भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसाश्लोकवार्त्तिक · अध्याय 3

3.1

__________नोतेस्__________
[603] धाव् अनर्था (ग)
[604] दकत्वा (क)
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
चोदनासूत्रं समाप्तम्
03 निमित्तसूत्र
{1,201} तस्य निमित्तपरीष्टिर् इति सूत्रम्. तस्यायम् अर्थः -- तस्य धर्मस्य यन्निमित्तं प्रमाणं चोदनाभिधानं, तत्परीष्टिः कर्तव्येति. पाक्षिकी च परीष्टिपदरूपसिद्धिः. तथा हि इषु गतौ इत्य् अस्माद् धातोः इषेर् अनिच्छार्थस्य इति युचि विहिते परेर् वा इति क्तिन्युचोर् विकल्पः स्मर्यते. तेन युज्विधौ पर्येषणेति भवति. क्तिनि तु परीष्टिर् इति. अत्र वदन्ति -- किम् इदम् अनवसर एव परीक्षाप्रतिज्ञानम्. चोदनालक्षणो ऽर्थो धर्म इति हि प्रतिज्ञातम्. अतस् तदुपपादनसमर्थहेतुवचनावसरे किम् अपरं निमित्तपरीक्षा प्रतिज्ञायते. न हि नैयायिकाः शब्दो ऽनित्य इति प्रतिज्ञाय तद् एतत् परीक्षामहे इति परीक्षाम् अवतारयन्ति, अपि तर्हि सहसैव कृतकत्वाद् इति हेतुम् अभिदधति. तद् इहापि चोदनासूत्रप्रतिज्ञातावधारणद्वयोपपादनाय सदौत्पत्तिकसूत्राभ्यां हेतुवचनम् उचितम्. किम् अन्तरा परीक्षाप्रतिज्ञानेन. यदि मतं - परार्थप्रतिज्ञास्वयं न्यायः यत् प्रतिज्ञानन्तरम् एव हेत्वभिधानं, स्वप्रतिपत्तौ तु न हेतुधर्मा योजयितव्या इति. तन् न. न हि जैमिनेर् अपि स्वप्रतिपत्तये शास्त्रनिर्माणम्, अन्यतो विदितवेदार्थः शिष्यहितार्थाय सूत्राणि प्रणीतवान्. अतो ऽत्रापि परार्थैव प्रतिज्ञा. अथो[605]च्यते -- द्वेधा हि परः, व्युत्थिताव्युत्थितभेदात्. तत्र व्युत्थितप्रतिपादने प्रतिज्ञानन्तरम् एव हेतुर् अभिधीयत इति न्याय्यम्.[606]उत्तरे तु परीक्षापुरस्सरम् एव हेत्वभिधानेन प्रतिपाद्यन्त इति. तन् न. लक्षणान्तरेष्व् अपि प्रसङ्गात्. भेदादिलक्षणेष्व् अपि यथास्वम् अर्थं प्रतिज्ञाय परीक्षाप्रतिज्ञानम् आपद्यते. न च तथा दृश्यते. कश् चैष न्यायः यद् विप्रतिपन्नाय प्रतिज्ञानन्तरम् एव हेतुर् उच्यते न शिष्येभ्य इति. प्रत्युत तान् एव प्रति लाघवाय प्रतिज्ञानन्तरम् एव हेतुर् वक्तुम् उचितः, किम् अन्तरा व्याक्षेपकरी प्रतिज्ञा निक्षिप्यत इति यत्किञ्चिद् एतत्. तस्माद् अयम् अत्र समाधिः -- इहाद्येन सूत्रेण शास्त्रस्य प्रयोजनं प्रतिज्ञातम्. द्वितीयेन च समस्तवक्ष्यमाणतन्त्रार्थसंक्षेपप्रतिज्ञानम्. अनेन तु सुखग्रहणार्थम् आद्याध्यायार्थप्रतिज्ञानम्. अथातः शेषलक्षणम्.[607](3.1.1) अथ विशेषलक्षणम् (8.1.1) इतिवद् ऋषिणा प्रणीतम्.{1,202}एतद् उक्तं भवति -- इहाध्याये धर्मप्रमाणं परीक्षिष्यामह इति. यद्य् अपि चोदनासूत्रेणापि समस्ततन्त्रार्थसंक्षेपे क्रियमाणे प्रमाणलक्षणार्थो ऽपि चोदनैव प्रमाणम् एवेति प्रतिज्ञात्ः, तथापि सङ्कीर्णे प्रतिज्ञाते
पुनर् अनेन निष्कृष्याद्याध्यायार्थः प्रतिज्ञायते. अनिष्कृष्यमाणे हि प्रतिज्ञासङ्करेण[608]न ज्ञायते कस्य प्रतिज्ञाभागस्य सदौत्पत्तिकसूत्राभ्यां हेतुर् अभिधीयत इति. बह्व् एव हि तत्र प्रतिज्ञातं धर्मस्वरूपादि. अतस् तत्रापि हेत्वभिधानम् इदम् इति कश्चिद् भ्राम्येत्. अतस् तद्भ्रमापनुत्तये स्वयम् एव निर्धारणं दर्शयति. यो ऽयं तन्त्रार्थः संक्षिप्यास्माभिः प्रतिज्ञातः, तस्मिन् व्याख्यास्यमाने निमित्तपरीक्षैव तावद् इहाध्याये वर्तिष्यते प्रमाणपुरस्सरत्वात् प्रमेयसिद्धेः. तद् इह तावच् चतुर्विधा परीक्षा वर्तिष्यते -- किं चोदनैव उतान्यद् एवेति नियमः, चोदना वान्यद् वेति विकल्पः, उभयं वेति समुच्चयः, न चोभयम् इत्य् उभयापलापः. आह च --
__________नोतेस्__________
[605] त्रो (ग)
[606] यः. (क)
[607] म् इति (ग)
[608] रे न (ग)
निमित्तान्वेषणा चेह चतुर्धैव करिष्यते ।
चोदनैवान्यद् एवेति यद् वान्यच् चोदनापि वा ॥
अथवा चोदनान्यच् च न चान्यन् नापि चोदना ।
इति. तद् एते नियमविकल्पसमुच्चयोभयापलापैश् चत्वारः पक्षा भवन्ति. भवति च प्रमाणविकल्पः. यथाराद् अवस्थितम् अग्निं कदाचिल् लिङ्गाद् अवैति. कदाचिद् आप्तोपदेशात्. न च समुच्चये ऽन्यतरवैयर्थ्यम्, ईश्वरमहर्षयो हि प्रत्यक्षेण धर्मम् अवयन्ति आगमेनेतर इति प्रमातृभेदाद् उभयोपपत्तिः. भाष्यकारेण तु प्रदर्शनार्थं किं चोदनैव उतान्यद् अपीति दर्शितम्. परीक्षमाणस्य हि चतुर्धैव प्रतिभा जायते. तद् इह प्रत्यक्षसूत्रे तावत् प्रत्यक्षादिनिषेधेन प्रतिपक्षनियमविकल्पसमुच्चयाः प्रत्युक्ताः. उभयापलापस् तु चोदनाप्रामाण्यसमर्थनेनौत्पत्तिकसूत्रे निरसिष्यते तत् प्रमाणम् अनपेक्षत्वाद् इति. तद् अयं निमित्तपरीक्षासंक्षेपो भवति -- प्रत्यक्षादिव्युदासेन चोदनैवेत्य् अवधारणसिद्धः, अभावाशङ्कानिराकरणेन च प्रमाणम् एवेति, शब्दार्थसम्बन्धवाक्यरचनापौरुषेयत्वप्रतिपादनेन च पुरुषानुप्रवेशसम्भाविताप्रामाण्यव्युदासः, तद्भूताधिकरणेन{1,203}च वाक्यार्थसंविन्मूलोपपादनम्, उपरिष्टात् तु मन्त्रार्थवादप्रामाण्यप्रकारकथनं, स्मृतिपादेन च मन्वाद्याप्तस्मृताचरितागृह्यमाणकारणकाष्टका होलाकादिपदार्थानां मूलवेदसद्भावोपपादनं, नामधेयपादेन चोद्भिदादिनाम्नां गुणपराणाम् एव नामधेयतयैव क्रियोपयोगकथनम् इति कृत्स्न एवाध्याये धर्मस्य निमित्तपरीक्षेति सूक्तं तस्य निमित्तपरीष्टिर् इति.
अत्र भाष्यम् उक्तीमदम् अस्माभिश् चोदना निमित्तं धर्मज्ञाने इति तत् प्रतिज्ञामात्रेणोक्तम् इत्यादि. तद् अयुक्तम्, सोपपत्तिकप्रतिज्ञाभिधानात्. तथा हि -- चोदना हि भूतम् इत्यादिना चोदनाप्रामाण्योपपत्तिर् उक्तैव, नान्यत् किञ्चनेन्द्रियम् इति चान्याप्रामाण्योपपत्तिः. अतः कथम् उच्यते तत् प्रतिज्ञामात्रेणोक्तम् इति, अत आह -- प्रतिज्ञे ति सार्धेन. अस्यार्थः -- यद्य् अपि भाष्यकारेणानागतावेक्षणेन सदौत्पत्तिकसूत्राभ्यां वक्ष्यमाणा स्वपक्षस्य युक्तिः प्रतिज्ञाव्यतिरिक्ता दर्शिता, तथापि न सूत्रकारेण काचिद् उपपत्तिर् उक्तेति तन्मतानुसारेण प्रतिज्ञामात्राभिधानम् इति

3.2

समर्थनान्तरम् आह -- वृत्तिकार इति. अस्यार्थः -- यत् तु चोदना हीत्यादिना भूताद्यर्थप्रकाशनसामर्थ्यं चोदनायाः कृतं, तत् प्रामाण्यद्वारमात्रम् एव कथितम्. पारमार्थिकी युक्तिर् उपरिष्टाद् वक्ष्यते सूत्रकारेणैव. अतो वक्ष्यमाणयुक्त्यधिकम् एव तत् प्रामाण्यसम्भावनामात्रम् अभिहितम्. सम्भावितो हि प्रतिज्ञायां पक्षो हेतुना साध्यते, न त्व् असम्भावित इति स्वाभिप्रायेणापि प्रतिज्ञामात्राभिधानोपपत्तिर् इति

मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc