ऽयम् अरुणभ्रम इति. अव्युत्पन्नो ऽपि चोपाधिविगमे जानात्य् एव यथा नेदम् अरुणम् इति. अतो युक्तं भ्रान्तित्वं बाधोत्पादाद् इति
जात्यादितद्वतां तु परस्परविवेको न दृष्टपूर्वः. अतो न भ्रान्तित्वं युक्तम् इत्य् आह -- न ही ति. ननु भवत्व् एवं जातौ. न हि तया निर्मुक्तं वस्तु कदाचिद् उपलभ्यते. गुणकर्मभ्यां तु वियुक्तवस्तुबोधो दृष्ट एव. ध्रियमाण एव हि द्रव्ये कुतश्चित् कारणात् पूर्वगुणविनाशो गुणान्तरोत्पादश् च दृश्यते. एवं कर्मण्य् अपि दर्शयितव्यम्. अतः कथं तयोर् अव्यतिरेकः, अत आह - तद्विमोकेने ति. अयम् अभिप्रायः -- यद्य् अपि तद्विमुक्तं वस्तु दृश्यते, तानि तु तद्विमुक्तानि न जातु दृश्यन्ते. यच् च नाम यतो भिन्नं तत् ततो विमुक्तम् अपि कदाचिद् उपलब्धं मणेर् इवौपाधिको ऽरुणिमा. न चेह तथा. अतो व्यापकनिवृत्त्या व्याप्यस्यात्यन्तभेदस्य निवृत्तिः. कथम् इदानीं पूर्वापरयोर् गुणकर्मणोर् नाशोत्पादौ. प्रत्यभिज्ञायते हि तद् एवेदम् इति द्रव्यं, गुणकर्मणी च विनष्टे. तद् इदम् अभेदे नोपपद्यते. न नोपपद्यते, स्थित्युत्पत्तिविनाशात्मकम् एव नो वस्त्व् इति रुचकाद्युदाहरणे वक्ष्यामः. तद् इह वस्त्व् अपि गुणकर्मनाशे नश्यत्य् एव. रूपं हि तद् वस्तुनः, कथं तद्विनाशे न नशतीति शक्यते वक्तुम्. तयोर् अपि नात्यन्तिको विनाशः, वस्त्वात्मना विद्यमानत्वात्. जाताव् अपि चैषैव गतिः. तत्रापि हि स्थित्युपत्तिविनाशा दृश्यन्त एव. वियुक्तबोधो ऽपि दृशयते. दृश्यते हि विनष्टपिण्डवियुक्ता पुण्डान्तरे जातिः. सा कथं ततो भिन्ना भविष्यति. अथ तत्र कथञ्चिद् भेदम् आश्रित्य समाधिर्{1,262}अभिधीयते, शक्यो ऽसौ गुणकर्मणोर् अपि वक्तुम् इति केन विशेषेण जाताव् अभेदम् आश्रित्य गुणकर्मणोर् भेदं वर्णयाञ् चक्रुः. अतो यदा जात्यादयो दृश्यन्ते, तदा[684]पिण्डाद् अभेदेनैवावगम्यन्त इत्य् अभेदो ऽपि तेषाम्. यैव तु काचिद् अनुपपत्तिर् आपाद्यते सानेकान्तवादिनां नासज्यत इत्य् अस्तु तावद् इदम् इति
__________नोतेस्__________
[684] त्र
यदि तु जात्यादिबोधविधानुविधायिनः स्फटिकादाव् अपि चारुणादिबोधा भवेयुः, कस् तेषाम् अपि प्रामाण्यं वारयेद् इत्य् आह -[685] तत्रापी ति
__________नोतेस्__________
[685] अ (ग)
एवं जात्यादीनाम् अभेदं प्रतिपाद्येदानीम् ऐकान्तिकभेदवादिनः काणादान् प्रत्याह -- न चापी ति. एवं हि मन्यन्ते -- भिन्नयोर् एव जात्यादितद्वतोः समवायलक्षणः सम्बन्ध इति. तथा च पठन्ति -- अयुतसिद्धानाम् आधाराधेयभूतानाम् इहप्रत्ययहेतुर् यः सम्बन्धः स समवायः इति. तदयुतसिद्धयोः सम्बन्धित्वासम्भवाद् अनुपपन्नम् इति. कथं पुनर् अयुतसिद्धानां सम्बन्धित्वम्[686]अनुपपन्नं भवतीत्य् अत आह -- नानिष्पन्नस्य सम्बन्ध इति. अयम् अभिप्रायः -- केयम् अयुतसिद्धः. किं[687]युतसिद्ध्यभावमात्रम्, अथवा[688]पृथक्सिद्धिः. यदि युतसिद्ध्यभावः, कस्य केन सम्बन्ध इति सिद्धयोर् हि सम्बन्धिनोः सम्बन्धो भवति, नासिद्धयोः. अथापृथक्सिद्धिः, तत्राप्य् एतद् एवोत्तरं नानिष्पन्नस्य सम्बन्ध इति. अपृथङ्निष्पन्नयोस् तादात्म्याद् इति भावः. अथैतद्दोषपरिहारार्थं पृथङ्निष्पत्तिर् इष्यते, तथा सति युतसिद्धिर् एवापद्यत इत्य् आह -- निष्पत्ताव् इति
__________नोतेस्__________
[686] त्वं न सम्भव
[687] यदि यु (क)
[688] थापृ
किं पुनर्[689]अनिष्टम् आपादितम्. नन्व् इष्यत एव जातितद्वतोर् असम्बद्धयोर् एव कियान् अपि कालभेदः. तां च तयोर् अवस्थां योगिनः पशन्ति नान्ये. न{1,263}तावता रज्जुघटयोर् इव तयोर् युतसिद्धयोर् एव सम्बन्धः संयोगः स्याद् इति वाच्यम्. न हि नः पृथक्सिद्धिर् युतसिद्धिलक्षणम्. अपि तर्हि. भिन्नाश्रयत्वं पृथग्गतिमत्त्वं च. द्वयोर् अन्यतरस्य वा युतसिद्धिः तदभावो ऽयुतसिद्धिः. च न जातेस् तदुभयम् अस्तीत्य् अयुतसिद्धयोः समवाय एव सम्बन्धो भविष्यति, अत आह -- तथा च सती ति. अयम् अभिप्रायः -- न तावत् पृथक्सिद्धे जातिव्यक्ती वयम् उपलभामहे. योगिगम्यश् च जात्यादिरहितः क्षणो दुस्साध एव. उपेत्यापि ब्रूमः. हेत्वभावात् सम्बन्धो न स्याद् इति. न हि रज्जुघटयोर् इव पृथक्सिद्धयोर् देवदत्तादिजातिव्यक्त्योः संयोजको दृश्यते. समवायस् तु न तावत् सम्बन्धहेतुः, सम्बन्धरूपाभ्युपगमात्. अथापि तद्धेतुः, नैवम् अपि युतसिद्धौ सम्बध्नाति. ननूक्तं युतसिद्धिर् एव जातेर् नास्तीति भिन्नाश्रयसमवायाभावाद् अपृथग्गतिमत्त्वाच् चेति. न, युतसिद्धिशब्दस्य पृथक्सिद्धिमात्रवचनत्वात्, नञा तदभावमात्रम् अयुतसिद्धिर् आख्यायते. सा चेत् पृथक्सिद्धिर् अस्ति कथम् अयुतसिद्धिर् भविष्यति. अथापि पारिभाषिको ऽयुतसिद्धिशब्दः, तथापि व्यक्तेः स्वावयवसमवायित्वाज् जातेश् च व्यक्त्याश्रयत्वाद् भिन्नाश्रयाश्रयित्वम् अस्तीति युतसिद्धिप्रसङ्गः. न च युतसिद्धिसम्बन्धे समवायो हेतुः. न च हेत्वन्तरम् अप्य् अस्तीति सूक्तं न सम्बन्धे हेतुः कश्चिद् इति. सम्बन्धहेत्वभावाच् च षड् अपि द्रव्यादयः पदार्थाः असम्बन्धा भवेयुर् इत्य् आह - षण्णाम् इति
__________नोतेस्__________
[689] र् इदम् अनि (ग)
अपि च, अयं समवायः सम्बध्य वा समवायिनौ सम्बन्धाति असम्बध्य वा. न तावद् असम्बध्य, असम्बद्धस्य सम्बन्धहेतोर् अदृष्टत्वात्. सम्बन्धस् तु सम्बन्धहेत्वन्तरम् अन्तरेण न सम्भवति, न च तद् उपलभ्यते. अतः समवायिभ्यः समवायस्य वियोगाद् विश्लेषात् समवायिनाम् अपि परस्परविश्लेषः स्याद् इत्य् आह -- समवाये ति. सम्बन्धहेत्वन्तरकल्पनायां त्व् अव्यवस्था स्याद् इत्य् आह -- तत्कॢप्ताव् इति
{1,264} यदि तु समवायिनोर् आत्मरूपं स्वरूपम् एव समवायः नासाव् अन्येन सम्बन्धनीय इत्य् उच्यते, एवं तर्ह्य् अङ्गीकृतो ऽभेदवाद इति धर्मधर्मिणोर् एव स्वरूपं समवायो ऽस्तु यद्य् अवश्यं समवायनाम्ना प्रयोजनं, किं समवायान्तरग्रहेणेत्य् आह -- अथे ति
अत्र कारणम् आह -- न ही ति. उक्तम् इदं व्यतिरिक्तस्य सम्बन्धहेत्वन्तराभ्युपगमे ऽनवस्था. अभेदे तु परम् उभयवादिसिद्धयोर् धर्मधर्मिणोर् एवाभेदो ऽभ्युपगन्तव्यः. किं समवायग्रहेणेति
नन्व् अस्तु जात्यादिधर्माणाम् अभेदः, धर्म्य् एव तु भिन्नो नोपलभ्यते यः सविकल्पकज्ञानैर् विषयीक्रियते, तत् तावद् उपन्यस्यति -- नन्व् इति. एवं हि मन्यन्ते -- नायं धर्मी धर्मेभ्यो ऽतिरिक्तो ऽङ्गुलीभ्य इवाङ्गुष्ठो दृश्यते. न चास्य व्यवस्थापने प्रत्यक्षं प्रक्रमते. तस्येन्द्रियजत्वादिन्द्रियाणां पञ्चानां पञ्चसु रूपादिषूपक्षीणत्वात्. षष्ठस्य च मनसः स्वातन्त्र्येण बहिर्विषयव्यवस्थापने ऽसामर्थ्यात्. यथाहुः --
क्षीणानि चक्षुरादीनि रूपादिष्व् एव पञ्चसु ।
न षष्ठम् इन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥
इति. अतो रूपादिसङ्घातमात्रम् एवेदं बहिर् उपलभ्यते न तत्त्वान्तरं वृक्षसङ्घात इव वनबुद्धिर् इति
अत्र परिहारम् आह -- आविर्भावे ति धर्म्य् अन्तेन. अयम् अभिप्रायः -- प्रतीमो हि वयं विष्फारिताक्षा रूपादिवद् एकं द्रव्यं न च विपर्येति तत्{1,265}कथम् अन्यथा भविष्यतीति. यत्त्वभेदेन नोपलभ्यत इति. सत्यम्, केन वा धर्मेभ्यो ऽत्यन्तभेदो धर्मिण उपेयते. ग्राहकाभावस् तु रूपादिवदन्वयव्यतिरेकाभ्यां दर्शनस्पर्शनयोर् एव सामर्थ्यप्रदर्शनेन परिहर्तव्यः. अपि च यदि धर्मातिरिक्तो धर्मी न स्यात् को ऽयम् आविर्भावतिरोभावधर्मकेषु रूपादिष्व् अनुगतः प्रत्यभिज्ञायते. प्रत्यभिजानीमो हि वयम् अग्निसंयोगप्रच्यावितप्राच्यरूपम् उपजातरूपान्तरं सो[690]ऽयं घट इति घटम्. न च तदत्यन्ताभेदे घटते स्थित्युत्पत्तिविनाशानाम् एकत्रापातात्. अतो ऽस्ति धर्मेभ्यो भिन्नं तेष्व् अनुगतं, धर्मिरूपं यद्वशाद् एवं विभाग इति. अपि चात्यन्ताभेदपक्षे धर्मग्रहणम् अन्तरेण धर्मी न ज्ञायेतैव. दृश्यते च धर्मग्रहणात् प्राग् एव सन्तम् असादौ धर्मिज्ञानम् इत्य् आह -- यत्र वे ति. अतः सिद्धम् अस्ति धर्मि धर्माश् च तदनतिरेकिणो जात्यादय इति
__________नोतेस्__________
[690] स घ
तद्विशिष्टबोधे पररूपनिरूपणाभावान् नाप्रामाण्यं सविकल्पकज्ञानाम् इत्य् आह -- अत इति
अस्तु वात्यन्तभेदः, तथापि न मिथ्येत्य् आह -- यस्यापी ति द्वयेन. अयम् अभिप्रायः -- नान्यरूपसंवेद्यतामात्रेण मिथ्यात्वं, किन् तु पुनर् अन्यथासंवेदनेन. बाधकप्रत्ययेनेति यावत्. इह च सर्वेषां सर्वदा च तद्रूपा बुद्धिर् इति भावनाया इव धात्वर्थविशिष्टबोधो न मिथ्येति
नन्व् एवं कायचक्षुर् गोचरो धर्मी भिद्यते ग्राहकभेदाद् रूपादिवत्. तानि वा तद्वद् एव सत्य् अपि ग्राहकभेदे न भिद्येरन् अनेकेन्द्रियग्राह्यम् एकं[691]सद्{1,266}दृष्टं सत्त्वम् इति चेत्, न. विकल्परूपस्येन्द्रियेणाग्रहणात्. अपि चेन्द्रियाणां सङ्कीर्णविषयत्वे ऽक्षानेकत्ववैयर्थ्यम् अपि. एकम् एव हि तदेन्द्रियं नानाविषयान् परिच्छेत्स्यतीति किम् इन्द्रियभेदेन. तद् उक्तं -
__________नोतेस्__________
[691] कं सत्त्व (ग)
नैकं रूपाद्यभेदो वा दृष्टं चेन् नेन्द्रियेण तत् ।
अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्ने ऽपि शक्तिमत् ॥ प्स् 1.21च्-22द् (च्f. न्र् 131,27-28)
इति, अत्राह -- न चानेके ति. यत् तावद् उक्तं ग्राहकभेदाद् भेद इति. तद् अयुक्तं, भिन्नशरीरस्थचक्षुर् ग्राह्यस्याभिन्नत्वेन हेतोर् अनैकान्तिकत्वाद् इति
यदि तु चक्षुष्ट्वेनैकत्वाद् इन्द्रियभेद एव तत्र नास्तीत्य् उच्यते, तद् इहापीन्द्रियत्वेन समानम्. अतो बुद्धिभेदनिबन्धन एव भेदो न ग्राहकभेदनिबन्धन इत्य् अभिप्रायेणाह -- जात्यभेदाद् इति. अत एव भिन्नेन्द्रियग्राह्यापि सत्ता एकबुद्धिविषयतया न भिद्यत इत्य् आह -- तुल्ये ति. सर्वेन्द्रियैर् हि सत्तागुणत्वयोर् ज्ञानम् इति भावः
रूपाद्यभेदो वेति यद् उक्तं तत्राह -- बुद्धिभेदाद् इति. सिद्धसाधनत्वं वा द्वयोर् अपि प्रयोगयोर् इत्य् आह -- एके ति. सद्रूपेण रूपादीनाम् एकत्वं रूपादिरूपेण च धर्मिणो नानात्वम् इत्य् अर्थः
अक्षानेकत्ववैयर्थ्ये परिहारम् आह -- क्वचिच् चे ति. न क्वचिद् धर्मिणि त्वक्चक्षुषोः सङ्करो दृष्ट इत्य् एकम् एवाक्षं युक्तम् इत्य् अर्थः. अत्र कारणम् आह -- दार्ढ्ये ति. यदि हि सङ्करदर्शनाद् एकत्वम् आश्रीयते, तद्दार्ढ्यदौर्बल्यभेदेन व्यवस्था नोपपद्येत. दृढे हि चक्षुषि दुर्बले च श्रोत्रे रूपम् उपलभ्यते. एवं बलवति{1,267}श्रोत्रे दुर्बले च चक्षुष्य् अपि शब्दः श्रूयते. सेयं चक्षुश् श्रोत्रयोर् विषयव्यवस्था नाक्षैकत्वे घटत इति
नन्व् इयं व्यवस्थानुपपन्नैव, सर्वत्रैव प्रसङ्गात्. यदि हीन्द्रियान्तरम् इन्द्रियान्तरविषये न प्रवर्तते, क्वचिद् अपि न प्रवर्तेत. प्रवृत्तौ वाव्यवस्थया सर्वत्रैव प्रवर्तेत अतिक्रमदर्शनाद् अत आह -- यथा ही ति द्वयेन. नेदम् अदृष्टान्तं पक्षीक्रियते यत् क्वचिद् व्यवस्था क्वचित् सङ्कर इति. सङ्कीर्यते हि मनश्चक्षुरादिभिः रूपादिबोधे. सुखादिसंवेदने च व्यवतिष्ठते. अतः कार्यदर्शनानुसारिणौ व्यवस्थासङ्करौ नानुपपन्नौ. न त्व् एकत्र व्यवस्थादर्शनात् सर्वत्रैव सङ्करो निर्वर्तते. क्वचिद् वा दृष्ट इति सर्वत्रैव प्रसजतीति ॥ [160] ॥
किं पुनर् अनयोर् व्यवस्थासङ्करयोर् मनसः कारणम् अत आह -- श्रोत्रादेर् इति. उपहतश्रोत्रादिर् अपि शब्दादि स्मरति इत्य् अत आन्तरे स्मृतिसुखादाव् अन्यनिरपेक्षं, वर्तमानं च रूपादि न जानाति. अतस् तत्र बहिःकारणापेक्षं मनः.[692]अतः क्वचित् सङ्करः क्वचिच् चासङ्कर इति व्यवस्था सिध्यतीति
__________नोतेस्__________
[692] नः क्व (क)
एवं कार्यव्यवस्थया व्यवस्थासङ्करौ प्रतिपाद्येदानीम् अक्षैकत्वे दोषम् आह -- एकम् इति. नन्व् एकत्वे ऽपि शक्तिभेदाद् व्यवस्था सेत्स्यति, अत एकम् एव सर्वशरीरव्यापि त्वगिन्द्रियं कल्प्यतां, शक्तयस् तस्य देहभागेषु भिन्ना भवन्तु किम् इन्द्रियभेदेनात आह -- कल्प्यत इति. शक्तिभेदो वा कल्प्यते इन्द्रियभेदो वा. को विशेषः. नन्व् इन्द्रियकल्पनायां{1,268}शक्तिमद्भेदो ऽप्य् अपरः कल्पनीय इति गौरवम्. अस्तु वा प्रमाणवन्त्य् अदृष्टानि कल्प्यानि सुबहून्य् अपि, सन्ति देहेषु पृथिव्यादिभूतभागाः कॢप्तगन्धादिप्रकाशनशक्तयश् चेति वर्णितम्. यत् तु सकलशरीरव्यापिन एकस्यैव वायवीयस्य त्वगिन्द्रियस्य रूपादिप्रकाशनशक्तिकल्पनं तदत्यन्तापरिदृष्टम् अप्रमाणकम् इति भावः. इन्द्रियं भवेद् इति. इन्द्रियस्थाने शक्तिः कल्पनीयतया निपतेद् इत्य् अर्थः
एवं दार्ढ्यदौर्बल्यभेदेन कार्यव्यवस्थां प्रतिपाद्याक्षानेकत्वं समर्थितम्. इदानीं व्यवस्थानाश्रयणे दोषम् आह -- शृणुयाद् इति. यदि नेन्द्रियाणि व्यवस्थितविषयाणि भवेयुः, बधिरो ऽपि चक्षुष्मान् शब्दं शृणुयात्. चक्षुषो ऽपि तद्विषयव्यापारात्. अतो नैकत्र सङ्करदर्शनेन सर्वत्र तत्कल्पना कार्या. तद् इदं दार्ढ्यदौर्बल्यभेदेनेत्य् अस्यैव व्यतिरेकप्रदर्शनम्. व्यवस्था तावद् दृश्यते. यदि तु सर्वत्रैव सङ्करः स्याद् अयं दोषः स्याद् इति. मनस इदानीं यथा हि मनस इत्य् अनेन निदर्शितयोर्[693]व्यवस्थासङ्करयोर् उक्तयोर् व्यतिरेके दोषं दर्शयिष्यन् सङ्करव्यतिरेके तावद् आह -- मनसो वे ति. अयम् अर्थः -- यदि मनो बहिर्विषयवेदने स्वतन्त्रं भवेत्, तत्राप्य् अयम् एव दोषः बधिरः शब्दं शृणुयाद् इति. तस्यापि मनसो भावात्. अयं च वर्तमानस्य चाज्ञानाद् इत्य् अनेन यो बहिर्विषयवेदने मनसः सङ्करो दर्शितः तस्य व्यतिरेक इति
__________नोतेस्__________
[693] तस्य व्यव (क)
अन्तर्विषयवेदने च यन्मनसः स्वातन्त्र्यम् उक्तं तद्व्यतिरेके दोषम् आह -- न स्मरेद् इति. यदि ह्य् आन्तरे ऽपि बहिर्विषयवेदनवन्मनो बाह्यापेक्षं भवेद्, बधिरः शब्दं न स्मरेत् श्रोत्राभावात्. अथासत्य् अपि कारणे{1,269}स्मृतिः स्याद्, एवम् एव वर्तमानोपलब्धिर् अपि भवेत्. अयं च श्रोत्रादेर् उपघाते ऽपीत्य् अनेनोक्ताया आन्तरेषु मनसो व्यवस्थाया व्यतिरेक इति
परतन्त्रं बहिर्विषयवेदने मन इत्य् उक्तम्. किं पुनः कारणं बाह्यबोधे मनो व्याप्रियत इति. सन्ति चक्षुरादीन्य् एव तत्र कारणानि अत आह -- स्मृतिश् चे ति वेलायाम् अन्तेन. अयम् अभिप्रायः -- एवंवादिना[694]मन एवाक्षिप्यते. तत्र चैतद् एव तावद् वक्तव्यम्. आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्[695]च मनसो लिङ्गम् इति. अस्ति खल्व् आत्मा. सन्निकृष्यते च नानार्थैर् नायनं तेजः. किञ्चिद् एव तु ज्ञायते न सर्वम्. तत् कस्य हेतोः कारणवैकल्येन कार्यप्रतिबन्धो दृष्टः यथा सत्सु तन्तुषु पटो नोत्पद्यते तन्तुसंयोगानाम् अभावात्. एवम् इहाप्य् अस्ति तदन्यद् ज्ञानकारणं यस्मिन्न् अव्याप्रियमाणे न ज्ञानम् उत्पद्यते व्याप्रियमाणे च भवति. तच् च मन इत्य् उच्यते. अपि च श्रोत्रादिभिः शब्दाद्युपलब्धिकाले यदि मनो न व्याप्रियते, कथम् उत्तरकालं स्मरणम् उपपद्येत. मनो हि स्मृत्युत्पत्तौ कारणम्. तद् यदि शब्दाद्युपलब्धिवेलायां मनो व्यापृतं भवति, ततः पूर्वम् असाव् अर्थो मनसा प्रकाशित इति परस्ताद् अपि स्मर्यत इत्य् उपपन्नं भवति. बाह्येन्द्रियमात्रकारणके तु पूर्वज्ञाने तेषां स्मृतिसमवाये व्यापाराभावात् स्मृतिर् न स्यात्. न ह्य् अकारणिका ज्ञानोत्पत्तिः सम्भवति. अतो ऽस्ति बहिर्विषयबोधे मनोव्यापारः. सुखादिसंवेदनं चासत्त्वे मनसो नोपपद्येतेति. अपि चासत्त्वे मनसो यद् इदं पूर्वानुभूतानां सर्वेषाम् अस्मरणं तन्नोपपद्यते. किञ्चिद् एव तु कदाचित् कश्चित् स्मरतीति दृश्यते. तद् एवम् उपपद्यते यद्य् अस्ति किञ्चिद् अन्तःकरणं, तदात्मसंयोगविशेषेण हि तदा स्मृतिर् व्यवतिष्ठते. न च संस्कारोद्बोधानुद्बोधकृता व्यवस्था. अनुग्राहको हि करणानां संस्कारः न स्वतन्त्रः करणम्. इतरथा तु स एवान्तःकरणम् आपद्येतेत्य् आह -- न चे ति
__________नोतेस्__________
[694] ना यदि म (ग)
[695] वे म (क)
आह -- सेत्स्यत्य् अयं बाह्यान्तःकरणविवेकः. करणसद्भाव एव तु किं कारणं, बोधस्वभावो हि पुरुषः. तदयम् अन्यनिरपेक्ष एव शब्दादीन्{1,270}भोत्स्यते, अत आह -- बोधे ति. यदि ह्य् अयं बोध[696]स्वभावो ऽन्यनिरपेक्षो बुध्यते, युगपद् एव विश्वं जानीयात्. अतो ऽवश्यमस्य नियामकानि कारणान्य् अभ्युपगन्तव्यानीति
__________नोतेस्__________
[696] स्वरूपो ऽन्य
प्रकृताव् इदानीं व्यवस्थासङ्करौ[697]ग्राह्यग्राहकशक्तिद्वारेणोपवर्णिताव् उपसंहरति -- तस्माद् इति. कार्यद्वारेण हि ग्राह्यग्राहकशक्तयः. ताभ्यो व्यवस्थासङ्करसिद्धिर् इति
__________नोतेस्__________
[697] रौ ग्राहक (क)
ननु कार्यानुसारेणेन्द्रियभेदे वर्ण्यमाने
नीलादिभेदभिन्नानेकदर्शनात् तदनुसारिणीन्द्रियकल्पना न व्यवतिष्ठेतैव, अत आह -- चक्षूरूपादी ति. नानाविधम् अपि हि रूपं विष्फारिताक्षा बुध्यन्त इत्य् अवान्तरभेदम् अनादृत्य रूपमात्रप्रकाशकम् एव चक्षुर् इति निश्चीयते. एवं श्रोत्रे ऽपि दर्शयितव्यम्. अतो नेन्द्रियानन्त्यम्. चक्षूरूपादीति. चक्षुरादिभेदो रूपादिभेदवशेनेति. आदिशब्दस्य प्रत्येकम् अभिसम्बन्ध इति
सुखग्रहणार्थम् इदानीं व्यवस्थासङ्करौ संक्षिप्य दर्शयति -- तस्माद् इति. स्पर्शवद्द्रव्यपरिमाणं मूर्तिः. असर्वगतद्रव्यपरिमाणं वा, तद्विशिष्टानि भूम्यप्तेजांसि द्रव्याणि द्वाभ्यां दर्शनस्पर्शनाभ्याम् उपलभ्यन्ते. रूपादिपञ्चकं वैकैकशश् चक्षुरादिभिः. एवं द्रव्यान्तरगुणान्तरकर्मणां जातेश् च यथादर्शनं व्यवस्थासङ्कराव् अनुसन्धातव्याव् इति
{1,271} एवं तावद् अस्ति धर्मी ग्राहकभेदे चाभिन्नः. जात्यादयश् च तदनतिरेकिणो धर्मा इति पररूपनिरूपणाभावान् न सविकल्पकज्ञानानां मिथ्यात्वम् इत्य् उक्तम्. इदानीम् अशब्दरूपाणाम् एव भावानां सविकल्पकज्ञानेषु शब्दाकारेण निरूप्यमाणत्वाद् अस्ति पाररूप्यम् इति ये वदन्ति, तेषां मतम् उपन्यस्यति -- नन्व् इति. अयम् अर्थः -- यद्य् अपि जात्यादिरूपो धर्मी, तथापि तेषाम् एव शब्दातिरिक्तानाम् अभावात् तद्रूपेण वस्तुनि निरूप्यमाणे शब्दात्मनैव निरूपणम् आपद्यते. ततश् चाशब्दात्मनां शब्दात्मना निरूपणे पुनर् अपि पाररूप्यम् आपन्नम् इति मृगतृष्णादिज्ञानवद् एव पञ्च विकल्पा मिथ्या स्युर् इति
परिहरति -- न शब्दे ति. कारणम् आह -- प्राग् इति. बुद्धिर् एवात्र शब्दाकारा नास्तीति भावः
अत्र चोदयति -- नन्व् इति द्वयेन. अयम् अर्थः -- किम् इदं प्राग् शब्दाद् यादृशी बुद्धिर् इत्य् उच्यते. न हि शब्दार्थसम्बन्धज्ञानात् प्राग् गोत्वशुक्लत्वादिरूपेण गवाकारादिभावविषया बुद्धयो भवन्ति. शब्दसम्बन्धोत्तरकालम् एव तद्रूपा बुद्धिर् उत्पद्यते. तद् यदि शब्दातिरेकिणो जात्यादयः सन्ति तेषां च तद्रूपत्वं, ततः प्राग् अपि शब्दसम्बन्धाद् अशब्दज्ञो ऽपि तद्रूपं लक्षयेत्. न च लक्षयति. अतः शब्दान्वयव्यतिरेकानुविधानाच् छब्दस्यैव तद्रूपत्वम् इति निश्चीयत इति
{1,272} परिहरति -- यथे ति. यथैव हि रूपरसगन्धस्पर्शशब्दा एवाक्षजायां बुद्धौ विभक्ता भासन्ते विनापि शब्दम्, एवं गोत्वादिजातयो गमनादीनि कर्माणि प्राग् अपि शब्दान् निर्विकल्पकेनापि विलक्षणेन रूपेण प्रतीयन्त एव. सम्बन्धग्रहणोत्तरकालं तु केवलं संज्ञासंज्ञिसम्बन्धग्रहणम् एवाधिकं नापरं किञ्चित्. यदि तु शब्दादयो न सन्तीत्य् उच्यते, कस्याध्यास इति वक्तव्यम् इति
सिध्यत्य् अपि शब्दात्मकता यदि शब्दसम्भेदात् प्राग् गोत्वादयो न प्रतीयन्त एव. न त्व् एतद् अस्ति, अगृहीतसम्बन्धस्यापि तद्बोधोत्पादाद् इत्य् आह -- न चे ति
परस्ताद् अपि नाभेदोपचारो ऽस्तीत्य् आह -- श्रुती ति. कारणम् आह -- विवेकाद् इति. द्वाभ्याम्[698]इन्द्रियाभ्यां द्वाव् अर्थशब्दौ गम्येते इत्य् अर्थः
__________नोतेस्__________
[698] भ्यां द्वा
अन्यतरधर्मनिष्कर्षमात्रे तु शब्दस्य व्यापारः, न स्वरूपारोप इत्य् आह -- अनन्ते ति
स्याद् एतत् -- उपायः शब्दो ऽर्थबोधे. उपायधर्माश् चोपेये ऽध्यारोप्यमाणा दृष्टा दर्पणादिधर्मा इव मुखादौ, अत आह -- न चे ति. अनैकान्तिको हेतुर् इति भावः
{1,273} अत्रापरे वदन्ति -- न वयं जात्यादीन् अपलपामः. किं तर्हि. गौर् अयम् इति सामानाधिकरण्येन शब्दरूपानुविद्धबोधाद् रूपसमारोपम् आचक्ष्महे इति. तान् प्रत्याह -- नित्यम् इति. अयम् अभिप्रायः -- यदि शब्दरूपानुविद्ध एव सर्वदा गोत्वादिबोधः रूपान्तरं तु तेषं कदाचिद् अपि न दृष्टं, कथं तर्हि शब्दरूपात् तद्रूपभेदसिद्धिः, असति भेदे कुत्र किम् अध्यस्त्यत इति
अभेदाभ्युपगमे च पाररूप्याभावान् न सविकल्पकज्ञानानां मिथ्यात्वम् इत्य् आह -- यद्य् अभेद इति. पारमार्थिके तु स्वरूपभेदाभ्युपगमे ऽध्यारोपवाचोयुक्तिर् अनर्थिका. न ह्य् असङ्कीर्णस्वभावं वस्तु वस्त्वन्तरात्मना भ्रान्तिवर्जितैर् आरोपयितुं शक्यते. न च सर्वदा सर्वेषां भ्रान्तिः सम्भवति, तद् एतद् आह -- भेदश् चेद् इति. अतो भ्रान्त्यैवेयम् अध्यासकल्पना तद्वादिनाम् इत्य् आह -- भ्रान्त्ये ति
भ्रान्तौ बीजम् आह -- शब्देने ति. गृहीतो ह्य् अर्थो न शब्दम् अन्तरेण निर्देष्टुं शक्यत इति भावः. तथापि किम् अत आह -- गौर् इति. त्रयाणाम् अपि वाच्यवाचकज्ञानानां समानो निर्देशः गौर्[699]इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम् इति. वाच्यं च स च बुद्धिश् च वाच्यतद्बुद्धयः. तद्वादिनां पुरुषाणां गौर् इति समानो निर्देशः प्रतीयत इत्य् अर्थः
__________नोतेस्__________
[699] गोर् अर्थो (क)
तथापि किं जातम् अत आह -- निर्देशे ति. अयम् अर्थः -- एवं हि श्रोता विकल्पयति यतो ऽयं वक्ता त्रिष्व् अपि समानं शब्दं प्रयुङ्क्ते, अतो{1,274}ऽस्यानुभवस् त्रिष्व् अपि समान एव. तद्वच् च स्वयम् अपि सविकल्पकज्ञानप्रमेयम् अर्थं बुध्यमानस् त्रिगोचरस्य ज्ञानस्य वक्तृस्वरूपताम् अध्यवस्यति. यादृशं वक्त्रा प्रतिपन्नं तादृग् एव प्रतिपद्यत इति यावत्. एवं पूर्वपूर्ववक्त्रनुसारेणोत्तरोत्तरेषां श्रोतॄणां निर्देशसाधारण्याद् अध्यासभ्रम इति
यदि निर्देशसाधारण्याद् भ्रान्तिः, अर्थाध्यास एव किं न शब्दबुद्ध्योः प्रतिपाद्यते. समानं हि भ्रान्तिबीजम् अत आह -- भ्रान्ती ति. उपायो ह्य् अर्थस्य जडात्मनः स्वयम् अप्रकाशस्य मतिश्रुती. उपायपूर्विका चोपेयस्थितिर् इति तत्पूर्वम् अर्थं बुध्यमानास् तदध्यासं मन्यन्ते. श्रुतिश् च श्रूयत इति शब्दो ऽभिधीयते. मत्यध्यासश् च पूर्वम् अनुपक्षिप्तो ऽपि कैश्चिद् आश्रितः. स च शब्दाध्यासनिराकरणेनैव तुल्यन्यायतया निराकृतो भविष्यतीत्य् उपन्यस्तः. एवं बौद्धगन्धिवैयाकरणा मन्यन्ते -- जात्यादिर् अर्थो व्यतिरेकाव्यतिरेकविकल्पदूरीकृतनिरूपणः.[700]शून्याङ्कुरजन्मादौ तु बाह्या[701]सम्भवाद् अशक्यो ऽभ्युपगन्तुम्, अतो ज्ञानाकार एवार्थ इति. तद् अपि ज्ञानात् प्राग् एवार्थरूपोपलम्भात् तद्द्वारेणैव ज्ञानावधारणान् निराकृतं वेदितव्यम्. विकल्पपरिहारस् त्व् आकृतिग्रन्थे वक्ष्यते. शून्यादौ तु बाह्यार्थसम्भवो निरालम्बनवाद इति
__________नोतेस्__________
[700] राकरणः (क)
[701] ह्यार्थसं (ग)
निपुणं तु चिन्तयतां त्रिष्व् अपि विलक्षणा बुद्धिर् उपजायत इत्य् आह -- गोत्व इति. उभयोर् ज्ञानम् अनाकारम् अनुमीयत इत्य् अर्थः
अयम् अपरः शब्दाध्यासे दोष इत्य् आह -- यदि चे ति. शब्देन सहाभेदरूपेणेत्य् अर्थः. अक्षादौ शब्दे ऽध्यस्यमाने शब्दैकत्वात् तद्रूपत्वाच् चार्थस्य देवनादेर् एकत्वं प्रसज्यत इति
{1,275} नन्व् अस्त्य् एवानक्षनिवृत्त्या त्रिष्व् अप्य् एकत्वं, न. शब्दात् प्रागनवगतेः. अगृहीतसम्बन्धस्य च शब्दस्याप्रत्यायकत्वात्. तद् एतद् आशङ्कया सहाह -- स्याद् इति. अध्यासवादी स्वाभिप्रायेण चोदयति -- गवादिष्व् इति. इतरश् च[702]स्वमतत्वेनोत्तरम् आह -- ने ति. कारणम् आह -- एके ति. दृश्यते हि प्राग् एव शब्दान् निर्विकल्पकेनाप्य् एकं रूपम् अनुगतम् इति प्राग् एवोक्तम् इति
__________नोतेस्__________
[702] वस्तुत्वे (ग)
विभीतकादिषु नैकरूपानुगमो ऽस्तीत्य् आह -- त्रय इति. शब्द एवात्र साधारणो गवादिजातिशब्दविलक्षणो नार्थ इति
किं पुनर् अत्राप्य् एकशब्दवाच्यतया शाबलेयादिवदेकधर्मान्वयो नेष्यते. अत आह -- परस्परे ति. अयं च विविक्ताकृतिबोधो ऽध्यासपक्षे न युक्तः. शब्दरूपस्याविभागाद् इत्य् आह -- तदध्यास इति
ननु न वर्णः शब्दः. किं तर्हि. स्फोटः. तद् इह भिन्नार्थप्रत्ययावसेय एव भिन्नः स्फोट इत्य् आशङ्कते -- भिन्नाः स्युर् इति. तत्र परिहारम् आह -- ने ति. कारणम् आह -- अर्थ इति. संशयो ह्य् अर्थ उच्चरिते शब्दे भवति. स शब्दभेदे न भवेद् इति भावः. यदि संशयः ततः किम् अत आह -- न सामान्याद् इति. सामान्यदर्शननिबन्धनो हि संशयः. स शब्दभेदे ऽनुपपन्न इति. शब्दसादृश्यात् तर्हि संशयो भविष्यतीत्य् अत आह -- रूपाभेद इति. अयम् अभिप्रायः -- न वर्णातिरिक्तः पदस्फोटो ऽस्तीति वक्ष्यामः. वर्णा एव हि पदं, ते चाभिन्नरूपाः प्रतीयन्त इति
{1,276} दुर्भणः शब्दभेद इति दूषणान्तरम् आह -- भवत्यादाव् इति
अयं चापरो दोष इत्य् आह -- शब्दे ति कथम् अन्तेन. अभिन्ना हि शब्दस्य निष्पन्नरूपता नामाख्यातयोर् इति. इदं च नोपपद्यत इत्य् आह -- कथं चे ति. कः पुनर् मूर्तो ऽर्थः. न तावज् जातिः अमूर्तत्वात्. व्यक्तिस् त्व् अध्यासवादिभिर् अपि नापलपितैव. सा च मूर्तैवेति. को दोषः. सत्यम्. इदं तु परिणामविवर्तवादिनः प्रत्युक्तम्. परिणामवादिनो हि वाग् एवार्थात्मना परिणमतीति मन्यन्ते, त उपालभ्यन्ते. कथम् अमूर्तस्य मूर्तः परिणामः. मूर्तानां हि मृदादीनां मूर्तो घटादिपरिणामो भवतीति युक्तम्. एवं विवर्तवादे ऽपि वाच्यम्. मूर्तं हि मुखम् आदर्शे विवृत्तं युक्तं यद् मूर्तम् उपलभ्यते. अमूर्तविवर्ते तु कथं मूर्तनिर्भासा बुद्धिर् इति
तथा यच् चेदं गवाश्वादयो जातिशब्दाः शुक्लादयो गुणशब्दा इति विभज्यन्ते, तद् अपि वाच्यरूपानपेक्षणे नोपपद्यत इत्य् आह -- गवाश्वे ति ॥
विशेषणविशेष्यभावो ऽपि बाह्यार्थानपेक्षया न व्यवतिष्ठत इत्य् आह -- वृक्षप्लक्षादी ति
सामानाधिकरण्यं च नीलोत्पलादिषु शब्दबुद्ध्योर् इवार्थबुद्ध्योर् अपि नाध्यास उपपन्न इत्य् आह -- सामानाधिकरण्यम् इति. अपि च{1,277}एकत्रोपसंहृते बुद्धी समानाधिकरणे भवतः. तद् इहाध्यासवादिनां कुत्रैकत्रोपसंहारो वाच्यः. न तावद् असाधारणे, तस्यापि कल्पनीयत्वाद् इत्य् आह -- एकत्रे ति. अस्मन्मते तु वाच्यभागानुप्रवेशद्वारेणास्त्य् एकत्रोपसंहार इति विवेचनीयम् इति
यदि त्व् असाधारण एव वस्तुत्वसामान्यगोचर उपसंहार इष्यते, ततः सर्वेषाम् एव गवाश्वादिशब्दानां वस्तुगोचरत्वाविशेषात् सामानाधिकरण्यं प्राप्नोतीत्य् आह -- वस्तुमात्र इति. इह वस्तुत्वाभ्युपगमम् अनापाद्यैव वार्त्तिककृता दोषबाहुल्याद् अतिप्रसङ्गो ऽभिहित इति
अभ्युपगम्याप्य् असाधारणोपसंहारं व्यक्त्यानन्त्यान् नीलोपलपदप्रयोगो न स्यात्, दृश्यते चासाव् इति दूषणान्तरम् आह -- न चे ति
न चानेकनीलोत्पलव्यक्तिसाधारणी नीलोत्पलत्वजातिर् भवद्भिर् इष्यते यत्र शब्दो वर्तेतेत्य् आह -- न चे ति. न केवलं नेष्यते, युक्तिश् च तदभ्युपगमे न भवतीत्य् आह -- शब्दार्थयोर् इति. द्वौ ह्य् अत्र नीलोत्पलशब्दाव् अध्यस्येते. अतः श्रुतशब्दभागानुगतौ द्वाव् एव शब्दाध्यासरूपाव् अर्थौ गम्येते. न हि शब्दद्वयाध्यासे प्रत्याय्यैकत्वं सम्भवतीति
यदि सहप्रयोगमात्रात् सामानाधिकरण्यम् इत्य् उच्यते, स तर्हि पर्यायशब्दयोर् अपि कदाचिद् अव्युत्पन्नबोधार्थे प्रयोगो दृष्ट इति तयोर् अपि सामानाधिकरण्यं स्याद् इत्य् आह -- शब्दद्वयस्ये ति
{1,278} अपि च नानवगतसम्बन्धं पदं प्रत्याययति. न चानवगते ऽर्थे सम्बन्धो ऽनुभवितुं शक्यते. तद् इहाध्यासवादे सम्बन्धानुभववेलायां कीदृशो ऽर्थः प्रत्येतव्य इति वाच्यम् इत्य् आह -- न चे ति. न केनचिद् रूपेण प्रत्येतुं शक्यत इति भावः
किम् इति न शक्यते, अत आह -- तदानीम् इति. शब्दरूपो ह्य् अर्थः. न चाव्युत्पन्नस् ताद्रूप्यावधारणे समर्थः. तद् इहाध्यासात् सम्बन्धबुद्धिः ततश् चाध्यास इति तत्रेतरेतराश्रयम् इति भावः. असाधारणेन च सम्बन्धग्रहणं नाशङ्कन्नीयम् एव, पिण्डान्तरे ऽप्रयोगप्रसङ्गाद् इत्य् आह -- न चे ति
तद् इदानीं सम्बन्धानपेक्षस्यैव शब्दस्यात्माध्यासशक्तत्वं बलाद् आपतितं, तत्र च प्रथमश्राविणो ऽपि तद्रूपार्थबोधप्रसङ्ग इत्य् आह -- तत्रे ति ॥
न च वाक्यं तवापि शब्दो नित्यम् अर्थेन सम्बद्धः तत् किमर्थे स्मरणं नादधातीति. मम ह्य् अस्ति वाच्यं व्यतिरिक्तं तद्, येन वाच्यवाचकसम्बन्धो ऽवगतः स शब्ददर्शनाद् अर्थं स्मरति. यस् त्व् अस्येदं वाच्यम् इति न जानाति न तस्यार्थस्मरणम् इति नानुपपन्नं किञ्चिद् इत्य् आह -- ममे ति. भवतस् तु वाचकरूपातिरिक्तवाच्यरूपाभावात् प्रथमश्रवणे ऽप्य् अध्यस्तरूपता स्याद् इति पूर्वेण सम्बन्ध इत्य् आह -- भवत इति
न त्व् एतद् अस्तीति व्यतिरेकेण दर्शयति -- यथे ति
{1,279} यतश् च गृहीतशब्दो ऽपि नार्थं प्रतिपद्यते, ततो नैव वाचकाधीनं वाच्यम् इत्य् आह -- तस्माद् इति. प्रमाणान्तरावगतार्थरूपस्मारकत्वात् तु श्रुतेर् एव तत्पारतन्त्र्यं युक्तम् इत्य् आह -- स्मारकत्वाद् इति
उपसंहरति -- तेने ति
प्रवृत्तिनिवृत्त्युपदेशेषु कुर्याद् न कुर्याद् इत्य् एवमादिषु शब्दस्यातदात्मकत्वात् तदात्मकार्थबोधो ऽनुपपन्न इत्य् आह -- प्रवृत्ताव् इति
पर्यायशब्देषु च शब्दभेदाद् अर्थ(?भेदोप।भेदा)पत्तिर् इत्य् आह -- करहस्तादी ति
अपि चायम् अध्यासः सादृश्याद् वा भवति शुक्ताव् इव रजतस्य, उपरागाद् वा मणाव् इव जपारुणिम्नः. न चैतद् उभयम् अपि शब्दाध्यासे सम्भवति. दूरस्थेनानुरागासम्भवात् सादृश्यानवगतेश् चेति. तद् एतद् आह -- आत्माध्यास इति सार्धेन. यद् अपि विवर्तवादिनां प्रत्यवस्थानं दूरस्थम् अपि चन्द्रादि जले विवर्त(?म् उ।उ)पलभ्यते, तद्वच्छब्दो ऽपि प्रत्येष्यत इति. तद् अयुक्तम्. अरूपस्य प्रतिबिम्बासम्भवाद् इत्य् आह -- दूरस्थे ति
{1,280} ननु यद् इदम् उक्तं दूरस्थत्वाच् छब्देनानुरागो न सम्भवतीति. तद् अयुक्तम्. वैभवेन शब्दस्य सर्वत्र सन्निधानाद् अत आह -- शब्दे ति
किञ्चायम् अनुरागः समानेन्द्रियग्राह्येणैव दृष्टः यथा चाक्षुषस्य मणेर् अरुणिम्ना चाक्षुषेणैव. न हि त्वचा स्फटिके ऽनुभूयमाने चाक्षुषो ऽरुणिमा तम् अनुरञ्जयति. एवं श्रौत्रः शब्दो न चाक्षुषम् अर्थम् अनुरञ्जयितुं शक्नोतीत्य् आह -- न चे ति
एवं तावद् अशब्दात्मनः शब्दात्मकतया वेदने पाररूप्यप्रसञ्जनेन यत् सविकल्पकज्ञानानां मिथ्यात्वम् उक्तं तन्निराकृतम्. अध्यासवादिनां तु सविकल्पकज्ञानमिथ्यात्वेनानुमानादीनां प्रामाण्यं दुर्लभम् इत्य् आह -- अनुमाने ति. न केवलम् अनुमानादीनां प्रामाण्यं न सिध्यति, सर्वनिरूपणानाम् एव तु विकल्पाधीनत्वात् सर्वलोकवेदव्यवहारोच्छेदप्रसङ्ग इत्य् आह -- निरूपणस्ये ति. निरूपणं निर्णय इति
ननु सर्वं मिथ्यैव वाचो ऽतिरिक्तं वाङ्मयत्वाद् विश्वस्य, तद् यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्य् एवमोङ्कारेण सर्वा वाक् सन्तृण्णा ओङ्कार एवेदं सर्वं वाग् एव विश्वा भुवनानि जज्ञिरे इति श्रुतेः. अत आह -- तथास्त्व् इति. सर्वमिथ्यात्वे प्रतिज्ञाया एव मिथ्यात्वाद् न सर्वमिथ्यात्वं सिध्यतीति
{1,281} अपि चायम् अध्यासापरनाम्ना बाह्यापलापः. बाह्यापलापो माहायानिकः पक्षः. स च शून्यवादोत्तरेणैव निराकार्य इत्य् आह -- शून्यवादे ति. बुद्धिग्रहणं बुद्ध्यध्यासनिराकरणार्थम्. इदं च प्राग् अपि व्याख्यातम् इति
प्रकरणार्थम् उपसंहरति -- तस्माद् इति. भिन्नैकत्वादिबुद्धिभिर् इति. अनुगतव्यावृत्तिबुद्धिभिर् इत्य् अर्थः
एवं तावत् प्रमाणान्तरप्रतिपन्नार्थगोचरः शब्दः न तत् तन्त्रम् अर्थरूपम् इत्य् उक्तम्. इदानीं तु यद्य् अपि शब्दोपायको ऽर्थो ऽसति शब्दे नावगम्यते, तथापि न तस्य स्वरूपनाशो भवति. न हि चक्षुरादेर् अभावे रूपादिपञ्चकं न प्रतीयत इति तद् असद् भवति. तद् एतद् आह -- शब्दाभ्युपायक इति द्वयेन. इह चोपायापेक्षत्वेनासत्त्वं निराकृतं, न हि दीपेन्द्रियादीनाम् इत्य् अत्र हेतोर् अनैकान्तिकत्वम् उक्तम् इति विवेक इति ॥ 217-218 ॥
नन्व् अस्तु शब्दातिरिक्तम् अर्थरूपम्. तत् तु सम्बन्धग्रहणात् प्राक् शब्दाकारेण नावगतम्. उत्तरकालं तु तदाकारम् अवगम्यत इत्य् अतदाकारस्य तदाकारप्रतीतेर् मिथ्यात्वम् अत आह -- सम्बन्धस्ये ति. नित्यो हि वाच्यवाचकसम्बन्ध इति पूर्वम् अपि तच्छब्दवाच्यशक्तिर् आसीद् एव. परस्तात् त्व् अभिव्यक्ता.{1,282}एतावच् च तदानीम् अपि शब्दाकारत्वं न तदात्मता. अतो नातदाकारं तदाकारतया गम्यत इति कुतो भ्रान्तिः. शब्दसम्बन्धमात्रेण चेदं शब्दाकारत्वम् उच्यते. न तु शब्दात्मकतया, नित्यं यदि च गोत्वादीत्य् अत्र शब्दात्मकत्वम् अङ्गीकृत्य भ्रान्तित्वं निराकृतम् इति विवेकः. अरूपता अशब्दरूपतेत्य् अर्थः. कथं पुनर् इदम् अवगम्यते सम्बन्धग्रहणात् प्राग् अपि तद्रूपम् आसीद् इति, अत्राह -- युगपद् इति. न हि युगपद् एव सर्वे शब्दासम्भिन्नम् अर्थं बुध्यन्ते. यदैव ह्य् एको ऽशब्दाकारम् अर्थं प्रत्येति, तदैव व्युत्पन्नो गौर् अयम् इति विकल्पयति. अतो नातद्रूपस्य तद्रूपतया ग्रहणम् इति
अत्र चोदयति -- तदाकार इति.
यथैव ह्य् अतदाकारो न सर्वैर् अवगम्यते ।
तदाकारो ऽपि न तथा सर्वैर् इति कथं तथा ॥
इति. परिहरति -- द्वये सती ति. परीक्षास्वरूपं दर्शयति -- किन् न्व् इति
निर्णयम् आह -- सदसद्भावयोर् इति. तदाकारत्वम् अस्ति नास्ति चेति नोपपद्यते, विद्यमानस्य तु शक्त्यशक्तिभेदाद् उपलम्भानुपलम्भौ युक्तौ. शक्तिसदसद्भावाव् अपि तदाधारभेदाद् उपपन्नाव् एवेति विद्यमानैव तदाकारता अशक्तैर् नानुभूयत इति निर्णय इति
अत्रैव दृष्टान्तम् आह -- यथे ति. रूपस्य ग्रहणे ग्रहीतृभेदात् शक्ताशक्तत्वं यथेत्य् अर्थः. एतच् च सम्बन्धपरिहारे ऽभिधास्यत इत्य् आह -- इत्यभिधास्यत इति. इतिर् इदम् अर्थे. शक्ताशक्तत्वे विभजते -- तेने ति. येनेयं{1,283}शक्तितो व्यवस्थोपपत्तिमती तेन शब्दोपायकस्य ग्रहीतुः शब्दाकारा धीर्नेतरस्येति विवेकः
अत्र चोदयति -- देवदत्तादी ति. तुशब्दः पूर्वोक्तनिवृत्तौ. नित्यस् तु स्याद् इतिवत्. यद् एतद् उक्तं प्राग् अपि शब्दाकार एवासाव् अर्थ इति तदव्यापकं, देवदत्तादीनां कल्पनास्वसम्भवात्, तत्र ह्य् आदिमान् सम्बन्धः. अर्थो ऽपि देवदत्तादिर् अनित्यः. अतः पूर्वापरयोः कोट्योः प्रसंख्यानात् ताद्रूप्यं शब्दरूपत्वम् अनित्यम्. अतो ऽवश्यम् एव तत्रातदाकारं तदाकारतया कल्प्यत इति मिथ्यात्वम् इति
परिहरति -- तत्रापी ति. देवदत्तशब्दो ऽपि देवा एनं देयासुरित्याशिषा लब्धम् अर्थं निजयैव शक्त्या वदति. एवं चैत्रादिशब्दा अपि नक्षत्रग्रहादिनिमित्ता गवाश्वादिशब्दवन्नित्यसम्बन्धा एवेति तद्वद् एव नातदाकारता तद्रूपप्रत्ययं प्रतीति देवैर् दत्तो यो ऽर्थः स तस्यार्थः अतस् तदर्थरूपप्रत्ययं प्रति ग्राह्यग्राहकयोर् वाच्यवाचकयोर् औत्पत्तिक्य् एव शक्तिः, नियोगमात्रं तु यदभिनवे पिण्डे तदनित्यम्. न च तदनित्यतया शब्दार्थसम्बन्धस्यानित्यता भवति. शब्दस्यातदर्थत्वाद् इति
यत्र तर्हि पिण्डे नियोगवशाद् एव देवदत्तादिशब्दा अ(?न)न्वर्था एवम् वर्तन्ते. डित्थादिशब्दाश् चानुगमशून्याः तत्र कथं सत्यत्वं, तत्र हि शब्दात्मनैवार्थो विकल्प्यते न त्व् अर्थसमवायि किञ्चिद् विशेषणम् अस्ति. सैव च नामकल्पनेत्य् उच्यते. अन्वर्थत्वे तु यथासम्भवं कर्मादिकल्पनैव दर्शयितव्या. अतः पुनर् अपि नामकल्पनं मिथ्येत्य् आपतितं तद् इहैकेषां मतेनाभ्युपगमेनैवोत्तरम् आह -- तत्रे ति
{1,284} स्वमतेन परिहारम् आह -- यदा त्व् इति. सत्यम् अतद्रूप एवासौ पिण्डः परस्ताद् अपि न शब्दाकारेणावसीयते. किन् तु तदवस्थैव संज्ञा, यादृशो ऽसाव् अर्थः पूर्वम् अवगतस् तादृशस्यैव तस्य स्मरणे हेतुः. अतो नान्यद् अन्याकारेण प्रतिपन्नम् इति कुतो मिथ्यात्वम्. कथं तु नामकल्पनायां डित्थो ऽयम् इति सामानाधिकरण्यबुद्धिः. अर्थसमवायिना हि विशेषणेन नीलोत्पलादिषु सामानाधिकरण्यं दृष्टम्. एकान्तभिन्नगोचरयोस् तु शब्दार्थबुद्ध्योः कथं सामानाधिकरण्यम् इति वक्तव्यम्. अतो भ्रान्तिर् एवेयम्. मैवम्. उक्तं हि -- नात्र शब्दाकारं वस्तु चकास्तीति. डित्थो ऽयम् इति नायम् अर्थः डित्थशब्दात्मको ऽयम् इति. न हीयम् ईदृशी प्रतिपत्तिर् इति. अपि तर्हि डित्थ इति नामास्येति. अतो न नामकल्पना भ्रान्तिर् इति
अन्यन् मतं - प्राग् अपि नामनियोगान् नामाकारग्राह्यशक्तिर् अर्थस्यासीद् इति. अत्यन्तासत्या गगनकुसुमवद् भावयितुम् अशक्यत्वात्. नियोगे तु कृते ऽसौ शक्तिर् अभिव्यज्यते परम्. अतः प्राग् अपि तद्रूपसद्भावे ऽस्ति प्रमाणम् इति न पाररूप्यं, तद् एतद् आह -- नियोगाद् इति
एतद् एव प्रपञ्चयति -- सर्वाकारे ति. अस्ति हि सर्वशब्दपरिच्छेद्य[703]ताशक्तिर् अर्थस्य. यत्र हि डित्थडवित्थयोर् अन्यतमः शब्दो नियुज्यते स एव तं गमयति. शब्दो ऽपि सर्वाकारार्थविज्ञानसमर्थ एव यत्रैव नियुज्यते तम् एव गमयति. तद् एवम् अनियमप्रसक्तौ नियममात्रं नियोक्त्रा पित्रादिना क्रियत इति
__________नोतेस्__________
[703] द्यश (ग)
{1,285} एवं तावत् सर्वप्रकारं पाररूप्ययुक्तिर् उत्सारिता. इदानीं स्मृतिसङ्करेणाप्रामाण्यसम्भावनां वारयति -- तत्रे ति सार्धेन. शब्दार्थसम्बन्धं स्मरतो ऽपि वा प्रमातुर् या बुद्धिर् भवति नासाव् अप्रत्यक्षं, चक्षुषा सन्निकृष्टे ऽर्थे या बुद्धिर् भवति सा प्रत्यक्षं तदानीम् अपि चक्षुस्सन्निकर्षो ऽनुपरत एव. एवं स एवायं गौर् इति पूर्वगृहीतानुसन्धानाद् अपि जायमाना नेयम् अप्रत्यक्षं, प्रत्यक्षकारणस्य चक्षुषो ऽनुपरतत्वात्. तद् अत्र शब्दार्थसम्बन्धस्मरणपूर्वगृहीतानुसन्धानाभ्यां प्रत्यक्षत्वं न वार्यत इति प्रतिज्ञातः (?)परस्ताद् उपपादयिष्यत इति. न चात्र तेनेन्द्रियार्थसम्बन्ध इत्य् अनेन गतार्थत्वं तत्र स्मरन्न् अपि स्वधर्मेण विकल्पयन्नरः प्रत्यक्षवान् इति प्रतिज्ञातं केवलं, न तूपपादितम्. अत्र शब्दाध्यासनिरासपर्यन्तेन सन्दर्भेण स्वधर्मविकल्पः प्रसाधितः. इदानीं तु स्मरन्न् अपीत्य् अस्यार्थः प्रपञ्च्यते. तेन तद् ग्रहणकवाक्यम्. उत्तरस् तु तत्प्रपञ्च त्य् अनवद्यम्. इदं चानवहितानां चित्तम् अनुरञ्जयति नेतरेषाम् इति. कथं पुनः स्मृतिसम्भेदेनाप्रामाण्यम् अत आह -- विविक्ता एवे ति
विवेकम् एव दर्शयति -- स्मर्येते इति. शब्दसम्बन्धौ हि स्मर्येते अतस् ताव् अप्रत्यक्षौ न त्व् अर्थस्य प्रत्यक्षता वारयितुं शक्यत इति
नन्व् अर्थो हि पूर्वगृहीत एव गृह्यते. स एवायम् इति च प्रतिसन्धीयते. अतः कथं प्रत्यक्षो भविष्यतीत्य् अत आह -- गृहीतम् अपी ति. व्यतिरेकेण आधिक्येनेत्य् अर्थः
{1,286} आधिक्यम् एव दर्शयति -- व्यक्ती ति. पूर्वं हि व्यक्त्यन्तरे जातिर् अवगता इदानीं व्यक्त्यन्तरे ऽवगम्यते. तथा पूर्वेद्युर् अवगता अपरेद्युर् अवगम्यते निर्विकल्पकक्षणे ऽवगता सविकल्पकक्षणे ऽवगम्यत इत्य् अधिकपरिच्छेद्याभावाद् अस्ति मितेर् अवसरः. कालश् च यदिन्द्रियसम्बन्धार्थगोचरो ऽवगम्यते तदिन्द्रियजन्मनैव प्रत्यक्षेणावगम्यत इति तत्सम्बन्धस्य प्रत्यक्षत्वम् उपपन्नम् इति. तदप्रत्यक्षवादिनां तु चिरक्षिप्रादिप्रत्यया अनालम्बनाः स्युः. ननु त एव कालस्य लिङ्गम् अस्तु विषयस् त्व् अमीषाम् अभिधातव्यः. यदि द्रव्यादयः, न, तत् स्वरूपमात्रे ऽनुत्पादात्, तद्गोचरत्वे कालानुमानासम्भवात्. स्वांशपर्यवसानस्य च विज्ञानवादे निराकरिष्यमाणत्वाद् न स्वांशालम्बनत्वम्. अतो यद् अमीषाम् आलम्बन (?स।तत्) प्रत्यक्षाद् अवसीयत एव. कालेति. आदिशब्देनावस्थाभेदो गृह्यत इति. ननु न केवलम् अधिकं गम्यते किन् तु प्रागवगतम् अपीति कथं प्रामाण्यम् अत आह -- यः पूर्वे ति. सविलपके हि शब्दार्थस्वरूपसम्बन्धकालसम्बन्धाः प्रथन्ते. तत्र शब्दादिर् अंशो ऽस्मृतिविषय इति मा नाम प्रमाणविषयो भवतु. इदानीन् तनी तु वस्तुनः सत्ता न पूर्वम् अवधृतेत्य् अस्ति तत्र प्रमाणावसर इति स्थितं प्रामाण्यम् इन्द्रियव्यापारानुविधानाच् च प्रत्यक्षत्वम् इति. एकं चेदं पूर्वविज्ञानजनितसंस्कारप्रत्युत्पन्नेन्द्रियादिकारणकं ग्रहणस्मरणात्मकं प्रत्यभिज्ञानाभिधानं प्रमाणम् इति वेदितव्यम् इति
नन्व् इदं भवत्य् अधिकविषयं, स्मरणोत्तरकालं भवत् कथं प्रत्यक्षम्. न हि निर्विकल्पस्य प्रत्यक्षस्यैष धर्मो दृष्टः. अत आह -- न ही ति. न हि स्मरणात् प्राग्भाविता प्रत्यक्षलक्षणम्. अपि तर्हीन्द्रियजत्वम्. तच् चात्राप्य् अविशिष्टम् इति भावः
{1,287} यदि स्मरणेनेन्द्रियप्रवृत्तिर् एव वार्यते तदा दूष्यते. ततस् तदुत्तरकालं जायमानं सविकल्पकं प्रत्यक्षं भवेद् अपि. न त्व् एतद् अस्तीत्य् आह -- न चे ति
यतः स्मृत्या नेन्द्रियं विरुध्यते न वा दूष्यते. तेन प्रागूर्ध्वं वा स्मृतेर् यद् इन्द्रियार्थसम्बन्धाद् ज्ञानं जायते सर्वं तत् प्रत्यक्षम् अभ्युपगन्तव्यम् इत्य् आह -- तेने ति
ननु विदितशब्दार्थसम्बधाः सत्येवेन्द्रियार्थसम्बन्धे केचिद् एव तम् अर्थं जात्यादिना विकल्पयन्ति नापरे. अतस् तावत्सामग्रीकस्यैव कस्यचिद् अभावाद् अप्रतिबन्धककारणविशेषा भ्रान्तिर् एव सविकल्पकप्रत्यय इत्य् अत आह -- विमनस्का इति द्वयेन. अयम् अभिप्रायः -- न व्युत्पत्तीन्द्रियसम्प्रयोगमात्रजं ज्ञानं सविकल्पकं, तद् अपि सर्वसाधारणं मनःप्रणिधानाद्य् अपेक्षते. अतो यदि नाम कस्यचिद् विमनस्कस्य दूरसूक्ष्मसादृश्यादिविषयदोषाद् व्यामूढस्य नामुको ऽयम् इति विशदतरम् अवभासो भवति, नैतावता कुशलस्य सूक्ष्मसादृश्यादिविवेकचतुरस्यापि विभ्रमेण भवितव्यम् इति युक्तम् इति
अत्रैव दृष्टान्तम् आह -- यथा षड्जादी ति द्वयेन. तत्संस्कृतेति. षड्जाद्यभ्याससंस्कृतेत्य् अर्थः
{1,288} यथा षड्जादिष्व् अकुशलस्यापि विविक्ताकारबोधो भवति विना षड्जादिशब्दप्रयोगम्, एवं गोत्वाद्यविदितास्मृतशब्दैर् विविक्तम् उपलभ्यत एवेत्य् आह -- ते ही ति
नानाजातिगुणादिसङ्कीर्णं तु तदशब्दज्ञस्य विजातीयपिण्डविविक्तम् अवभासते. शब्दस्मरणसंस्कृतानां तु पिण्डविविक्तजात्यादिमात्रं निर्भासत इत्य् आह -- सङ्कीर्णम् इति
यत एव स्मरणतन्त्रा विकल्पाः, अतो यदा यच्छब्दस्मरणमाविरस्ति तेनैव तदा वस्तु विकल्प्यते. यथा चक्षुष्मदादिना रूपादि नेतरेण, चक्षुष्मतापि बधिरेण रूपमात्रं न शब्दः अनुपायत्वाद् इति. तद् एतत् सर्वम् आह -- यथे ति द्वयेन. विवेकहेतूनाम्. शब्दानाम् इत्य् अर्थः
अतः सिद्धं सविकल्पकम् अपि प्रत्यक्षम्. यावत् तु विवेकोपाया न शब्दा बुद्धा भवन्ति तावन्निर्विकल्पकं न तु तद् एवेत्य् आह -- तेने ति
{1,289} अतो यत् कल्पनापि स्वसंवित्ताव् इष्टा नार्थे विकल्पनाद् इति बौद्धैर् उक्तं तत् परधर्मविकल्पे ऽनुमन्यामहे न स्वधर्मजात्यादिविकल्पनेष्व् इत्य् आह -- तस्माद् इति
अतो लिङ्गलिङ्गिसामान्ययोस् तत्सम्बन्धस्य च सविकल्पकप्रत्यक्षवेद्यत्वाद् उपपन्नम् अनुमानादीनां प्रत्यक्षपूर्वकत्वम् इत्य् आह -- प्रत्यक्षत्वम् इति ॥
किं पुनः प्रयस्यता सविकल्पकस्य प्रत्यक्षत्वं साध्यते. निर्विकल्पकद्वारेणापि बौद्धादीनाम् इवानुमानादिव्यवहारो घटिष्यते अत आह -- सर्वं चे ति. यथा न निर्विकल्पकपूर्वकम् अनुमानाद्यात्मानं लभते, तदनुमाने ऽभिधास्यत इति
अत्र चोदयति -- नन्व् एवम् इति. यदीन्द्रियव्यापारानुपरममात्राज् जात्यादिविकल्पानां प्रत्यक्षत्वम्, एवं तर्हि विस्फारिताक्षो दूराद् उष्णो ऽयम् इति वह्निं विकल्पयति. तद् अपि प्रत्यक्षम् आपद्यते इन्द्रियव्यापाराविरामाद् इति
परिहरति -- प्रत्यासन्ने ति. अयम् अभिप्रायः -- अग्निसंवेदन एव तत्रेन्द्रियव्यापार उपक्षीणः. अग्नित्वाद् एव व्याप्तिबलेनानुमानिकोष्णविकल्पो जायते. गोत्वे तु नेन्द्रियव्यापारतः प्रत्यासन्नम् अर्थान्तरं प्रत्यक्षत्वेन{1,290}सम्मतं किञ्चिद् अस्ति येन तद् एव प्रत्यक्षं नेतरद् इत्य् उच्यते. अतो गोत्वम् एव प्रत्यक्षम् इति
यद् अपि तत्रापि दूराद् गोमहिषादिसंशये शब्दविशेषादिना गोत्वादिनिश्चयो भवति, सो ऽक्षसम्बन्ध आनुमानिक एव न तु प्रत्यक्ष इत्य् आह -- तत्रे ति
अपि च संवित्पराहतम् एवारादुष्णविकल्पस्य प्रत्यक्षत्वम्. अपरोक्षा हि बुद्धिः प्रत्यक्षं, तद् यदा स्पर्शेन्द्रियेणोष्णम् अनुभूयते तदा त्व् अपरोक्षाकारा बुद्धिर् इति भवति प्रत्यक्षं, चक्षुषा वह्नौ प्रकाशिते भवन्ती परोक्षावभासित्वान् न प्रत्यक्षम् इत्य् आह -- स्पर्शनेने ति
अतः स्वेन्द्रियानुसारेणैव प्रत्यक्षता. इन्द्रियान्तरं त्व् असत्कल्पम् एवेत्य् आह -- तस्माद् इति
कथं पुनः समानजन्मनोर् उष्णाग्निविकल्पयोर् एकं प्रत्यक्षम् इतरच् चानुमानिकम्, एवं हि प्रत्यक्षं लक्षयतालौकिकम् एव प्रत्यक्षं लक्षितं भवेद् अत आह -- एवम् इति. नेदम् अलौकिकं यत्र ह्य् अपरोक्षावभासबुद्धिः तत् प्रत्यक्षम् इति लक्षणाद् विनापि लौकिका मन्यन्ते. अक्षसम्बन्धो ऽपि{1,291}चापरोक्षावभासौपयिकतयैव लक्षणकारैर् अपि प्रत्यक्षलक्षणत्वेनाश्रीयते न स्वरूपेण. अतो यत्राग्नावक्षसम्बन्धफलम् अपरोक्षावभासित्वम् अनुस्रियते तस्य प्रत्यक्षता नेतरस्येति सिद्धम्
मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0