भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसाश्लोकवार्त्तिक · अध्याय 2

2.1

__________नोतेस्__________
[200] र्गिणां चा
[201] प्रदर्शनेना
[202] त्वाद् अप (ख)
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
प्रथमसूत्रं समाप्तम् ॥02चोदनासूत्र
{1,59} चोदनालक्षणो ऽर्थो धर्मः इति शास्त्रारम्भसूत्रम्. तद् व्याचष्टे -- धर्म इति. अयम् अभिप्रायः -- प्रथमसूत्रे हि विशेष[203]धर्मजिज्ञासा प्रतिज्ञाता, तदभिप्रायेण को धर्म इति पृष्टम्. विशेषश् च प्रमाणविशेषात् सिध्यति. पाषण्डागमे हि प्रमाणे चैत्यवन्दनादयः क्रियाविशेषा धर्मा भवन्ति. वेदागमे तु यागादयः. तद् इह सामान्यतः सिद्धधर्मोद्देशेन प्रमाणविशेषश् चोदना विधीयते. ततश् च धर्मविशेषसिद्धिः. यस् तु सामान्यात्मा धर्मस्य प्रीतिसाधनत्वं, सो ऽविवादसिद्ध एव सर्ववादिनाम्. न हीह केचिद् विवदन्ते यः प्रीतिसाधनं धर्म इति. तथा च नृगुणवादिनो यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः इत्य् आहुः. शुभा चित्तवासनेति सौगताः. पुण्याः पुद्गला इत्य् आर्हताः. सर्वे चैते प्रीतिसाधनतयैव तैर् धर्मा इष्यन्ते. अत एव चास्यां वचनव्यक्ताव् अर्थशब्दो ऽनुवाद इति वक्ष्यति लभ्यते ऽर्थानुवादेन इति. एषैव चात्र वचनव्यक्तिर् वार्त्तिककारस्याभिमता. इतरथा अर्थशब्दस्य विध्यनुवादयोर् असम्भवः इति वक्ष्यति.[204]ननु च स्वरूपविशेषे ऽपेक्षिते प्रमाणविशेष[205]विधानम् असङ्गतम्, अत आह -- स्वरूपादेर् इति. धर्मपदार्थस्येदं प्रमाणम् इत्युक्ते प्रमाणाधीनत्वात् प्रमेयसिद्धेर् अर्थाद् इदम् उक्तं भवति यच्चोदनाप्रवेदितं तद् धर्मस्वरूपम् इति. आदिशब्देन तदाभासम् उपादत्त इति. यस् तु विवक्षिततिरोधानमुक्तम् इति मन्यते, तं प्रत्याह -- स्वरूपम् इति. सामान्यतः सिद्धधर्मस्य स्वरूपविशेष इह सूत्र्यते इति

2.2

__________नोतेस्__________
[203] षजि (क)
[204] तीति
[205] षाभिधान (ख)
नन्व् एवम् अन्यतरविधाव् अन्यतरस्याश्रौतत्वात् को धर्मः कथंलक्षण इत्य् एकेनैव सूत्रेण व्याख्यातम् इति भाष्यं नोपपद्यते, अत आह -- द्वयम् इति. एकत्र श्रुत्युपात्ते अपरम् अर्थाद् व्याख्यातं भवतीति{1,60} प्रमाणविधाव् अर्थात् स्वरूपसिद्धिर् उक्ता. स्वरूपविधाव् अपि प्रमाणम् अर्थात् सिध्यतीत्य् आह -- स्वरूप इति. यश् चोदनालक्षणः स धर्म इत्युक्ते ऽर्थाच् चोदना धर्मे प्रमाणम् इत्य् उक्तं भवति. न ह्य् अप्रमाणकं वस्तु स्वरूपकॢ[206]प्त्यै प्रभवतीति

2.3

__________नोतेस्__________
[206] सिद्ध्यै प्र
अत्र भाष्यकारेण चोदनेति क्रियायाः प्रवर्तकं वचनम्[207]इति चोदनापदार्थो व्याख्यातः. तद् अयुक्तं, प्रवर्तकस्य चोदनात्वात् प्रत्ययस्य लिङादेस् तत्त्वाद् अत आह -- किम् आदी ति. अयम् अभिप्रायः -- सत्यं प्रत्ययमात्रस्य प्रवर्तनात्मको विधिर् अर्थः. न तु तावन्मात्रस्य प्रवर्तकत्वं, स्वव्यापरे हि पुरुषः कर्तृत्वेन नियुज्यते. अंशत्रयात्मिका च भावना तद्व्यापारः. अतः समानप्रत्ययोपादानश्रुतिबलप्रतिलब्धभावनापरिरम्भो विधिरातदीयनिखिलविशेष[208]णलाभाद् न नरं प्रवर्तयितुम् उत्सहते. सकलतद्विशेषणलाभश् च नर्ते वाक्यात् सिध्यतीति युक्तमुक्तं प्रवर्तकं वाक्यं चोदनेति.[209]एवं चावयवार्थः किम् इति साध्याकाङ्क्षां निर्दिश्यादिशब्देन साधनेतिकर्तव्यताकाङ्क्षे निर्दिशति. एतद् उक्तं भवति -- किं केन कथम् इत्य् अनेनात्मनापेक्षितैः साध्यादिभिः पूर्णः प्रत्ययः प्रवृत्तिपर्यन्ते विधौ समर्थः, तद्रहितस्य भावस्यानुष्ठानायोग्यत्वात्. तत्पूरणं चेदम् अनेनेत्थं कुर्याद् इति वाक्याद् इति वाक्यम् एव चोदनेति

2.4

__________नोतेस्__________
[207] म् आहुर् इति
[208] षसम्पदो न (क)
[209] ष चा
अत्र भाष्यकारेण चोदनायास् तदितरेषां च प्रमाणानां धर्मे प्रामाण्या[210]प्रामाण्यप्रदर्शनार्थम् उक्तं चोदना हि भूतम् इत्यादि. तद् अयुक्तं, सूत्रकारेण सदौत्पत्तिकसूत्राभ्यां वक्ष्यमाणत्वाद् भाष्यकारस्यापि तत्रैव तद्विवरणम् उचितम्.[211]अतः किम् अत्राक्षेत्रे क्लेशेनात आह -- चोदने ति. अयम् अभिप्रायः -- चोदनालक्षण इति समासपदम्. समासश् च सति सामर्थ्ये भवति. विशेषणविशेष्यार्थवचनं च पदानां सामर्थ्यम्. न च व्यवच्छेदादृते{1,61}पदानां विशेषणविशेष्यभावः. अतश् चोदनालक्षणत्वयोर् इतरेतरव्यवच्छेदात् चोदनैव प्रमाणं, प्रमाणम् एव चोदनेत्यवधारणद्वयम् अत्र विवक्षितम्. तच् चोपपत्तिसाकाङ्क्षम् इति मीमांसागोत्रानुसारी भाष्यकारो ऽनुपपत्तिकार्यं वचनं क्षणम् अप्य् अक्ष[212]ममाणः प्रतिज्ञासूत्र एव सम्भावनाप्रसिद्ध्यर्थम् अवधारणद्वये युक्तिलेशम् अस्पृशद् इति

2.5

__________नोतेस्__________
[210] ण्यप्र
[211] त (ख)
[212] सहमानः प्र
तत्र प्रमाणम् एतेत्य् अवधारणायां तावद् युक्तिलेशम् आह -- सम्भाव्यत इति. एवंविधेष्व् अतीन्द्रियेष्व् अप्य् अर्थेषु शब्दस्य प्रामाण्यं सम्भाव्यते. अतः प्रतिज्ञायां सम्भावितं प्रामाण्यं हेतुनोपपादयिष्यत इति. चोदनैवेत्यवधारणे युक्तिलेशं दर्शयति -- इन्द्रियादेर् इति. वक्ष्यति हि सत्सूत्रेणेन्द्रियादेर् असामर्थ्यं तदनागतावेक्षणेन[213]भाष्यकृतेह कथितम् इति

2.6

__________नोतेस्__________
[213] न क
कथं पुनः शब्दस्य प्रामाण्यं सम्भाव्यते, अत आह -- अत्यन्ते ति. अर्थगोचरज्ञानजननशक्तिर् हि प्रमाणानां[214]प्रामाण्यम्. सा चैवं नाम शब्दानां व्यापिनी यदत्यन्तासत्य् अपि गगनकुसुमसंसर्गादौ धियम् उपजनयतीति युक्ता तेषु प्रामाण्यसम्भावनेति. नन्व् एवं तद्वद् एवाप्रमाण्यम् आपद्यत इति प्रामाण्यं साधयतो ऽप्रामाण्यम् आपतितम्, अत आह -- तेने ति. अयम् अभिप्रायः -- उत्सर्गो हि ज्ञानजननेन[215]प्रामाण्यम्. तत् पौरुषेयेषु शब्देषु वन्ध्यासुतो यातीत्यादिषु. तद् दोषाद् अपोद्येतापि. अपौरुषेये तु[216]शब्दे पुन्दोषाभावात् स्वयमदुष्टत्वाच् च प्रमाणतैवानपोदिता सेत्स्यातीति

2.7

__________नोतेस्__________
[214] प्रमाणत्वं सा (ख)
[215] ने प्रा
[216] तु पु (क)
अत्र चोदना हि भूतम् इत्यादिभाष्ये[217]चोदनापदेन शब्दमात्रं विवक्षितम् इत्य् आह -- चोदने ति. कारणम् आह -- न ही ति. विधायको हि{1,62}शब्दो मुख्यश् चोदनापदार्थः. न चासौ भूतादिविषयः सम्भवतीति शब्दसामान्यं लक्षयतीति

2.8

__________नोतेस्__________
[217] ष्यं तद् इह चो (ख)
इतश् चैतद् एवम् इत्य् आह -- इन्द्रिये ति. समानजातीययोर् एव स्पर्धार्हत्वात् शब्दमात्रम् एव प्रत्यक्षादिसामान्येन स्पर्धाम् अर्हति, न तद्विशेषः. भवति हि सम्प्रधारणा किं लौहमानीयताम् उत दारवम् इति. न तु किं लौहम् उत खादिरम् इति

2.10

अत्र भाष्यकारेण लक्ष्यते येन तल्लक्षणम् इति लक्षणपदार्थो विवृतः. तद् इदं निमित्ताभिप्रायं प्रमाणाभिप्रायं वेत्य् आह -- निमित्तमात्रम् इति. प्रमाणं वेत्य् अत्रापि पक्षे शिष्यबुद्धिप्रथिम्ने प्रमाणविकल्पान् आह -- प्रमाणं वे ति. प्रमाणं वेत्य् अत्रापि पक्ष इत्य् अर्थः. प्रमाणं हि कारकविशेषः. विवक्षातश् च कारकप्रवृत्तिः. अतो यद् एव शब्दादीनां वाक्यार्थज्ञा[218]नावसानानां मध्ये प्रकृष्टसाधक[219]तया विवक्ष्यते तत् प्रमाणम् इति. प्रमाणप्रसङ्गेन फलम् अपि दर्शयति -- पूर्वेषाम् इति. शब्दादीनां प्रामाण्ये वाक्यार्थज्ञानं फलम्. आन्तरालिकं तु करणव्यापारतया प्रतिपादयितव्यम्. वाक्यार्थज्ञाने तु प्रमाणे हानादिबुद्धिः फलम् इति विवेचनीयम् इति

2.11

__________नोतेस्__________
[218] ज्ञानानां (ख)
[219] न
ननु प्रमाणपक्षे ज्ञानम् अपि लक्षणपदार्थः. तद् धि प्रमाणम्.[220]अतः कथं शब्दविशेषवाचिना चोदनापदेन सामानाधिकरण्यम् अत आह -- ज्ञान {1,63}इति. अस्यार्थः - न[221]तावद् ज्ञानम् एव प्रमाणम् इति नियमः. विवक्षावशेन हि शब्दादीनां प्रामाण्यम् उक्तम् एव. अपि च यदि ज्ञानम् एव प्रमाणं तद्विवक्षया च लक्षणशब्दः प्रयुक्तः, तथापि चोदनाशब्देन तद्गोचरं ज्ञानं तत्कार्यं लक्ष्यते यदि तद्विवक्षया लक्षणशब्दप्रयोगः. अथ तु पदार्थज्ञानादिविवक्षया, तदा शब्दकार्यस्य[222]ज्ञानस्य यद् अपरं[223]कार्यं पदार्थज्ञानादि तच् चोदनापदेन लक्ष्यते. अस्ति हि कार्यकार्यस्यापि परम्परया सम्बन्धो लक्षणाबीजम् इति

2.12

__________नोतेस्__________
[220] णं तत् क (क)
[221] नावश्यज्ञा
[222] स्य य
[223] परं प
निमित्तार्थे तु लक्षणपदे शब्दे च प्रमाणे मुख्यार्थयोर् एव द्वयोर् अपि सामानाधिकरण्यम् इत्य् आह -- निमित्ते ति

2.13

अत्र चोदनैवेत्यवधारणे धर्मस्येन्द्रियादिगोचरत्वम् अपाकृतम्. तद् अयुक्तं, द्रव्यादिर् हि धर्मः. स चैन्द्रियिक एवेति प्रत्यक्षसूत्रे वक्ष्यते, अत आह -- द्रव्ये ति. अयम् अर्थः -- सत्यं द्रव्यादयो धर्माः. न तु स्वरूपेण किन् तु श्रेयस्साधन[224]तारूपेण. अतो न तदैन्द्रियिकम् इति न धर्मस्येन्द्रियगोचरत्वापत्तिः. आदिशब्देनाकृतेर् उपादानम् इति

2.14

__________नोतेस्__________
[224] नरू
केन तर्हि रूपेणामी धर्माः यद् वेदवेद्यम् इति, तद् दर्शयति -- श्रेय इति त्वम् अन्तेन. श्रेयस्साधन[225]शक्त्यात्मना हि द्रव्यादयो धर्माः. न तद्रूपम् अमीषां वेदादृते शक्यते ऽवगन्तुम्. न हि गोदोहनेन पशुकामस्य प्रणयेत् इत्यादिश्रुतिम् अन्तरेण गोदोहनादयः श्रेयस्साधना इति प्रमाणान्तरं प्रक्रमत इति. प्रकृतम् अनैन्द्रियिकत्वं धर्मस्योपसंहरति तस्माद् इति

2.16

__________नोतेस्__________
[225] नत्वात्म (ख)
{1,67} अत्र भाष्यकारेण नान्यत् किञ् च नेन्द्रियम् इतीन्द्रियमात्रम् अशक्तं धर्म इत्य् उक्तम्. न चैतावता चोदनैवेत्यवधारणोपपत्तिः. अनुमानादिशाक्तिप्रसक्तेर् अनिवारितत्वात्, अत आह -- प्रदर्शनार्थम् इति. यथा हि सूत्रकारेण सर्वप्रमाणानिमित्तत्वे विवक्षिते तत्प्रत्यक्षम् अनिमित्तम् इति प्रत्यक्षमात्रस्यानिमित्तत्वम् उक्तं, तथा तच्छीलम् अनुविदधानेन भाष्यका[226]रेण प्रदर्शनार्थम् इन्द्रियमात्राशक्तिर् उपवर्णितेति. नान्यत् किञ्चेति वा प्रमाणसामान्यनिराकरणाय भाष्यं छेत्तव्यम् इत्य् आह -- नान्यद् इति. कथं पूर्वस्माद् विच्छिन्नं नेन्द्रियम् इति व्याख्येयम् अत आह -- तद् इति. इन्द्रियपूर्वकं हि सर्वम्[227]इतरदिन्द्रियाशक्तावशक्तम् इति भावः. नान्यद् इति वा सर्वार्थं छित्त्वा किञ्चेति हेतुं पृष्ट्वा नेन्द्रियम् इति पूर्ववद्धेतुतया वक्तव्यम् इत्य् आह -- किञ्चे ति

2.18

__________नोतेस्__________
[226] कृता प्र
[227] म् इन्द्रि (ख)
नन्व् अनुमानम् एवञ्जातीयकेषु समर्थम्, अनुमीयते खल्व् अङ्गारेभ्यो भूतो ऽग्नीन्धनसंयोगः. तथाचेन्धनाग्निसंयोगाद् भविष्यदङ्गारावगमः. विप्रकृष्टश् च धूमाद् अग्निः. कुड्यादिव्यवहितश् च स्वरेण पुत्रः. गन्धाच् च सूक्ष्मद्रव्यावगमः. अतः कथं सर्वनिषेधसिद्धिर् अत आह -- यद्य् अपी ति द्वयेन. सत्यं भूतादाव् अनुमानं समर्थं, न तु तद् विना सम्बन्धबोधम् उभवति. सम्बन्धश् च[228] क्वचित् सामान्यतो ऽवगम्यते, यथाग्निसामान्येन धूमसामान्यस्य.[65]क्वचिद्विशेषतः, यथा रोहिणीकृत्तिकयोः. न च द्विधापि किञ्चिल्लिङ्गं नित्यातीन्द्रियेण धर्मेण सम्बद्धम् उपलब्धं, येनानुमानं भवेद् इति

2.19

__________नोतेस्__________
[228] न्धबोधश् च (क)
अत्र चोदयति -- नन्व् इति. शब्दो ऽपि नागृहीतसम्बन्धः
प्रतिपादकः, बालानाम् अनवगतेः. अतः कथं शब्दमयी चोदना धर्मे प्रमाणं भविष्यतीति. परिहरति -- पदम् इति. ततः किम् अत आह -- न त्व् इति. [229]कस् तर्ह्य् असौ अत आह -- वाक्यार्थ इति

2.20

__________नोतेस्__________
[229] को ऽसौ
ननु च न वाक्यम् अपि सकलवर्णपदोपसंहारातिक्र[230]मेण किञ्चिदतीन्द्रियं तत्त्वम्, अपि तर्हि संहत्यार्थम् अभिदधति पदान्य् एव. अतः कथम् अगृहीतसम्बन्धं वाक्यं वाक्यार्थस्य वाचकं भविष्यतीति, अत आह -- वाक्यस्ये ति. स्याद् अयं दोषो यदि वाक्यं वाचकम् इत्य् अभ्युपेयते, न त्व् एतद् एवम् इति. कुतस् तर्हि वाक्यार्थावगतिः, अत आह -- पदार्थानाम् इति. ते वा कथम् अगृहीतसम्बन्धास् तं गमयिष्यन्ति. न ह्य् अन्यस्य दर्शने ऽन्यकल्पना युक्ता, अतिप्रसङ्गात्. अन्यम् अपि तत्प्रतिबद्धं[231]विद्वान् अन्यम् अनुमिनोति इति प्रतिबन्धबलाद् उचितम् अत आह -- सम्बन्धे ति. सम्बन्धदर्शननिरपेक्षाणाम् एव पदार्थानां वाक्यार्थे ज्ञातव्ये तद्भावभावेन तद्भूताधिकरणे हेतुत्वम् उपपादयिष्यत इति

2.21

__________नोतेस्__________
[230] रेकेण
[231] न्धं वि
अत्रापरं भाष्यं, नन्व् अतथाभूतम् अप्य् अर्थं ब्रूयाच् चोदना, यथा यत् किञ्चन लौकिकं वचनं नद्यास् तीरे फलानि सन्तीत्य् एवमादि. तद् अयुक्तम्. कथं हि यादृशतादृश[232]रथ्यापुरुषवाक्यम् उपमानं चोदनायाः. अपौरुषेयी हि सा. पुरुषाश्रया हि शब्दे दोषाशङ्का. अतः कथम् अतथाभावशङ्का.
__________नोतेस्__________
[232] शानुगुणर (ख)
अत्र केचिद् आहुः -- शब्दशक्तिनिरूपणद्वारेण प्रतिज्ञाक्षेपार्थम् इदं भाष्यम्. अत्र किल चोदनासूत्रेण कार्यरूपो वेदार्थ इति प्रतिज्ञातं[66]तद् अनेनाक्षिप्यते. अर्थासंस्पर्शिनि हि शब्दे केयम् अर्थविशेषप्रतिज्ञा चोदनानाम्. सर्वे शब्दाः खलु न स्वभावतो ऽर्थं स्पृशन्ति. यद् एव हि यादृशम् एकदैकेन प्रयुक्तं वाक्यम् अर्थवद् आसीत्, तद् एव हि तादृशम् अपगतसकलकलाध्मातादिदोषम् अन्यदा भवति वितथम्. न चैतद् अवैलक्षण्ये युक्तम्. यदाहुः -- लक्षणयुक्तस्य बाधासम्भवे तल्लक्षणम् एव बाधितं भवतीति. न चार्थवतां[233]प्रत्यक्षादीनाम् एष धर्मो दृश्यते. न हि तिमिरादिदोषरहितं चक्षुः सम्यगसम्यक् च ज्ञानं जनयतीति दृष्टपूर्वम्. अपि च स्वाभाविके ऽर्थसम्बन्धे कथम् असत्य् अर्थे ज्ञानं जनयति.[234]तथा हि बाधितो ऽपि संसर्गः शतकृत्वः शब्दाद् अवगम्यते अङ्गुल्यग्रे हस्तियूथशतम् इति. न चेदम् अन्यत्र दृष्टम्. न हि चक्षुषा शुक्तौ रजतम् इति वेदितायां नेदं रजतम् इति बाधकोदये चक्षुर् एव पुनारजतम् इति बोधयति. शब्द एव तु निरङ्कुशः स्वगोचरम् अन्यगोचरं वा प्रमाणान्तरेण बाधितम् अपि बोधयतीति. नूनम् असमीक्षितपारमार्थिकार्थसद्भावो बोधयन्न् अप्य् अर्थम् अनर्थक इति[235]प्रतिजानीमहे. तद् इदम् उक्तम् - अर्था[236]संस्पर्शि यत् प्रमाणं तस्य बाधकोत्पत्तौ सत्यां न पुनः प्रतिपक्षविज्ञानं तन्निमित्तम् एवोपलभ्यते. शब्दे पुनः स्पष्टे ऽपि बाधकज्ञाने पुनः शब्दनिमित्तम् एव प्रतिपक्षविज्ञानम् उदेति अङ्गुल्यग्रे हस्तियूथशतम् इति. कथं तर्हि शब्दाद् अर्थावगतिः, सामयिकीति वदन्ति. यदाहुः --
__________नोतेस्__________
[233] ता
[234] तीति बा (ख)
[235] ति जा
[236] र्थ
अना[237]गमश् च सो ऽभ्यासः समयः कैश्चिद् इष्यते ।
__________नोतेस्__________
[237] भ्या (क)
अभ्यासात् प्रतिभाहेतुः सर्वशब्दः समासतः ॥
इति. इमं चाक्षेपम् अपनेतुम् इदं भाष्यं विप्रतिषिद्धम् इदम् अभिधीयते ब्रवीति च वितथं च इत्यादि. तस्य चायम् अर्थः -- अर्थम् अवबोधयति अर्थासंस्पर्शि चेति चित्रम्. न हि प्रत्याय्यप्रत्यायकभावाद् अन्यः शब्दार्थयोर् अस्ति सम्बन्धः. स चेदम् अर्थम् अवबोधयति, कथम् अर्थासंस्पर्शी स्यात्. स्याद् एतत्. बाधकज्ञानसमधिगम्यम् अर्थासंस्पर्शित्वम्. उक्तं चेदं सत्य् अपि बाधकज्ञाने लौकिकेषु वाक्येषु शब्दाद् एव ज्ञानम् उत्पद्यते अङ्गुल्यादिवाक्येभ्य इति. मैवम्. अनभिज्ञो भवान् बाध्यबाधकभावस्य. अङ्गुल्यग्रे हस्तियूथशतम् इति प्रमाणान्तरदर्शनम् अत्र बाधितं, न पुनर्हस्तियूथशतम् इति. प्रमाणान्तरदृष्टं[67]ह्य् अर्थं परस्मै प्रतिपादयितुं पुरुषाः प्रयुञ्जते वाक्यानि. ततश् च प्रमाणान्तरेणायम् अनेन दृष्ट इत्य् एतावच् च शब्दाद् अवगम्यते. अतो ऽत्र प्रमाणान्तरेण तस्यार्थस्य यद् दर्शनं तद् एव बाधितं भवति. हस्तियूथे तु शब्दो न प्रमाणम् इति तच्छब्दाद् अप्रसक्तम् एवेति न तद् बाध्यते. कथं तर्हि हस्तियूथसंसर्गावगमः. पदानां सन्निधानदोषात् पदार्थविवेकाग्रहणनिबन्धनो ऽयं भ्रमः. न पुनराभिधानिकः [?]संसर्गः. योग्यता हि[238]निबन्धनम् अन्विताभिधाने ऽभिहितान्वये वा. न चाङ्गुल्यग्रस्य करिधारणयोग्यता सम्भवति. तस्मान् नार्थासंस्पर्शी शब्द इति सूक्तम् अर्थविशेषप्रतिज्ञानं चोदनालक्षणो ऽर्थो धर्म इति.
__________नोतेस्__________
[238] हि तन्निब (क)
इमौ त्वाक्षेपपरिहारौ न मृष्यामहे. तत्र यत् तावदुक्तं कार्यरूपो वेदार्थ इति चोदनासूत्रेण प्रतिज्ञातम् इति, तद् अयुक्तं, भाष्यविरोधात्. भाष्यकारो हि को धर्मः कथंलक्षण इत्य् एकेनैव सूत्रेण[239]व्याख्यातम् इत्य् उक्त्वा सूत्रम् अवतारयति. तत्प्रमाणस्वरूपयोर् एकं श्रौतम् अन्यदार्थम् इत्य् एव वक्तुं युक्तम्. उक्तं च तद् वार्त्तिककृता कार्यार्थताप्रतिज्ञानं पुनर् अशाबरम् अजैमिनीयं चेति. न हि चोदनासूत्रे तादृशः पदार्थानाम् अन्वयो दृश्यते. न च पदार्थान्वयनिरपेक्षो वाक्यार्थो युक्तः. कथं च प्रमाण[240]लक्षणे कार्यार्थताप्रतिज्ञानं सङ्गच्छते. ननु च प्रामाण्यम् एव कार्यार्थतां विना न सम्भवतीति प्रमाणलक्षणानुगुणैव कार्यार्थताप्रतिज्ञा. न ह्य् अकार्यार्थं वचः प्रामाण्यम् अर्हति. अनपेक्षालक्षणं हि तत्. न च सिद्धार्थं वचनम् अनपेक्षं भवति. तस्य हि साधकबाधकयोर् अन्यतरोपनिपातः सम्भवति. तत्र साधकसम्भवे ऽनुवादत्वम्, इतरत्र बाधितविषयत्वाद् अप्रमाणत्वम्. अत एव चापौरुषेयत्वम् अपि वेदवाक्यानाम्. प्रमाणान्तरप्रतिपन्नविषयता हि पौरुषेयता, न पुनः पदवर्णादिकार्यता. न चातीन्द्रियम् अर्थं पुरुषाः शक्नुवन्त्य् अवगन्तुम्. अतः कथम् अतीन्द्रियार्थान् शब्दान् निबन्धीयुर् इति प्रयोजनवदर्थविशेषप्रतिज्ञानम् इति.
__________नोतेस्__________
[239] ण वक्ष्यत इत्य् उ
[240] णज्ञानल (ख)

अत्र वदामः -- यत् तावत् सिद्धार्थत्वाद् अनुवादत्वम् इति, तद् अयुक्तम्. यदि प्रमाणान्तरसिद्धो ऽयम् अर्थ इति सिद्धम् अर्थं बोधयति, भवतु तत् सापेक्षत्वाद् अप्रमाणम्. भूतार्थम् अपि तु यद् ज्ञानान्तरागोचरतया स्वगोचरम्{1,68}अवगमयति, न तत् सापेक्षम्. अथ मतं परिनिष्पन्नविषयाणि खलु प्रत्यक्षादीनि, तानि तादृशविषयविशेषे सम्भवन्तीति प्रमाणम् अनुवादीकुर्वन्ति इति. तन् न. न हि प्रमाणान्तरसम्भावनया प्रमाणम् अनुवादो भवति, अतिप्रसङ्गात्. दूरस्थो हि वह्निरनुमानाद् अवगतः शक्य आसीदता प्रत्यक्षयितुम् इति न तस्यानुवादत्वम् आपद्यते. यत् तु बाधितविषयत्वाद् अप्रमाणत्वम् इति, तद् अस्तु यदा[241]तु नैतद् एवम् इति विपर्ययः. अबाधितार्थं तु सिद्धार्थगोचरम् अपि किम् अप्रमाणं भविष्यति. तद् अपि बाधकसम्भावनयाप्रमाणम् इति चेद्, अस्तु तावत् पौरुषेयेषु. अपौरुषेयं तु सिद्धार्थम् अपि कथं बाध्यतया सम्भाव्येत. न ह्य् अदुष्टकारणजं ज्ञानं बाध्यते. शब्दे च न स्वाभाविका दोषाः. पुरुषो ह्य् अयथार्थज्ञानानुरोधेन शब्दं दूषयति. ननु सिद्धार्थम् अपौरुषेयम् इत्य् एवं दुर्भणम् इत्य् उक्तम्. किम् इदानीम् अतीन्द्रियार्थत्वम् अपौरुषेयत्वम्. हन्तैवं सुरभि गगनकुसुमम् इत्य् अपि वाक्यम् अपौरुषेयम् आपद्येत. तस्यापि न केनचिद् इन्द्रियेणार्थो ऽवगम्यते. स्याद् एतत्. असदर्थम् एवेदं वाक्यं, सदर्थं चातीन्द्रियार्थम् अपौरुषेयम् इति. वैदिकं वाक्यं कार्यार्थं कथं सदर्थं, तस्यापि न प्रमाणान्तरेणार्थो ऽनुभूयते. मानुभावि. न तु प्रतिक्षिप्यते, शब्दाद् अवगम्यते च. गगनकुसुमवाक्यं तु प्रमाणान्तरप्रतिक्षिप्तार्थम् एव, नास्तीति हि तदर्थम् अवगमयति. केन पुनः प्रमाणान्तरेणास्यार्थः प्रतिक्षिप्यते. न तावद् भावप्रमाणैः, भावविषयत्वेनाभावानवभासनात्. अभावस् तु प्रमाणम् अनभिमतम् एव भवताम्. नन्व् अस्ति तावद् नास्तीति ज्ञानं तत् प्रतिक्षेप्स्यति. तद् भोः किं प्रमाणम् अप्रमाणं वा. नाप्रमाणं प्रतिक्षेपायालम्. प्रमाणत्वे च षष्ठप्रमाणापत्तिः. ननु च गगनकुसुमम् अस्ति नास्तीति च व्याहन्यते. अतो व्याघाताद् गगनकुसुमवाक्यम् असदर्थम्. किम् अत्र व्याहन्यते. सदसत्त्वं हि वस्तुनः सिद्धस्य परस्परविरुद्धम् अवगम्यमानं व्याघातसंविदम् उपजनयति. न चेह परस्परविरुद्धसदसत्त्वावगमः, निस्स्वभावत्वाद् अभावस्य भवत्सिद्धान्ते. नन्व्
अस्ति तावन् नास्तीति शब्दप्रयोगः. मा भूज् ज्ञानम् अतः स नभस्सुमनस्सत्तां प्रणोत्स्यति. न, अर्थनिबन्धनत्वाच् छब्दाना विरोधस्य. न च नास्तीति कश्चिद् अस्यार्थो दृश्यते. न चानर्थकः शब्दो ऽर्थान्तरं विरुणद्धि. ननु नायम् अनर्थकः, विविक्तं हि कुसुमेन गगनम् एव तस्यार्थः. विविक्तम्{1,69}इत्य् अवाच्यम् अनधिकार्थत्वात्. गगनं तु गगनपदप्रवेदितम् इति पुनरुक्तं नास्तीति पर्यायतापत्तिश् च. दृश्यते प्रतियोगिनि कुसुमे केवलगगनोपलम्भो नास्तीत्य् उच्यत इति चेत्, स तर्हि नास्तीति कुसुमवद् गगनम् अपि न स्याद् एव. नास्तीति पदास्पदम् एवासद् इति लौकिका मन्यन्ते. तस्मान् नास्तीति ज्ञानं प्रमाणम् अप्रमाणं वा शब्दो वा नास्तीति गगनकुसुमं न प्रतिक्षिपतीति तद् अपि स्वशब्दाद् अवगतं सद् एव स्यात्. यदि तु तथाविधम् एव नास्तीति वक्तुम्[242]इच्छा, न शब्दप्रयोगं वारयामः. वस्तुसत्ता तु न निवारयितुं शक्यत इत्य् उक्तम्. अतः सदतीन्द्रियार्थं गगनकुसुमवाक्यम् अपौरुषेयम् आपन्नम् आयुष्मताम्. यथा[243]चेदम् असदर्थं, तथा वैदिकम् अप्य् अतीन्द्रियकार्यार्थम् असदर्थम्. न हि प्रमाणा[244]गोचरं वस्त्व् अस्तीति शक्यते वक्तुम्. न च कार्यं प्रत्यक्षादिगोचरम्. न च शब्दगम्यम्, अपदार्थस्यावाक्यार्थत्वात्. अगृहीतसम्बन्धस्य चापदार्थत्वात्. प्रमाणान्तरागोचरे च सम्बन्धस्य ग्रहीतुम् अशक्यत्वात्. प्रपञ्चयिष्यते चैतदौपत्तिकसूत्रे[245]इत्य् अलम् अनेनातिपरिस्पन्देन.
__________नोतेस्__________
[241] यत्र नै (ख)
[242] रि
[243] यथा त्व् इदम् अनुपपन्न तथा (ख)
[244] णान्तरागो (क)
[245] वार्त्तिके इ
अतः सिद्धम् इदं न कार्यार्थत्वाद् अपौरुषेयत्वम् इति. कथं तर्हि, पूर्वापरकोटिविरहात्. यस्य खलु न पूर्वापरकोटी प्रसंख्यायेते, तन्नित्यं यथा गगनम्. एवञ् च वेदाः[246]इति नित्याः. का पुनर् इयं नित्यता वेदानाम्. यदि नित्यवर्णपदारम्भः, समानो ऽयं लौकिकवाक्येषु. अथानुपूर्व्यनित्यत्वात् तान्य् अनित्यानि, तुल्यं तदनित्यत्वं वेदवाक्यानाम्. अतो न पुरुषप्रमाणगोचरागोचरार्थत्वाद् अन्यत् पौरुषेयापौरुषेयत्वं पुंवेदवचसाम्. वाच्यो वा विशेषः. स उच्यते. क्रमवन्ति हि पदानि वाक्यम् उच्यते. तद् यत्र स्वतन्त्र एव पुरुषः क्रमम् आरचयति तत् पौरुषेयम्. यत्र तु क्रमरचनायाम् अस्वतन्त्रः पुरुषः यथैव पूर्वपूर्वाध्येतृभिर् उक्तः क्रमस् तथैव विवक्षति, तदपौरुषेयम्. अनित्य[247]त्वे ऽपि च क्रमव्यक्तीनाम् अवान्तरजातितस् तत्त्वान्यत्वव्यवस्था शब्दाधिकरणे वक्ष्यते. पदनित्यत्वे चैष एव प्रकारस् तत्रैव दर्शयिष्यते. पूर्वापरकोटिविरह एव वेदे ऽपि कथम् इति यो मन्यते{1,70}स वक्तव्यः. न तावत् पूर्वापरकोटी वेदानां प्रत्यक्षेणोपलभ्येते. न चानुमीयेते, विपरीतानुमानात्. एवं ह्य् अत्रानुमीयते अनागतः कालो न वेदशून्यः, कालत्वाद् इदानीन् तनकालवद् इति. एवम् अतीते ऽपि काले प्रयोगो दर्शयितव्यः. न च प्रागभावो वेदानां कैश्चिदुपलब्धः. जगदादौ वेदा महेश्वरेण प्रणीता इति चेद्, न. जगदादेर् अभावात्. नचार्वाचीन एव काले केनचिद् वेदाः सन्दृब्धा इति कर्तृस्मरणम् अस्ति. नचास्मर्यमाणो ऽपि जीर्णकूपादिवद् आसीत् कर्तेति युक्तं वक्तुम्. तत्र हि प्रयोजनाभावाद् उपपद्येतापि कर्तुर् अस्मरणम्. अदृष्टार्थनिर्मितेषु वेदेषु प्रत्ययिततरनिर्मातृस्मरणम् अन्तरेण के श्रद्दधीरन्. वक्ष्यति च --
__________नोतेस्__________
[246] इतीति (ख)
[247] न्यत्वे च (क)
वैदिको व्यवहारस् तु न कर्तृस्मरणादृते ।

इति. तद् एवं पूर्वापरकोटिविरहाद् एवापौरुषेयत्वं, न कार्यार्थतयेति व्यर्थं तत्प्रतिज्ञानम्. अव्यापकं च, मन्त्रार्थवादोपनिषदाम् अतादर्थ्यात्. ननु च तेषाम् अपि कार्यार्थता द्वितीये पादे वक्ष्यते -- विधिना त्व् एकवाक्यत्वात् -- (1.2.7) इति. इहापि च भाष्यकारेणोक्तं चोदना हि भूतं भवन्तम् इत्यादिशक्नोत्य् अवगमयितुमन्तेन. एतद् उक्तं भवति -- कार्यम् एव प्रतिपादयन्ती चोदना भूतादिकम् अप्य् अवगमयति, न तु प्रतिपादयति. तद् उक्तं शक्नोत्य् अवगमयितुम् इति. अत्रोच्यते -- न तावदर्थवादानां कार्यार्थता अर्थवादाधिकरणे उक्ता. अपि तु भूतार्थानाम् एव स्तुत्या विध्यन्वयो दर्शितः. चोदना हि भूतम् इत्यादिभाष्याभि[248]प्रायस् त्व् अनन्तरम् एव वार्त्तिककारेण व्याख्यातः. यस् त्व् अयम् अस्यार्थो वर्ण्यते चोदना हि भूतादिकं गमयति, न तु प्रतिपादयतीति. तन् न. यदि भूतादिकं गमयति. कथं न प्रतिपादयति. न हि गमकत्वाद् अन्यत् प्रतिपादकत्वम्. अथ कार्यपरत्वम् अनेन प्रकारेण वर्ण्यते, सर्वं हि पदजातं कार्यपरं न भूतादिस्वरूपे प्रमाणम् इति कथम् अनाद्यनन्तं विज्ञानम् आनन्दं ब्रह्मोपनिषद्भ्यः सेत्स्यति.[249]कस्मिंश् च कार्यार्थे प्रामाण्यम् उपनिषदाम्. ननु तासाम् अपि प्रतिपत्तिकर्तव्यतापरत्वम् एव.[250]अस्ति च ज्ञानविधानम् आत्मा ज्ञातव्य इति. तद् अयम् अर्थो भवति -- विज्ञानम् आनन्दम् आत्मानं जानीयाद् इति. नन्व् एवम् अस्वरूपपराच् छब्दात् कथम् आत्मरूपसिद्धिः. न ह्य् अन्यपरः शब्दो ऽर्थान्तरे प्रमाणं, प्रत्युत विपरीतम्{1,71}अपि सम्भाव्येत. अतद्रूप एव हि तद्रूपज्ञानकर्तव्यतावचनं लोके दृश्यते. तथा अपितर्येव पितरं जानीयाद् इति. वेदे चानुद्गीथ एवोङ्कारे उद्गीथोपासनाविधानम् ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीतेति. स्याद् एतत्. प्रमाणान्तराद् एवात्मस्वरूपसिद्धिर् इति. केषां प्रमाणान्तरात्. संसारिणो हि न तावत् कार्यकरणसङ्घातातिरिक्तं सच्चिदानन्दं ब्रह्मापरोक्षम् ईक्षन्ते. ते हि देहम् एवात्मानं मन्यमानाः दुःखिनम् अनित्यं जडं च पुरुषं जानन्ति. ये पुनरपवर्तितनिखिलानाद्यविद्यानुबन्धोपदर्शितशरीरेन्द्रियादिप्रपञ्चाः समुत्खातसकलमितिमातृमेयमानविभागम् अपरिस्पन्दम् आनन्दं फलभूतं ब्रह्माधिरूढाः, ते किं केन[251]पश्येयुः. अतो न कथञ्चिदात्मस्वरूपं सिध्येत्. तस्माद् उपपत्तितो ग्रन्थतश् च न कार्यार्थता प्रतिज्ञातुं शक्यते.
__________नोतेस्__________
[248] र्थस् त्व् अ
[249] ति न कस्मिं
[250] वावगम्यते. अ (ख)
[251] के प
यच् च नन्व् अतथाभूतम् इत्य् अर्थासंस्पर्शितया शब्दानां प्रतिज्ञाक्षिप्यत इति, तद् अयुक्तम्. तथा हि -- को ऽयम् अर्थासंस्पर्शः. यदि तावत् संयोगाद्यन्यतमसम्बन्धाभावः, सो ऽनुज्ञायत एव. न ह्य् असौ शब्दार्थयोः संयोगादिलक्षणः सम्बन्धो ऽभ्युपेयते. अथार्थानवबोधकत्वं, कुतो ऽर्थसंवित्. समयाद् इति चेद्, नन्व् अयं सम्बन्धपरिहार एव प्रतिमर्त्यादिपक्षासम्भवात् समयो निराकरिष्यते. किं तन्निराकरणार्थम् अत्र प्रयस्यते. यच् चार्थासंस्पर्शितानिराकरणार्थमुक्तं प्रमाणान्तरदर्शनम् अत्र बाध्यते. न पुनर्हस्तियूथम् इति. तस्य को ऽर्थ इति न विद्मः. प्रमाणान्तरदृष्टार्थविषय एव लौकिकः शब्दः. स कथं प्रमाणान्तरबाधेन बाध्यते. स्यान् मतं - देशकालविशेषावच्छिन्नम् अर्थं प्रमाणान्तराणि बोधयन्तीदम् इदानीम् अत्र चेति. अतो नद्यादिविशेषफलसंसर्गबाधे तानि बाधितानि भवन्ति. शब्दस् तु देशकालानवच्छिन्नम् अर्थम् आचक्षाणो न संसर्गविशेषबाधे बाधितो भवतीति. तद् अयुक्तम्. य एव संसर्गो यदा वक्तुर् इष्टस् तम् एव तदानीं शब्दो ऽभिधत्ते, न संसर्गमात्रम्. न हि नानाविधानेकनदीतीरफलसंसर्गविशेषवर्ति सामान्यम् अस्ति, यः शब्दार्थः स्यात्. न चाविवक्षित एव संसर्गः शब्देनाभिधीयत इति साम्प्रतम्. वक्तृवाचकयोर् असंप्रतिपत्त्या व्यवहारासिद्धेः. नर्मदातीरे फलानि सन्तीति वा विशेषवचने कः परिहारः. तत्राप्य् आसन् भविष्यन्ति वेति चेत्. न. सन्तीति वर्तमानापदेशात्. अपि चात्यन्तासम्भावी[252]वन्ध्यासुतादिसंसर्गः{1,72}कदा कुत्र वा भविष्यति, यः शब्दार्थबाधपरिहाराय घटिष्यते. संसर्गावगमापलापस् तु संविद्विरुद्ध एव. यदि तूच्यते -- सर्वम् एव लौकिकवाक्यम् अर्थे न प्रमाणं वक्तृज्ञाने ऽप्रामाण्यात्. एव ह्य् आह -- अपि च पौरुषेयाद् वचनाद् एवम् अयं पुरुषो वेदेति भवति प्रत्ययः. नैवम् अर्थ इति. अतो न क्वचिच्छब्दार्थबाध इति. साधु परिहृतम् एवंवादिना शब्दानाम् अर्थासंस्पर्शित्वम्, अर्थे न प्रमाणं स्पृशति चार्थम् इति. अपि च मा नाम भवत्व् अर्थे प्रमाणम्. वक्तृज्ञाने तावत् प्रमाणम् एव. अतः स एव शब्दार्थ इति तद्बाधे ऽपि शब्दार्थबाधो दुष्परिहर एव. स्यान् मतं - न वक्तृज्ञाने शब्दो वाचकतया प्रमाणं, लैङ्गिकत्वात् संविदः, संवित्कारणको हि शब्दः कार्यभूतो ऽवगत्ः कारणभूतां
संविदम् अनुमापयति, कार्याच् च कारणबुद्धिर् अनुमानम् इत्य् अविवादम्. आह च -- न प्रसिद्धकारणत्वात् संविद् इति. इदं तदर्थासंस्पर्शितापरिहाररहस्यम्. किम् अत्र वाच्यम् अपरं, शब्दो नार्थे न ज्ञाने वा प्रमाणं तस्मान् नार्थासंस्पर्शीति. अथोच्येत -- न मः शब्दो नार्थे प्रमाणम् इति. स्वाभाविको हि वृद्धव्यवहारे शब्दार्थयोर् अवधृतः सम्बन्धः. लोके तु क्वचिद् व्यभिचारदर्शनाद् वक्तृप्रमाणपरतन्त्रत्वाद् वाक्यानां वक्तृज्ञानपर्यवसानं, नार्थे निश्चयजनकत्वम्. वेदे तु वक्तुर् अभावान् नार्थे प्रामाण्यं विहन्यते. न हि तत्र प्रमाणान्तरपरतन्त्रः शब्दो वर्तत इति. तन् न. न हि क्वचिद् व्यभिचारदर्शनेन प्रमाणम् अनर्थविषयं भवति. न हि शुक्तौ रजतज्ञानं बाधितम् इति स्वगोचरम् अन्यगोचरं वा भवति. अर्थम् एव तु दोषाद् अन्यथा[253]स्थितम् अन्यथा बोधयतीति वृत्तिकारग्रन्थे वक्ष्यामः.
__________नोतेस्__________
[252] वितव (ख)
[253] था बो (क)

तद् इहापि सर्वं शाब्दम् अर्थविषयम् एव. किञ्चिद् एव तु दोषवशाद् विपर्येतीति युक्तं वक्तुम्. अपि च यदि पुंगिराम् अर्थे न प्रामाण्यं, कुतस् तर्हि विशिष्टा वक्तृधीर् अनुमास्यते. न ह्य् अनासादितार्थविशेषपरिष्वङ्गाः स्वरसेन संविदो[254]ऽप्य् अनुमीयन्ते. तदवश्यमासां विशेषम् अनुमित्सता अर्थविशेषपरिरम्भो वक्तव्यः. न चानारूढो बुद्धाव् अर्थो वक्तृबुद्धिं विशिनष्टि. यद् अप्य् एके मन्यन्ते -- पुंवाक्येषु तावत् क्वचिद् व्यभिचारदर्शनाद् अर्थे निश्चयो न जायते. न चानिश्चितो ऽर्थो ज्ञातो भवति. न हि ज्ञानम् अनिश्चयात्मकं किञ्चिद् अस्ति.{1,73}तस्माद् अज्ञाते ऽपि वाक्यार्थे श्रोतुर् अयं विमर्शो भवति. अयम् आप्तो ऽन्योन्यान्वययोग्यार्थम् एव पदजातं ब्रवीति, तेन नूनम् अमुनामीषाम् अन्वयो ज्ञात इति वक्तुर् एवान्वयज्ञानम् अनुमिनोति. श्रोतुस् तु विमर्शमात्रम् इति. तद् अयुक्तम्. कथं हि श्रोता बुद्धावनारूढम् एवान्वयविशेषं वक्तृज्ञानविशेषणतया कल्पयति. ताल्वादिव्यापाराद् एवाप्तस्य प्रतीत्यान्वयमयं वाक्यं रचयतीत्यन्वय?धियम् अनुमिनोतीति चेत्. न. अन्वयज्ञानमात्रानुमानात्. विशिष्टान्वयज्ञानानुमानं तु वक्तरि नात्मीयविशेषज्ञानम् अन्तरेणोपपद्यते. यत् तु कथम् अनिश्चितो ऽर्थो ज्ञात इति. अत्र ब्रूमः -- त्रेधा खल्व् अपि वक्तारो निरूपिताप्तभावो निरूपितानाप्तभावो ऽनिरूपितोभयरूपश् च. सर्वत्र च शब्दान् निर्णय एव. परं निरूपिताप्तभावे सम्यग् एतद् अवगतम् अनेनेति वक्तरि निश्चय एव प्रतितिष्ठति. विपरीते विपर्येति. अनिरूपितान्यतररूपे ऽपि शब्दान् निश्चय एव. क्वचिद् व्यभिचारात् तावदागन्तुकः सन्देहः. न क्वचिद् अपि शब्दः संशयहेतुः. ननु तथाप्य् आप्तप्रमाणानुसारी शब्दान् निश्चय इति पूर्वम् उत्पन्नम्[255]अपि ज्ञानं व्यभिचार[256]दर्शनभूव संशयेन प्रतिबद्धं न प्रमाणम्, उत्तरकालं चाप्तप्रमाणानुसारिणि निर्णये ऽनुवाद इति कदा प्रमाणं भविष्यति. स्वकाल इति ब्रूमः. स्वकाले च तेनोत्पत्तिमता संशयात्मना चासाव् अर्थः परिच्छिन्नः. एतावच् च प्रमाणानां प्रामाण्यम्. अतः कथम् अप्रमाणं भविष्यति. यदि परं शाङ्केतव्यभिचारनिवृत्त्यर्थम् आप्तत्वेन दोषाभावमात्रम् आश्रीयते, सर्वप्रमाणसाधारणं चेदं शङ्कितदोषनिवृत्त्या औत्सर्गिकं प्रामाण्यम् इति. न च प्रमाणान्तराप्रतीतम् अपूर्वम् अर्थं प्रति[257]यतः श्रोतुर् अनुवादः शाब्द इति युक्तम्.
न ह्य् आराच् चैत्रो ऽयम् इति निश्चिते पुनश् च कुतश्चिन् मैत्रसादृश्यात् सन्दिग्धे स एवायम् इति निश्चिते पूर्वं चैत्रज्ञानम् अप्रमाणं भवति. अतो वक्तृप्रमाणनिश्चयेन प्रमाणम् एवैतद् अभूद् इति श्रोता निश्चिनोति. तस्माद् द्वयम् अप्य् एतत् प्रमाणं यच् च शब्दाद् ज्ञानं, यश् च वक्तृप्रमाणानुसारी निश्चयः. प्रथमम् अपूर्वार्थपरिच्छेदात्.[258] परं तु शङ्कानिराकरणात्. उक्तं च वार्त्तिककृता --
__________नोतेस्__________
[254] दो व्यतिभिद्यन्ते (क, ख)
[255] न्नं विज्ञा (क)
[256] रभुवा
[257] ती (क, ख)
[258] द् उत्तरं (ख)
प्रामाण्यस्थापनं तु स्याद् वक्तृधीहेतुसम्भवात् ।
इति. यद् अपि नानिश्चयात्मकं ज्ञानम् अस्तीत्य् उक्तम्. तद् अप्य् अस्मान् पराजित्य{1,74}वक्तुम् उचितम्. प्रमाणं भ्रमः संशयः स्मरणं संवाद इति पञ्चधा ज्ञानं विभजामहे. तस्मात् सर्वम् एव शाब्दम् अर्थगोचरं प्रमाणम् अप्रमाणं च. दोषसदसद्भावनिबन्धनश् च प्रमाणेतरविभागः प्रत्यक्षादिवद् एव. यदाह -- यस्य च दुष्टं करणं यत्र च मिथ्येति भवति प्रत्ययः, स एवासमीचीनः प्रत्ययः नान्यः इति. न हीदम् अक्षजज्ञानमात्राभिप्रायं, स एवासमीचीनः प्रत्यय इति प्रत्ययमात्रपरिग्रहात्. पौरुषेयश् च शब्दः स्वयम् अदुष्टो ऽपि वक्तृदोषाद् एव दुष्यति. ननु च ज्ञानकारणम् एव दुष्टं ज्ञानं दूषयति. शब्दे च शब्दो ज्ञानकारणं न वक्ता. स हि शब्दव्यक्ताव् एवोपयुक्तः. दुष्टेनापि वक्त्राभिव्यक्तः शब्दो विगलितनि[259]खिलकलाध्मातादिदोष एव कथम् असमीचीनप्रत्ययोत्पादकारणं भविष्यति. न हि तिमिरादय इव चक्षुरादीनां दुष्टेनापि वक्त्रोच्चरितानां शब्दानां दोषा उपलभ्यन्ते. न. दोषवैचित्र्यात्. न ह्य् एकरूपा एव सर्वे दोषाः. कार्यदर्शनात् तु किञ्चिद् एव क्वचिद् दोषपक्षे निक्षिप्यते. तद् इह मणेर् इवारुण्यबोधे जपाकुसुमसन्निधानम् अनाकाङ्क्षितायोग्यपदसन्निकर्ष एव शाब्दे दोषः. तथाभूतोच्चारणेन दुष्टः पुमाञ् शब्दं दूषयति. ततः सिद्धो दोषसदसद्भावनिबन्धनः शाब्दे प्रमाणेतरविभागः. नन्व् अङ्गीकृते शब्दाद् अर्थबोधे यत् तदर्थासंस्पर्शितासिद्ध्यर्थम् उक्तं बाधिते ऽप्य् अर्थे शब्दनिब[260]न्धनम् एव ज्ञानम् उत्पद्यते इति. तत्र कः परिहारः शब्दाद् अर्थबाधपरिहारेण. तद् अस्माभिः परिजिहीर्षितम्. किम् अत्र दुष्परिहरम्. न हि बाधितविषया अपि द्विचन्द्रदिङ्मोहालातचक्रपीतशङ्खप्रतिबिम्बादिविभ्रमा न पुनराविर्भवन्ति. यावद्दोषभाविनो हि ते पुनर् अपि चक्षुषैवोपजन्यन्ते. तद् इहापि यावद् अयोग्यान्वयपदसन्निधानम् अयथार्थज्ञानोदय इति किम् अनुपपन्नम्. तस्मान्न् एताव् आक्षेपपरिहाराव् इति.
__________नोतेस्__________
[259] सकल (ख)
[260] मित्तम् एव (ख, ग)
अन्यथा वर्णयिष्यन्नाक्षेपभाष्याभिप्रायं तावद् आह -- नित्यत्वादेर् इति. अयम् अभिप्रायः -- बौद्धलोकायतिकयोर् इदं प्रत्यवस्थानम्. न हि ते नित्यान् वर्णान् पदानि वेदवाक्यानि वा मन्यन्ते. न चोन्मत्तप्रलपितप्रायाणि{1,75}प्रजापतिवपोत्खननादीनि वाक्यानि विध्येकवाक्यतया प्राशस्त्य् अप्रतिपादनेन प्रमाणम् आहुः. अतो युक्तं यादृशतादृशरथ्यापुरुषवाक्योपमानं चोदनानाम्. तत्साधर्म्याद् वैतथ्यानुमानम् इति. अथवा नित्यत्वम् अभ्युपेत्य प्रसङ्गम् आपादयन्तीत्य् आह -- अभ्युपेत्ये ति. एवं हि मन्यते -- यदि नित्या वेदाः, सुतराम् अप्रमाणं भविष्यन्ति. पौरुषेयवाक्यं हि कदाचिद् गुणवद्वक्तृप्रणीतं प्रमाणं भवति. नित्यं तु कुतः प्रमाणं भविष्यतीति

2.22

ननु पौरुषेयम् अपि न वक्तृगुणापेक्षया प्रमाणम्. अपि तु स्वभावादवे. कथं ह्य् उत्पन्नम् अविपर्यस्तम् असन्दिग्धं च ज्ञानम् अप्रमाणं भविष्यति. अतः किम् अपौरुषेयतया सुतराम् अप्रामाण्यम् आपद्यते, अत आह -- प्रमाणान्तरे ति. प्रमाणान्तरदृष्टार्थगोचरं हि पुंवचः कथं स्वमहिम्ना प्रमाणं भविष्यति. न हि प्रमाणान्तरपरतन्त्रा स्मृतिः स्वतः प्रमाणं भवति. भवति चात्र प्रयोगः. न स्वतःप्रमाणं पुंवचः, प्रमाणान्तरप्राप्तार्थप्रापणात्. स्मृतिवद् इति

2.23

ननु च निरपेक्ष एवाप्तपुरुषवाक्यमात्राद् व्यवहारः प्रतायमानो दृश्यते. स कथम्[261]अस्वतःप्रमाणाद् उत्पत्स्यते, अत आह -- नूनम् इति एवं हि मन्यते -- वक्तृगोचरार्थं हि पुंवचः. अतः स्वयम् अदृष्टे ऽप्य् अर्थे नूनम् अयम् अर्थो वक्त्रनुभूत इति वक्त्रनुभवपुरस्सरम् एवाप्तोक्तिनिबन्धना प्रामाणिकस्य मतिर् युक्ता. न पुनराप्तत्वम् अदृष्टेन रूपेण प्रामाण्यकारणम्. यस् त्व् अनपेक्षितप्रमाणान्तर एव पौरुषेयाद् व्यवहरति, स प्रतिहन्येतापीति

2.24

__________नोतेस्__________
[261] थं न स्व (ख)
{1,76} कस्माद् एवं बुद्धिर् युक्ता, अत आह -- नात्मीयाद् इति दृष्टा न्तेन. तद् एवं लोकवाक्येषु प्रमाणान्तरपरतन्त्रं प्रमाण्यम् उपपादितं चोदनास्वापादयति -- तथे ति

2.25

कथं पुनरुत्पन्नम् असन्दिग्धम् अविपर्यस्तं प्रमाणान्तरेण ज्ञानम् अप्रमाणं भविष्यति, अत आह -- तेने ति. यदा हि प्रमाणान्तरपरतन्त्रं सर्वशब्दानां प्रामाण्यम् इत्य् उपपादितं, वेदे चाभ्युपेतनित्यत्वे वक्तृप्रमाणान्तराभावः. तदा कथं प्रमाणं भविष्यति. न हि स्वतन्त्रम् अनियतनिमित्तं ज्ञानं प्रमाणं भविष्यति. न हि प्रतिभा ज्ञानम् उत्पन्नम् इत्य् एतावता प्रमाणम् इष्टम्. अतो वेदाद् उत्पन्नं ज्ञानम् अप्रमाणं, स्वातन्त्र्यात् प्रतिभादिवद् इति

2.26

दर्शयितव्यं प्रयोगान्तरम् आह -- स्वर्गे ति. प्रत्यक्षाद्यगतार्थत्वाद् इति हेतुसिद्ध्यर्थम् उक्तं स्वर्गयागादिसम्बन्धविषया इति. यो हि मन्यते -- भावना हि वाक्यार्थः. स च स्पन्दो वा प्रयत्नो वा. सर्वथा प्रत्यक्षादिभिर् अवगम्यत इत्य् असिद्धो हेतुर् इति. तं प्रत्युच्यते. कस्यचित् केनचित् क्रिया भावना, सा स्वरूपेण प्रत्यक्षापि साध्यसाधनसम्बन्धात्मना शब्दाद् एवावगम्यते. अत एव धर्मस्यातीन्द्रियत्वम् अपि सेत्स्यति. साध्यसाधनसम्बन्ध एव शब्दस्य विषयः. न ह्य् अनासादितयागस्वर्गादिसाध्यसाधनसम्बन्धविशेषो भावयेद् इति शब्दार्थः. अतः सिद्धं प्रत्यक्षाद्यगतार्थत्वाद् इति. अत्र च लोकायतिकप्रयोगे बुद्धवाक्यं दृष्टान्तः, तत्प्रयोगे लोकायतिकवाक्यम् इति द्रष्टव्यम् इति

2.27

{1,77} एतस्मिन्न् एव साध्ये[262]दृष्टान्तहेत्वन्तरम् आह -- यद् वे ति. सिद्धं च नित्यानां वेदानाम् आप्ताप्रणीतत्वम् इति वेदानाम् एव वाप्रमाणत्वं नित्वत्वाद् व्योमादिवद् इति. ये च बौद्धा नित्यं व्योमेति सङ्गिरन्ते तेषाम् अयं प्रयोग इति

2.28

__________नोतेस्__________
[262] दृष्टान्तान्तरम् आह (ख)
इदानीं श्ववराहकलहन्यायेन नैयायिकादिमतानुज्ञया तावन्नास्तिकमतस्थ एव[263]वादी मीमांसकं प्रति प्रयोगम् आह -- यदि वे ति. यद्य् अवश्यं वेदाः प्रमाणम् इति वक्तव्यं परं यथा वैशेषिकैर् उक्तं तद्वचनाद् आम्नायस्य प्रामाण्यम् इति तथोच्यताम्. यत् पुनर् इदं मीमांसकैर् उक्तं नित्या वेदाः प्रमाणं चेति. तदतिदूरम् अपभ्रष्टं चेति भावः. सर्वशब्देन च दृष्टार्थपुरुषोपदेशैर् मन्वाद्युपदेशैश् च सिद्धसाधनताशङ्कां निराकरोति. तद् अयम् अर्थो भवति -- दृष्टादृष्टार्था अपि वैदिक्यश् चोदना धर्मिण्यः. पुरुषाधीनप्रामाण्या इति साध्यम्. वाक्यत्वात् पुरुषोक्तिवद् इति. स्वतो वा न प्रमाणम् इति प्रतिज्ञाय ताव् एव हेतुदृष्टान्ताव् इत्य् आह -- स्वतो वे ति

2.29

__________नोतेस्__________
[263] व मी (क)
प्रामाण्यं वा धर्मीति प्रतिज्ञाय नरापेक्षम् इति साधयितव्यम्. शब्दैः सम्बध्यमानत्वाद् अप्रामाण्यवद् इति हेतुदृष्टान्तौ वाच्याव् इत्य् आह -- प्रामाण्यं वे ति. अत्रापि सर्वशब्दस्य[264]तद् एव प्रयोजनं, नरापेक्षप्रामाण्यवादिनां चाप्रामाण्यं तदपेक्षम् इति सिद्धम् एवेति

2.30

__________नोतेस्__________
[264] तद्वदे (ख)
अपि च यद् एव यत्कारणकं तस्यैव तद्विपर्ययाद् विपर्ययो दृष्टः,{1,78} यथातेजःकारणकस्य धर्मस्य तद्विपर्यये जले शैत्यम्. एवं शब्दप्रामाण्यस्यापि वक्तृगुणविपर्ययाद् विपर्ययो दृश्यते. तस्माद् इदम् अपि तत्कारणकम्. अथवा यन् न यत्कारणकं तन् न तद्विपर्ययाद् विपर्येति, आलोकविपर्ययाद् इव घटः. न च तथा वक्तृगुणविपर्यये प्रामाण्यं न विपर्येति. तस्माद् तत्कारणकम् इति वीतावीतप्रयोगौ हृदि निधायाह -- न स्याद् इति. एषा च प्रयोगपरम्परा तार्किकाणां चित्तम् अनुरञ्जयितुं वार्त्तिककृता प्रणीतेति वेदितव्यम्. सर्वत्र चात्र प्रयोगार्थे नन्व् अतथाभूतम् इत्यादिभाष्यं सुव्याख्यानम् इति न प्रतिप्रयोगं विवृतम् इति

2.31

यदि तु निराकृतस्वपक्षो मीमांसकः सिध्यतु तावन्नरापेक्षम्[265]एव वेदप्रामाण्यम् इति ब्रूयात्, स वक्तव्यः -- नैवं सिध्यति. प्रसिद्धे हि वक्तृगुणभावः सिध्यत्य् अपि. न च वेदानां प्रणेतुर् गुणसद्भावे प्रमाणम् अस्ति, प्रत्यक्षाद्यभावात्. आगमस्य च तत्प्रणीतत्य तद्गुणसद्भावे ऽप्रामाण्यान् नित्यप्रामाण्यस्य चानन्तरम् एव निराकृतत्वात्. सर्वं चेदम् अभिप्रेत्य नन्व् इति चोदितम् इत्य् आह -- एवं स्थित इति

2.32

__________नोतेस्__________
[265] म् एवेदं प्रा
एवम् आक्षेपभाष्याभिप्रायम् उक्त्वा परिहारभाष्याभिप्रायं विवरिष्यन्नाक्षिपति तावत् -- तत्रे ति. एवं हि भाष्यकारेणोक्तं - विप्रतिषिद्धम् इदम् अभिधीयते ब्रवीति च वितथं चेति. तद् अयुक्तं, न हि प्रत्यय उत्पन्न इत्य् एव प्रमाणं भवति. यदि हि तथा स्याद्, बुद्धवाक्ये ऽपि मृषात्वेन मीमांसकः पक्षीकृते शक्यम् इदं वक्तुं. विप्रतिषिद्धम् इदम् अभिधीयते ब्रवीति च वितथं चेति. तत्र मीमांसकाः प्रतिहन्येरन्. तस्माज् जात्युत्तरम् इदम्. जातिर् नाम वादिना स्थापनाहेतौ प्रत्युक्ते यः प्रतेषेधा[266]यासमर्थो हेतुः.[267]जात्युत्तरं{1,79}च केचित् क्वचिद् विषयविशेषे साध्व् एव मन्यन्ते. एवं ह्य् आहुः -- दुष्टसाधनप्रयोगे दुष्टम् एवोत्तरं देयम् इति. तच् चायुक्तं, निग्रहस्थानद्वयापत्तेः. यो हि सन्तं दोषम् अनुक्त्वा अन्यम् असन्तं जल्पति, तस्य पर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगाख्ये द्वे निग्रहस्थाने स्याताम्. तस्माद् अनुत्तरम् एवेदम् इति

2.33

__________नोतेस्__________
[266] धास (ख)
[267] तुः सा जातिः जा (ख, ग)
अत्रानन्तरम् आक्षिप्तभाष्यसमाधानम् उपेक्ष्यैव तावदौपोद्धातिकीं कथाम् अवतारयति -- सर्वविज्ञानम् इति. एवं हि मन्यते -- यदा हि सर्वसंविदाम् औत्सर्गिकं प्रामाण्यं, बाधकारणदोषाधीनं चाप्रामाण्यम् इति सिद्धं भविष्यति. वेदे चापौरुषेये तदुभयाभावाद् असन्दिग्धार्थप्रवेदनाच् च प्रामाण्ये सिद्धे यदि परं ज्ञानानुत्पत्तितो वैतथ्यम् आशङ्क्येत, तत्र विप्रतिषिद्धम् इदं ब्रवीति ज्ञानं जनयति वितथं न जनयतीति समञ्जसम् एवोत्तरं भविष्य[268]तीति. ननु[269]तथापि पराधीनं शब्दप्रामाण्यम् इति पूर्वपक्षिते तन्मात्रस्यैव स्वतःप्रामाण्यप्रतिपादनेन सिद्धान्तयितुम् उचितं, किं महाविषयविचारेण. उच्यते -- प्रासङ्गिकं सर्ववचनम्. अपि च यावज्ज्ञानस्वभावानुबन्धि प्रामाण्यम् इति सामान्यतो न साध्यते, तावत् तद्विशेषे क्वचित् साधितम् अपि प्रामाण्यं न प्रमाणं स्वतः शाब्दज्ञानं ज्ञानत्वाद् ज्ञानान्तरवद् इत्य् अभिभूयेतापि. यज्जातीयानुबद्धं हि यद्रूपं तज्जातीयान्तरम् अपि नातिक्रामति, औष्ण्यम् इवाग्निजातीयम्. अतो यदि ज्ञानजात्यानुबद्धं परतःप्रामाण्यं, तत् कथं शाब्दम् अप्य् अतिक्रामेत्. आह च --
__________नोतेस्__________
[268] ष्यति
[269] नु प (क)
सामान्यानुगता शक्तिर् या काचन निरूपिता ।
तदन्वितो विशेषो ऽपि तद्द्वारव्यपदेशभाक् ॥
इति. सर्वज्ञानानुबन्धि स्वतःप्रामाण्यम् आगन्तुनाप्रामाण्येनापोद्यत इति साधिते निरपवादं वेदानां प्रमाण्यं सेत्स्यतीति सूक्तम् एव सर्ववचनम्. एषा चात्र मीमांसा -- किं प्रमाणत्वाप्रमाणत्वे द्वे अपि स्वतःसिद्धे, अपि वा परतः,[270]अप्रामाण्यं स्वतः[271]प्रामाण्यं परतः, विपर्ययो वेति पूर्वपक्षप्रतिक्षेपेणान्त्यपक्षपरिग्रहेण सिद्धान्तो भविष्यतीति

2.34

__________नोतेस्__________
[270] तः प्रामाण्यं वा परतो ऽप्रा
[271] तः वि (ख)
{1,80} तद् एवं वादिविप्रतिपत्त्या संशय्याद्यपक्षं गृह्णाति -- स्वतो ऽसताम् इति. सत्कार्यवादिनो हि सर्वम् एव कार्यजातं सदुत्पद्यत इति मन्यमानाः प्रामाण्याप्रामाण्यात्मकम् अपि द्वयं स्वत एवास्थिषत. एवं हि मन्यन्ते -- यत् स्वतो ऽसत् तन् न साध्यं, यथा शशविषाणम्. न च घटादयो न साध्याः तस्मात् स्वतः सन्त इत्य् आवीतहेतुः. अपि चोपादाननियमदर्शनात् कस्यचित् खलु घटादेर् विकारस्य किञ्चिद् एव मृदाद्युपादानकारणम् इति नियमो दृश्यते. तच् चैतदसदुत्पत्ताव् अन्याय्यम्, असत्त्वाविशेषेण हि सर्वं सर्वस्माद् उत्पद्येत. तत्रोपादाननियमो न स्याद् मृदेव घटस्य, कटस्य वीरणम् इति. तत्र सर्वार्थी सर्वत्र प्रवर्तेत, अविशेषात्. शक्तितो नियम इति चेद्, न. अविशेषात्. तत्रैतत् स्यात् -- यस्य भावस्य यद् उत्पत्तिशक्तिर् अस्ति ताम् अन्वयव्यतिरेकाभ्यां निश्चित्य यो यदर्थी स तदुपादत्त इति. तच् च नैवम्, अविशेषात्. वयं हि ब्रूमः शक्त्यात्मना विकार उपादाने ऽस्तीति. भवन्तो ऽपि विकारोत्पत्तिशक्तिर् उपादाने ऽप्य् अस्तीति. तद् अत्र वाचोयुक्तिमात्रं भिद्यते, नार्थविशेषः कश्चिद् उपलभ्यत इति. अपि च, उपादाननियमदर्शनाद् उपादाननिमित्तासमवायिभ्यस् त्रिभ्यः खल्व् अपि कारणेभ्यो भवतां कार्यम् उत्पद्यते. त्रिष्व् अपि च तन् नास्ति. असद् एवोत्पन्नं तत्. कुतो ऽयं कारणविधा[272]नियमः इदम् उपादानम् इदं नेति. यत्र कार्यं वर्तते तदुपादानम् इति चेद्, वृत्तिनियम[273]हेतुर् वक्तव्यः. तत् खलु सर्वस्माद् असद् एव जातम् इति किंकृतो वृत्तिनियमः. अस्ति स नामोपादानस्य को ऽप्य् अतिशयविशेषः यत् तत्रैव कार्यं वर्तत इति चेत्. स तर्हि शक्तिभेदो वक्तव्यः. निमित्तम्[274]असमवायि च[275]नोभयम् अनभ्युपगमात्. दण्डादयो हि घटस्य निमित्तकारणम्. असमवायिकारणं मृदवयवसंयोगविशेष इति वः सिद्धान्तः. स उपादानम् इति चेद्, न. व्यतिरेकाव्यतिरेकविकल्पानुपपत्तेः. स्याद् एतत्. उपादानकारणं शक्तिभेद इति. मैवम्. स ह्य् उपादानाद् व्यतिरिच्यते, न वा. व्यतिरेके उपादानस्य पूर्ववद् भावाद् अनुपादानत्वम्, तस्यापि ततो भिन्नस्य तत्त्वं दुर्भणम् एव. अव्यतिरेके तु वस्तुमात्रम् अनतिशयम्{1,81}उपादानम् इति वस्तुत्वाविशेषात् सर्वोपादानत्वापातः. तस्माद् विकारोत्पत्तिशक्तिम् उपादानेषु सङ्गिरमाणैर् विकारा एवोपादने शक्त्यात्मना सन्तीति संगीर्यन्ते. वयम् अपि चाव्यक्तान् एव विकारानुपादानेषु संगिरामहे, न स्थूलान् इति नावयोर् विशेष
इति. सत्त्वे कारकव्यापारानर्थक्यम् इति चेद् न. अभिव्यक्तिफलत्वात्. तत्रैतत् स्यात् -- सन्ति चेद् विकारा उपादानेषु तदर्थिनां कारकव्यापारो ऽनर्थकः स्यात्. ते हि तदा सताम् एवोत्पादनाय[?] नेहेरन्. तस्माद् असन्तो विकारा इति. तच् च नैवम्, अभिव्यक्तिफलत्वात्. सन्तो ऽपि हि विकाराः पूर्वम् अनभिव्यक्ताः कारकव्यापारैर् अभिव्यज्यन्ते. अतो ऽर्थवत्त्वं कारकव्यापाराणाम्. अभिव्यक्ताव् उत्पत्तिशब्दो ऽनर्थक इति चेद्, न. अभिव्यक्तिभेदात्. तत्रैतत् स्यात् -- यदि पूर्वं सन्त एव मृदादिषु घटादयो गृहोदरेष्व् इव दीपादिभिः कुलालादिव्यापारैर् अभिव्यज्यन्ते, को ऽयं विभागः दीपो घटम् अभिव्यनक्ति, कुलालस् तूत्पादयतीति. तच् च नैवम्, अभिव्यक्तिभेदात्. द्वेधा खल्व् अभिव्यक्तिः. एका अप्रतिबद्धाकारस्य वस्तुनो बोधनिमित्तस्य तन्निमित्तभावो येन प्रतिबध्यते तदुत्सारणं, यथा घटस्यान्धकारतिरोहितस्य तदुत्सारणम् अभिव्यक्तिः. अन्या तु प्रतिबद्धाकारस्याकारप्रतिबन्धकोत्सारणं, यथा मृदि घटाकारः पूर्वाकारेण प्रतिबद्धः तस्य पूर्वस्याकारस्य प्रोत्सारणं घटाभिव्यक्तिः. अभिव्यक्तिविशेष एवायम् उत्पत्तिशब्दः, ब्राह्मणविशेष इव कठादिशब्दोपचार इत्य् अनवद्यम्. स्यान् मतम् अभिव्यक्तिसत्त्वान्
न प्रसङ्गपरिहार इति. न, असत्त्वात्. यो मन्वीत -- सत्कार्यवादिनो हि भावान्तरवदभिव्यक्तिर् अपि सतीति कारकव्यापारानर्थक्यप्रसङ्गो दुष्परिहर इति. स वक्तव्यः. न, असत्त्वात् स्याद् अयं दोषः यद्य् अभिव्यक्तिर् अपि सती घटादिवद् इष्यते. सा त्व् असती कारकव्यापारेण भाव्यत इति किम् अनुपपन्नम्. तदसत्त्वे ऽतिप्रसङ्ग इति चेद्, न. प्रसङ्गसाम्यात्. तत्रैतत् स्यात् -- यदि किलाभिव्यक्तिर् असती कुलालेन क्रियते, किम् अपराद्धं घटेन यन् न क्रियत इति. तच् च नैवं, तुल्यो ऽयम् आवयोर् अतिप्रसङ्गः. तवाप्य् अन्धकारतिरोहितस्य घटस्याभिव्यक्ताव् अभिव्यक्तिर् असती घटस् तु सन्नेवेति सिद्धान्तः. तत्र शक्यं प्रसञ्जयितुम् अभिव्यक्तिवद् घटो ऽपि जन्येत, तद्वद् वाभिव्यक्तिर् अपि सती स्याद् इति प्रसङ्गसाधारण्येनान्यतरो ऽपर्यनुयोज्यः. अतः सिद्धम् एवोपादानेषु सन्त एव सर्वे भावाः कारकव्यापारैर्{1,82}अभिव्यज्यन्त इति, प्रामाण्याप्रामाण्ये स्वतस्सती एवेति सत्कार्यवादिनां सिद्धान्त इति. मतान्तरम् उपन्यस्यति -- अपर इति. एवं हि मन्यते -- सर्वं खल्व् अपि कारणाधीनात्मलाभं कार्यं तत्कारणगुणदोषाभ्यां शुद्धम् अशुद्धं च भवति. तद् यावदिन्द्रियादिज्ञानकारणवशाद् उत्पन्नौ गुणदोषौ न ज्ञानस्य स्वतो ऽवधार्येते, न तावत् प्रामाण्याप्रामाण्ययोर् अन्यतरन् निश्चीयते, नचानिश्चितयोर् व्यवहाराङ्गत्वं, तदर्थं च प्रमाणानुसरणम्. अतः कारणोत्पन्नगुणदोषावधारणाद् एव द्वयम् आहुर् इति सम्बन्ध इति

2.35

__________नोतेस्__________
[272] धाननि (क)
[273] मे
[274] म् एवास
[275] वा (ग)
स्वतो द्वयम् इति तावन् निराकरोति -- स्वत इति. कारणम् आह -- विरोधाद् इति. इदम् अत्राकूतं - यत् तावद् उक्तम् असतः शशविषाणाद् व्यावृत्तं साध्यत्वं घटे दृश्यमानं सत्तां गमयतीति. तद् अयुक्तम्. अभावविरोधात्. असन्निकृष्टार्थविषयं ह्य् अनुमानं, तत् कुतो मृदि योग्यानुपलम्भनिराकृतसद्भावविषयं घटं विषयीकरिष्यति. उपादाननियमस् तु शक्तिभेदाद् उपपन्न एव. किञ्चिद् एव हि मृत्तन्त्वादि कस्यचिद् एव घटादेर् उत्पादने शक्तं न सर्वं सर्वस्येति, यो यदर्थी स तदुपादत्त इति किं नोपपद्यते. यदि मतं न कार्यकारणान्तरालपतितां परां शक्तिम् ईक्षामह इति. न, शक्तिसिद्धिम् अर्थापत्तिग्रन्थे वक्ष्यामः. यत् तूक्तं विकारा एव शक्त्यात्मना सन्तस् तदुत्पत्तिशक्तिर् वोपादानेष्व् अस्तीति नावयोर् विशेष इति. तन् न. महानयं विशेषः यद् विकारसत्ताम् अभावो बाधते, शक्तिं तु सूक्ष्माम् अर्थापत्तिः साधयतीति. ते ऽपि हि शक्त्यात्मना सन्तो न योग्यानुपलब्ध्या निराकर्तुं शक्यन्त इति चेत्, केयं शक्त्यात्मता. यतस् ते ऽसन्तो ऽपि जनिष्यन्त इति चेत्. तद् इष्टम्. अनभिव्यक्तिर् इति चेद्, न. साक्षस्याप्य् आलोके ऽनुपलम्भात्. नन्व् आलोके ऽपि नावृतम् उपलभ्यते. किम् इदानीम् आवृतो मृदि घटः. सत्यम्. केन. न तावद् उपादानं कार्यम् आवृणोति, नित्यावरणप्रसङ्गात्. मृदाकार आवृणोतीति चेत्. को ऽयं मृदाकारः. यदि तज्जातिः, सोपरिष्टाद् अप्य् अनुवर्तत इति नित्यावृतिर् एव[276]प्राप्नोति. प्राच्यो मृत्पिण्डसन्निवेश इति चेत्. स वा किम्{1,83}उपरिष्टान् न भविष्यति, यन् न घटम् आवरिष्यति. हन्त सो ऽप्य् अनुत्पत्त्यविनाशधर्मासद्वादिभिर् इष्यत इत्य् अनिवार्यैव नित्यावृतिः. सूक्ष्माश् च मृदवयवसन्निवेशविशेषा न महान्तं घटम् आच्छादयितुम् उत्सहन्ते इति यत् किञ्चिद् एतत्. यत् तु त्रिभ्यो ऽपि कारणेभ्यः सदुत्पत्तौ किंकृतो विधानियम इति. शक्तिभेदकृत एव. किञ्चिद् एव तथा नाम शक्तं, यद् विकारभावम् अनुभवति. किञ्चित् तु बहिर् एव सत् तदुत्पत्तौ व्याप्रियते. स चायं शक्तिभेदः कार्यदर्शनसमधिगम्य एवेति नाप्रमाणकः. भेदाभेदौ तु न क्वचिद् आत्यन्तिकाव् इति नाप्रसङ्गातिप्रसङ्गौ. यत् तु पृष्टम् उपादाननिमित्तासमवायिनां का शक्तिर् इति. तदतिदूरम् अपभ्रष्टम्. शक्तिर् हि शक्तिर् एव, न कारणं, तद्वतो द्रव्यस्य कारणत्वात्. कारणवच् च कारणशक्तिर् अपि कार्यसिद्धिम् अनुधावतीति
प्रमाणबलाद् उपपत्स्यते. कारकव्यापारानर्थक्यं च दुष्परिहरम् एव. अभिव्यक्त्यर्थो व्यापार इति. अत्र तूक्तो दोषः. अपि चाभिव्यक्तिसत्त्वे तुल्यम् आनर्थक्यम्. असत्त्वे च सर्वत्र प्रसङ्गः शक्यम् अनुमातुम्.[277]सर्वं हि विमतिपदं[278]कार्यम् असत्, कार्यत्वाद् अभिव्यक्तिवत्. कार्यं चाभूत्वा भवनात् तद्वद् एवाभूत्वा भवति, उपलब्धियोग्यत्वे सत्य् अनुपलम्भाद् अभिव्यक्तिवद् एव. यत् तु अभिव्यक्तौ प्रसङ्ग इत्य् उक्तम्. तद् अयुक्तम्. प्रत्यभिज्ञानं हि बलवदभूतप्रादुर्भावं घटस्य वारयति. विपरीतं च तत् सत्कार्यवादिनाम् इति किम् अनेनातिनिर्बन्धेन भ्रान्तभाषितेन. प्रकृते च विरोधात् कथं ह्य् एकज्ञानजात्यनुबन्धिनी प्रमाणत्वाप्रमाणत्वे भविष्यतः, विरुद्धधर्मावेशस्य भेदनिबन्धनत्वात्. अतो यथा नैकस्याग्नेः शीतोष्णत्वम्, एवं न ज्ञानस्य प्रमाणत्वाप्रमाण[279]त्वम् इति. सो ऽयं प्रकृताप्रकृतगोचरे तन्त्रेण विरोधो व्याख्यातव्यः. प्रामाण्याप्रामाण्यात्मकद्वयं न स्वतः, स्वभावविरोधात्. कार्यकारणात्मकत्वं च द्वयं न स्वतः सिद्धं, कार्यसत्ताया अभावविरोधाद् इति. परतो[280]द्वयम् इति निराकरणार्थम् आह - परत इति. कारणम् आह -- निःस्वभावत्वम् इति. एवम् उभयपराधीनवादी वक्तव्यः -- किं खलु कारणोत्पन्न-गुणदोषावधारणात् प्राग् ज्ञानं न जायत एव, जातम् अपि वा[281]रूपान्तरेणावतिष्ठत इति. न तावज्ज्ञानं{1,84}जायते, संविद्धिरोधात्. जातं तु केनात्मनावस्थास्यते. न ह्य् एतद्राशिद्व-यातिरिक्तम् अस्ति राश्यन्तरं येनावतिष्ठेत. अन्यतरधर्मकम् एव तदुत्पन्नं प्रागनवधृततथाभावम् उपरिष्टाद् अवधार्यत इति चेद्. न. गुणावधारणाधीननिश्चयाभ्युपगमात्. तदवधारणाद् धि प्राङ् निश्चय एव नासीत्. कथं प्रामाण्यम् आसीद् इति शक्यते वक्तुम्. अथ पूर्वं[282]अपि निश्चिताकारम् एव ज्ञानं, किं गुणावधारणेन. दोषानाशङ्कमानस् तु तन्निराकरणार्थम् एव यतत इति युक्तम्.[283]एतच् च वक्ष्यत एवेति सूक्तं निःस्वभावत्वम् इति

2.36

__________नोतेस्__________
[276] व प्राच्यो (ग)
[277] तुम् इति स
[278] दास्पदं का
[279] णस्वभावत्व (ग)
[280] तो ऽपि द्व (ख)
[281] वा स्वरू (क, ख)
[282] र्वम् एव नि (क, ख)
[283] क्तम् एव. तच् च
स्वतो न द्वयं विरोधाद् इति यद् उक्तं, तत् प्रकृतगोचरे विवृणोति -- कथम् इति. उक्तम् इदम् अस्माभिः नैकस्यां ज्ञानजातौ परस्परविपरीतयोः प्रामाण्याप्रामाण्यात्मनोः सम्भवः समावेशः सम्भवतीति. एकस् तु स्वभाव उपाध्यन्तरसन्निधानाद् अभिभूतो भवति, अप्स्व् इवाग्निसंयोगे शैत्यम्. तदपेक्षश् च तास्व् औष्ण्यभ्रमः. स्वाभाविकोभयवादिनस् तु नान्यानपेक्षस्य ज्ञानस्योभयात्मकता सम्भवतीति. परतो न द्वयं निस्स्वभावत्वप्रसङ्गाद् इत्य् एतद् विवृणोति -- किम् आत्मकम् इति. सर्वं हि जगद् राशिद्वये शक्यम् अन्तर्भावयितुं प्रमाणम् अप्रमाणं चेति. तद् अत्रोभयपराधीनत्ववादिनो ज्ञानम् उन्मुक्तोभयरूपं केन रूपेण निरूप्यत इति

2.37

स्वतो न द्वयं विरोधाद् इत्य् अत्र किञ्चिद् आशङ्कते -- विज्ञाने ति. एवं हि मन्यते -- यदि ज्ञानजातेर् एवायं स्वभावभेदो ऽभ्युपेयते, एकस्माद् एव वा ज्ञानव्यक्तौ, ततः स्याद् अपि विरोधः. यदा तु शीतोष्णस्वभावतोयतेजोद्रव्यवत् प्रमाणाप्रमाणज्ञानव्यक्तिभेदाभ्युपगमः, तदोभयोर् व्यधिकरणयोः कस्य केन विरोध इति. परिहरति -- तथापी ति. अयम् अभिप्रायः -- तोयतेजसोर् हि भिन्नजातीययोः स्वभावभेदो युक्तः. ज्ञानव्यक्तयस् त्व् एकजातीयाः. तत्र[284]न तावद् आसां जात्यनुबन्धी स्वभावभेदो न्याय्यः. व्यक्त्यनुबन्धी तु तत्कारणाद् भवतीति युक्तं[285]वक्तुम्. तदनपेक्षत्वे तु प्रामाण्याप्रामाण्ययोः{1,85} किं कुत्र भविष्यतीति दुरधिगमम्. समानं हि द्वयोर् अपि ज्ञानत्वम्. स्वाभाविके चोभयस्मिन् न बाह्यचिह्नापेक्षास्तीति[286]दुर्भणः प्रमाणाप्रमाणविवेक इति साधूक्तं स्वतो न द्वयं विरोधाद् इति. किं पुनर् उभयोः पराधीनत्वं स्वाभाविकत्वं वा चोदनाप्रामाण्यपरिपन्थि येन प्रयस्यता निरस्यते. नन्व् एवम् अपि चोदनानां स्वत एव प्रामाण्यं भविष्यति प्रथमपक्षे. द्वितीये ऽपि पराधीन उभयस्मिन् दोषाभावाद् अपौरुषेया वेदाः प्रमाणम् इति किम् उभयनिराकरणेन. अप्रामाण्यं स्वतः प्रामाण्यं परत इत्य् एतद् एव तु वेदप्रामाण्यपरिपन्थीति तन् निराकर्तुम् उचितम्. तच् च निराकरिष्यत एव. सत्यम्. आद्ययोर् अपि पक्षयोर् अप्रामाण्यम् आपद्यत एव. तथा हि -- स्वाभाविके तावद् उभयस्मिन्न् अन्यतरनिर्णयकारणं बाह्यम् अपश्यतां नैकत्रापि विश्वासो भवेत्. व्यवहारार्थं च प्रमाणानुसरणम्, अविश्वासे च तदभावात् फलतो ऽप्रमाणत्वम्. एवम् उभयपराधीनत्वे ऽप्य् असत्य् अप्य् अप्रामाण्यकारणे प्रामाण्यकारणस्याप्य् अभावात् तद्व्यवहारो न जायत इत्य् अप्रमाणम् एवेति साध्व् एवोभयनिराकरणम् इति

2.38

__________नोतेस्__________
[284] तन् न ता (ग)
[285] क्तं त (क, ख)
[286] दुर्लभः प्रा (ग)
एवम् उभयं स्वतः परतो वेति निराकृते पूर्वपक्षान्तरम् आह -- तस्माद् इति[287]क्षमन्तेन. तेषां ज्ञानानां स्वाभाविकम् अप्रमाणत्वम्, परापेक्षं च प्रामाण्यम्. अयं चात्राभिप्रायः -- दृष्टव्यभिचारो हि जाते ऽपि विज्ञाने न तावन्निर्विचिकित्सं व्यवहरमाणो दृश्यते, यावद् गुणवद् इन्द्रियादिकरणत्वं संवादो वा न दृष्टः. व्यवहारफलं च प्रामाण्यम्, अतः स्वतो ऽप्रमाणम् एव पराधीनं प्रामाण्यम् इति. एष चात्र स्वतो ऽप्रमाणत्वे परतश् च प्रमाणत्वे न्यायो ऽभिधीयत इत्य् आह -- अत्रे ति.

2.39

__________नोतेस्__________
[287] ति ते (क, ख)
स्वतो ऽप्रामाण्ये तावन्न्यायं दर्शयति -- अप्रामाण्यम् इति. न्यायस् तर्कः. स चानुमानम्. एष चात्र प्रयोगो भवति -- अप्रामाण्यं न कारणवद्, अवस्तुत्वात्. यद्यद्वस्तु तत्तन् न कारणवत्. यथा शशविषाणम्.{1,86}कारणदोषत इति च कारणदोषाणाम् एव परैर् अप्रामाण्यकारणत्वेनाश्रयणाद् उक्तम्. यद् एव मीमांसका मन्यन्ते कारणदोषेभ्यो ऽप्रामाण्यं जायत इति. तन् न. अकारणकत्वाद् अवस्तुन इति. परापेक्षं प्रामाण्यम् इत्य् अत्र प्रयोगम् आह -- वस्तुत्वाद् इति. तेषां कारणानां गुणैः प्रामाण्यं जन्यत इत्य् अर्थः. प्रयोगश् च भवति -- प्रामाण्यं कारणवद् वस्तुत्वाद् घटवत्. न चाकार्यं नाम किञ्चिद् बौद्धानां वस्त्व् अस्ति, येनानैकान्तिको हेतुर् भवेत्. नभसो ऽप्य् आवरणाभावमात्रस्यावस्तुत्वात्. गुणैर् इति चानुवादमात्रम्. कारणगुणा हि प्रामाण्ये कारणम् इति मन्यन्ते. न पुनर् एते व्याप्ताव् अनुप्रवेशनीयाः. के पुनर् अमी गुणा[288]नाम, ये प्रामाण्यस्य कारणम्. न हीन्द्रियादिव्यतिरिक्ता गुणाः केचिद् उपलभ्यन्ते. यदि मतं - भेषजभेदैर् आहितातिशयविशेषा गुणा इति. तन् न. एवं हि तैर् अनाहितातिश[289]यविशेषाणां न प्रामाण्यं जायेत. अतो वक्तव्या गुणाः. त उच्यन्ते. विशुद्धिर् इन्द्रियादीनां गुणपदार्थः. वातादिधातूनां साम्यम् इति यावत्. साम्येन हि त इन्द्रियेषु वर्तमाना गुणा उच्यन्ते. तथा स्थिताश्[290]च प्रामाण्यं जनयन्ति. विषमं तु वर्तमानेषु धातुषु तद्दोषसमुत्थास् तिमिरादयो दोषा जायन्ते. शब्दे ऽपि वक्तुर् आशयविशुद्धिर् गुणः. विप्रलम्भाभिप्रायादयो दोषाः. तेषां च प्रामाण्याभावात्म[291]न्य् अवस्तुन्य् अप्रामाण्ये कारणत्वासम्भवान् न तज्जन्यम् अप्रामाण्यम्. प्रामाण्यं त्व् अर्थनिश्चयो वस्त्वात्मक इति युक्तं यद्गुणेभ्यो जायते ज्ञायते चेति. सर्वम् उत्पत्ताव् अनिश्चयात्मकम् अप्रमाणम् एव ज्ञानमा गुणसंवादज्ञानोदयात्, परतस् तु तद्वशेन प्रामाण्यं जायते तस्य. नन्व् इदानीम् असद् एवातिवृत्तं ज्ञानम् इति किं प्रमाणी[292]भविष्यति. यदा तावत्[293]तदासीत् तदा सहजेनाप्रामाण्येनाभिभूतम् उत्तरकालं च तदसद् एवेति किम् अन्यतः प्रामाण्यं भविष्यति. सत्यम् एवम्. अन्यद् एव गुणसंवादज्ञानोत्तरकालभाविप्रमाणम्. अवगते हि क्वचिदर्थे प्राग्दृष्टव्यभिचारो
ज्ञानस्वभावालोचनेनाजातविश्वासो न तावन्निर्विचिकित्सं व्यवहरति यावदिन्द्रियादिगुणावधारणपुरस्सरम् एवम् एवैतद् इति न निश्चिनोति. गुणावधारणात् संवादज्ञानाद् वा प्रमाणे जाते ऽवगते च तस्य{1,87}प्रामाण्ये व्यवहाराः प्रवर्तन्ते. तस्यापि न ज्ञानस्वभावालोचनेन प्रामाण्यं, तद्रूपस्याप्रामाण्यप्रतिबन्धात्. किन् तु गुणावधारणाद् एव. अतः सूक्तं गुणैः प्रामाण्यं जन्यत इति. यदाहुः -- निश्चयात्मकप्रामाण्योत्पादनं तु वस्तुरूपत्वात् संवादकारणगुणज्ञानकार्यत्वेन स्वध्यवसानम् इति तद् एवाश्रीयते इति

2.40

__________नोतेस्__________
[288] णाः ये
[289] शयानां न
[290] स् तु प्रमाणं ज (ख)
[291] त्मव
[292] णं भ (क)
[293] वदा (ग)
किञ् च इतश् च न स्वतः प्रामाण्यम् इत्य् आह -- प्रामाण्यं [294] ही ति. अयम् अर्थः -- यदि ज्ञानस्वभावानुबन्ध्यौसर्गिकं प्रामाण्यम्, एवं सति प्रामाण्याभावस्यावस्तुनो ऽकृत्रिमत्वान् न पराधीनत्वम् इति सर्वज्ञानानाम् अपि प्रमाणत्वप्रसङ्गः.[295]स्वप्नादिज्ञानानाम् अपि ज्ञानत्वाविशेषात्, तन्मात्रानुबन्धित्वाच् च प्रामाण्यस्य. अप्रामाण्यस्य चावस्तुनो ऽकार्यत्वाद् इति

2.41

__________नोतेस्__________
[294] ण्यम् इति
[295] ङ्गः, तदा स्व
कथं नामाप्रामाण्यम् अकृत्रिमम्. दोषभावे हि तस्य भावः, तदभावे चाभावो दृश्यते. कामिली पीतम् इदम् इति शङ्खं जानाति, तद्[296]अपगमे शुक्लम्. अतो जानीमः यथादोषभावभाव्यप्रामाण्यं तत् कार्यम् इति, अत आह -- मत्पक्ष इति. अयम् अभिप्रायः -- नात्र दोषैर् अप्रामाण्यं जन्यते. सत्सु तु दोषेष्व् असन्तो गुणा न स्वकार्यं प्रामाण्यं जनयन्तीति नावस्तुनो ऽप्रामाणस्य हेतुमत्त्वप्रसङ्गदोष इति

2.42

__________नोतेस्__________
[296] दभावे शु (ख)
किं पुनः प्रामाण्ये कारणं, यदभावात् तस्यानुत्पत्तिः, अत आह -- इन्द्रियादी ति कारणम् अन्तेन. आदिशब्देनार्थपुरुषादीनां ग्रहणम्. इन्द्रियपुरुषगुणाश् च व्याख्याता एव. अर्थस्यापि स्थूलत्वादयो गुणाः सूक्ष्मत्वादयो दोषा इति. समधिगतं तावदिन्द्रियादिगुणाः प्रामाण्ये{1,88}कारणम् इति. कथं[297]तु तदभावः, अत आह -- तदसद् इति. ते एव विधे दर्शयति -- दुष्टत्वाद् इति. दोषा ह्य् आगन्तवो गुणानुत्सारयन्ति. इन्द्रियादीनाम् अन्यतमस्याभावे निराश्रया गुणा न भवन्ति, यथा नित्यवेदवादिनाम् असति कर्तरि तद्गुणा इति

2.43

__________नोतेस्__________
[297] किं तत्र तद
यत एव दोषैर् गुणा निराक्रियन्ते, अत एव मीमांसकानाम् अयं भ्रमो दोषैर् मिथ्यात्वधीर् जन्यत इति. परमार्थेन तु गुणविरोधिनो दोषास्तानेव निवारयन्ति. अतः कारणाभावाद् असति प्रामाण्ये स्वाभाविकम् अप्रामाण्यम् अवतिष्ठत इत्य् आह -- अत एवे ति

2.44

अतः[298]सिद्धं शुद्धिपर्यायगुणावधारणाधीनं प्रामाण्यम्. स्वभावतश् च ज्ञानानाम् अप्रामाण्यं, शुद्ध्यभावेन तल्लक्ष्यते. असति हि शुद्धत्वे कारणाभावनिराकृतेन प्रामाण्येनानपोदितम् अप्रामाण्यं लक्ष्यत इत्य् उपसंहरति -- तस्माद् इति

2.45

__________नोतेस्__________
[298] तः शु (ख)
इतश् च दोषतो नाप्रामाण्यम् इत्य् आह -- अन्वये ति. अस्यार्थः -- त्रिविधम् अप्रामाण्यम् अज्ञानसंशयविपर्ययैः. तत्राज्ञानात्मकं तावदप्रामाण्यं कारणाभावमात्रसमधिगम्यम् एव, न दोषानपेक्षत इति मीमांसकैर् अभ्युपगन्तव्यम्. अतो दोषव्यतिरेके ऽपि कारणाभावमात्रान्वये ऽप्रामाण्यदर्शनान् न दोषतो ऽप्रामाण्यम् इति

2.46

एवं च गुणाधीनप्रामाण्याभ्युपगमान् नित्यवेदवादिनां च पुरुषाभावाद्, अनाश्रयगुणासम्भवात्, कर्तृमद्वेदवादिनाम् अपि कर्तृगुणेषु{1,89}प्रमाणासम्भवाद् असन्[299]मूलभूतेषु कर्तृगुणेषु न चोदनानां प्रामाण्यम् अवकल्पत इत्य् आह -- ततश् चे ति

2.47

__________नोतेस्__________
[299] सत्सु मू (ख)
एवं तावत् परतः प्रामाण्येन कृतः पूर्वपक्षः. सिद्धान्तम् इदानीम् आरभते -- स्वत इति. कारणम् आह -- न ही ति. अयम् अभिप्रायः -- न तावद् गुणज्ञानात् संवादज्ञानाद् वा प्राग् ज्ञानं न जायत एव. नवोत्पन्नम् अपि संशयात्मकम् अवभासते. न हि स्याद् वा घटो न वेति इन्द्रियसन्निकृष्टं घटं बुध्यामहे, अपि तर्हि घट एवायम् इति निश्चयात्मकम् एव ज्ञानम् उत्पद्यते. अत एव ज्ञानोत्पत्तेर् अनन्तरम् एव सर्वप्रमातॄणां व्यवहारप्रवृत्तिर् उपलभ्यते. भ्रान्तिसंविदितरजतो ऽपि हि सम्यग्रजतबोध इवार्थक्रियायै घटमानो दृश्यते. तद् अस्य संशयानस्य नोपपन्नम्. अतो जातो[300]निश्चयः. किम्[301]अन्यत् प्रामाण्यं भविष्यति. सत्य् अपि संवादे गुणज्ञाने वा तावद् एव प्रामाण्यस्य तत्त्वं नाधिकं किञ्चिद् इति किं नस् तदुपेक्षणेन. तादृशस्यैव व्यभिचाराद् अस्ति परापेक्षेति चेद्, न. एवम् अपि ज्ञानस्यानपेक्षत्वाद्, विप्रलब्धपूर्वस्यापि निरपेक्षम् एव निश्चयात्मकं ज्ञानम् उत्पद्यते. प्रमाता तु विप्रलम्भकबुद्धिसादृश्यात् तथात्वम् आशङ्कते. साशङ्कस्यापि न प्रामाण्यशक्तिर् अवसीदति, पूर्ववत् प्रमेयपरिच्छेदात्. प्रमातुस् तु आशङ्का दोषदर्शनप्रभ[302]वा. तद् असौ तद्भावाभावयोर् अन्यतरनिश्चये निवर्तते, न संवादज्ञानम् अपेक्षते. सत्य् एव हि घटज्ञाने जाताशङ्कः किं घटज्ञानान्तरेण करिष्यति. न ह्य् अस्यास् तन्निवर्तकं, तस्मिन् सत्य् एव भावात्. अतः स्वाभाविकम् एव सर्वसंविदां निश्चयात्मकत्वम्. आशङ्का तु यदि नाम जातु जायते, एवम् अपि तन्निराकरणार्थम् अपवादसद्भावाभावाव् अनुसर्तव्यौ, न संवादगुणज्ञाने. तदु[303]पेक्षायां हि प्रामाण्यम् एव नावतिष्ठेत. गुणसंवादज्ञानयोर् अप्य् एवम् एव, सापेक्षत्वेन प्रथमज्ञाने प्रामाण्यशक्त्याधाना[304]शक्तेर् अप्य्[305]अनवस्थापाताद् इत्य् एतत् परस्तात् प्रपञ्चयिष्यत इति. एवं तावत् प्रकृताभिप्रायो व्याख्यातः. अपि{1,90}च सर्वभावानाम् एव स्वकार्यजननशक्तिर् असती नान्येन क्रियेत. अभिव्यक्तिमात्रकरणात्. नन्व् आतुरस्य रोगापहृतशक्तेर् असत्य् एव भोजनादिशक्तिर् भेषजभेदैर् आधीयते. मैवम्. तिरोहिताभिव्यक्तेः. इतरथा पूर्वशक्तिविनाशापूर्वोत्पादधर्मिकल्पनाभिर् अतिगौरवं भवेत्. अत एव नष्टशक्तीनां भेषजभेदैर् अपि न प्रतीकारः. असती तु शक्तिस् तेषाम् अपि जन्येतैव, अविशेषात्. अतः सर्वे
भावाः स्वहेतुभ्यः शक्तिमन्तो जाता एव कुतश्चिदागन्तुकाद् धेतोस् तिरोहितशक्तयः सामग्रीविशेषैर् अभिव्यक्तशक्तयः कार्यम् आरभन्ते. न चैवं ज्ञाने ऽप्य् अभिव्यक्त्यपेक्षा सम्भवति, अर्थावग्रहाद्, रूपान्तरेण ज्ञानस्यानिरूपणाद् उत्पत्ताव् एवा[306]र्थपरिच्छित्तेर् अवश्यम्भावाद् इति

2.48

__________नोतेस्__________
[300] ज्ञा (क, ख)
[301] म् अप्रमाणं भ
[302] भावात् तद् असौ
[303] द (ग)
[304] न (क)
[305] व्यव (ख)
[306] व प (ख)
ननु स्वतःप्रामाण्यवादिनापि गुणवदिन्द्रियादिकारणिकैव प्रमाणोत्पत्तिर् आस्थेया. तद् यदि गुणाः प्रमाणोत्पत्तौ कारणम्. एवं सति तत्कार्ये ऽप्य् अर्थनिश्चये तदधीनतैव युक्ता. तदायत्तप्रामाण्याश्रयणाद्, अत आह -- आत्मलाभ इति. अयम् अभिप्रायः -- प्रमाणोत्पत्ताव् अपि न गुणा गुणा इत्य् एवापेक्ष्यन्ते; किन् तु दोषनिराकरणौपयिकतया. दोषा हि प्रमाणोत्पत्तिं विघ्नन्ति. ते गुणैर् उत्सारिता न तां विहन्तुम् उत्सहन्ते इति. अत एवासत्स्व् अपि वक्तृगुणेषु कारुणिकत्वादिषु वेदे दोषाभावमात्राद् एव प्रामाण्यं सिध्यति. अपि च कारणं नाम गुणः प्रमाणोत्पत्तौ. नैतावता प्रमाणकार्ये ऽप्य् अर्थनिश्चये तदपेक्षा युक्ता. आत्मलाभमात्र एव हि भावाः कारणम् अपेक्षन्ते, न कार्यनिष्पत्तौ. न हि मृत्पिण्डदण्डादिकारणापेक्षो जन्मनि घट इति उदकाहरणे ऽपि तस्य तदपेक्षा दृष्टा. लब्धात्मनस् तु स्वयम् एव कारणनिरपेक्षा प्रवृत्तिर् अवगता. अतः सर्वथा तावदर्थव्यवस्थापनायाम् अन्यान् अपेक्षम् एव प्रमाणम् इति सिद्धम् इति

2.52

स्वतो ऽसती शक्तिर् अन्येन कर्तुं न शक्यत इति यद् उक्तं तत् प्रपञ्चयति -- जाते ऽपी ति त्रिभिः. अयम् अभिप्रायः -- प्रामाण्यस्य ह्य् अन्यानपेक्षत्वम्{1,91}एव निबन्धनम्. यदि जाते ऽपि विज्ञाने कारणगुणावधारणाधीनं प्रामाण्यं भवेत्, ततः शुद्धिज्ञानोत्पादः कारणान्तरात् प्रतीक्षितव्यः. तस्याः शुद्धेर् अपरिच्छिन्नाया असत्समत्वात् तस्यापि शुद्धिज्ञानस्य कारणशुद्धौ सत्यां तस्याः शुद्धेर् ज्ञाने च सति प्रमाणता भवति. एवम् एव मूलकारणशुद्धिज्ञानस्यापरापरशुद्धिज्ञानापेक्षायाम् अनवस्थापातान् न कथञ्चित् प्रामाण्यम् आपद्यत इति ॥ 49-51 ॥
स्वतस् तु प्रामाण्ये नानवस्थेत्य् आह -- यदे ति. कारणम् आह -- निवर्तत इति. अयम् अभिप्रायः -- अर्थनिश्चयस् तावज्ज्ञानस्वभावाद् एव सिद्धः. मिथ्यात्वशङ्का तु तद्धेतुभूतदोषाज्ञानाद् अयत्नेनैव निवर्तते. न हि दोषाणाम् अज्ञानं प्रागभावो यत्नसाध्यः. ननु नाज्ञानमात्राद् अभावः सिध्यति. सत्य् अपि[307]तस्मिन् भावात्. न च दोषाभावावधारणम् अन्तरेण प्रामाण्यं सिध्यति. सत्यं, तद् अपि त्व् अयत्नसाध्यम् एव, प्रायेण तावत् प्रमातॄणाम् अनाशङ्क एव ज्ञानोत्पत्तौ व्यवहारो दृश्यते. जाताशङ्कस्यापि प्रसिद्धा एव शङ्कानिराकरणोपायाः, दाहच्छेदादयः स्वर्णादाव् इति. तावतैव निश्चयोत्पादान् नातिदूरगमनम्. एतच् चोपरिष्टाद् वक्ष्यत एवेति

2.53

__________नोतेस्__________
[307] पि भावात् तस्मिन् च न (क)
तस्माद् बोधस्वभावानुबन्धि ज्ञानानाम् औत्सर्गिकं प्रामाण्यं कारणदोषार्थान्यथात्वज्ञानाभ्याम् अपोद्यत इत्य् उपसंहरति -- तस्माद् इति. अर्थान्यथात्वज्ञानं{1,92}च द्वेधा. नैतद् एवम् इति पूर्वावगतरूपोपमर्दनेन, तत्त्वप्रकाशनेन वा. हेतवो ज्ञानानाम् इन्द्रियादयः. तेषु वातादिसमुत्थास्तिमिरादयो दोषाः तज्ज्ञानेनोत्सर्गतः प्राप्नुवती प्रमाणतापोद्यत इति

2.54

यत्पुनरप्रामाण्यम् अवस्तुत्वान् न कारणैर् जन्यत इत्य् उक्तं, तत् परिहरति -- अप्रामाण्यम् इति. यदि नाम त्रेधा भिन्नम् अप्रामाण्यं ततः किं जातम् अत आह -- वस्तुत्वाद् इति. अयम् अभिप्रायः -- त्रिविधं खल्व् अप्रामाण्यं ज्ञानाभावसंशयविपर्ययैः. तत्र संशयविपर्ययौ प्रति अवस्तुत्वाद् इति हेतुर् असिद्धः, ज्ञानात्मकवस्तुत्वात् तयोर् इति

2.55

ज्ञानप्रागभावस् त्व् अवस्तुतया सिद्ध एव. न चास्माकम् अप्य् असौ दोषैर् जन्यते, ज्ञानकारणाभावाद् एव त्वदुक्तिवत् तत्सिद्धेः. अतस् तस्मिन्न् अकारणके साध्यमाने सिद्धसाध्यतैवेत्यभिप्रायेणाह -- अविज्ञान इति. न चाप्रामाण्यशब्द[308]वाच्यतामात्रेण संशयविपर्यययोर् अप्य् अकारणकत्वं शक्यम् अनुमातुम्, अज्ञानवद्, वाचो ऽपि गोशब्दवाच्यतया विषाणित्वाप[309]त्तेर् इति

2.56

__________नोतेस्__________
[308] ब्दा (ख)
[309] त्वानुमानापत्तेः (ग)
नन्व् इयम् अनवस्था प्रामाण्य इव पराश्रये ऽप्रामाण्ये ऽपीष्यमाणे आपद्यत एव, पारतन्त्र्यं ह्य् अनवस्थाम् आपादयति. अतः को विशेषः, अत आह -- दोषत इति. अस्यार्थः -- स्वतःप्रामाण्यवादिनां मीमांसकानां दोषतो ऽप्रमाणत्वे नानवस्था भवति. दोषेषु ज्ञातव्येषु यथा गुणज्ञाने ऽनवस्थापादितेति

2.57

{1,93} स्वतःप्रामाण्यवादिनाम् इति चानवस्थापरिहारबीजम् उक्तं, तदुद्धाटयति -- साक्षाद् इति. अयम् अभिप्रायः -- सजातीयापेक्षायां ह्य् अनवस्था भवति. यथा[310]प्रामाण्यस्य प्रमाणापेक्षायाम् उक्तम्. अप्रामाण्यं तु स्वतः प्रमाणेन नैतद् एवम् इति साक्षाद् विपर्ययज्ञानेन यत्र तावदवगम्यते, तत्र लघुतरम् एव गृहीतम् इति न पराश्रयत्वमात्रम् अनवस्थाम् आपादयतीति. ननु स्वतःप्रामाण्ये पूर्वम् अपि ज्ञानम् उत्पन्नम् असन्दिग्धम् इति किम् अप्रमाणं भविष्यति येन परेण पूर्वं बाध्यते. तेनैव तु किं न परं बाध्यते, अत आह -- पूर्वे ति. अयम् अभिप्रायः -- सत्यम्, उत्सर्गतः पूर्वस्यापि प्रामाण्यं प्राप्तम् एवापवादभूतेन तूत्तरेण बाध्यमानं तदप्रमाणं भवति. यत् तु तेनैव किं नोत्तरं बाध्यत इति. तन् न, न हीच्छामात्रेण बाध्यबाधकभावो व्यवस्थाप्यते. यद् धि यद्बाध[311]कम् अवभासते तत् तस्य बाधकम् अभिधीयते. नचानागतोत्तरबाधकरूपेण पूर्वम् अवभासत इति नचानागतबाधेनेत्य् अत्रैव वक्ष्यति. उत्तरस्य तु पूर्वज्ञानबाधम् अन्तरेणोत्पत्तिर् एव न सम्भवति. उत्पन्नं च तत्. अतस् तद् एव पूर्वस्य बाधकम्. तच् च स्वत एव प्रमाणम् इति न काचिदनवस्थेति

2.58

__________नोतेस्__________
[310] प्रमाणस्य (ग)
[311] धमानम् अ (क)
नन्व् अस्तु साक्षाद् विपर्ययज्ञानेन परेण पूर्वस्य बाधः, उभयोर् अपि समानविषयोपनिपातात्. यत्र तूत्तरं कारणदोषविषयं भवति, तत्र विषयभेदान् न बाधो युक्त इति दुरुक्तं हेतूत्थदोषज्ञानात् प्रामाण्यम् अपोद्यत इत्य् अत आह -- दुष्टे ति बाधो ऽन्तेन. अयम् अभिप्रायः -- यद्य् अपि दुष्टकारणबोधे विषयभेदः पीतशङ्खादिविभ्रमेषु, तथाप्य् अर्थात् तुल्यार्थतां प्राप्य बाधो भवत्य् एव. शङ्खे हि पीत इति विदिते परतश् च ज्ञानकारणदोषे ऽवगते ऽर्थात् पीतिमा शङ्खस्य प्रतिक्षिप्तो भवति. यत्कारणाधीनात्मलाभं हि यत् कार्यं, तत् तद्दोषे दुष्यति. एष च ज्ञानस्य दोषः यदन्यथास्थितस्यान्यथाप्रकाशनम्. अतः कारणदोषे ऽवगते ऽर्थान्यथात्वम् एवावगतं भवति. एवं च{1,94}साक्षाद्विपर्ययज्ञानेन तुल्यत्वम् इति. अत्रैव वैदिकन्यायम् उदाहरति -- गोदोहनादिवद् इति. दर्शपूर्णमासयोः क्रत्वर्थेन चमसेनापां प्रणयने विहिते भवत्य् अपरो गुणफलसम्बन्धविधिः. यथा गोदोहनेन पशुकामस्य प्रणयेद् इति. अस्यार्थः -- गोदोहनेन पशून् भावयेद् इति. तद् इदं पुरुषाभिलषितपश्वर्थ[312]तया पुरुषार्थम् एव[313]सद् गोदोहनं क्रत्वर्थस्य चमसस्य बाधकम् इष्यते. तत्रापि च स्फुटो विषयभेदः. क्रतूपकारो हि चमसस्य साध्यः. पशवो गोदोहनस्यार्थाद् एव तुल्यार्थतया तत्रापि बाधो वक्ष्यते. गोदोहनं हि द्रव्यम्. न तत् क्रियाम् अनाश्रितम् उदासीनं फलं भावयितुम् अलम् इति यांकाञ्चित् क्रियाम् आश्रयतया समीहमानं सन्निहितं क्रत्वर्थमपां प्रणयनं गृह्णातीति तदाश्रितेन पशवो भावयितव्या इति शास्त्रार्थो ऽवतिष्ठते. एवं च तेनैव क्रत्वर्थमपां प्रणयनं सिद्धम् इति चमसो निवर्तते. नन्व् असाव् एव क्रतौ विनियुक्त इति कथं तत्परित्यागेन गोदोहनेन क्रतूपकारो भाव्यते. सत्यम्. पशुकामप्रयोगे तु क्रतुर् अपि गोदोहनम् एव स्वोपकारसाधनतयानुजानाति. कार्यार्थो हि स्वगुणं प्रत्यादरः, न स्वीयतया. तच् च कार्यं फलार्थत्वाद् एव गोदोहनाद् आसादितं क्रतुनेति किम् आदरेण स्वगुणे. आह च --
__________नोतेस्__________
[312] र्थं
[313] व गो (ग)
सर्वस्यैव हि कार्यार्थः स्वगुणग्रहणादरः ।
अन्यार्थगुणसिद्धे तु कार्ये ऽस्याः स्वगुणेन किम् ॥
इति. तद् इह यथा पुरुषार्थेनैव गुणेन भिन्नविषयो ऽपि क्रत्वर्थश् चमसो ऽर्थात् तुल्यार्थतया बाध्यते, एवम् अत्रापीति न दोष इति

2.59

किम् एष एवोत्सर्गः यत् सर्वदा परेण पूर्वं बाध्यते. नेत्य् आह -- तत्रे ति. यदि तत्र दुष्टकारणबोधे नैतद् एवम् इति विपर्यये वा परा बाधधीर् न भवति कारणदोषज्ञानं वा, तदा पूर्वस्य बाधो भवति न त्व् अन्यथेति. अथोभयोर् अन्यतरोद्भूतौ किं नाम भविष्यति, अत आह -- तदुद्भूताव् इति. तदा बाधके सापवादे प्रथमम् एव निरपवादम् औत्सर्गिकं प्रामाण्यं लभत इति

2.60

{1,95} ननु प्रमाणेन सता तृतीयेन बाधकं बाध्यते. तद् एव तु कथं प्रमाणम् अत आह -- स्वत इति. सर्वं खलु विज्ञानं जातं स्वत एव प्रमाणम् अविज्ञायमानदोषम्. तथा च तृतीयम्. अतस् तेन बाधकबाधने कृते भवत्य् आद्यस्य मानतेति. नन्व् असत्स्व् अपि[314]दोषेषु दोषाशङ्का यथा आदिमे जाता, एवम् अन्तिमे ऽपीति प्रामाण्यं नावतिष्ठते, अत आह -- दोषे ति. अयम् अभिप्रायः -- जाते दोषज्ञाने सम्भाविता दोषाः प्रामाण्यं विघ्नन्ति. तृतीये तु दोषज्ञानं न तावदुत्पन्नम्. शङ्का तु नोत्प्रेक्षामात्रेण कर्तुम् उचिता, सर्वव्यवहारोच्छेदप्रसङ्गात्.
__________नोतेस्__________
[314] षाश
अत एव च गीतासु नरं नारायणो ऽब्रवीत् ।
नायं लोको ऽस्ति कौन्तेय न परः संशयात्मनः ॥
इति. यस्य तु तृतीये विज्ञाने दोषज्ञानं बाधक[315]ज्ञानं वा जायते, तस्यास् तु चतुर्थज्ञाना[316]वसानो निर्णयः. न त्व् एतद् एवं, प्रायेण हि प्रथमज्ञानजन्मन्य् एव निरपवादो निर्णयो दृश्यते. क्वचित् तु बाधका[317]वसानस् तृतीयज्ञानोदयो ऽपि नातिप्रचुरः. नतरां चरुर्थज्ञानजन्म. सत्य् अपि तु तस्मिन् न स्वतःप्रामाण्यं विहन्यते इत्य् एवम् परतयैवेदम् अस्माभिर् उक्तम्. अस्तु चतुर्थज्ञानान् निर्णय इति वार्त्तिककारो ऽप्य् अत एव एवं त्रिचतुरज्ञानजन्मन इति वक्ष्यतीति. किं पुनः कारणम् अनुत्पन्ने दोषज्ञाने नाशङ्केति. न हि प्रयोजनानुवर्तीनि प्रमाणानि. दृष्टव्यभिचारस्य हि प्रमातुर् एकत्रापि नाश्वासो भवेद् यदि चैवम् उच्छिद्यन्ते व्यवहाराः. कामं प्रमाणतो हि ते परिनिस्तिष्ठन्ति. न तेभ्यः प्रमाणम् अत आह -- निष्प्रमाणिके ति. अयम् अभिप्रायः -- यावद् धि दोषाणाम् अभावो नावधार्यते, तावत् प्रमाणेतरसाधारणधर्मदर्शिनो भवत्य् आशङ्का प्रमाणवती. दोषाभावावधारणे तु जाते तानाशङ्कमानस्याभावविरोध एव.[318]अर्थेन्द्रियादयो हि ज्ञानकारणम्. तद्दोषा दूरत्वतिमिरादयः. तद् यथा दूरे सन्तस्तरवो वनम् इत्य् एकाकारतया परिगृहीताः सन्निकर्षे नाना दृश्यन्ते. तदा दूरत्वदोषाद् एकत्वबुद्धिर् उपजातेति निश्चीयते. नानात्वबुद्धेस् तु न कश्चिद् दोषो दृश्यत इति कथम् आशङ्क्यते.{1,96} एवं सन्तमसे गव्यश्वभ्रमे स एव दोषः. दिवा तु गोज्ञाने न कश्चिद्दोषः सम्भाव्यत इति तत्प्रमाणम्. एवं चक्षुरादिदोषाणां तिमिरादीनाम् अभावे ऽवगते निष्प्रमाणिकैव दोषाशङ्का. यत्रापि सादृश्यचलत्वादयो विषयदोषा भ्रान्तिहेतवः, तत्रापि भेदकधर्मावधारणे निश्चलत्वे ऽवगते च न काचिद् दोषाशङ्केति न तत्समयभाविनो ज्ञानस्याप्रामाण्यम् इति

2.61

__________नोतेस्__________
[315] को वा
[316] नान् निर्णयः (क); नाद् ज्ञानोदयो निर्णयः (ख)
[317] काधीनस् तृ (क)
[318] आत्मे (ख)
एवं त्रिचतुरैर् एव ज्ञानैर् दोषाभावसिद्धेर् न ततो ऽधिका मतिः प्रार्थनीया प्रामाण्यसिद्धये, येनानवस्था भवेत्. यावद् एव तु तृतीयं चतुर्थं वा ज्ञानम् उत्पन्नं, तावद् एवैकं पूर्वम् उत्तरं वा निरपवादं स्वतःप्रामाण्यम् आपद्यत इत्य् आह -- एवम् इति

2.62

समधिगतं तावत् सर्वप्रमाणानां स्वतःप्रमाणत्वं दोषतश् चाप्रमाणत्वम् इति. प्रकृतम् इदानीं वेदानां प्रामाण्यं यथा सिध्यति तथा प्रतिपादनीयम्. तदर्थं च वक्त्रधीना एव शब्दे दोषा न स्वाभाविका इत्य् आह -- शब्द इति. अयम् अभिप्रायः -- यदा वक्त्रधीनाः शब्दे दोषा इति समधिगतं भवति, तदा वेदे वक्तुर् अभावान् निराश्रया दोषा न सम्भवन्तीति निरपवादं प्रामाण्यम् उप[319]पन्नं भवति वेदानाम्. स्थितं चेदं यत् पराधीनः शब्दे दोष इति, स हि ना(?र्था।र्थ)संस्पर्शीति पूर्वम् उपपादितम्. पुरुष एव भ्राम्यन्न् अन्यद् अन्यथा बुद्ध्वा तथैव परस्मै[320]प्रतिपादयन् शब्दं दूषयति. क्वचिच् चान्यथैव ज्ञात्वा विप्रलिप्सयान्यथा वदति, तत्रापि तदधीनैव शब्दे दोषावगतिः. स्थानकरणादिदोषाद् वा कलाध्माताम्बूकृतैणीकृतादिदोषदुष्टः शब्दो लक्ष्यते. सर्वथा पराधीन एव शब्दे दोषावगमः, न पुनर् असुरभिगन्धवत् स्वभावदुष्टः शब्द इति. स इदानीं वक्त्रधीनो दोषो गुणवद्वक्तृप्रयुक्ते वा क्वचित् पौरुषेये वाक्ये न भवतीत्य् आह -- तदभाव इति

2.63

__________नोतेस्__________
[319] त्पन्नं (क)
[320] कथयञ् छब्दं (ख, ग)
{1,97} ननु वक्तृगुणा वक्तर्य् एव दोषानुत्सारयन्ति, कथं तैर् निरस्तैः शब्दो निर्दोषो भवत्य् अत आह -- तद्गुणैर् इति. उक्तं वक्तृदोषा एव शब्दं दूषयन्तीति. स चेद् गुणैर् उत्सारितो दोषः, कः प्रसङ्गः शब्दे दोषाणाम्. न हि वक्तर्यनाश्रितानाम् एव दोषाणां शब्दे सङ्क्रान्तिः सम्भवतीति फलतः सङ्क्रान्तिवाचोयुक्तिर् इति. वक्त्रभावाद् एव वा निराश्रया दोषा नोत्सहन्ते भवितुं नित्यवेदवाक्य इत्य् आह -- यद् वे ति. दोषाभावाच् च न स्वतःप्रामाण्यं वेदानां विहन्यत इति भावः

2.64

नन्व् अङ्गीकृतं तावद् भवतापि पुंवाक्येषु गुणेभ्यो दोषाभाव इति. एवं च कुतो ऽयं विवेकः दोषनिराकरण एव गुणा व्याप्रियन्ते न तु प्रामाण्य इति, अत आह -- पौरुषेये इति. अयम् अर्थः -- सत्यं पौरुषेयवाक्येषु दोषाभावगुणात्मकम् उभयं दृश्यत एव. यथा तु गुणतो न प्रामाण्यं तथा प्रामाण्यं प्रागुक्तम् एव अनवस्था हि तथा स्याद् इति. अतो दोषाभावमात्रौपयिका गुणा न स्वरूपेण प्रामाण्य उपयुज्यन्त इति

2.65

एतद् एवोपसंहरति -- तस्माद् इति. अप्रामाण्यस्य हि द्वयं कारणं कारणदोषज्ञानं बाधकप्रत्ययो वा. गुणनिराकृतेषु च दोषेषु पुंवाक्येषु नोभयम् अपि सम्भवति. न ह्य् असनतो दोषा ग्रहीतुं शक्यन्ते. न चादुष्टकारणजनितस्य ज्ञानस्य बाधकः प्रतितिष्ठति. अतो ऽप्रामाण्यस्य यत् कारणद्वयं तदसत्त्वाद् उत्सर्गतः प्रामाण्यम् अनपोदितम् इति

2.66

असति चापवादे न प्रत्ययजनकत्वेनोत्सर्गतः प्राप्तं प्रामाण्यं पुंवाक्यानाम् अपनीयत इत्य् आह -- प्रत्ययोत्पत्तिर् इति. अत्र चोदयति -- दोषाभाव {1,98}इति. यद्य् आप्तवाक्येषु गुणनिबन्धनो दोषाभावः, एवं तर्हि गुणज्ञानाधीन इव प्रामाण्ये ऽनवस्थैव. कः खल्व् अत्र विशेषः, गुणज्ञानाधीनं वा प्रामाण्यं तदधीनो वा दोषाभाव इति. यद् एव हि दोषाभावं ग्रहीतुं गुणज्ञानम् अपेक्ष्यते, तस्यैव हि गुणज्ञानाधीनो दोषाभावः, तस्याप्य् एवम् इति सैव पूर्वोक्तानवस्था. तथश् च प्रामाण्योत्खातिर् इति

2.67

परिहरति -- तदे ति.
अयम् अभिप्रायः -- यदि ज्ञाता एव गुणा दोषानुत्सारयेयुः, एवम् अनवस्था भवेत्. न त्व् एतद् एवम् इति. कथं नाम व्याप्रियन्ते अत आह -- दोषाभावे इति. सन्मात्रतया गुणा दोषानुत्सारयन्ति.[321]अतो ऽसन्तो दोषा न ज्ञाता इति सहजं प्रामाण्यम् अवतिष्ठत इति

2.68

__________नोतेस्__________
[321] त
तद् एवं तावद् गुणनिराकार्यदोषेष्व् अपि पुंवाक्येषु दोषपरिहार उक्तः. अकर्तृसन्दृब्धे तु वेदे निराश्रया दोषाः शङ्काम् अपि नाधिरोहन्तीत्यप्रामाण्यशङ्कापि नास्त्य्[322]एवेत्य् आह -- तत्रे ति. प्रामाण्यस्यौत्सर्गिकस्याप्रामाण्यम् अपवादभूतं तन्निर्मुक्तिर् वेदे लघीयसी न पुंवाक्यवद् गुणापेक्षि[323]तया गुर्वीति भाव इति

2.69

__________नोतेस्__________
[322] स्तीत्या
[323] क्ष (क)
यतः पुंवाक्येष्व् अपि न गुणापेक्षं प्रामाण्यम्, अतो न शब्दानां प्रमाणता वक्त्रधीना. तद्गुणापेक्षायां तु तदधीनता भवेत्. न चैतद् एवम् इति वर्णितम् एव. अतो यद् नैयायिकादिभिः प्रामाण्यसिद्ध्यर्थं वेदे वक्तुर् उपासनं कृतं महेश्वरेण वेदाः प्रणीता इत्य् आश्रितं तद् अयुक्तं, दोषाभावाद् एव तेषां स्वतः प्रामाण्यसिद्धेर् इत्यभिप्रायेणाह -- अत इति न युक्तम् अन्तेन.{1,99}अप्रमाणत्वानुगुणैव दोषाशङ्काम् उपजनयन्ती कर्तृकल्पनेत्य् आह -- अप्रमाणत्वे ति

2.70

अत एव च यद् अपि नास्तिकैर् आप्ताप्रणीतत्वेनाप्रामाण्यप्रसञ्जनं कृतं, तद् अप्य् अत्र नित्ये वेदे दोषाय न जायत इत्य् आह - ततश् [324] चे ति. अयम् अभिप्रायः -- पौरुषेयवाक्यम् आप्ताप्रणीतत्वेन दुष्यति. तद् धि तदप्रणीतम् अर्थादनाप्तप्रणीतं भवेत्. ततश् च तद्दोषदुष्टम् अप्रमाणं भवेत्. नित्यं तु यदि नामाप्ताप्रणीतम्, एवम् अपि निर्दोषम् एवेति न तस्याप्ताप्रणीतत्वेन प्रामाण्यं विहन्यते. पौरुषेयम् अपि हि नाप्ताप्रणीतत्वेनाप्रमाणम्, अपि तु अनाप्तप्रणीततया. सा च नित्ये नास्तीति किम् अप्रमाणं भविष्यतीति. ननु व्याप्तिबलेन परैर् आप्ताप्रणीतत्वेनाप्रामाण्यं साधितं बालादिवाक्यनिदर्शनेन यद् वाप्तेनाप्रणीतत्वाद् इत्य् अत्र. अतो हेतुदोषा एव विरुद्धासिद्धादयो ऽभिधीयन्ताम्. किं स्वगोत्रानुसारिणा वचनेन, अत आह -- प्रयोगाणाम् इति. न परमस्य प्रयोगस्य, सर्वेषाम् एव प्रयोगाणाम् उत्तरत्र प्रतिसाधनं वक्ष्याम एव चोदनाजनिता बुद्धिर् इत्यादिना. अतः प्रतिहेतुविरुद्धा अप्रामाण्यहेतवः संशयजनकतया नाप्रामाण्यं निश्चाययन्ति यदि तुल्यबलाः. अथ तु प्रामाण्यहेतवो बलीयांसः, ततस् तद्बाधिता नतरामात्मानम् अप्रामाण्यहेतवो लभन्त इति

2.71

__________नोतेस्__________
[324] त इति (क)
कथं पुनराप्ताप्रणीतत्वं न दोषाय, आप्तो हि प्रमाणेनार्थं प्रतिपद्य वाक्यम् आरचयति. तच् च मानान्तरसंवादाद् एव हि प्रमाणं भवति. आप्ताप्रणीतं ह्य्[325]असन्मूलप्रमाणान्तरं कथं प्रमाणं भविष्यतीत्य् अत आह -- पौरुषेये ति. अयम् अभिप्रायः -- वेदवाक्यं मूलान्तरानपेक्षम् एव स्वार्थे प्रमाणं, किं तस्य प्रमाणान्तरेण. पौरुषेये तु वचसि प्रमाणान्तरं मूलकारणम् इति तत् तदभावे दुष्यतीति

2.72

__________नोतेस्__________
[325] त्व (ख, ग)
{1,100} यत् तु असन्मूलान्तराणाम् असम्भवत्संवादानां कथं प्रामाण्यम् इति, तद् अयुक्तम्. येनैव हि कारणेन प्रमाणान्तरमूला न चोदनाः, तेन येयम् असङ्गतिस् तासां प्रमाणान्तरैः, सैव सुतरां प्रामाण्यकारणम्. अत एव अर्थे ऽनुपलब्धे इति वक्ष्यति. अप्राप्ते शास्त्रम् अर्थवद् इति च. प्रमाणान्तरमू[326]लत्वे ऽनुवादत्वम् एवासाम् आपद्यते, न प्रामाण्यम्. न हि नो गन्तृमात्रं प्रमाणम् इत्यभिप्रायेणाह -- तेने ति.

2.73

__________नोतेस्__________
[326] प्राप्तविषयत्वे (ख)
यद् अपि तावत् प्रमाणान्तरगोचरार्थं पुंवचनं, तस्यापि प्रामाण्ये न संवादः कारणम्. किमङ्ग पुनः प्रमाणान्तरागोचरार्थानां वेदवाक्यानाम् इत्यभिप्रायेणाह -- अन्यस्यापी ति. तद् अपि स्वत एव प्रमाणम् इति भावः. नन्व् एक एवार्थो ऽनेकेभ्य आप्तवाक्येभ्यो ऽवगम्यते. सर्वाणि च तानि प्रमाणानि. यथा -- अष्टवर्षं ब्राह्मणम् उपनयीत
गर्भाष्टमे ऽब्दे[327]कुर्वीत ब्राह्मणस्योपनायनम्
__________नोतेस्__________
[327] वा
इति च. अतः कथम् उच्यते प्रमाणान्तरागोचरार्थत्वम् एव प्रामाण्ये कारणम् इति, अत आह -- तुल्यार्थानाम् इति. एकार्थोपनिपातिनां हि व्रीह्यादीनां विकल्पो वक्ष्यते एकार्थास् तु विकल्पेरन् (12.3.10) इति. अतो ऽत्रापि प्रमातृभेदाद् व्यवस्थितविकल्प एव प्रमाणानां, शाखादिविकल्पवत्. न पुनरन्योन्यसंवादः प्रामाण्ये कारणम्. तथा हि -- गौतमीयगोभिलीये छन्दोगानां, याज्ञवल्कीयं वाजसनेयिनां प्रमाणं विकल्प्यत्वात्. विकल्पनीयत्वाद् एकैकं स्मृतिवाक्यम् एकैकस्य प्रमातुर् बोधकं न त्व् अन्योन्यसंवादात्[328]प्रामाण्यम्, धर्मद्रोणाध्यायिनाम् अपि नान्योन्यसंवादः प्रामाण्ये कारणम्. एकस्माद् धि तम् अर्थं विदितवतो ऽन्यदनुवाद एव. अन्यस्यैव तु तत् प्रमाणम्. एवं भिषग्विद्यास्व् अपि दर्शयितव्यम् इति

2.74

__________नोतेस्__________
[328] दःप्रामाण्ये कारणम्. ध (ख, ग)
{1,101} यत्र तर्हि प्रमातुर् एकस्यैवैकार्थगोचरा नानाप्रमाणैः परिच्छेदा जायन्ते तत्र कथम्. यथा कश्चिद् दूरे सन्तम् अग्निं प्रथमम् आप्तवाक्याद् अवगच्छति, पुनश् चोपसर्पन् धूमाद् अनुमिनोति, ततः पुनरत्यन्तम् आसीदन् प्रत्यक्षयति. तत्र हि सर्वाण्य् एव प्रमाणानि, परस्परसङ्गतार्थानि च. अतः कथं न संवादः प्रामाण्ये कारणम् इत्य् अत आह -- यत्रापी ति. अयम् अभिप्रायः -- यदि तावदनधिकविषयाण्य् एव तानि सर्वाणि, तत एकम् एव तत्राद्यं प्रमाणम्. इतराणि त्व् अनुवादभूतानि. नचैतान्य् अनधिकविषयाणि. न ह्य् असाव् अर्थः पूर्वेण प्रमाणेन तथावगतः यथोत्तरैर् अवगम्यते, उत्तरोत्तरकालसम्बन्धातिरेकात्. अपि चाप्तवाक्यात् पर्वतो ऽग्निमान् इति सामान्यतो ऽवग[329]म्यते. पुनस् तदेकदेशविशेषो[330]धूमानुमानाद् अवगम्यते. असाधारणधूमदर्शनाच् च काष्ठादिभेदभिन्नः प्रत्यक्षेण च समुन्मी[331]लिताखिलविशेषो[332]विशदतरमयम् इत्य् अपरोक्षम् अवसीयते इत्य् अधिकाधिकविषयाणां न संवादतः प्रामाण्यम् इति

2.75

__________नोतेस्__________
[329] गते
[330] षो ऽनु
[331] दिता
[332] षो ऽपि वि (ख)
संवादनिबन्धने च प्रामाण्ये ऽनवस्थापद्यत इत्य् आह -- सङ्गत्ये ति

2.76

नन्व् अविसंवादि ज्ञानं प्रमाणम् अर्थक्रियास्थितिश् चाविसंवाद इति जातायाम् अर्थक्रियायां किं प्रमाणान्तरापेक्षया. यथाहुः --
प्रमाणम् अविसंवादि ज्ञानम् अर्थक्रियास्थितिः ।
अविसंवादनम्
इति. प्रत्यक्षम् अनुमानं च द्वे एव प्रमाणे इति प्रतिज्ञाय न ह्य् आभ्याम् अर्थं परिच्छिद्य प्रवर्तमाणो ऽर्थक्रियायां विसंवाद्यते इति च. अतो ऽर्थक्रियावसानैव प्रमाणस्थितिर् इति न ज्ञानान्तरापेक्षायाम् अनवस्था. अत आह -- कस्ये ति. अयम् अभिप्रायः -- अर्थक्रियाज्ञानम् अपि[333]न तावदप्रमाणम्[334]अर्थक्रियां व्यवस्थापयितुम्{1,102}अलम् इति तत्प्रामाण्यार्थम् अपरापरार्थक्रियानुसरणेनानवस्थैव. यदि त्व् अनपेक्षितज्ञा[335]नान्तरम् एव तत् प्रमाणम्, एवं सति प्रथमम् अर्थज्ञानम् एव किम् अनपेक्षं न प्रमाणम् इष्यते. न ह्य् अनयोर् अवबोधरूपत्वे ऽसंशयात्मकत्वे च[336]कश्चिद् विशेषो दृश्यते. अपि च प्रमाणेनार्थं परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायाम् अविसंवादं मन्यते. तत्रार्थक्रियास्थितेः प्रागविसंवादानवगतेर् न प्रांआण्यनिश्चय इति कथं प्रवृत्तिः. अप्रवृत्तस्य वा[337]कथम् अर्थक्रियास्थितिः. तद् इहोभयस्मिन्न् अन्योन्याधीने दुरुत्तरम् इतरेतराश्रय(त्व)म्. अथ सन्देहाद् एव प्रवृत्तो ऽर्थक्रियास्थित्या अविसंवादं बुद्ध्वा प्रामाण्यं मन्यते, कृतं तर्हि प्रमाणेन. अर्थक्रियार्थम् एव हि तद् अर्थ्यते. सा चेत् सन्देहाद् एव जाता, स एव साधीयान्. तस्यैव व्यवहारौपयिकत्वात्. अतो यद् अप्य् उक्तं हिताहितप्राप्तिपरिहारयोर् नियमेन सम्यग्ज्ञानपूर्वकत्वाद् अविदुषां तद्व्युत्पादनार्थं प्रमाणनिश्चयप्रणयनम् इति, तद् अप्य् अयुक्तम्. अतत्पूर्वकत्वात् तयोः. अपि चास्मिन् मते सकृज्जातविनष्टेषु विद्युदादिभावेषु न काचिदर्थक्रिया जातेति तज्ज्ञानं प्रमाणं न स्यात्. अथ[338]तत्रापि शब्दप्रयोगो ऽर्थक्रियेत्य् उच्यते, तर्हि निर्विकल्पके अप्रामाण्यप्रसङ्गः. तस्माद् अविसंवादि प्रमाणम् इति मन्यामह एव. अर्थक्रिया[339]स्थितिस् तु अविसंवाद इति न मृष्यामहे. अर्थान्यथात्वहेतूत्थदोषज्ञानाभ्याम् एव तूत्पन्नस्य ज्ञानस्य विसंवादः. तदभावाच् चाविसंवादः. तावता च प्रामाण्यम् इति सिद्धं न संवादापेक्षं प्रामाण्यम् इति

2.78

__________नोतेस्__________
[333] पि तावदप्र
[334] णं नार्थ (ग)
[335] प्रमाणान्त (क)
[336] वा
[337] च (ख)
[338] थवा त (ग)
[339] या तु अवि (क)
अपि च संवादापेक्षिणि प्रामाण्ये श्रोत्रजा बुद्धिर् इन्द्रियान्तरजन्याभिर् बुद्धिभिर् असंवादाद् अप्रमाणम् आपद्यते इत्य् आह -- श्रोत्रे ति. यदि त्व् अस्याः श्रोत्रज्ञानान्तरसंवादाद्[340]एव प्रामाण्यम् इष्यते, तथा सति वेदे ऽपि तत्तद्वाक्योच्चारणानुगामिनी शतकृत्वो बुद्धिर् उत्पद्यत इति सापि नाप्रमाणम् इत्य् आह -- स्याच् चेद् {1,103}इति. प्रमाणान्तरजन्या तु संवादबुद्धिर् न परं वेदे, श्रोत्रे ऽपि प्रत्यक्षे च नास्तीत्य् उक्तम् एवेत्य् आह -- प्रमाणे ति

2.79

__________नोतेस्__________
[340] दात् प्रा (ख)
तद् एवं स्थिते यद्य् एकेन्द्रियाधीनज्ञानसंवादात् श्रोत्रं प्रमाणम् इत्य् उच्यते; एवं सति वेदे ऽपि[341]तत्तद्वाक्योद्भावितबुद्धिसंवादाद् दुर्वारं प्रामाण्यम् इत्य् आह -- यथे ति. पौनरुक्त्यं त्व् अत्रानवहिता मन्यन्ते इति, किं तदाक्षेपपरिहाराभ्याम् इति

2.80

__________नोतेस्__________
[341] तद्वा (क)
यत एते संवादापेक्षिणि प्रामाण्ये दोषाः, तस्माद् विमुच्य संवादग्रहणं यदुत्पन्नं दृढम् असन्दिग्धं ज्ञानान्तरेण च नैतद् एवम् इति न विसंवाद्यते. विज्ञानं विशिष्टविषयं ज्ञानम्, अधिकविषयम् इति यावत्. एतेन स्मरणं व्यवच्छिनत्ति. तद् धि पूर्वज्ञानाद् अविशिष्टम् अनधिकविषयत्वात्. तद् एव प्रमाणम् इत्य् आह -- तस्माद् इति

2.81

क्व पुनः प्रमाणान्तरास[342]ङ्गतार्थं वचः प्रमाणं दृष्टं, येन वेदवाक्यानां प्रामाण्यम् आश्रीयते. पौरुषेयं हि सर्वं प्रमाणान्तरप्रतिपन्नार्थम् एव, अत आह -- न चे ति. अयम् अभिप्रायः -- नानुमानसाध्यप्रामाण्यानि प्रमाणानि, येन क्व दृष्टम् इति पर्यनुयु[343]ज्यामहे. अनुमाने हि दृष्टान्तापेक्षा भवति. स्वत एव च प्रमाणानां प्रामाण्यम् इति न तेषाम् अनुमानेन प्रामाण्यं साधनीयम् इति. अनुमानेन च प्रामाण्यसाधने तस्याप्य् अनुमानान्तरापेक्षायाम् अनवस्थेत्य् आह -- सर्वस्ये ति

2.82

__________नोतेस्__________
[342] गोचरार्थं (ग)
[343] यो (क)
{1,104} अत्र चोदयति -- नन्व् इति. अयम् अभिप्रायः -- यथा अप्रमाणम् अप्रमाणतया ना[344]वसीयत इति परापेक्षम्, एवं प्रमाणम् अपि प्रमाणतया न प्रकाशत इति तद् अपि परापेक्षम् आपद्यते. न हि प्रमाणत्वेनागृहीतं प्रत्यक्षादि व्यवहाराय[345] कल्पते. तदर्थं च प्रमाणानुसरणं न व्यसनेनेति

2.83

__________नोतेस्__________
[344] नाध्यव
[345] यावक (ग)
परिहारति -- प्रमाणम् इति. अयम् अभिप्रायः -- यथा अविदितस्वरूपशक्तीन्य् अपि चक्षुरादीन्द्रियाणि परानपेक्षाण्य् एव कृतकार्याणि कार्यान्यथानुपपत्त्या पश्चाद् अवसीयन्ते, न चैतेषां ज्ञानं कार्यं प्रत्युपयुज्यते, तस्य निरपेक्षैर् एवेन्द्रियैः कृतत्वात्. एवं प्रमाणम् अपि प्रत्यक्षादि प्रत्ययान्तरग्रहणात् पूर्वं स्वकार्ये विषयपरिच्छेदे निरपेक्षम् एव संस्थितम् अतिक्रान्तं स्वरूपेणैव कदाचिद् गृह्येतापि यदि जिघृक्ष्यते. न तु तस्य ग्रहणं प्रामाण्य उपयुज्यते. यादृशं हि रूपम् अस्य प्रत्ययान्तरेणा[346]पि ग्रहीतव्यं तेनैव रूपेण तत् प्राग् अप्य् आसीद् एव. घटप्रत्यक्षेण हि घटो घटो ऽयम् इति निश्चिता[347]कारः प्रवेदितः. तावद् एव च तस्य प्रमाणत्वं, प्रमाणान्तरेणापि घटो ऽमुना परिच्छिन्न इत्य् एव प्रवेदनीयम्, नाधिकं किञ्चिद् इति जायमानम् अपि कृतकरम् एव तत् प्रमाणान्तरम्. अप्रमाणे तु पूर्वानवगतरूपज्ञा[348]नायार्थवत् प्रत्ययान्तरम् इति वक्ष्यति. संस्थितम् इति प्रमाणपर्यवसानं दर्शयति. कार्यान्तरनिष्पत्त्या हि प्रमाणं सन्तिष्ठते. संस्थिते चानर्थकं प्रत्ययान्तरम् इति

2.84

__________नोतेस्__________
[346] ण गृहीतं ते (क)
[347] तरूपः प्र (ग)
[348] ज्ञापना (क)
यतश् च स्वरूपेण प्रत्ययान्तरैः प्रमाणम् अवसीयते, तच् च स्वरूपम् अवगतपूर्वम् एव, अतो ऽस्य प्रमाणस्य प्रत्ययान्तरेण ज्ञायमानत्वं न प्रामाण्य{1,105}उपयुज्यते. इदं हि तस्य प्रामाण्यं यत् स्वविषयप्रकाशनं, तच् च पूर्वस्माद् एव स्वस्माल्लब्धम् इत्य् अनर्थकं प्रत्ययान्तरम् इत्य् उक्तम् एवार्थं व्यक्तीकर्तुम् आह -- तेने ति

2.85

अप्रमाणे तु प्रत्य[349]यान्तरम् अर्थवद् इति युक्तैव तत्र तदपेक्षेत्य् आह -- अप्रमाणम् इति.[350]अयम् अर्थः -- अप्रमाणं हि स्वरूपेणार्थं गृह्णाति. यादृशं हि ज्ञानस्य स्वरूपं तादृशम् एवार्थे ऽध्यारोपयतीति यावत्. इदं रजतम् इति[351]हि शुक्तौ रजताकारम् अप्रमाणं ताम् अपि तदाकारतया गृह्णाति. अत एव च तन्मिथ्या भवति. तच् चैतन्मिथ्यात्वम् एवात्मनो न तेनात्मना प्रवेदितम् इति तत्प्रवेदनाय युक्तैवान्यापेक्षा. असति हि मिथ्यात्वग्राहिणि प्रत्ययान्तरे न स्वार्थे ज्ञानस्वरूपारोपो मिथ्यात्वं निवर्तते. असत्यां च तन्निवृत्ताव् अप्रमाणाद् एव प्रामाण्यव्यवहारः प्रतायेत. अतस् तन्निवृत्तये ऽर्थवत् प्रत्ययान्तरम् इति

2.86

__________नोतेस्__________
[349] माणान्त
[350] ति. अप्र (ग)
[351] ति शु
कस्मात् पुनः प्रत्ययान्तरैर् अगृहीतं मिथ्यात्वं न निवर्तते, अत आह -- न ही ति. यादृशं ज्ञानं तथार्थो न भवतीति यो ऽयम् अर्थस्यातथाभावः नायं पूर्वेणाप्रमाणेनोपात्तः. अपरिच्छिन्न इति यावत्. प्रमाणेनैव हि तथात्वं, तस्य हि तथात्वम् अर्थस्य कार्यं, तच् च तेनैव प्रकाशितम् इति न तत्र परापेक्षा. अन्यथात्वं त्व् अर्थस्याप्रमाणाद् असिद्धम् इति तत्र प्रमाणान्तरं सावकाशम् इति.[352]आह -- अस्तु परतो मिथ्यात्वम्, एवम् अपि न प्रामाण्यं चोदनानाम्, अनुमानेन मिथ्यात्वावगमात्. उक्तं हि --
__________नोतेस्__________
[352] ति. अस्तु (क)
स्वर्गयागादिसम्बन्धविषयाश् चोदना मृषा ।
इति, अत आह -- तत्रापी ति. अयम् अभिप्रायः -- न यतः कुतश्चित् परस्मान् मिथ्यात्वम्, अपि तु तत्राप्य् अर्थातथाभावे मिथ्यात्वे ऽन्यथात्वविषयैव{1,106} या धीः नेदं रजतम् इति वा शुक्तिर् इयम् इति वा सा कारणं, दुष्टकारणविषया वा. यथा वक्ष्यति -- यस्य च दुष्टं करणं यत्र च मिथ्येति भवति प्रत्ययः इति

2.87

किम् एष मन्त्रः. अनुमानाद् अपि मिथ्यात्वम् अवसीयमानं न कदाचिद् अपि निग्रह[353]स्थानम् आपादयतीति, अत आह -- तावते ति. चकारो हेतौ. नायं मन्त्रः. किन् त्व् अनुमानान् मिथ्यात्वम् अवगन्तुम् एव न शक्यते, प्रतिहेतुविरुद्धत्वाद् अनुमानानाम्. नास्तिकानाम् अपि चाभ्युपेतस्वागमाप्रामाण्यप्रसङ्गाच् च. शक्यते हि तदागमानाम् अपि वाक्यत्वादिना मिथ्यात्वम् अनुमातुम्. चोदनाजनितासन्दिग्धाविपर्यासितज्ञानविरुद्धाश् च हेतवो न प्रामाण्यम् आच्छादयितुम् उत्सहन्ते चोदनानाम् इति तावतैव कारणद्वयेन मिथ्यात्वं गृह्यते, न[354]पुनः परोक्तदुरुक्तहेतुसङ्घातेनेति. ननु यद् अपि तदर्थान्यथात्वज्ञानं दुष्टकारणज्ञानं वा, तद् अपि नाप्रमाणं मिथ्यात्वं प्रतिष्ठापयति. प्रामाण्यं च पूर्वज्ञानविरोधात् तस्यापि दुरध्यवसानम् इति कथं पूर्वस्य मिथ्यात्वम् अत आह -- उत्पत्त्यवस्थम् इति. तद् इदम् उभयविधं मिथ्यात्वग्राहि ज्ञानम् उत्पत्त्यवस्थितं प्रमाणम् इति मीयते. यथा प्रमाणं भवति तेनात्मना मीयत इत्य् अर्थः. तत् खलूत्पत्तिदशाम् अधिरूढम् इति न तावदनुत्पत्तिलक्षणेनाप्रामाण्येन परिभूयते. निश्चयत्वात्मकत्वाच् च न संशयरूपेण. न चास्य बाधकान्तरम् उपलभ्यत इति प्रमाणम् एव. अतस् तेन शक्यते पूर्वस्य मिथ्यात्वम् आपादयितुम्. तस्यापि बाधकोदये प्रमाणेतरविभागो भणित एवेति सूक्तं द्वेधैव मिथ्यात्वम् इति

2.88

__________नोतेस्__________
[353] हम् आ
[354] न प (क)
यतश् च द्वेधैव मिथ्यात्वम् अवगम्यते न प्रमाणान्तरेण, अतः परस्मा अपि मिथ्यात्वं प्रतिपादयितुकामेनैतद् एव मिथ्यात्वहेतुध्वयं वक्तुम् उचितम्. न त्व् अप्रमाणसाधर्म्यमात्रप्रयोजकं, यथा परैः कृतम् इत्य् आह -- अत इति

2.89

{1,107} आगमविरोधश् चानुमानेनाप्रामाण्यं साधयताम् इत्य् आह -- चोदने ति. अयम् अभिप्रायः -- चोदनाजनितं ज्ञानं त्रिविधा[355]प्रामाण्यरहितं स्वतश् च प्रमाणम् इति स्थितम्. अतस् तेनैवाप्रामाण्यप्रतिज्ञा बाध्यते. तस्मिन् परिपन्थिनि न वाक्यत्वादीनाम् अप्रामाण्येन सम्बन्ध एव ग्रहीतुम् शक्यत इति

2.90

__________नोतेस्__________
[355] धदोषर
अत्र किञ्चिद् आशङ्कते -- तन्मिथ्यात्वाद् इति. अयम् अभिप्रायः -- प्रमाणं सच्चोदनाजनितं ज्ञानम् अनुमानम् उपमृद्गाति. तद् एव तु तत्प्रतिहतं मिथ्या सत् कथं तद्बाधाय प्रभवतीति. परिहरति -- प्राप्तम् इति. अयम् अभिप्रायः -- मिथ्या सता चोदनाज्ञानेनानुमानं न बाध्यते. तदबाधितेन लब्धप्रतिष्ठेनानुमानेन मिथ्या क्रियते. अतस् तन्मिथ्यात्वाद् अनुमानप्रमाणता, तत्प्रामाण्याच् च तन्मिथ्यात्वम् (!)इतीतेरतराश्रयम् इति. यदि चोदनाज्ञानस्य बाधकान्तरं भवेद्, एवं तदापादितमिथ्यात्वं नानुमानबाधाय प्रभवतीति इतरेतराश्रयं च नाशङ्क्येत. न त्व् अतो भवदुक्ताद् अनुमानाद् अन्यत् किञ्चिद् बाधकम् अस्तीत्य् आह -- ने ति

2.91

ननु प्रमाणान्तरैश् चोदनार्थस्यापरिग्रहात् संवादाभावाद् एव चोदनाजनितस्य[356]ज्ञानस्य सिद्धं मिथ्यात्वम् इति नेतरेतराश्रयम् अत आह -- न चे ति. उक्तम् इदं न संवादनिबन्धनं प्रामाण्यम् इति मा भूद् रसादिज्ञानाप्रामाण्याद् अभावो रसादीनाम् इति. कथं पुनस् तेषां संवादतः प्रामाण्ये ऽभावो रसादीनाम् इत्य् अत आह तेषाम् इति. तेषां रसादीनां जिह्वादिभिर् एव ग्रहणं नियतम्. अत इन्द्रियान्तरसंवादाभावाद् रसज्ञानाप्रामाण्ये रसादीनाम् अभावो भवेद् इति

2.93

__________नोतेस्__________
[356] स्य सि (क)
{1,108} यदि तु सजातीयज्ञानान्तरसंवादाद् रसज्ञानं प्रमाणम् इष्यते, तथा सति धर्मे ऽपि तादृग् वेदोत्थापितज्ञानसंवादः सम्भवतीत्य् आह -- तद्धिये ति. इदं च संवादतः प्रामाण्यनिराकरणार्थं प्रागुक्तम्. इदानीम् इतरेतराश्रयप्रसञ्जनायोच्यत इति तात्पर्यभेदाद् अपौनरुक्त्यम् इति. यदि तूच्यते -- असिद्धम् एव नश् चोदनाप्रामाण्यं, कथं तयाप्रामाण्यपक्षो बाध्यत इति. तद् अयुक्तं. उत्पद्यते खल्व् अपि वेदवचनश्राविणां नास्तिकानाम् अपि धर्माधर्मविशेषविषयावबोधः. न च सन्दिह्यते स्याद् वा अग्निहोत्रात् स्वर्गो नवेति. न च विपर्ययः. तद् इदं तेषाम् अपि चोदनाजनितं ज्ञानं प्रमाणं एव. ज्ञानापह्नवस्तु सत्यवादिनाम् अयुक्त एव. न हि तत् सम्भवति विदितपदपदार्थसम्बन्धश् चोदनावाक्यान् नार्थं बुध्यत इति. अनृतं तु वदन्तो नानृतं वदेद् इति प्रतिषेधम् अतिक्रामन्तो महान्तम् अनर्थं प्राप्नुयुः. अतो न प्रद्वेषमात्रेणासिद्धवचनं युक्तं, तद् एतद् आह -- ममे ति. यस् त्व् आह -- सत्यम् उत्पद्यते ज्ञानं, द्वेषाद् एव तदप्रमाणम् आचक्ष्महे. परस्परविरुद्धसिद्धान्ताः प्रायेण हि तार्किका द्वेषाद् एव किञ्चिदप्रमाणम् आतिष्ठन्ते. किञ्चिच् चास्मदीयम् इदं दर्शनम् इत्यनुरागेण प्रमाणम् इति.[357]अतः द्वेषाच् चोदनानां प्रामाण्यं बाध्यते. अन्यतश् च परिच्छेदान् नेतरेतराश्रयम् इति, तं प्रत्याह -- द्वेषाद् इरि. नाप्रमाणतेति सम्बन्धः. न द्वेषमात्रेणाप्रमाणता सिध्यति. तथा हि न किञ्चित् प्रमाणं नामावकल्पते. सर्वे हि वादिनः परस्परेण सिद्धान्तान् विगर्हयन्तो दृश्यन्ते. तत्र कतमत् प्रमाणतयाध्यवसीयते. अतो यथोक्तलक्षणम् एव सर्वं प्रमाणम् इति. स्यान् मतं - मा भूद् द्वेषाद् अप्रामाण्यम्. यावत् तु वादिप्रतिवादिनोः सम्मतिः सम्प्रतिपत्तिर् न भवति. न तावत् प्रामाण्यं प्रतितिष्ठति. न चाप्रतिष्ठितप्रामाण्यं प्रमाणं परबाधनाय प्रभवति. न च नश्चोदनाप्रामाण्ये सम्प्रतिपत्तिर्{1,109}अस्तीति कथम् अनुमानबाधः. अत आह -- असम्मतत्वाद् इति. स एवान्वयः. शेषं पूर्ववद् इति

2.94

__________नोतेस्__________
[357] ति. द्वे (ख)
यथा च द्वेषासम्मतिभ्यां नाप्रामाण्यम् एवं प्रामाण्यम् अपि नात्मेच्छाभ्यनुज्ञाभ्यां भवति, येनोभयथापि प्रसिद्धप्रामाण्येनाप्रामाण्यानुमानेन चोदनैव बाध्यत इत्यभिप्रायेणाह -- न चे ति. अप्रामाण्यानुमानस्य हि प्रामाण्यं नास्तिकैर् इष्यते. अप्रमाणेषु हि वेदेषु दुःखप्रायो वेदवादिनां सिद्धान्तः परिहृतो भवतीति. प्राग्भवीयाद् धर्मानुग्रहाच् च तेषाम् इयम् अभ्यनुज्ञा[358]वेदाप्रामाण्यवादाः[359]प्रमाणम् इति. उभयं चेदं न प्रामाण्ये कारणम्. उक्तम् एव तु तत्र कारणम् इति. द्वेषाद् अप्रामाण्यं नेत्य् अत्रोदाहरणम् आह -- अग्नीति. यदि द्वेषाद् अप्रामाण्यं स्याद् अग्निदाहादिदुःखम् अप्रत्यक्षं भवेत्, तस्य ज्ञानस्याप्रत्यक्षत्वाद् अप्रत्यक्षविषयस्य चाप्रत्यक्षशब्दवाच्यत्वात्. न[360]चेयं दाहदुःखस्याप्रत्यक्षतेष्यते कैश्चित्. द्वेषतस् त्व् अप्रामाण्ये सा प्रसजेद् इति

2.95

__________नोतेस्__________
[358] ज्ञा यद् वे
[359] दः (ग)
[360] नेयं (क)
आत्मेच्छया न प्रामाण्यम् इत्य् एतद् दर्शयति -- न चे ति. आभिलाषिकज्ञानस्य सर्वो हि प्रामण्यम् अभिलषति. तथा सति हि सर्व एवाशामोदकैर् अपि तृप्ता भवेयुः. न तु तस्य प्रामाण्यं कैश्चिद् इष्यत इति. अतः सिद्धं चोदनाविरुद्धम् अप्रामाण्यानुमानम् अप्रमाणम् इत्य् उपसंहरति -- तस्माद् इति तव्यम् अन्तेन. नन्व् एवं बौद्धादयो ऽपि स्वागमान् गृहीत्वा प्रत्यवतिष्ठेरन्, अत आह -- बौद्धादेर् इति. बौद्धादेर् आगमाद् वेदानाम् अन्तरं[361]विशेषो वक्ष्यत इत्य् अर्थः

2.96

__________नोतेस्__________
[361] रं व (ख, ग)
वक्ष्यमाणम् एवान्तरम् अनागतावेक्षणन्यायेन सूचयति -- पुरुषे ति. बौद्धाद्यागमेषु प्रामाण्यापवादो ऽप्रामाण्यं सम्भवति. अतीन्द्रियम् अर्थं द्रष्टुं{1,110}पुरुषाणाम् अशक्तेः. स्वयम् एव च तैः स्वागमानां पौरुषेयत्वम् आश्रितम् इति बुद्ध्वात्मानं समर्पितवन्तः कथम् अधुनातिक्रामन्ति. अपौरुषेयास् तु वेदा इति वेदाधिकरणे वक्ष्यामः. ततश् च दोषाभावाद् एवम् उक्तेन प्रकारेण स्वतःप्रमाणता वेदस्य सिद्धा भवतीति पौरुषेयत्वम् अपौरुषेयत्वं चान्तरं बौद्धाद्यागमानां वेदस्य चेति

2.98

एवं तावदपौरुषेयत्वान् नित्या वेदाः स्वतः प्रमाणम् इत्य् उक्तम्. ये तु नैयायिकादयः प्रामाण्यसिद्ध्यर्थं कर्तृमत्त्वं वेदानां कल्पयन्ति, ये च मिथ्यात्ववादिनो मिथ्यात्वसिद्ध्यर्थम् एव, तेषां न तावद् अस्मर्यमाणकर्तृकल्पना प्रमाणवती. अपि चादृष्टकल्पनापि बह्वी विना युक्त्या प्राप्नोतीत्य् आह -- कर्तृमत्त्वे इति कल्प्यम् अन्तेन. सम्यग्वादिभिस् तावदीश्वरः कर्ता, तस्य चाप्रतिघातज्ञानादयो गुणाः --
ज्ञानम् अप्रतिघं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश् च सह सिद्धं चतुष्टयम् ॥
इति कल्पिताः. न च तत्कल्पनायां युक्तिर् अपि साधीयसी दृश्यत इति सम्बन्धपरिहारे वक्ष्यामः. एवं मिथ्यात्ववादिनाम् अपि दोषवत्कर्तृकल्पना निष्प्रमाणिकैव. तथा सति हि नाद्य यावद् वेदसम्प्रदायो ऽनुवर्तेत. महता खलु प्रयत्नेन शिष्याचार्यपरम्परया वेदान् धारयन्तो दृश्यन्ते, तदर्थं[362]चानुतिष्ठन्तः. तदनाप्तसन्दृब्धानाम् अनुपपन्नं, तथा सति हि जातबाधैर् अचिराद् एव हीयेरन्. अतो ऽस्मान् महाजनपरिग्रहाद् अवगच्छामः न कर्तृमन्तो वेदा[363] इति नतरां दोषवत्कर्तृका इति. मीमांसकैस् तु न किञ्चिद् दृष्टाद् अधिकम् इष्यते. शिष्याचार्यपरम्परया प्रतता हीदानीं वेदा दृश्यन्ते. ईदृशम् एव सर्वकाले{1,111}मीमांसकैरिष्यते. अतो न काचिन्मीमांसकानाम् अदृष्टकल्पनेत्य् आह -- मीमांसकैर् इति

2.99

__________नोतेस्__________
[362] र्थांश् चानु
[363] दा न (ख)
तद् अस्यैवम्भूतस्य नित्यस्य वेदस्य ज्ञानं चोत्पादयतः स्वरूपविपरीतत्वं विपर्ययः संशयश् च भाष्यकारेणैव व्यक्तं[364]निराकृताव् इत्य् आह -- एवम्भूतस्ये ति. अयम् अभिप्रायः -- एतावद् एव हि प्रामाण्यं यदुत्पन्नम् असन्दिग्धम् अबाधितं च प्रत्ययान्तरेण ज्ञानम् इति. चोदनाजनितम् अपि ज्ञानम् उत्पन्नं तावत्. संशयविपर्ययाव् अपि भाष्यकारेणास्य वारितौ. एवं ह्य् आह -- न च स्वर्गकामो यजेतेति वचनात् सन्दिग्धम् अवगम्यते भवति वा स्वर्गो न वेति. न चैष कालान्तरे देशान्तरे पुरुषान्तरे ऽवस्थान्तरे वा विपर्येति. तस्माद् अवितथम् इति. अतस् त्रिविधाप्रामाण्यविरहात्[365]प्रामाण्यं चोदनाजनितज्ञाना[366]नाम् इति

2.100

__________नोतेस्__________
[364] क्तम् एव नि
[365] प्रमाणं
[366] नम् इ
नन्व् एवम् अपि कारणदोषाशङ्कायाम् अप्रामाण्यम् एवात आह -- निवारयिष्यत इति अभावतो ऽन्तेन. पुरुषाश्रया हि शब्दे दोषा इत्य् उक्तम्. ते चापौरुषेयत्वप्रतिपादनेनैव वेदाधिकरणे निर्[367]आकरिष्यन्त एव. तच् चैवम्भूतस्येत्यनेन सूचितम् इह विवृतम्. वक्ष्यमाण एवार्थः पूर्वम् एवम्भूतशब्देनोक्त इति वेदितव्यम् इति. एवञ् च साक्षाद् अनुपजाताव् अपि संशयविपर्ययौ कारणदोषाशङ्कयापि न वेदे शङ्कितव्याव् इत्य् आह -- तेने ति

2.101

__________नोतेस्__________
[367] वारयिष्य
एवं तावदाक्षिप्तं भाष्यम् उपेक्ष्यैव तदुपोद्धातभूतं स्वतःप्रामाण्यं प्रसाध्य वेदाः प्रमाणम् इति सिद्धान्तितम्. इदानीं यत् तु ब्रवीतीत्यादिभाष्यम् आक्षिप्तं, तस्याभिप्रायम् आह -- तथे ति. अयं भाष्याभिप्रायः -- अतथाभूतप्रतिज्ञया चोदनानाम् अप्रामाण्यं प्रसाध्यते. तच् च[368]त्रिविधम् इत्य् उक्तम्.{1,112}तद् इह तावत् संशयविपर्ययलक्षणम् अप्रामाण्यं नास्तीत्य् अनन्तरम् एव वक्ष्यामः. पारिशेष्याद् बुद्ध्यनुत्पत्तिलक्षणम् एवाप्रामाण्यम् आश्रित्यातथाभावः प्रतिज्ञात इत्य् आपतति. तत्रेदम् उत्तरं विप्रतिषिद्धम् इदम् अभिधीयते ब्रवीति च वितथं चेत्यादि. यदर्थं ज्ञापयति तद् ब्रवीती[369]त्य् उच्यते. तद् यदि चोदना ब्रवीति, कथम् असाव् अज्ञानात्मकेन वैतथ्येनाभिभूयते. एवञ् च व्याख्यायमाने न बुद्धवाक्यानां प्रामाण्यप्रसङ्गः. न ह्य् उत्पत्तिमात्रेण ज्ञानस्य प्रामाण्यम् आश्रितं, येनायम् उपालम्भो भवेत्. तेभ्यो हि ज्ञानम् उत्पन्नम् अपि पौरुषेयवाक्यजनितत्वेन कारणदोषाशङ्कया अप्रमाणं भवति. न चेह तथा, अपौरुषेयत्वस्य वक्ष्यमाणत्वात्. इहापि च ब्रवीतीति च कर्तृविभक्त्या चोदनास्वातन्त्र्यस्य सूचितत्वात्. चोदना हि स्वतन्त्रैवार्थं ब्रवीति, न तु तया कश्चित् पुरुष इत्य् अभिप्राय इति

2.102

__________नोतेस्__________
[368] त् तु (ख)
[369] ति चेत्य् उ
अपरम् अपि यत् तु लौकिकं वचनं तच् चेत् प्रत्ययितात् पुरुषाद् इन्द्रियविषयं वा अवितथम् एव तत्. अथाप्रत्ययितात् पुरुषाद् अनिन्द्रियविषयं वा तत् पुरुषबुद्धिप्रभवम् अप्रमाणम् इति भाष्यम्,[370]अत्र प्रत्ययितपदं तावद् व्याचष्टे -- तथे ति. अयम् अर्थः -- अत्र भाष्ये प्रत्ययितपदेन यथादृष्टार्थवादित्वम् अभिधीयते इति. इन्द्रियविषयं वेत्यनेन तु तस्यैव मूलसद्भावः प्रतिपाद्यत इत्य् आह -- इन्द्रिये ति. तद् अयम् अत्र भाष्यार्थो भवति. यत् तु पौरुषेयवाक्यं निदर्शितं, तत्र विकल्प्य दूषणम् अभिधीयते. द्वेधा हि पौरुषेयं वाक्यं प्रत्ययितवाक्यम् अप्रत्ययितवाक्यं च. प्रत्ययितवाक्यं[371]च द्विविधं प्रमाणमूलं भ्रान्तिमूलं च. प्रत्ययो ऽस्य संजात इत्य् एतस्मिन्न् अर्थे हि तारकादिस्मृतेरितजन्तं प्रत्ययितशब्दम् अभियुक्ताः स्मरन्ति. द्वेधा च प्रत्ययः प्रमाणम् अप्रमाणं च. तद् एवम् एतावद् एव प्रत्ययितरूपम् अवतिष्ठते यद् असौ वदति तत्रावश्यं प्रत्ययो ऽस्य सञ्जातः. यथादृष्टार्थवादीति यावत्. अत एवेन्द्रियविषयं वेति सम्भवव्यभिचाराभ्यां विशेषणम् अर्थवद् भवति. इन्द्रियशब्देन च प्रत्यक्षद्वारेण सर्वप्रमाणान्य् उपलक्षयतीति. प्रमाणविषयविषयम् इति लुप्तमध्यमपदश्{1,113}चायम् उष्ट्रमुखवद् बहुव्रीहिः. तद् यदि प्रमाणप्रतिपन्नविषयम् आप्तवचो दृष्टान्तः तदा साध्यविकलः तस्यावैतथ्यात्. अथाप्रमाणमूलम् अनाप्तवाक्यं वा तद् यदि नाम वक्तृदोषदुष्टम् अप्रमाणं, न तेनोपमानेन नित्यं वेदवाक्यं वितथम्. मिथ्यात्वहेतोः पुरुषदोषस्य तत्रासम्भवात्. पुरुषबुद्धिप्रभवम् इति चाप्रामाण्यबीजकथनम्. पुरुषबुद्धिप्रसूतं हि तत्. अतो यादृशं पुरुषेण बुद्धं[372]न तदनुरूपं तेन वाक्यं प्रयुक्तम् अनाप्तेन वा विप्रलिप्सुना. विप्रलम्भाभिप्रायैव हि तस्य बुद्धिः. आप्तस्यापि भ्रान्तिः. अनाप्तवाक्यं च वक्तुः प्रमाणमूलम् अपि श्रोतुर् अप्रमाणम् एव, विसंवादबाहुल्याद् अनाश्वासात्. अत एव च तस्य[373]सद् अपि द्वैविध्यं नोपदर्शितम् अस्माभिः. अन्यतरविधानुपातिनो ऽप्य् अनाप्तवाक्यस्याप्रामाण्यात्. अत एव वक्ष्यति शक्ये ऽप्य् असत्ये मिथ्यात्वम् इति

2.103

__________नोतेस्__________
[370] त
[371] क्यम् अपि द्वि (ख)
[372] द्धं त (ग)
[373] संविद्द्वै (ख)
अन्ये तु द्रष्टृत्वसत्यवादित्वे प्रत्ययितपदार्थ इत्य् आहुर् इत्य् आह -- द्रष्टृत्वे ति. यथावस्थितार्थदर्शी यथादृष्टार्थवादी च पुरुषः प्रत्ययितपदेनाभिधीयत इति. एवं च प्रत्ययितस्याप्रमाणज्ञानासम्भवाद् अनर्थकम् इन्द्रियविषयं वेति विशेषणम् इत्य् अप्रत्ययितवचनविशेषणार्थम् एव[374]प्रयुक्तम्. ततश् चायम् अर्थो भवति -- अनाप्तोक्तिर् अपि सत्या भवति यदि दृश्यमानार्थवाद्यनाप्तो भवतीत्य् आह -- दृश्यमाने ति

2.104

__________नोतेस्__________
[374] व यु (क, ख)
इदं तु व्याख्यानम् अनुपपन्नम् इत्य् आह -- एवम् इति. अयम् अर्थः -- अत्र ह्य् अवैतथ्ये प्रत्ययितवाक्यम् इन्द्रियविषयं चेतरस्योदाहृतम्. यथाहुः -- प्रत्ययितस्य वचनम् अव्यभिचारिप्रमाणान्तरपूर्वकं यच् चोपलभ्यमानविषयम् अनाप्तस्येति. तद् अत्र प्रत्ययितेन्द्रियविषयप्रत्युदाहरणे एकाङ्गवैकल्याद् या प्रत्युदाहरणस्थितिः, साप्तत्वैन्द्रियकत्वयोर् एकैकाभावमात्र एव भवेत्. उभयाभावे तु द्व्यङ्गविकलं प्रत्युदाहरणम् आपद्येत

2.105

{1,114} यद्य् एकैकाभावमात्रे प्रत्युदाहरणम्, ततः किं जातम् अत आह -- अप्रत्ययिते ति. अस्यार्थः -- प्रत्ययितप्रत्युदाहरणे अथाप्रत्ययिताद् इत्युच्यमाने प्रत्ययिताभावमात्रेण प्रत्युदाहरणं देयम्. तत्रैन्द्रियकस्येन्द्रियविषयस्यार्थस्य यत् प्रतिपादकं वाक्यं तस्याप्य् असत्यता भवेत्. प्रत्ययिताभावमात्रेण ह्य् असत्यता दर्शनीया. इन्द्रियविषयम् अपि चानाप्तस्याप्रत्ययितवाक्यम् एवेति किं नासत्यम्. यदि त्व् अनिन्द्रियविषयम् एवाप्रत्ययितवाक्यं प्रत्युदाह्रियते, तन् न. इन्द्रियविषयं वेत्य् अस्यानिन्द्रियविषयं वेत्य् अनेनैव प्रत्युदाहरणाद्, उभयप्रत्युदाहरणे[375]च द्व्यङ्गवैकल्यप्रसङ्गात्. एवम् इन्द्रियविषयप्रत्युदाहरणे ऽप्य् अनिन्द्रियविषयं वेत्य् अत्रेन्द्रियविषयाभावमात्रेणासत्यता दर्शनीया. तत्र प्रत्ययितभाषितम् अपि तथाविधं सदसत्यं प्राप्नोति, तस्याप्य् अनिन्द्रियविषयत्वात्. अप्रत्ययितस्याप्य् अनिन्द्रियविषयम् इत्युच्यमाने पूर्ववद् द्व्यङ्गविकलता. अनिन्द्रियत्वपक्ष इति. यदा प्रत्ययितवाक्यस्यानिन्द्रियत्वम् अनिन्द्रियविषयता भवति, तदा तस्याप्य् असत्यत्वं प्राप्नोतीत्यर्थः

2.106

__________नोतेस्__________
[375] णाभ्युपगमे द्व्य (ख)
किम् अतो यद्य् एवम् अत आह -- व्याहते ति. अयम् अर्थः -- एवं हि पूर्वापरविरुद्धार्थाभिधानेन ग्रन्थो व्याहतो भवति. उदाहरणवेलायां हि प्रत्ययितवाक्यम् अनिन्द्रियम् एव श्रोतुः प्रमाणम् इत्य्
उदाहृतम् आप्तप्रत्ययात्. तद् इदानीम् इन्द्रियविषयप्रत्युदाहरणे ऽप्रमाणतयोच्यत इति व्याघातः. एवम् अनाप्तवाक्यम् अपि[376]श्रोतुर् इन्द्रियविषयं स्वप्रत्ययाश्रयणेन सत्यम् इत्य् उक्तम्. तत् प्रत्ययितप्रत्युदाहरणे मिथ्यात्वेनोच्यत इति पूर्वापरविरोधाद् अग्रन्थतापत्तिः. अयं चात्र वार्त्तिककारस्याभिप्रायः -- न तावत् प्रत्ययितशब्देन तथाभूतार्थद[377]र्शित्वम् उच्यते. यौगिको ह्य् अयं न सांविज्ञा(यि?नि)कः. प्रत्यभिज्ञायमानावयवार्थान्वयपरित्यागे कारणाभावात्. प्रत्ययो ऽस्य सञ्जात इति हि प्रकृतिप्रत्ययविभागम् अभियुक्ताः स्मरन्ति. द्वेधा च प्रत्ययः सम्यङ्मिथ्या चेति.{1,115}अतो न यथार्थदर्शी प्रत्ययितः. किन् तु यथादृष्टार्थवादी. सत्यवादीति यावत्. एषैव हि सत्यवादिता यो वाङ्मनसयोर् विसंवादविरहः. अत एव सत्यनियमे साक्षिणां
__________नोतेस्__________
[376] पीन्द्रि (क)
[377] वादित्व (ग)
सत्यं साक्ष्ये ब्रुवन् साक्षी[378]लोकान् आप्नोति पुष्कलान् ।
__________नोतेस्__________
[378] क्षि
इति फलं दर्शयित्वा व्यतिरेके दोषं दर्शयन्तो मानवाः पठन्ति --
साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्नार्यसंसदि ।
अवाङ्नरकम् आप्नोति प्रेत्य स्वर्गाच् च हीयते ॥
इति. अत्र हि दृष्टश्रुताभिधानं सत्यम् इतरद् असत्यम् इति गम्यते. अतः सत्यवादितैव केवलं प्रत्ययितपदेनोच्यते न साधुद्रष्टृत्वम् इति तस्यैवेन्द्रियविषयं वेति विशेषणं, नाप्रत्ययितवचसः, तद् धीन्द्रियविषयम् अप्य् अप्रमाणम् एव. न चेदम् अवैतथ्यमात्रप्रदर्शनार्थम्, अप्रामाण्यानुमानस्य दृष्टान्ते साध्यवैकल्यप्रदर्शनार्थत्वात्. तस्य च प्रामाण्यप्रतिपादनम् अन्तरेण कर्तुम् अशक्यत्वात्. अत एव[379]भाष्यान्ते तत् पुरुषबुद्धिप्रभवम् अप्रमाणम् इत्य् आह.[380]एवं हि तद् उपपद्यते. यदि पूर्वं प्रमाणतोक्तासीद् अनाप्तवाक्यं च श्रोतुः प्रमाणान्तरसङ्गतार्थम् अप्य् अप्रमाणं प्रागनिश्चयात् उपरिष्टाद् अनुवादाद् आप्तवाक्यम् अपि नार्थे प्रमाणम् इति चेत्, अयम् अपरो ऽस्य दोषः. न क्वचित् पुंवचः प्रमाणं, क्व साध्यविकलता प्रतिपाद्यते. न च दृष्टान्तदूषणाद् अर्थान्तरम् अस्य भाष्यस्य मनोहरम् उपलभामहे. तद् एवं तावन् न समुदायशक्त्या प्रत्ययितशब्दः साधुद्रष्टरि वर्तत इत्य् उक्तम्. स्याद् एतत् -- सञ्जातप्रत्यय एव प्रत्ययितः. प्रत्यय एव तु न सम्यक्त्वं व्यभिचरति, सर्वधियां यथार्थत्वात् अतो यथार्थविद् एव प्रत्ययित इति. तन् न. वक्ष्यते हि वृत्तिकारग्रन्थवार्त्तिके यथार्थायथार्थज्ञानविभागः. एवं तावत् प्रत्ययितपदार्थानुसारेण नायम् अर्थो भाष्यस्य. यदि[381]तु विकल्पवाचिवाशब्दानुपपत्त्यैवं व्याख्यायते प्रत्ययितविशेषणे हीन्द्रियविषयं वेत्य् अस्मिन् समुच्चयार्थो वाशब्दो भवेद्[382]इति. तन् न, अनेकार्थत्वान् निपातानाम्. दृष्टं हि निपातानाम् अनेकार्थत्वम्. न तु प्रत्ययितशब्दस्य साधुदर्शिवचनत्वम्. अपि च समानो ऽयमावयोर् अनुयोगः. तवापि हि प्रत्युदाहरणगतो वाशब्दः समुच्चयार्थ{1,116}एव. न ह्य् अप्रत्ययितवाक्यमात्रम् अनिन्द्रिय[383]विषयमात्रं वा मिथ्या, भवत्सिद्धान्ते अप्रत्ययितेन्द्रियविषयानिन्द्रियविषयप्रत्ययितवाक्यसम्यक्त्वाभ्युपगमात्. अतो न कश्चिद् विशेषः. पूर्वापरविरोधमात्रम् अधिकम् एवंवादिभिः स्वीकृतम्. यदि तूच्यते न प्रत्ययितप्रत्युदाहरणम् अथाप्रत्ययिताद् इति. किन् तु प्रत्ययितवाक्यम् अनपेक्षं प्रमाणम् इत्य् उक्तम्, इतरच् च स्वप्रमाणापेक्षं, तद् एव तु अनिन्द्रियविषयम् अप्रमाणम् इति अथाप्रत्ययिताद् इत्यादिनोच्यत इति. तद् अयुक्तम्. यदैव हीन्द्रियविषयम् अनाप्तवाक्यं प्रमाणम् इत्य् उक्तं, तदैवार्थाद् इदम् उक्तं भवति विपरीतम् अप्रमाणम्
इति किं तत्प्रदर्शनेन. यस्य तु प्रमाणोदाहरणे विशेषणद्वयम् उपात्तं, तस्यैव तद्व्यतिरेके[384]तत् कथनम् अर्थवत्. प्रत्ययिताभावमात्र एव तावदप्रामाण्यम्. अप्रत्ययितस्य ह्य्[385]अप्रतीतवादितयावधृतस्य वचनान् नैतद् एवम् इति विपर्ययः, कथञ्चिद् वा संशयो भवति. उभयथापि चाप्रामाण्यम् एव. यद्य् अपि चात्र न शब्दः स्वमहिम्ना संशयहेतुः, तथापि वक्तरि क्वचिद् व्यभिचारदर्शनाद् यथायथं संशयविपर्ययौ भवतः. तावता चाप्रमाणम् अनाप्तवचः. प्रत्ययितस्य त्व् अनिन्द्रियविषयम् अप्रमाणम् एव. तस्य हि निश्चयजनकं वचः स्वतःप्राप्तप्रामाण्यम् एवापवाददर्शनाद् अप्रमाणं भवति. एवंचोभयप्रत्युदाहरणोपपत्तिः. अतः सूक्तं परमते ग्रन्थव्याघात इति. यत इदं व्याख्यानम् अनुपपन्नम् अतः पूर्वव्याख्या साधीयसीत्य् आह -- तस्माद् इति. अस्यार्थः -- पूर्वेण तच् चेत् प्रत्ययितादित्य् अनेन प्रत्ययितवाक्यस्य सत्यतोच्यते. परेण तु इन्द्रियविषयं वेत्य् अनेन मूलसद्भावो दर्शितः. प्रत्ययितस्य वचो वक्तुर् एव प्रमाणमूलं प्रमाणं, न श्रोतुर् इन्द्रियविषयम् अनुवादप्रसङ्गाद् इति भाव इति

2.108

__________नोतेस्__________
[379] वान्ते (क)
[380] अत एव त (ख)
[381] दि वि (क, ग)
[382] वेत्. तद् अपि न, अ (ग)
[383] यमा (ग)
[384] ककथ
[385] ह्य् अनूतवादितया (ख), ह्य् अप्रत्ययिततया (ग)
नन्व् एवं प्रत्ययितत्वेन प्रामाण्यं वदता भाष्यकारेण गुणत एव प्रामाण्यम् उक्तं भवति. गुणो हि प्रत्ययितत्वम् अत आह -- अप्रामाण्ये ति. दोषाभाव एवात्र प्रत्ययितत्वोपन्यासेनोपवर्णितः, न तु गुणाद् एव प्रामाण्यम् इति.{1,117} कस्माद् एवं व्याख्यायते, अत आह -- गुणाद् इति. वर्णितम् इदं दोषाभावमात्रौपयिका गुणाः, न गुणतया प्रामाण्ये कारणम् अनवस्थाप्रसङ्गाद् इति. अतस् तदनुसारेणैव भाष्यव्याख्यानम् उचितम् इति

2.109

ननु यदीन्द्रियविषयत्वं प्रत्ययितवाक्यस्य विशेषणम् एव न राश्यन्तरस्य, कथं तर्हि विकल्पार्थवाची वाशब्दः, अत आह समुच्चये ति पूर्वस्मिन्न् अन्तेन. पूर्वं तावत् समुच्चयार्थ एव वाशब्द इति. उत्तरस् तु विकल्पार्थ एवेत्य् आह -- उत्तरत्रे ति. उभयोः प्रत्ययितेन्द्रियविषयविशेषणयोर् विकल्पेन प्रत्युदाहरणे दर्शयतीति

2.110

ते एव प्रत्युदाहरणे दर्शयति -- शक्ये ऽपी ति.[386]असत्ये असत्यवादिनि पुरुषे शक्ये ऽप्य् अर्थे यद् वाक्यं तस्य मिथ्यात्वं शक्यते ग्रहीतुम् इति शक्ये अन[387]तीन्द्रिये दृष्टार्थ इत्य् अर्थः. दृष्टसत्यो ऽपि प्रत्ययितो यदाशक्तिको भवति, प्रत्याय्यमानम् अर्थं ग्रहीतुम् असम्भावितशक्तिर् इति यावत्. तदा तद्वाक्यम् अपि मिथ्येति किं पुनस् तथाविधे ऽर्थे प्रत्ययितो वाक्यं प्रणयति. बाढम्. यदा भ्राम्यति यथा श्रुतिविरोधबाध्यस्मृतिसिद्धान्ते स्मृतिनिबन्धनकारः,[388] यथा च[389]दृष्टार्थसंव्यवहार एवाप्तः कुतश्चिद् भ्रमनिमित्तात् कम् अपि संसर्गम् आरचयति तद्[390]असम्भवत्प्रमाणं वचो मिथ्या भवति. विप्रलिप्सा तु तस्य न सम्भवति. न च न भ्रान्तिर् अपि, ब्रह्मर्षीणाम् अपि भ्रान्तिर् आशङ्क्यते, किम् अङ्ग पुनरर्वाचीनानाम् आप्तानाम् इति. अत्रापरं भाष्यम् अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनात् इति. तत्र न विद्मः किं तद्वृत्तेन परामृश्यत इति. वाक्यं हि प्रकृतं, न तद् ज्ञातुम् अशक्यं सुज्ञानत्वात्. विषयस् तु समासान्तर्गतो न तावत् तदा निष्कृष्यपरामर्शम् अर्हति. विलिङ्गत्वाच् च. पुल्लिङ्गो हि विषयः नासौ{1,118}नपुंसकलिङ्गतच्छब्दपरामर्शार्हः. तस्माद् व्याख्येयम् इदम्. तद् उच्यते. ज्ञातुम् इति सामान्यतो ज्ञानसम्बन्धोपस्थापितं ज्ञेयं तद् इति निर्दिशति. एतद् उक्तं भवति -- यत् तदिन्द्रियाणाम् अविषयभूतं ज्ञेयं, तत् पुरुषेण[391]नर्ते वचनाद् ज्ञातुं[392]शक्यम् इति समासान्निष्कृष्ट एव विषयार्थो ज्ञेयतया परामृश्यते. इदं च सर्वज्ञनिराकरणपरतया कैश्चिद् व्याख्यातं, तान् निराकरोति -- नानेने ति. अस्याभिप्रायः -- न तावद् इह सर्वशब्दः श्रूयते सर्वे अर्था ज्ञातुं न शक्यन्त इति. न च सर्वज्ञनिराकरणं क्वचिद् उपयुज्यते, धर्माधर्मज्ञाननिषेधमात्रेण चोदनैवेति प्रतिज्ञासिद्धेर् इति

2.111

__________नोतेस्__________
[386] असत्यवादिनि
[387] ना (क)
[388] राः. (ग)
[389] वा
[390] वेदम् अस (क)
[391] णर्ते
[392] तुम् अश
अपि च न ज्ञातुं शक्यत इत्य् उक्त्वा वचनादृत इति पुनरपवादो भाष्यकारेणाश्रितः. अतो ऽवगम्यते अतीन्द्रियज्ञानम् एव भाष्यकारो वारयति, न तु सर्वज्ञानम्. अतीन्द्रियं हि वचनादृते ज्ञातुम् अशक्यम् इत्यभिप्रायेणाह -- वचनाद् इति. अपि च भावाभावात्मकस्य जगतः पूर्वो भागो भावप्रमाणैर् उत्तरो भागो ऽभावप्रमाणेनावगम्यते इति षड्भिः प्रमाणैः षोढा भिन्नं सर्वं प्रमेयम् अवगम्यत एवेति नायम् ईदृशः सर्वज्ञो निराकार्य एवेत्य् आह -- यदी ति. नन्व् अवगतं तावद् नानेन सर्वज्ञो निराक्रियत इति. किं नामानेन क्रियते. पूर्वेण तावत् पौरुषेयापौरुषेयवाक्ययोर् मिथ्यात्वे हेतुसदसद्भावो दर्शितः. अंशे च साध्यविकलता. तद् एतावतैव पर्यवसिते किम्[393]अशक्यम् इत्यादिनाशङ्क्य निराक्रियते इति न ज्ञायते. उच्यते -- प्रत्ययितवाक्यम् अतीन्द्रियविषयम् अप्रमाणम् इत्य् उक्तम्. तत्रेदम् आशङ्क्यते किम् इदं प्रत्ययितवचनम् अतीन्द्रियविषयम् इति. अप्रतिहतदर्शनशक्तिर् एव ह्य् आप्तः, स खलु काष्ठाप्राप्तज्ञानप्रकर्षो धर्माधर्माव् अप्य् अपरोक्षम् ईक्षत एव, अतश् च न चोदनैवेत्यवधारणम् उपपद्यते. तत्रेदम् उत्तरम् अशक्यं हीति. नायम् एतावान् अतिशयः कस्यचित् पुरुषस्य यदतीन्द्रियं विषयं द्रष्टुं वचनम् अन्तरेण शक्नोतीति. इदं च सूत्रकारेणैव प्रत्यक्षसूत्रे{1,119}वक्ष्यमाणम् अनागतावेक्षणेन भाष्यकृता प्रतिज्ञासमर्थनार्थम् उक्तम्, तद् एव तु[394]न्यायकथायाः क्षेत्रम् इति तत्रैव विस्तरेण[395]सर्वज्ञं निराकरिष्यामः

2.112

__________नोतेस्__________
[393] म् अनेनाश (ख, ग)
[394] त्व् अस्याः क
[395] ण धर्मवन् निरा (ख)
नन्व् अस्तु षड्भिः प्रमाणैः षट्प्रमेयवित् सर्वज्ञः. एकेनैव तु चक्षुषासर्वगोचरं ज्ञानं जन्यत इति निराकार्यम्, अत आह -- एकेने ति. अयम् अभिप्रायः -- दिव्येन चक्षुषा सर्वं बुद्धो जानातीति ये वदन्ति, ते नूनं स्वयम् अपि चक्षुषा रसादीन् प्रतिपद्यन्ते. कथम् अपरथा स्वभावनियमं जानन्तो बुद्धचक्षुषः सर्वगोचरताम् आतिष्ठन्ते. एवं च सन्तु स्वयम् एव सर्वसंविदः. किं परप्रत्ययाश्रयणेनेत्य् उपालभमानो ऽतितुच्छतया नायं पक्षो निराकरणं प्रयोजयतीति दर्शयति. एष चानिराकरणच्छलेन निराकरणमार्ग एव वार्त्तिककृता दर्शितः शिष्यान् व्युत्पादयितुम्. इतरथा तु क्रियमाणो ऽसङ्गत एव भवेद् इति

2.113

आह -- यद्य् अप्य् अर्वाचीनानां चक्षुर् न सर्वगोचरं, तथापि बुद्धचक्षुः सातिशयं दिव्यम् आसीत् सर्वगोचरम् इति किम् अनुपपन्नम्, अत आह -- यज्जातीयैर् इति. अस्यार्थः -- चक्षुरादिजातीयैर् हि प्रमाणै रूपादिजातीयस्य सम्बन्धस्य वर्तमानस्य चाद्यत्वे दर्शनम् उपलभ्यते, अतः कालान्तरे ऽपि तथैवाभूद् इति युक्तम्. एवं हि दृष्टानुसारिणी कल्पना कृता भवति. प्रयोगश् च भवति -- बुद्धचक्षुर् नातीतादिविषयं, चक्षुष्ट्वाद् अस्मदादिचक्षुर्वत्. अचक्षुर् वा, अतीतादिविषयत्वात् शब्दवद् इति

2.115

नन्व् अवगतं तावत् प्रमातृभेदाद् दूरे दूरतरे च चक्षुः प्रकाशयतीति तत् काष्ठाप्राप्तप्रकर्षं सर्वं प्रकाशयिष्यति. ज्ञानस्यापि यथोत्तरं लोकशास्त्रयोर्{1,120}अतिशयो दृष्टः. तत् क्वचिद् आश्रये समासादितपरप्रकर्षं सर्वगोचरं भविष्यति. भवति चात्र सातिशयं काष्ठाप्राप्तम् अवगतं यथा वियति परिमाणम्. सातिशयं च ज्ञानम्. अतस् तेनापि क्वचिदाश्रये परिनिष्ठातव्यम्. एषा च ज्ञानस्य परिनिष्ठितिर्या सर्वविषयता महाविषयतयैव यथोत्तरम् अतिशयागमाद् इत्य् अत आह -- यत्रापी ति सामर्थ्यम् अन्तेन. अयम् अभिप्रायः -- सत्यं च चक्षुषः प्रकर्षो ज्ञानस्य च, न तु स्वार्थम् अतिक्रम्य. उन्मीलितचक्षुषो हि[396]प्रतियतः यद्य् अपि नीलपीतादिभेदभिन्नम् अनेकम् अपि रूपं प्रकाशत इति नैकत्र रूपे चक्षुर् नियम्यते, नानादेशपरिमाणार्थपरिच्छेदाच् च न देशपरिमाणाभ्याम्. तथापि तु न स्वार्थम् अतिक्रम्य चक्षुषा किञ्चित् प्रकाश्यते इत्य् अस्ति नियमः. कश् चास्य स्वार्थः, येन सन्निकृष्यते. यथा रूपी रूपं रूपैकार्थसमवायिनश् च. रूपिणा तावद् द्रव्येण संयुज्यते भौतिकं हि तद् इति प्रत्यक्षसूत्रे वक्ष्यते. रूपतदेकार्थसमवायिभिश् च संयुक्तसमवायात् सन्निकर्षः. न चैतावता रसादिषु प्रसङ्गः, योग्यतासहिता प्राप्तिः सन्निकर्ष इति तत्रैव वक्ष्यते. योग्यता च कार्यदर्शनानुसारे[397]ण यथाकार्यम् अवतिष्ठते. अत एवातिदूरवर्तिनो ऽपि भावा न चक्षुषः स्वार्थाः. एवम् अजातातिवृत्तादयः. तद् एतेष्व् एव स्वार्थेषु चक्षुः प्रकर्षम् अनुभवेत्, न परविषये शब्दादौ. एवं श्रोत्रे ऽपि दर्शयितव्यम्. एतावांश् च स्वार्थे दृश्यते प्रकर्षो यदनतिदूरान् अतिसूक्ष्मभावप्रकाशनम्. तद् इह स्वार्थाव्यभिचारात् तदवच्छिन्नैव व्याप्तिर् अवगतेति न सर्वविषयप्रकाशनानुमानाय घटते. प्रतिहेतुर् वर्णित एव. ज्ञानस्यापि चायं स्वार्थो यत्रास्य कारणम् अस्ति. षोढापि च प्रमाणज्ञानकारणं विभक्तं तद् यत्रास्ति, तत्र यथायथम् अभ्यासवशाद् ज्ञानं प्रकृष्यत एव, इष्यते च. षड्भिः प्रमाणैः संक्षिप्तः सर्वज्ञ इत्य् उक्तम् एव. विस्तरेण तु सर्वे ऽर्थाः प्रत्यक्षम् ईक्ष्यन्ते इति नैष ज्ञानस्य प्रकर्षः सम्भवति, प्रत्यक्षकारणानां स्वविषयप्रकाशप्रकर्षनियमात्. तदधीनत्वात् तु ज्ञानस्य तन्नियमाद् एव नियमः.
अतो न स्वार्थम् अतिक्रम्य प्रत्यक्षस्य सामर्थ्यं सम्भवति. भविष्यद्ग्रहणम् उपलक्षणं भविष्यत्य् अतीते वर्तमाने च. सविशेष[398]निखिलभुवनावलम्बिनि भावभेदे नो खल्व् अस्ति नाम भाजनम् एतावतो ऽतिशयस्य कश्चिद् यो देहस्यैवैकस्य कस्यचिल्लोमानि परमाणून् वा सङ्कलयितुम् अलम्. (प्राग् एव सर्वं?) नन्व् अवर्तमानम् अपि चक्षुषा प्रकाश्यत एव भ्रान्ताव्{1,121}इदं रजतम् इति. न च तत् स्मरणं, बाह्येन्द्रियापेक्षत्वात्. न च शुक्तिकैव तत्र प्रकाश्यत इति युक्तं वक्तुम्, अन्यतरप्रकाशस्यानन्यविषयत्वात्. इतरथानाश्वासात्. अतः क्वचिल्लब्धप्रकर्षेण चक्षुषैव सर्वम् अजातादि प्रकाशयिष्यते. अस्तु वा संयुक्तसंयोगात् सर्वार्थसन्निकर्षः. यद् एव हि किञ्चिच्चक्षुषा सन्निकृष्यते, तेनैव प्रणाल्या संयुक्तं सर्वम् इति संयुक्तसमवेतानाम् इवानिवार्यस् तत्संयोगिनां सन्निकर्षः. मैवम्. एवं हि न कश्चिद्[399]असर्वज्ञो[400]भवेत्, सर्वस्य तथाविधसन्निकर्षाव्यभिचारात्. यत्त्ववर्तमानम् अपि चक्षुषो विषय इति, तन् न. शुक्तिर् एव हि भ्रान्तौ चक्षुषो विषयः प्राप्यकारित्वात्, असन्निहितरजतप्राप्त्यसम्भवात्. इतरथा त्व् अनपेक्षितार्था एवासन्निहितरजतादिविभ्रमा भवेयुः. नचैवम् अस्ति, निरधिष्ठानविभ्रमादर्शनात्. कथं तर्हि तैमिरिकस्य केशदर्शनं, न हि तत् किञ्चिद् ग्राह्यम् अपेक्षते. असत्केशारोपप्रवृत्तेः. न. तत्राप्य् आलोकांशानां तथा प्रतिभासात्, सूक्ष्मत्वाच् च तेषाम् अन्यद् अन्याकारतया गृहीतम् इति न लक्ष्यते. कथम् इदानीम् अन्याकारतया वेदनं, दोषेभ्य इति भाष्यकारो वक्ष्यति. समानं चेदम् इतरस्यापि. तवापि ह्य् अवर्तमानं रजतं वर्तमानतयावगम्यत इति समानो ऽनुयोगः. यदि दोषतः, को दोषः शुक्तौ रजतानुभवस्य. शुक्तिर् एव रजतानुभवस्य दोष इति चेत्, हन्तैवम् अर्थापेक्षिता चोपपादिता भवति. नेदं रजतम् इति च प्रसक्तताद्रूप्यनिवारणेन बाधकज्ञानम् इतीदम् एव साधु मन्यामहे यद् वर्तमानम् अवर्तमानरजताकारेणावसीयते, नो वर्तमानम् एव रजतं वर्तमानतया. तस्मात् सिद्धं सन्निहितवर्तमानविषयम् एव चक्षू रजतादीन् प्रकाशयतीति न तावच् चाक्षुषं प्रत्यक्षम् अनागतादीनाम् ईक्षणाय क्षमते इति.
__________नोतेस्__________
[396] हि यद्य् अ (क)
[397] रिणी य (ख, ग)
[398] षे (ग)
[399] त्
[400] ज्ञो न भ (ग)

स्याद् एतत् -- अस्तु चक्षुषो विषयनियमः प्राप्यकारित्वात्. मनस् तु सकलातीतादिविषयं किं नेष्यते इति मानसप्रत्यक्षगोचरा भविष्यदादयो भावा भविष्यन्तीति. तन् न. मनसो बहिरस्वातन्त्र्यात्. इतरथा त्वन्धाद्यभावप्रसङ्गात्. तस्यापि मनसो भावात्. कथं तर्हि प्रथमज्ञानप्रक्षयिणीन्द्रियव्यापारे{1,122}द्वितीयक्षणोपलब्धिः न चेन् मनो बहिः स्वतन्त्रम्. न, तत्रापीन्द्रियव्यापाराविरामात् तज्ज्ञानाविरामोपपत्तेः. का कथा स्वप्ने. तत्र खलु वर्तमानतया विविधान् संसर्गान् मनो दर्शयति. न, स्मृतित्वात्. तत्र च मनसो[401]ऽस्वातन्त्र्यस्य वक्ष्यमाणत्वात्. कथं वर्तमानाभासः. दोषात्. व्यक्तश् च दोषो निद्रा. यथा वक्ष्यति[402]निद्रा मिथ्याभावस्य हेतुर् इति. कथम् अननुभूते स्मृतिर् इति चेत्. वक्ष्यति अत्रजन्मन्य् एकत्रेति. नन्व् अवगतं प्रतिभासु मनसः स्वातन्त्र्यम्. केषाम्. यद्य् अर्वाचीनानां, न. तासां लिङ्गाद्याभासजत्वात्. प्रायः सहचरितहृदयप्रसादोद्वेगप्रभाविता हि प्रतिभा, न त्व् ऐकान्तिकहेतुका. अत एवानिश्चयात्मिका बुद्धिः. अथ लोकोत्तराणां, न. तासाम् अस्मदादिप्रतिभास्वभावानतिवृत्तेर् इति वक्ष्यामः. विमतिपदं च लोकोत्तरत्वं नास्मदादिभिः क्वचिद् आश्रयिष्यते. बाह्यलिङ्गादिनिरपेक्षे च बहिर्मनासि वर्तमाने सर्वस्यानपेक्षितोपायान्तरो मनोमात्रनिबन्धनः प्रसजन् सर्वबोधः केनापवर्तयितुं शक्यते. अदृष्टविशेषाल् लिङ्गाद्यनपेक्षं बहिर्वृत्तिर् इष्यत इति चेद्, न. इन्द्रियान्तरारम्भवैयर्थ्यात्. तत एव तत्तददृष्टविशेषाहितसंस्कारात् सर्वप्र[403]तीतिसिद्धेः. तद् अपि[404]वा व्यर्थम्, अकरणस्यैव वात्मनो ऽदृष्टविशेषाद् एव प्रतीतिक्रियासिद्धेः. अथ नादृष्टम् अनुपायम्[405]अर्थं साधयतीति माभूत् शरीरारम्भवैयर्थ्यम् इति. एवं तर्हि न लिङ्गाद्यनपेक्षम् अपि मनः क्वचिद् वर्तमानम् उपलब्धम् इत्य् अस्तु तद्[406]अपि बहिर्बाह्यापेक्षम्. अतो न मानसम् अपि प्रत्यक्षं भविष्यद् आदौ समर्थम् इति[407]सिद्धं, भावनाबलजम् अपि सर्वज्ञनिराकरणक्षेत्रे निराकरिष्यामः, अवगतविषयत्वाद् भावनायाः. तथा सति च भावनावैयर्थ्याद्, अधिकस्य च ततो ऽप्य् असिद्धेः.[408]अपि च भावनाबलजम् अक्षजं वा, न वा. न तावदक्षजम् इत्य् उक्तम्. सर्वाक्षशक्तिपरिक्षयस्यानन्तरम् एवोक्तत्वात्. अनक्षजं तु न प्रत्यक्षम्,[409]अन्वर्थत्वात् प्रत्यक्षशब्दस्य. अत एव न भविष्यति प्रत्यक्षस्य
सामर्थ्यं दृष्टम् इत्य् आह -- भविष्यती ति. प्रत्यक्षस्य हि न भविष्यद्विषयता, तद्विषयस्य वा न प्रत्यक्षतेत्य् अभिप्रायः.{1,123}बाह्यान्तःकरण[410]जप्रत्यक्षनिराकरणे ऽप्य् अयम् एव भागो व्याख्येयः. न चाक्षुषस्य मानसस्य वा भविष्यदादौ सामर्थ्यम् इत्य् अर्थः. अपि च योगिज्ञानगोचरं सर्वम् अभ्युपयता कथं योगिना सर्वम् अनुभूयत इति वाच्यम्. यदतीताद्य् अपि वर्तमानतया योगिभिर् अवसीयत इति, एवं तर्ह्य् अतस्मिंस् तद्ग्रहो[411]मिथ्या योगिज्ञानम्. अथ तु यथावस्थितम् एव सर्वं योगिनानुभूयत इत्य् उच्यते, एवं तर्हि नातीतादिविषयस्य प्रत्यक्षतोपपत्तिः. अनुमाने ऽपि प्रसङ्गात्. एवञ् च वर्तमानावर्तमानविषयं ज्ञानं प्रत्यक्षम्[412]इत्य् अर्धवैशसम्. स्यान् मतं - कल्पनाविरहः प्रत्यक्षत्वम्. अतीतादिविषयम् अपि योगिनस् तद्[413]रहितम्. अतः प्रत्यक्षम् इति. तन् न. पूर्वापरकालसम्बन्धस्याविकल्पेन ग्रहीतुम् अशक्यत्वात्. का चेयं कल्पना. यद्य् अभिलापिनी प्रतीतिः, श्रौत्रम् अप्रत्यक्षं भवेत्. अथाभिलापसंसर्गयोग्यप्रतिभासाप्रतीतिः, कल्पनासामान्यस्वसंवेदनम् अप्रत्यक्षं भवेत्. यद् अपि आहुः -- नैनम् इयम् अभिलापेन संसृजति. तथा[414]नृत्तेर् आत्मनि विरोधाद् इति. तद् अयुक्तम्. असत्य् अप्य् अभिलापसंसर्गे तत्संसर्गयोग्यस्य सामान्यात्मनस् तत्र निर्भासात्, तावता च कल्पनात्वानपायात् कल्पनापोढत्वानुपपत्तिः. अथान्यरूपारोपः कल्पना, योगिज्ञानम् अप्य् अजातादिषु वर्तमानरूपा[415]रोपेणैव वर्तत इति न कल्पनापोढम्. अपि चान्यथास्थितस्यान्यथाभानाद् भ्रान्तम् एव योगिज्ञानम् अभ्रान्तपदेन व्यावर्तितं कथं प्रत्यक्षम्. यथा हि तिमिरादिदोष[416]वशप्रभवं केशज्ञानं भ्रान्तम् इत्यभ्रान्तपदेन व्यावर्त्यते, एवं योगिनाम् अपि सर्वस्मिन् वर्तमानावभासं भ्रान्तम् एवेत्यभ्रान्तपदेन व्यावर्तितं न प्रत्यक्षं भवेत्. साक्षात्कारिता तु नानिन्द्रियजस्य ज्ञानस्य सम्भवतीति प्रत्यक्षसूत्रे वक्ष्यामः. अपि चार्थसामर्थ्यसमुद्भवं प्रत्यक्षं योगिज्ञानं चासद्[417]अजाताद्यर्थसमुद्भवं कथं प्रत्यक्षम्. एतद् अपि भविष्यत्त्वप्रतिपादनेनैव सर्वं दर्शितम् इत्य् अनुसन्धातव्यम्.
__________नोतेस्__________
[401] नःस्वा
[402] ति दोषो मि (क)
[403] प्रवृत्तिसि (क), प्रतिपत्तिसि
[404] पि बाह्यार्थं
[405] यम् असमर्थं (ख)
[406] तर्हि इदम् अपि (क)
[407] ति भा
[408] द्धेः. भा
[409] असमर्थ (ख)
[410] णप्र (क, ग)
[411] हाद् मि (क)
[412] क्षम् अप्रत्यक्षम् इ (क, ग)
[413] द्गृहीतम्.
[414] थाप्रवृ (क)
[415] पेणैव
[416] षज्ञानप्र
[417] ञ्जाता (ख)

स्यान् मतं - सर्वम् एव प्रत्यक्षम् असन्निहितावभासं, ज्ञानार्थयोः कार्यकारणभावेनायौगपद्यात्. अतो नानेन योगिज्ञानं दुष्यतीति. यद्य् एवं किं तर्हि प्रकाशते. ज्ञानाकार एवार्थेनाहितः. एतावद् एवार्थस्य ग्राह्यत्वं यज्ज्ञानाकारार्पणहेतुत्वम्. यद्य् एवम् अर्थैकदेशो ऽपि नावसीयते इति दूरे सर्वज्ञानम्.{1,124}अथ ज्ञानाकारवेदन एवार्थवेदनाध्यवसानान् नार्थहानिः, कथम् अन्यवेदने ऽन्यवेदनाध्यवसायः. अविद्ययेति चेत्. अहो महानुभावः सर्वज्ञः, यस्येयमे तावती महाविषया अविध्या. वरम् एकदेशदर्शिन एवैषाम् अविद्यापि तावद्[418]अल्पीयसी. किञ् च, इदं सर्वं क्रमेणावसीयते युगपद् वा, न तावत् पूर्वः कल्पः. अनन्तानाम् उत्पा[419]दवतां पूर्वापरकोटिविरहिणां च क्रमेणानुभवितुम् अशक्यत्वात्. अत एव[420]न यौगपद्यम्, अनन्तानाम् अजातादिवृत्तप्रत्युत्पन्नानां यौगपद्यासम्भवात्. अपि च किम् इदं सर्वं नाम यद्विद्वान् सर्वज्ञो भवति, एकेन केनचिदुपाधिनावच्छिन्नमोदनादि सर्वशब्दवाच्यतया प्रसिद्धम्. न चैवम् अजातादयो ऽर्था इति कथं सर्वपदार्थः. आनन्त्यं सर्वतेति चेत्. नन्व् इयम् इयत्तानवधारणात्मिकैवेति कथं तद्विदः सर्ववित्ता. अतः सिद्धं न किञ्चित् कस्यचित् सर्वगोचरं प्रत्यक्षम् इति. यद् अपि प्रकर्षवतां काष्ठाप्राप्तिर् अवगता यथा वियति परिमाणस्येति ज्ञानम् अपि क्वचित् परिनिष्ठां गतं सर्वविषयं भवतीति. तद् अयुक्तं, प्रकर्षं खलु काञ्चित् काष्ठाम् अधिष्ठाय सङ्गिरामहे यद् विरमतीति. असम्भावनीय[421]परावस्था तु काष्ठा इति हेतुर् अनैकान्तिकः. न खलु कार्यद्रव्यं घटमणिकादि सातिशयपरिमाणं विदितम् अपीमां दशाम् अनुभवति, यतः परमसम्भावनीय एव महिमा. एवं तेनैव[422]निरवशेषब्रह्माण्डोदरपरिपूरणाद् अनवकाशम् इतरम्. अथ गुणधर्मो ऽयम् इत्य् उच्यते, तन् न. एवम् अपि पूर्वदोषानतिवृत्तेः. गुणो हि गरिमा. न तस्यैतावन्तम् अतिशयं पश्यामः, यतः परम् अपरं न सम्भवतीति. यदि खलु सर्वगुरुभिः सम्भूयैकं किञ्चित् कार्यम् आरभ्यते, एवम् एतत् सम्भवेद् अपि, न चैतद् अस्ति. यद् अपि नभसि परिमाणं निदर्शितं, तद् अयुक्तम्. परिमाणं नामावच्छेदः. तद् यद्य् अप्य् अस्त्य् आकाशे ततस् तद् अपि नासम्भावनीयपरावस्थम् इति साध्यविकलता. अथानन्तम् एव नभो ऽभ्युपगम्यते, कथं तर्हि तत्र परिमाणं निदर्श्यते,
परिमाणाभाव एवास्यानन्त्यम्. अतो विरुद्धम् एवेदं परिमितम् अनन्तं चेति सूक्तं भविष्यति प्रत्यक्षम् असमर्थम् इति. इह च पूर्वभाग इन्द्रियाणां सर्वविषयत्वेनातिशयो वारितः.[423]उत्तरस्मिन्{1,125}प्रत्यक्षज्ञानस्येति विवेक इति. प्रत्यक्षागोचरे भविष्यद् आदौ सर्वस्मिंस् तद्व्याप्तलिङ्गदर्शनासम्भवाद् अनुमानम् अपि न सम्भवति. सादृश्यान्यथानुपपद्यमानार्थदर्शनासम्भवाच् च नोपमानार्थापत्ती. अभावो ऽपि न सर्वस्य कस्यचिद् एवावगम्यते, दृश्यादर्शनात्मको ह्य् अभावः. न तु सर्वं कदाचन दृश्यम्. शब्देनापि विस्तरेण सर्वार्थावधारणम् असम्भावनीयम् एवेत्यभिप्रायेणाह -- नानुमानादेर् इति

2.116

__________नोतेस्__________
[418] द्दवीय (ग)
[419] म् उत्पत्तिमतां
[420] वायौ (ख)
[421] यकप (क, ख)
[422] व ब्र (क)
[423] इतर (ग)
अत्र परैर् उक्तं - नन्व् इयम् असम्भावना नित्यवेदाभ्युपगमे ऽपि समाना. न हि सम्भवत्य् अकृत्रिमं नाम वाक्यं भवतीति सर्वागमानां कृतकत्वेनावगतेः. तद् यथेदम् आगमनित्यत्वम् असम्भावनीयम् आश्रित्याभ्युदयनिःश्रेयसार्थम् आरम्भो वेदवादिनाम्, एवम् इतरेषाम् अप्य् अदृष्टपूर्वसर्ववित्प्रामाण्येनेति न विशेषः. अत आह -- सर्वज्ञे ति. अयम् अभिप्रायः -- सत्यम् इदम् उक्तं परैः. किन् तु सम्प्रधारणीयम् इदम् अस्ति अनयोः कल्पनयोस् तुल्यत्वं न वेति. येन कारणेन परैस् तुल्यत्वम् आपादितं तेन कारणेनेदं तुल्यत्वम् अस्ति नास्तीति सम्प्रधारणीयम् अस्माभिर् इति

2.117

ताम् इदानीं सम्प्रधारणाम् अवतारयति -- सर्वज्ञ इति. अयम् अभिप्रायः -- साधकबाधकप्रमाणतुल्यत्वे हि तुल्यत्वं भवति. न चेह तद् अस्ति. सर्वज्ञो हि न तावद् अस्मदादिभिर् उपलभ्यते. अत एव नास्मज्जातीयैः, स्वभावनियमात्. एतद् एवाभिप्रेत्यादिशब्दः प्रयुक्तः. अन्येषाम् अप्य् अस्मद्विधानाम् असर्वविदां न सर्वविज्ञानं सम्भवतीत्यभिप्रायः. एतच् चोपरिष्टाद् विवरिष्यत एव. वेदानां च न तावत् कर्ताद्यत्वे दृश्यते, पूर्वकोटेर् अनवगमात्. न च सम्भाव्यते, अतीन्द्रियार्थत्वात्. वक्ष्यत्य् एतत् लोके सन्नियमात् (1.1.26) इति. न चानुमीयते, अभावविरोधात्. असन्निकृष्टार्थविषयं ह्य् अनुमानं, वेदेषु चादृष्टार्थनिर्मितेष्व् अवश्यम् एव निर्माता स्मर्येत. अतो ऽदर्शनाद् अस्मरणाच् चावधृताभावस्य न कर्तुर् अनुमानं सम्भवति. एषैव च नित्यता{1,126} वेदानां यः कर्तुर् अभावः. अतः प्रमाणवती नित्यत्वकल्पना वेदानाम्. सर्वज्ञकल्पना तु न तथेति साधकबाधकतुल्यत्वाभावात् कथं तुल्यतेति. ननु नादर्शनमात्राद् अभावः सिध्यति सत्स्व् अपि विप्रकृष्टेषु सम्भवाद् अनेकान्तात्. अपि च व्यापकनिवृत्तेर् व्याप्यनिवृत्त्या व्याप्तत्वात् तथा व्याप्यनिवृत्तिर् अवधार्येतापि. अर्थाः प्रमाणस्य व्यापकाः. न च प्रमाणम् अर्थानां व्यापकम् अहेतुत्वाद् अतादात्म्याच् च. अतो न प्रमाणनिवृत्तिमात्रेणाभावः सर्वविदो ऽवगन्तुं शक्यते. अत आह -- निराकरणवद् इति. अयम् अभिप्रायः -- प्रमाणाधीना हि वस्तुव्यवस्थितयः. न केनचित् प्रमाणेन सर्वज्ञ इदानीं तावद् अवगम्यते. न च कालान्तरे ऽभूद् इति कल्पयितुं शक्यते यथा निराकर्तुम् अनुमानेन कालत्वाद् इदानीन् तनकालवद् इति. कारणाभावस्य च कार्याभावेन नियतत्वात् सर्वज्ञानकारणाभावेन तद्गोचरज्ञानकार्याभावानुमानाद्, ज्ञानकारणाभावस्य चानन्तरम् उक्तत्वात्. अतो न प्रमाणनिवृत्त्या सर्वज्ञे संशयो ऽपि दर्शयितुं शक्यते. निराकरणहेतुबलीयस्त्वेनाभावावगमाद् इति

2.118

स्याद् एतत् -- नागमगम्यस्याभावः सर्वविदो ऽवगम्यते, तद्विरोधाद् एव, अत आह -- न चे ति. कस्माद् आगमेन नावगम्यते. अत आह -- तदीय इति. आगमो हि तदीयो वा तस्मिन् प्रमाणं, नरान्तरप्रणीतो वा. न तावत् तदीयः, अन्योन्याश्रयापत्तेः. सिद्धे हि बुद्धस्य सर्ववित्त्वे तदागमः प्रमाणं, तत्प्रामाण्याच् च तत्सिद्धिर् इति. नरान्तरप्रणीतस् तु प्रमाणत्वेनानभिमत एवेत्य् आह -- नरान्तरे ति

2.119

स्याद् एतत् -- नित्यागमगम्य एव सर्वज्ञः, श्रूयते हि सर्ववित् सर्वस्य कर्तेति, अत आह न चे ति. अयम् अभिप्रायः -- तात्पर्ये हि शब्दः प्रमाणं, न चैवम्परो नित्यागमो लब्धुं शक्यत इति. किम् परस् तर्ह्य् अत{1,127}आह -- नित्यश् चेद् इति. अयम् अभिप्रायः - यावान्[424]कश्चित् सिद्धानुवादो[425]वेदो दृश्यते, असौ विध्यन्तरार्थ इत्य् अर्थवादाधिकरणे वक्ष्यते. तद् अयम् अप्य् आत्मज्ञानविधिशेष एवेति न स्वरूपे प्रमाणम् इति तात्पर्ये को दोषः, अत आह -- तत्पर इति. न हि नित्यो वेदो नरविग्रहम् अनित्यं सर्वज्ञं प्रतिपादयितुम् अर्हति, नित्यानित्यसंयोगविरोधात्. तद् असाव् एवम्परो ऽनित्य एव स्याद् इति

2.120

__________नोतेस्__________
[424] वत् क
[425] दो दृ (क)
अयं च नित्यागमगम्यत्वे दोष इत्य् आह -- आगमस्ये ति. यद्य् अङ्गीकृतो नित्य आगमः, किं सर्वज्ञकल्पनयेति. वृथात्वे कारणम् आह -- यत इति. नित्य एवागमो धर्मे प्रमाणं भविष्यतीति किं सर्वज्ञकल्पनान्तराश्रयणेनेति. इदं तु नित्यागमगम्यतानिराकरणं वेदवादिनाम् एव भ्रान्तिम् अपनेतुं, न नास्तिको वेदवेद्यं सर्वज्ञम् इच्छतीति

2.121

यस् तु वदति -- किं नः सर्वज्ञग्रहेण. बुद्धागमसत्यता हि नः साध्या. सा चैवम् अपि सिध्यत्य् एव, इन्द्रियादिसम्बन्धविषये हि ज्ञानमात्रक्षणिकत्वादौ बुद्धः सत्यवादी दृष्टः. अतस् तेनैव दृष्टान्तेन श्रद्धेयार्थे ऽतीन्द्रियार्थविषये ऽपि बुद्धवचसः सत्यत्वम् अनुमीयते. एवं चैत्यवन्दनादीनाम् अपि धर्मत्वं सिध्यतीति, तद् एतद् उपन्यस्यति -- यो ऽपी ति

2.122

एतद् अपि दूषयति -- तेने ति.[426]इन्द्रियादिसम्बन्धविषये हि प्रमाणान्तरपारतन्त्र्येण सत्यता दृष्टेति व्याप्तिबलेनातीन्द्रियार्थे ऽपि पारतन्त्र्येण प्रमाणता भवतीति. पारतन्त्र्ये कारणम् आह -- प्रामाण्यम् इति. अयम् अभिप्रायः -- इन्द्रियादिसम्बन्धे विषये सत्यतेति ब्रुवाणेनार्थाद् इदम् उक्तं भवति इन्द्रियादितन्त्रं प्रामाण्यम् इति. स्वतःप्रामाण्ये तदपेक्षाया वैयर्थ्यात्. एतद् उक्तं{1,128}भवति -- नात्र मानान्तरम् अतन्त्रीकृत्य बुद्धवचनमात्रस्य सत्यतावगता. प्रमाणान्तरापेक्षायाः सर्वत्राव्यभिचारात्. अतो न क्वचिद् अपि स्वातन्त्र्येण प्रमाणता सिध्यतीति

2.123

__________नोतेस्__________
[426] ति प्र (क, ख)
पारतन्त्र्यम् एव विवृणोति -- यथैवे ति. सो ऽयं धर्मविशेषविरुद्धो हेतुर् इति

2.124

न केवलं धर्मविशेषविरुद्धः, विरुद्धाव्यभिचारी चाय हेतुर् इत्य् आह -- यथा चे ति. शक्यते हि वक्तुं बुद्धवचनम् अतीन्द्रिये[427]ऽन्यानवबुद्धे ऽर्थे न प्रमाणं, बुद्धवाक्यत्वात् क्षणिकादिवाक्यवद्[428]एव. तानि ह्य् अतीन्द्रिये ऽर्थे ऽप्रमाणान्य् एव. अयं चैक एव हेतुर् विरुद्धम् अर्थद्वयं न व्यभिचरतीतीदम् एवै[429]कवचनान्तविरुद्धाव्यभिचारिपदो[430]दाहरणम्. हेतुद्वयं तु नैकवचनान्तपदवाच्यम् इत्यनुमाने वर्णयिष्याम इति. न[431]च वाच्यं सत्यत्वम् अपि तावद् अयं हेतुः साधयतीति सिद्धो नः पक्ष इति. न हि वः सत्यतामात्रं साध्यं, श्रद्धेयार्थसत्यतायाः साध्यत्वात्. अत एवोक्तं श्रद्धेयार्थे ऽपि कल्पयेद् इति

2.125

__________नोतेस्__________
[427] ये ऽनवबु (क, ख)
[428] वत्. ता
[429] म् एव वि
[430] दार्थोदा
[431] न वा (क)
तद् अयम् अश्रद्धेये सत्यतां श्रद्धेये चासत्यतां साधयन् नेष्टसाधनाय वः प्रभवति. अस्माकम् एव तु श्रद्धेये सिसाधयिष[432]ताम् असत्यतां बुद्धवचसः साधयन्न् अयं हेतुर् अनुगुण इत्यभिप्रायेणाह -- अश्रद्धेये ति. विशेषविरुद्धताम् एव पूर्वोक्तां विवृणोति -- पूर्वे ति. दृष्टान्तानुसारेण हि हेतुर् गमको भवति. तत्र वः पूर्वज्ञानानुवादिता दृष्टेति तद् व्यभिचारात् श्रद्धेयार्थस्यापि बुद्धवचसः{1,129}पूर्वज्ञानानुवादित्वम् एवायं साधयेत्. स्वातन्त्र्यं तु प्रमाणताया विशेषं विरुन्ध्याद् इति

2.126

__________नोतेस्__________
[432] षि (ग)
अपि च य एव कश्चिद् वेदबाह्यः पाषण्डो ऽनेन हेतुना पौरुषेयागमानां सत्यत्वं सिसाधयिषति, तस्यैव सप्रतिसाधनो ऽयम् अन्योन्यदृष्टान्तोपदर्शनेन हेतुर् भवतीत्य् आह -- अपि चे ति. बुद्धवचनम् अतीन्द्रियार्थं मिथ्या, अलौकिकार्थत्वे सति पुंवाक्यत्वाद् दिगम्बरागमवत्. सो ऽपि तत एव मिथ्या, बुद्धागमवद् इत्य् अन्योन्यसपक्षतेति

2.127

अविशेषितेनैव वा पुंवाक्यत्वेन हेतुना धर्माधर्मातिरिक्ते ऽर्थे प्रामाण्यं प्रसज्यत इत्य् आह धर्मे ति. अत्र च धर्माधर्मयोः प्रामाण्याभाव एव साध्यः. नातिरिक्तार्थे प्रामाण्यं, तस्य सिद्धत्वाद् इति. यद् अपि क्षणिकादिवाक्यं दृष्टान्ततयोक्तं, तद् अपि सांख्यादिषु प्रतिपक्षिषु जीवत्सु साध्यविकलम् इत्य् आह -- सांख्यादिष्व् इति. सर्वनित्यत्ववादिनो हि सांख्याः. ते यावन् न निर्जिताः, तावत् कथं क्षणभङ्गवाक्यं सत्यतयोपन्यस्यते. यथा चेदम् असत्, तथा शब्दाधिकरणे वक्ष्याम इति

2.128

अलौकिकार्थवादिता वा पुंवाक्यत्वविशेषिता सत्यत्वानुमानं प्रतिहन्ति परस्परागमदृष्टान्तेनैवेत्य् आह -- अलौकिके ति. विशेषणविशेष्यभावव्यत्य[433]यो ऽतिरेक इति

2.129

__________नोतेस्__________
[433] त्यययोर् अति (क)
प्रतिहेतुप्रसङ्गेनेदानीं यद् अपि सर्वज्ञप्रसाधनार्थं परैर् अनुमानम् उक्तं सर्वज्ञो{1,130}ऽस्मीति बुद्धेन यद् उक्तं सत्यम् एव तत् तदुक्तत्वाद् यथा ज्योतिरुष्णमापो द्रवा इति, तद् अपि प्रतिहेतुविरुद्धम् इति सर्वज्ञदूषणम् एवोपसङ्क्रम्याह -- वदेद् इति. यो वादी पूर्वम् असङ्गत एवागत्यैवम्भूतं वक्ष्यमाणं यद् वदति तस्यापि एष वक्ष्यमाण एव भवदुक्तहेतुसदृशो भवन्तं प्रति मुक्तसंशयं हेतुर् भवति. प्रथमसङ्गतिर् अनैकान्तिकाशङ्कानिराकरणार्था. चिरसङ्गतो हि कदाचिन्मिथ्या भाषते इति

2.130

प्रतिहेतुम् एव प्रयोगेण दर्शयति -- बुद्धादीनाम् इति

2.131

कथं पुनर् अयं मुक्तसंशयः, अत आह -- प्रत्यक्षम् इति. बुद्धो ऽसर्वज्ञ इति वचसो मदुक्तत्वं प्रत्यक्षसिद्धम् असन्दिग्धम् एव. दृष्टान्ते चाग्न्युष्णत्वादिवाक्ये तत् प्रत्यक्षसिद्धम् एवेति सूक्तम् असंशयम् इति. सर्वज्ञो ऽस्मीति वचनं बुद्धोक्तं न वेति न निश्चेतुं शक्यम्. न खल्व् एतावद् अत्युद्धतानृतं प्रेक्षापूर्वकारी भाषत इति सम्भावयामः. सेयम् अस्य वचसो दृष्टान्तानां च क्षणिकादिवाक्यानां बुद्धोक्तता नासाधिता सिध्यतीति बौद्धेन साध्येत्य् आह -- त्वया साध्ये ति. किम् अतो यद्य् एवम् अत आह -- तेने ति. अयम् अभिप्रायः -- नानयोर् हेत्वोस् तुल्यतया संशयहेतुत्वम्. किन् तु अस्मदीयो हेतुः स्वयं सिद्धः, प्रसिद्धव्याप्तिकश् च, दृष्टान्तश् च न हेतुविकल इति सिद्धो नः पक्षः. तव तु सन्दिग्धासिद्धो हेतुः, दृष्टान्तश् च सन्दिह्यमानहेतुसद्भाव इत्यप्रसिद्धाङ्गकम् अनुमानं न साध्यसिद्धये प्रभवतीत्य् अयम् आवयोर् विशेषः सम्पद्यत इति

2.132

किञ् च, अतिस्थवीयान् अयं सर्वज्ञवादः, येनात्यन्तप्रसिद्धैर् अपि प्रमेयत्वादिहेतुभिः शक्यते निराकर्तुम् इत्य् आह -- प्रत्यक्षे ति. प्रमेयत्वादयो हि{1,131} प्रमाणान्तराविरुद्धा बुद्धे सिद्धाः शक्नुवन्ति तस्य सर्वज्ञतां वारयितुम्. न चात्र विपक्षे बाधकप्रमाणाभावाद् असिद्धा व्याप्तिर् इति वाच्यम्.[434]सर्वज्ञानकारणाभावेन सर्वज्ञासम्भवस्योक्तत्वाद् इति

2.133

__________नोतेस्__________
[434] च्यम्, प्रगेयत्वस्य सर्व (क)
नन्व् अस्तीयं चिरप्रवृत्ता बुद्धः सर्वज्ञ इति दृढा स्मृतिः, तद् अस्या एव बुद्धेर्
द्रढिम्नः सर्वज्ञप्रमाणम् अनुमास्यामहे, अत आह -- न चे ति. किम् इति नानुमीयते, अत आह विगानाद् इति. अविगीता हि स्मृतिर् मूलम् उपस्थापयति. सर्वज्ञस्मृतिं तु नास्तिका एव परस्परं विगायन्ति सर्वविद्भेदानाश्रयन्तः. वेदवादिनस् त्व् अत्यन्ताय सर्वज्ञं निराकुर्वन्[435]तीति. ननु समानम् इदं विगानं मन्वादिस्मृतिष्व् अपि, ता अपि नास्तिका विगायन्ति, अत आह -- छिन्ने ति. अयम् अभिप्रायः -- स्मृतिर् हि पूर्वज्ञानकार्यतयावगता कारणभूतं[436]पूर्वविज्ञानम् अनुमापयति. असन्निकृष्टार्थगोचरं ह्य्[437]अनुमानं भवति. इह च सर्वज्ञानकारणाभावात्[438]छिन्नं पूर्वविज्ञानं स्मृतिमूलतया असम्भावितम् इति वैपरीत्यपरिच्छे[439]दाद् नानुमानावकाशः. वेदसंयोगस् तु त्रैवर्णिकानां सम्भवतीति स शक्यो मन्वादिस्मृतिमूलतया कल्पयितुम् इति. विगानं विवृणोति -- कैश्चिद् इति. इदं चान्वारुह्यवचनम्. यदि हि सर्वाविगानं भवेद्, एवम् अपि या काचित् कल्पना स्यात्. न चैवम् अस्ति, कैश्चिद् एव महाजनैकदेशभूतैर् बुद्धादिभिः सर्वज्ञतायाः परिग्रहाद् इति

2.134

__________नोतेस्__________
[435] त इति
[436] तं वि
[437] चा (ग)
[438] वावच्छि
[439] छेदेन ना (क)
छिन्नमूलतां विवृणोति -- सर्वज्ञ इति. स्मृतिद्रढिम्ना हि एकेन सर्वज्ञो ज्ञात इति कल्पनीयं, स एव तु सर्वज्ञं ज्ञातुं समर्थः यः सर्वविद् वेद्यं जानाति. यावद् ध्य् एतावद् एव सर्वम् इदं च बुद्धो जानातीति न जायते, न तावद् असौ सर्वज्ञ इत्य् अवधारयितुं शक्यते. न च बुद्धादर्वाचीनः सर्वविद्{1,132}इति नास्य सर्वज्ञानकारणम् अस्ति. न चानवगतं स्मर्तुं शक्यते. अतो ऽसम्भावितमूलैवञ्जातीयां स्मृतिर् अप्रमाणम् एवेति

2.135

यदि तु बुद्धाद् अन्यो ऽपि कश्चिद् एकः सर्वज्ञः तेन च सर्वज्ञो बुद्ध इति ज्ञात्वा स्मृतं तत एषा स्मृतिपरम्परा प्रवृत्तेत्य् उच्यते, एवं सति तत्सर्वज्ञता विना सर्वज्ञे(न)नावगन्तुं शक्यते इति सर्वज्ञानन्त्यम् इत्य् आह -- कल्पनीया इति. अत्र कारणम् आह -- य एवे ति

2.136

एवं तावत् सार्वज्ञ्यं दुर्ज्ञानम् इत्य् उक्तम्. तदनवगमे च सर्वज्ञागमप्रामाण्यम् अपि न सिध्यतीत्य् आह -- सर्वज्ञ इति. सर्वज्ञप्रणीतता हि तदागमप्रामाण्यमूलं, तदनवगमे च न यादृशतादृशपुरुषवाक्यवत् सर्वज्ञागमप्रामाण्यम् अध्यवसातुं शक्यत इति

2.137

दूषणान्तरम् आह -- रागादी ति. अयम् अभिप्रायः -- आगमप्रणयनं हि रागाद् वा किञ्चिद् अनुग्रहीतुं द्वेषाद् वा निग्रहीतुं सम्भवति. बुद्धस् तु प्रक्षीणाखिलरागद्वेष[440]इति नास्यागमप्रणयने किञ्चित् कारणम् उपलभ्यत इत्य् अन्यप्रणीतैव धर्मातिदेशनेति वक्ष्यमाणेन सम्बन्धः. नन्व् अयं परमकारुणिकः तद्वश एव दुःखोत्तरान् प्राणिनो दृष्ट्वा दूरं दूयमानमानसो हिताहितप्राप्तिपरिहारोपायोपदेशान् प्रणयतीति किम् अनुपपन्नम् अत आह -- निर्व्यापार इति. अयम् अभिप्रायः -- प्रत्यक्षं हि तद् योगिनः सर्वविषयं ज्ञानम् इष्यते. तच् च कल्पनापोढम्. अतो यदा ध्यानस्तिमितलोचनो जगदखिलम् अविकल्पेन विलोकयमानो ऽवतिष्ठते, तदास्यास्मृतशब्दादिसम्बन्धस्य विवक्षाप्रयत्नताल्वादिव्यापारासम्भवान् न कथञ्चिद् अप्य्[441]अस्मृतस्य देशनाप्रणयनं सम्भवतीति कारुणिको ऽप्य् उपेक्षेतैवैत्यन्यप्रणीतैव देशना भवेद् इति. अपि च यावद् इदं{1,133}वृत्तम्, इदं वर्तिष्यत इति न प्रत्यवेक्षते, न तावदागमो निर्मातुं शक्यते. न चैतद् अप्य् अनुत्थितस्य सम्भवतीत्यभिप्रायेणाह -- ऋत इति. तद् इह कारणत्रयम् अप्य् अन्यप्रणीतत्वे देशनानाम् उक्तम् इत्य् अनुसन्धातव्यम्. स्याद् एतत्. व्युत्थायोपदेक्ष्यतीति, तन् न. व्युत्थितस्य अभिलापिनी प्रतीतिर् भ्रान्तिर् इति भ्रान्तभाषितम् अप्रमाणं भवेद् इति

2.139

__________नोतेस्__________
[440] षाभिनिवेश इ
[441] प्य् उत्थितस्य (ग)
स्याद् एतत् -- बुद्धानुभावाद् असत्येव तत्प्रयत्नविशेषे कुड्यादिभ्यो ऽपि देशना धर्मोपदेशा निर्गच्छन्तीति. तद् इदं नाश्रद्दधाना वेदवादिनो बुध्यामहे. वयं हि वस्तुस्वभावम् अनतिक्रामन्तो यज्जातीयो यतः सिद्धः ततस् तत्सिद्धिम् अनुजानीमहे. ग्रन्थसन्दर्भश् च विवक्षाप्रयत्नवाय्वीरणताल्वादिसंयोगविभागपूर्व[442]क एवावगत इति न ध्यानस्तिमितान्तःकरणयोगिसन्निधानाद् एव सिध्यतीति सम्भावयामः. तद् एतद् आह -- सान्निध्ये ति सार्धेन. (श्रद्दधानस्य कुत इत्य् अर्थः.?) अपि च, आप्तप्रत्ययानुसारी शब्दान् निर्णय इति न कुड्यादिनिस्सृताभ्यो देशनाभ्य आश्वासो भवेद् इत्य् आह -- कुड्यादीति

2.140

__________नोतेस्__________
[442] र्व एवागतः (क)
किञ् च बुद्धप्रणीतत्वे ऽपि नाश्वासः. एवं च संशेमहे -- किं बुद्धानुभावान्[443]निस्मृता इमा देशनाः, आहोस्वित् पिशाचादिभिर् दुरात्मभिर् अदृश्यैर् ईरिता इत्य् आह -- किन् त्व् इति. अदृश्यातिवाहिकायोनिजदेहाः पिशाचा इति पुराणेषु गीयते. तन्मतेनेदम् उक्तम् इति. एवं च संशयानेभ्यो देशना न प्रमाणं भवेयुर् इति भावः

2.141

__________नोतेस्__________
[443] वनि (ग)
अन्यद्दर्शनं - बोधस्वभावः पुरुषो भवान्तरीयकर्मार्जितदेहेन्द्रियादिवशः{1,134}क्वचिद् एव किञ्चिच् च जानाति. निरवशेषिताशेषकर्माशयस् तु विगलितनिखिलकरणकलेबरादिप्रपञ्चः केवलीभूतो विश्वम् एव सूक्ष्मातीतादिभेदभिन्नम् अपरोक्षम् ईक्षते. तच् च केवले जीवे जातं[444]केवलज्ञानम् आचक्षते. एवंवादिभिश् च मुक्तात्मनाम् एव सर्वगोचरज्ञानम् आश्रितं, तद् एतदुपन्यस्यति -- एवम् इति

2.142

__________नोतेस्__________
[444] कैवल्य ज्ञा (ग)
एतद् अपि दूषयति -- नर्त इति. अयम् अभिप्रायः -- सुभाषितम् इदं मुक्तो विश्वं जानातीति. सा खलु जीवानां तादृशी दशा स एष नेति नेतीति सकलभेदप्रपञ्चविलयनेनैव तावद् उपलभ्यते वेदान्तेष्व् इति तदतिरिक्तातीतादिज्ञातव्याभावात् कथं सर्वज्ञता. यदि त्व् अवधीर्य वेदान्तान् स्वागमप्रामाण्याश्रयणेन मुक्तानां तथाविधं ज्ञानम् इष्यते, तन्नासत्यागम् अप्रामाण्ये सिध्यति. न चासर्वज्ञप्रणीत आगमः प्रमाणं सम्भवतीति सर्वज्ञसिद्धावागमप्रामाण्यं, तत्सिद्धौ च सर्वज्ञसिद्धिर् इतीतरेतराश्रयं भवतीति. यदि तु क्वचित् तथाविधेन ज्ञानेन व्याप्तं लिङ्गम् उपलभ्य[445]ते, एवमनुमानेन ज्ञानसिद्धाव् इतरेतराश्रयपरिहारो भवेत्. न तु तस्य ज्ञानस्य लोके कश्चिद् दृष्टान्तो भवतीत्य् आह -- दृष्टान्त इति

2.143

__________नोतेस्__________
[445] भ्येत, ए (क)
एवं तावद् यैः पुरुषातिशयम् आश्रित्य तत्प्रत्ययेनागमप्रामाण्यम् आश्रितं, तान् प्रत्युक्तम्. इदानीं ये वदन्ति -- नित्य एवायम् आगमः कस्यचित् प्रथमम् आर्षज्ञानेनावबुद्धो भवतीति, तान् प्रत्याह -- नित्यागम इति. किं पुनर् अयं नित्यागमवाद एव निराक्रियते. अत्रापि शब्दैकप्रमाणकाव् एव धर्माधर्मौ. एतावांस् तु विशेषः. यद् एकस्यैव कस्यचिदृषेर् अपगतसकलकल्मषस्याभ्रष्टभवान्तरीयसंस्कारस्यादाव् एव वेदाः प्रादुर्भवन्ति. ते च तेनापरेभ्यः प्रतिपाद्यन्ते तैर् अप्य् अन्येभ्य इत्य् एवं शिष्याचार्यपरम्परया आभूतसंप्लवं तिष्ठन्ति. एवम् एव पुनः सृष्टाव् अप्य् आर्षदर्शनेनैव वेदसंव्यवहारः प्रवर्तते{1,135}इति न कश्चिद् विशेषः. तस्माद् वाच्यो निराकरणाभिप्रायः. स उच्यते -- तत् खलु सृष्ट्यादाव् ऋषेर् ज्ञानं ग्रहणं स्मरणं वा. ग्रहणम् अपि प्रमाणम् अप्रमाणं वा. न तावद् अप्रमाणाद् अर्थतथात्वनिश्चयः. प्रमाणं तु ना प्रत्यक्षं सम्भवतीति किं तन्निराकरणेन. यदि तु साक्षात्कारिप्रत्यक्षम् एतदृषीणाम् आश्रीयते, तथा सत्य् अनुच्चारितशब्दश्रवणाद् अतीन्द्रियदर्शनम् एवापतितम्. अत एवाहुः --
अतीन्द्रियानसंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा ।
ये भावान् वचनं तेषां को ऽतिक्रामितुम् अर्हति ॥
इति. अतो निराकार्य एवायं सिद्धान्तः. एवं हि तुल्यन्यायतया धर्माधर्माव् अपि कश्चिद् अपरोक्षयेत्, ततश् च चोदनैवेति प्रतिज्ञाहानिः. अत एवोक्तम् -- अनया दिशे ति. सर्वज्ञनिराकरणदिशेत्यर्थः. एतेन तुल्यताम् अनयोर् दर्शयति अयम् अपि सिद्धान्तपरिपन्थीति. स्मरणं तु परस्तान् निराकरिष्यत इति. अपि चेदम् आर्षदर्शनं कृतकाशङ्काम्[446]अप्य् आपादयतीति निराकार्यम् इत्य् आह -- न ही ति

2.144

__________नोतेस्__________
[446] म् आपा
ननु तद्वचनाद् एव निश्चयो भविष्यति, अत आह -- सर्वदे ति. श्रूयते खलु अनृतवादिनी वाग् इति. जैमिनिर् अपि प्रायानृतवादितां वाचो वक्ष्यति -- प्रायात् इत्य् अत्र. अतो ऽद्यत्वे ऽनृतवादिबाहुल्यात् कालान्तरे ऽप्य् अविस्रम्भ इति

2.145

अपि च, एतद् अकस्मात् प्रतिभानं स्वप्नवद् भ्रान्तिर् इत्य् अपि वक्तुं शक्यत इत्य् आह -- स्वप्नादी ति. अर्थग्रहणं तुल्यन्यायतयार्थप्रतिभासस्यापि[447]शङ्क्यमानत्वात्[448]सशङ्कानां (कृते?) प्रामाण्यं न युज्यत इत्य् अर्थः

2.146

__________नोतेस्__________
[447] पि विश (क)
[448] सा (ग)
{1,136} अयम् अपरो ऽस्मिन् दर्शने दोष इत्य् आह -- पुरुषे ति. पुरुषस्य तावदतीन्द्रिय[449]दर्शनशक्तिर् अभ्युपगतैव यदनुच्चरितशब्दग्रहणम् अङ्गीकृतम्. सा चेद् अङ्गीकृता, किम् आगमनित्यताग्रहेण. एवं हि वरं यत् परैर् उक्तं पुरुषप्रत्ययाद् एवागमप्रामाण्यम् इति तद् एवाश्रितम् इति. एवं तावदनुच्चरितशब्ददर्शनं निराकृतम्. स्मरणम् इदानीं निराकरोति -- कल्पितम् इति. अस्यातिशयवतः पुरुषस्याद्यतनज्ञानेष्व् अदृष्टपूर्वं जन्मान्तरीयज्ञाननिबन्धनं वेदानां सृष्ट्यादौ स्मरणम् इति कल्पनामात्रं, न तु प्रामाणिकम्. जन्मान्तरे निबन्धनं कारणम् अस्येत्य् अर्थः. कः पुनर् अत्र दोषः यज्जन्मान्तरानुभूता वेदाः स्मर्यन्त इति. ग्रहणं ह्य् अनुच्चरितशब्दगोचरं न सम्भवति, न तु स्मरणम्. अद्यत्वे ऽपि हि तावच्चिरतरानुभूतानाम् आन्तरलिकानेकान्तरायपरम्परातिरोहिताना भावानां नानाविधानेकगद[450]वेदनाभिर् दूरं दूयमानमानसैर् अपि स्मरणं दृष्टम्. तद् भवान्तरीयस्मृतौ किम् अनुपपन्नम्. देहध्वंसे संस्कारानवस्थानम् इति चेद्, न. अतदाधारत्वात्. तत्रैतत् स्यात् -- अध्रियमाणेषु देहेषु किम् आश्रयाः संस्कारा भवन्ति न वा भवन्ति. कथं भवान्तरे फलं भावयितुम् उत्सहन्त इति. तन् न, अतदाधारत्वात्. नो खल्व् अपि भवान्तरीयपटुतरानुभवप्रभावितं भावनाबीजं शरीराधिकरणं, यद् अस्य नाशे नश्येत्. ज्ञानसमानाधिकरणत्वाद् आत्मनश् च[451]ज्ञानाधारत्वात्. आत्मापि परिगृहीतदेहान्तरो ऽपि स एवावतिष्ठत इति नाश्रयानुपपत्तिः. अपि चेदानीम् अपि पूर्वजातिस्मरः कश्चिद् उपलभ्यत एव, यो भवान्तरीयरहोवृत्तवृत्तान्तं सम्पादयति. देहनाशाच् च संस्कारनाशे तदनुपपत्तिः. जरामरणगर्भवासजन्मवेदनाश् च संस्कारोच्छेदहेतवः तस्यापि तुल्या एव. अतो ऽवश्यम् आश्रयणीयः को ऽपि प्राग्भवीयधर्मानुग्रहात् तस्य नाम भाजनम् अतिशयस्य यो ऽत्रामुत्र वा विदितम्[452]अप्य् अशेषेण स्मरतीति. अपि चेतिहासपुराणवेदवादा अपि जातिस्मरणसद्भावे प्रमाणम्. भवति हि गीतासु वासुदेववचनं -
__________नोतेस्__________
[449] यार्थद
[450] र्भ
[451] श् च परिज्ञा
[452] म् अप्य् अविशे (क)
{1,137} बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्य् अहं वेद सर्वाणि न त्वं वेत्सि परन्तप ॥
इति. पौराणिका अपि --
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ।
अनन्तरं च वक्त्रेभ्यो वेदास् तस्य विनिस्मृ[453]ताः ॥
__________नोतेस्__________
[453] र्ग (क)
इति पठन्ति. स्मरणाभिप्रायम् एवेदं वेदविनिस्सरणं पुराणेषु, तत्कृतकत्वानभ्युपगमात्. वेदवादाश् च भवन्ति देहान्तरप्रतिपत्तिकाले तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च इति. मानवे ऽपि विशिष्टकर्मफलतयैव जातिस्मरत्वं दर्शितम्. स्मर्यते हि[454]-
__________नोतेस्__________
[454] च (ग)
वेदाभ्यासेन सततं सत्येन तपसैव च ।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥
इति. तत्रैतत् स्यात्. अन्यार्थत्वा[455]वधृतवेदाभ्यासादिसमभिव्याहारात् पर्णमय्यादिफलार्थवादवदर्थवाद एवायं न फलकल्पनायै प्रभवति. तथा हि -- वेदाभ्यासस् तावद् धारणार्थ एव, प्रत्यक्षं हि गुण्यमानं न भ्रश्यतीति. यो ऽपि च अहरहः स्वाध्यायो ऽध्येतव्यः इति विशिष्टेतिकर्तव्यतायुक्तो ब्रह्मयज्ञविधिः, सो ऽपि यावज्जीवदर्शपूर्णमासाग्निहोत्रादिविधिवदुपात्तदुरितक्षयाकरणनिमित्तप्रत्यवायपरिहारप्रयोजन एवेति नासमीहितफलान्तरसम्बन्धम् अनुभवति. सत्यम् अपि शब्दार्थ[456]भेदभिन्नं स्वर्गादिमहाफलार्थम् अवगतम् एवेति न फलान्तरेण सम्बध्यते. तपांस्य् अपि नानाविधैनोनिब[457]र्हणार्थानि स्वर्गादिश्रेयो[458]न्तरार्थानि च चान्द्रायणादीन्य् अवधारितानीत्यनपेक्षाण्य् एवेति न जातिस्मरणफलकानि भवन्ति. अद्रोहो ऽप्य् अहिंसा भूतानां तत्तत्कालभेदेन फलार्थ एव विहितः. यदि व्रतं यदि निषेधः कस्य जातिस्मृतिः फलं भवेत्. तस्माद् वेदाभ्यासादी[459]नाम् अर्थवाद एव फलश्रुतिर् न फलकल्पनायां प्रमाणम् इति. तन् न. प्रत्येकं हि वेदाभ्यासादीनां फलान्तरम् अवगतं न समुच्चितानाम्. इह तु क्रय इवारुणादीनां सत्यादीनाम् एकत्र फल उपादीयमानानां साहित्यं विवक्षितम् इति न समुदितानां फलान्तरसम्बन्धो{1,138}नोपपद्यते. अत एव समुच्चयवचनम् उपपन्नं भवति. स्याद् एतत् -- एकेन स्मर्यमाणा वेदाः कृतकाशङ्कां जनयेयुर् इति. तन् न, अनेकेषाम् अपि तथाविधातिशयभाजामृषीणां भृग्वङ्गिरःप्रभृतीनां परस्परसंवादाशङ्कानिवृत्तेः. न चैवं वेदार्थे प्रसङ्गः, तस्यातीन्द्रियस्य भवान्तरे ऽप्य् अननुभूतस्य स्मृत्यनुपपत्तेः. स्याद् एतत् -- भवान्तरानुभूतस्मृतौ जन्मान्तरे कृतकर्माण इह फलं लभमाना अन्वयव्यतिरेकाभ्याम् एव कर्मफलसम्बन्धं जानीयुः. अतश् चोदनैकप्रमाणता व्याहन्येतेति. तद् अयुक्तम्. अनादौ खलु संसारे विपरिवर्तमानानाम् अनन्तानि कर्मिणां कर्माणि. तत्र जातिस्मरो ऽपि नैतावद् विवेक्तुं शक्तो ऽमुष्य नामेदं कर्मणः फलम् इति. न चावश्यमानन्तरभवानुष्ठितकर्मफलोपभोग एव संसारिणां, नानाजन्मसञ्चितेषु शुभाशुभफलेष्व् आनन्त्याद् अनवधृतपरिमाणेषु दुरधिगमः कर्मफलसम्बन्धविवेकः. तस्मान्नागमस्मरणे कश्चिद् विरोधो दृश्यत इति किं तन्निराकरणेन.

अत्रोच्यते -- यदि नामेतिहासपुराणप्रामाण्याश्रयणेनायोनिजदेहा एव कृतादियुगभेदेषु केचिदृषयः स्मरन्ति वेदान् इति सङ्गिरन्ते. तद् अस्तु. नैवम् अपि नः काचित् सिद्धान्तहानिः. एकस्य कस्यचित् स्मरणम् एवास्माभिर् निरस्यते, तद् धि कृत्रिमत्वम् एवापादयतीति. अत एव वक्ष्यति -- एकस्य प्रतिभानम् इति. इहापि चास्येत्य् एकवचनेनैकस्यैव स्मरणं निराकरोति. बहवो ऽप्य् अयोनिजदेहाः स्मर्तार इति दुष्प्रतिपादम् एव. न खल्व् अयोनिजं नाम नराणां शरीरं सम्भवति, स्वभावनियमाविसंवादात्. विसंवादे वा सकलदृष्टादृष्टव्यवहारोच्छेदप्रसङ्गात्. योनिजदे[460]हास् तु सातिशया अपि साङ्गांश् चतुरो वेदान् स्मरन्तीति. नैवं सम्भावयामः, जन्मजरामरणवेदनापरिभवो हि महान् संस्कारनाशनिदानम् इति कथं महानयं ग्रन्थसन्दर्भो मात्रयाप्य् अन्यूनानतिरिक्तः केनचित् स्मर्येत. किञ्चिद् एव भवान्तरीयकम् अपि केचित् स्मरन्ते दृश्यन्ते इति यथादर्शनम् अस्तु जातिस्मरः, कल्प्यतां वा मानवानुमितजातिस्मरश्रुत्यन्यथानुपपत्तिबलाद् विशिष्टो योनिजविग्रहपरिग्रहो भृग्वादीनाम् ऋषीणां स्वर्गकामश्रुत्यन्यथानुपपत्तिकल्पितासाधारणातिशयदेहेन्द्रियादिपरिग्रहवत्. शास्त्रस्था हि वयं यथाशास्त्रम् आश्र[461]यामहे. न च शास्त्रसामर्थ्यादायातो ऽतिशयो ऽनुमानेन निराकर्तुं शक्यते आगमविरोधाद् एव. जन्मान्तरानुभूतं च न स्मर्यते इति{1,139}त्व् अतीन्द्रियार्थाभिप्रायम् एव तद् अस्तु. सर्वथा सिद्धम् इदम् एकस्यागमस्मृतिकल्पना न साधीयसीति

2.147

__________नोतेस्__________
[455] त्वाद् अव
[456] र्थवदभिन्नं च स्व (क)
[457] र्हरणा
[458] योर्थान्तराणि च
[459] देर् अर्थ (ग)
[460] शरीरास् तु
[461] द्रि (ग)
पुनर् अपि ग्रहणपक्षम् एवोपसङ्क्रम्य दूषणम्[462]आह -- ग्राह्यत्व इति. नन्व् आगमस्यातीन्द्रियो ऽर्थः न त्व् आगम इति कथं तुल्यत्वम् अत आह -- यो ही ति. अनुच्चरितो ह्य् आगमो ऽतीन्द्रिय एवेति भावः

2.148

__________नोतेस्__________
[462] यति -- ग्रा (ग)
ननु तुल्यत्वे ऽपि तावद् अस्मदादिभिर् आगमग्रहणम् आश्रितम्. को दोषः, अत आह -- पुमांस् तावद् इति. अयम् अभिप्रायः -- नात्र तुल्यत्वम्. अर्थप्रतिभाने हि पुरुषः स्वतन्त्रो भवति, तदनुसारित्वाद् अर्थनिश्चयस्य. आगमप्रतिभाने तु पुरुषो ऽर्थं प्रत्यागमपरतन्त्रः. आगमो ऽपि स्वरूपस्थितये[463]तत्परतन्त्र इति सापेक्षत्वाद् उभयाप्रामाण्यम् इति

2.149

__________नोतेस्__________
[463] ये पर (क)
नन्व् इदम् आगमपारतन्त्र्यं तवापि समानम्. न हि पुरुषप्रत्ययादृते तस्य याथात्म्यं शक्यं श्रद्दधातुम्, अत आह -- अनेक इति. अयम् अभिप्रायः -- एकपुरुषपारतन्त्र्यं दोषाय भवति, अनेकधा संशयोपजननात्. एवं हि तत्र संशयो भवति -- किम् अयम् अनेनागमो दृष्टः कृतो वा, दृष्टो ऽपि यथावस्थितो ऽन्यथा वेति. एवं संशयाना न क्वचिद् आश्वा[464]सयेयुः. अनेकपुरुषाधारे तु वेदे न तावत् कृतकाशङ्का, नाप्य् अन्यथात्वम् इति वक्ष्यति. अतो ऽव्याहतस्वातन्त्र्यो वेदः प्रामाण्यं लभते इति. अपि च येयं भवान्तरेष्व् अनुभूतानां भवान्तरे निरवशेषस्मृतिकल्पना, सापि वेदानां पारतन्त्र्यम् आपादयत्य्{1,140}एव. एवं हि तत्र शङ्क्यते -- कथं खल्व् अयं महान् ग्रन्थसन्दर्भो निश्शेषसंस्कारच्छिदा मरणेनान्तरितो ऽनेन स्मृतः. तद् अयम् अस्मान् विप्रलब्धुकाम एव स्वयं निर्मितम् आगमं स्मृतम्[465]अपदिशति. एवं च शङ्कमाना न स्वातन्त्र्येणागमप्रामाण्यम् अध्यवस्येयुः. अस्माकं तु ग्रहणस्मरणयोर् एकभवभावित्वान् नायं दोषो भवतीत्य् आह -- एकत्रे ति

2.150

__________नोतेस्__________
[464] श्वासेयु. (ग)
[465] म् इत्य् अप
अथानेकपुरुषस्थत्वे को गुणः, अत आह -- अन्यथे ति. बहुषु हि सम्प्रदायप्रवर्तकेषु या तस्य वेदस्यान्यथाकरणाशङ्का सा निवर्तते. एकेन हि विनाशितं वेदम् अन्यो नैतद् एवम् इति निवार्यान्यथा दर्शयति. अतो बहुसंवादाद् वेदस्य यथावस्थितस्वरूपावधारणं भवतीति. एकस्य प्रतिभानं तु कृतकवेदकल्पनाया न विशिष्यते, उभयत्रा[466]प्य् अविश्वासतुल्यत्वाद् इत्य् आह -- एकस्ये ति

2.151

__________नोतेस्__________
[466] त्रावि (ग)
अतो न यथा वेदानाम् एकः कर्ता, एवं सम्प्रदायप्रवर्तको ऽपि नैकः पुरुष इत्य् उपसंहरति -- अतश् चे ति. अद्यत्ववद् एव तु पुरापि बहवः सब्रह्मचर्यादिपरतन्त्रा नरा आसन्न् इत्य् आह -- बहव इति. एतच् च प्रयोगेण दर्शनीयम् इति

2.152

एवं तावत् पुरुषातिशयकल्पना नापौरुषेयकल्पनया तुल्येति सम्प्रधारितम्. अतो यत् परैर् अनयोः कल्पनयोस् तुल्यत्वम् आपादितं, तदेककल्पनीयहानोपादानाभ्याम् एवेति सापहासम् आह -- एवञ् चे ति

2.154

{1,141} एतद् एव स्पष्टयति -- न ही ति. अद्यवद् एव सर्वदा वेदव्यवहारः प्रतायते इति जैमिनेर् दर्शनम्. इदं च[467]दृष्टानुसारीति नालौकिकं किञ्चिज् जैमिनिना कल्पितं परैर् इवादृष्टपूर्वः पुरुषातिशयः. पौरुषेयानुमानदूषणं तु पूर्वम् उक्तम् एवेति. वेदाप्रामाण्यवादिनाम् एव[468]तु दृष्टहानिर् अदृष्टकल्पना चेत्य् आह -- अप्रामाण्ये ति. दोषो ह्य् अप्रामाण्ये निमित्तम्. स चापौरुषेये वेदे ऽदृष्टः कल्पनीयः. त्रिविधाप्रामाण्यशून्यस्य ज्ञानस्य दृष्टं प्रामाण्यं हातव्यम् इति. नन्व् अयं दृष्टबाधो भ्रान्तिष्व् अपि समानः. अथ तत्र बाधकसामर्थ्याद् विपर्ययः, सो ऽप्य् अत्रानुमानिको भवेद् इत्य् अत आह -- उत्पन्न इति.[469]अयम् अभिप्रायः -- उत्पन्नम् इदं ज्ञानं सम्यक्त्वसन्देहविपर्ययविरहाद् इत्य् उक्तं भाष्ये. अनुमानानाम् अप्य् आगम[470]विरोधः प्रतिहेतुविरोधश् चेत्य् उक्तम् एव. अतो विनैव कारणेन बलादयं बाधः कल्प्यते. भ्रान्तौ तु नैतद् एवम् इति स्फुटो विपर्यय इति

2.155

__________नोतेस्__________
[467] च दृष्टं दृष्टा (क)
[468] व दृ (ग)
[469] ति. उ
[470] मेन वि (क)
यत् तु स्वपरप्रत्यक्षासंवादी कथं शब्दः प्रमाणम् इत्य् उक्तं, तद् अयुक्तम्. यदा ह्य् अपौरुषेया वेदा इत्य् उपपादयिष्यामः तदास्याश् चोदनाबुद्धेः प्रत्यक्षेण सह विशेषं नोपलभामहे. उभयोर् अप्य् अदुष्टकारणजत्वात्. अतः किम् अत्र प्रत्यक्षसंवादेनेत्य् आह -- साधित इति. निर्दोषं च तज्ज्ञानजन्म चेत्य् अर्थः

2.156

{1,142} अत्रापरं भाष्यं - नन्व् अविदुषाम् उपदेशो नावकल्पते इत्यादि. तस्याभिप्रायम् आह -- उपदेश इति. अर्थापत्तिर् इयं[471]भाष्यकारेणोक्ता. उपदेशो हि बुद्धम् अन्वादीनां उपलभ्यते. न चायम् अर्थम् अविदुषाम् उपदेश उपपद्यते. अतो दृष्ट उपदेशविषयो ऽर्थो मन्वादिभिर् इति कल्प्यते. मन्वादिग्रहणं प्ररोचनायै.[472]एवं हि जानाति -- एष खलु मीमांसको[473]ऽङ्गीकृत[474]म् अन्वाद्यागमसत्यत्वः, तद् अहम् एनं मन्वाद्युपदर्शनेनैव तावदङ्गीकारयामि यथातीन्द्रियाणाम् अर्थानाम् अस्ति तावद् द्रष्टेति. ततश् च स्वागमार्थदर्शनम् अपि बुद्धस्यानायासमुपपादयिष्यामीति

2.157

__________नोतेस्__________
[471] यं च भा
[472] य
[473] को ऽनङ्गी
[474] तबाह्यागम (क)
अनुमानाभिप्रायं वेदं भाष्यम् इत्य् आह -- यद् वे ति. उपदेशित्वं हि दृष्टार्थपूर्वतया व्याप्तम् अवगतं वैद्योपदेशादौ. तदतीन्द्रियार्थगोचरम् अप्य् अवगतं ताम् अनुमापयतीति. ननु च नात्र भाष्यकारेणोपदेशित्वं हेतुर् उक्तः, किन् तु अविदुषाम् उपदेशानुपपत्तिः. अतः कथम् अनुमानाभिप्रायवर्णनम्, अत आह -- व्यतिरेक इति. अयम् अभिप्रायः -- व्यतिरेकप्रधानवादिमतेन भाष्यकारेणात्र व्यतिरेकमुखेन हेतोर् गमकत्वम् उक्तम्. यो हि यन् न जानाति स तन्नोपदिशति, यथा चिकित्सको धर्माधर्मौ. न च तथा मन्वादयो ऽतीन्द्रियानर्थान्नोपदिष्टवन्तः. अतो ऽविद्वद्भ्यो व्यावृत्तम् उपदेशित्वं विद्वत्ताम् अनुमापयतीति

2.158

एवम् उभयथा परिचोदनाभिप्रायम् उक्त्वा परिहारभाष्याभिप्रायम् आह -- अन्यथे ति. अर्थापत्त्यभिप्रायेण परिचोदितः उपदेशो हि व्यामोहाद् अपि भवतीत्य् अनेन भाष्येणान्यथोपपत्तिप्रदर्शनेन तद्भङ्गः कथ्यते. व्यामोहेनाप्य् उपदेशोपपत्तौ नातीन्द्रियज्ञानं कल्पयितुं शक्यत इति. दृश्यते चाद्यत्वे ऽपि{1,143}व्यामुग्धानाम् अन्यथाशास्त्रार्थोपदेशः प्रबन्धरचना च निबन्धॄणाम् इति. यदा पुनरनुमानाभिप्राया परिचोदना, तदानुमानदोषो लिङ्गस्य व्यभिचारो ऽनेन कथ्यत इत्य् आह -- लिङ्गस्येति. बालो ऽज्ञः. तस्याप्य् उपदेशदर्शनेनानैकान्तिको हेतुर् इति

2.159

अपरम् अपि असति व्यामोहे वेदाद् अपीति भाष्यं, तद् व्याचष्टे -- वेदाद् इत्य् उक्तम् अन्तेन. अयम् अभिप्रायः -- अनुमानदूषणम् एवेदम्. प्रथमं तावदनैकान्तिको हेतुर् इत्य् उक्तम्. इदानीं तु सिद्धसाध[475]नतोच्यते. यद् इदम् उपदेशाद् ज्ञानानुमानम् उक्तम्, अतः सिद्धं साध्यते. सत्यम्. वेदाद् विदितवताम् अतीन्द्रियार्थ[476]विषय उपदेशः. एवं हि वेद एवातीन्द्रिये ऽर्थे प्रमाणं, न स्वमहिम्ना पुरुष इति. कथं पुनः सिद्धसाधनम्. न हि बुद्धादीनाम् अतीन्द्रिया[477]र्थज्ञानं वेदात् सम्भवतीति न हि ते वेदाज् ज्ञापयितव्याः, तत्समीपे ऽनध्ययनात्. अतो वेदस्वरूपम् अविदुषां न वेदाद् ज्ञात्वोपदेशः सम्भवति, अत आह -- मन्वादेर् इति. अयम् अभिप्रायः -- सत्यं ने[478]दं बुद्धाद्यभिप्रायेण सिद्धसाधनत्वम् उच्यते, किन् तु उपदिष्टवन्तश् च मन्वादयः इति ब्रुवाणेन मन्वादय उपदर्शिताः. तेषां च वेदाद् एव ज्ञात्वोपदेश इति स्मृत्यधिकरणे वक्ष्यते. यथा वक्ष्यति --
__________नोतेस्__________
[475] ध्यतो (ग)
[476] र्थ उ
[477] यज्ञा
[478] न बु (क)
भ्रान्तेर् अनुभवाच् चापि पुंवाक्याद् विप्रलम्भनात् ।
दृष्टानुगुण्यसाध्यत्वाच् चोदनैव लघीयसी ॥
इति. वेदविरुद्धार्थाभिधायिनां तु वेदाद् उपदेश इत्य् असम्भावनीय एव. यथा वक्ष्यति विरोधे त्व् अनपेक्ष्यं स्यात् इति. एतत् सिद्धसाधनं मन्वादिसम्बन्धितयेप्यत इत्य् अर्थः. अपरम् अपि पौरुषेयापौरुषेययोर् विशेषकथनार्थं भाष्यम् -- अपि च पौरुषेयाद् वचनाद् एवम् अयं पुरुषो वेदेति भवति प्रत्ययः नैवम् अर्थ इति. विप्लवते खल्व् अपि कुतश्चित् पुरुषकृताद् वचनात् प्रत्ययः. न तु वेदवचनस्य मिथ्यात्वे किञ्चन प्रमाणम् अस्तीति. अस्यार्थः -- पूर्वं हि{1,144}पुरुषवाक्योपमानेन नन्व् अतथाभूतम् इत्यादिना वेदवचसां मिथ्यात्वम् उपपादितम्. तत्र मीमांसागोत्रानुसारिणा स्वतःप्रामाण्ये स्थित्वा विप्रतिषिद्धम् इत्यादिना सिद्धान्तितम्. पुनश् च प्रत्ययितग्रन्थेनांशे दृष्टान्तस्य साध्यवैकल्यम् अंशे च हेत्वन्तराधीनं वैतथ्यम् इत्य् अनुमानदूषणम् उक्तम्. मध्ये च प्रासङ्गिकी कथा प्रवृत्ता. अधुना लोकवेदवाक्ययोः स नाम विशेषः कथ्यते येन निरपेक्षम् एव वेदवाक्यं प्रमाणं, सापेक्षं पौरुषेयं किञ्चिच् चाप्रमाणम् एव. एवञ् च यत् त्व् अथाभूतप्रतिज्ञायाम् अन्तर्णीतं प्रत्ययान्तरसापेक्षं सर्ववाक्यानां प्रामाण्यं, वार्त्तिककृता च प्रमाणान्तरदृष्टं हीत्यादिना विवृतं, तत् तावत् परिहृतं भवति. वाक्यत्वस्य च मिथ्यात्वहेतोर् अन्तर्णीतस्याप्रयोजकत्वं मिथ्यात्वे साध्ये दर्शितं भवति. यद्य् अपि च तत् पुरुषबुद्धिप्रभवम् अप्रमाणम् इत्य् अत्र पुरुषदोषायत्तम् अप्रामाण्यम् इत्य् उक्तं, तथापि प्रतिज्ञामात्रेण तदुक्तं न तूपपादितम्. अधुना तु भवत्य् आशङ्का -- कथं पुनर् इदम् अवगम्यते पुरुषाधीनम् अप्रामाण्यं न वाक्यस्वभावानुबन्धीति. तत्रेदम् उच्यते -- पुंवाक्यम् अपि किम् अपि वक्तृप्रमाणावधारणसमुत्सारिततदीयनिखिलदोषाशङ्कम् अप्य् अर्थे साक्षादनादधद् अपि निश्चयं तद्द्वारेण प्रमाणम् एव. यथाह -- एवम् अयं वेद, नैवम् अर्थ इति. वक्तृप्रमाणतिरोहितो ऽर्थे निश्चयः न स्वतन्त्र इति यावत्. वाक्यस्वभावानुबन्धिनि त्व् अप्रामाण्ये न किञ्चित् पुंवचः प्रमाणं भवेत्. अतो ऽवगच्छामः स्वभावतः प्रमाणम् एव वाक्यं पुन्दोषाद् अप्रमाणं भवतीति. तद् इदम् उक्तं विप्लवते खल्व् इति. अनाप्तवाक्याद् उपजातः प्रत्ययो विप्लवते. विविधं प्लवते, एवं नैवम् इति संशयात्मक इति यावत्. विपर्येति वा. तद् एवम् औत्सर्गिकं प्रामाण्यं
वाक्यानां दोषैर् अपोद्यत इति दर्शितं भवति. न चात्र वक्तृगुणाः प्रामाण्ये कारणं दोषनिराकरणमात्रे व्यापारात्, इतरथा अनवस्थानाद् इत्य् उक्तम्. अतः स्वभावनिर्दोषाद् वेदवचसो जातं ज्ञानं कथम् अप्रमाणं भवतीति. एतच् चानागत एवास्मिन् वार्त्तिककृता सर्वम् उद्ग्राहितं शब्दे दोषोद्भव इत्यादिना. तद् इदम् उक्तं न तु वेदवचनस्येति. तद् अयं संक्षेपार्थः -- येयं प्रत्ययान्तरसापेक्षिता सा तदधीननिश्चयानां पुंवाक्यानां तथा नाम, अप्रमाणता च वक्तृप्रमाणतन्त्रत्वाद् अर्थनिश्चयस्य तद्दोषाद् अस्तु नाम. वेदवाक्येभ्यस् तु स्वतन्त्रपदार्थसामर्थ्यप्रभाविता वाक्यार्थबुद्धिर् न ज्ञानान्तरम् अपेक्षते, न चाप्रमाणम् इति

2.160

{1,145}इमम् एवार्थम् अस्य भाष्यस्य व्याख्यास्यन्नाक्षेपं तावद् आह -- अन्यथे ति. यो ऽयं वक्तृज्ञानपूर्वकः पुंवाक्येभ्यो ऽर्थनिश्चय उक्तः, सो ऽयुक्तः. तज्ज्ञानावधारण एव प्रमाणाभावात्. न ह्य् अव्यभिचरितस्वार्थगोचरज्ञानं पुंवाक्यं, यतस् तद् अवगम्यते. अनाप्तो ह्य् अन्यथा विजानन्न् अन्यथा विवक्षति. विवक्षाधीना च वाक्यनिष्पत्तिः. अतो विवक्षावशेनान्यथैव वाक्यं निष्पद्यते, अन्यथा च ज्ञायत इति नैकान्ततो वाक्याज् ज्ञानानुमानम् इति

2.161

आस्त तावद् वाक्याज् ज्ञानानुमानं, विवक्षामात्रम् अपि ततो ऽवगन्तुं न शक्यत इत्य् आह -- भ्रान्तस्ये ति. विवक्षा हि तावदत्यन्तं वाक्यनिर्माणे सन्निहिता. तस्याम् अप्य् अन्यथा सत्यां कदाचिद् भ्रान्तस्यान्यथा वाक्यरचना दृश्यते. अतो यथाविवक्षम् अपि वाक्यं न प्रवर्तत एव. कथम् असत्यां विवक्षायां वाक्यरचनेति चेद्, न. विवक्षान्तरस[479]म्भवात्. कथम् अन्यविवक्षा अन्यनिर्माणे हेतुर् इति चेत् को दोषः. विवक्षा हि प्रयत्नद्वारेण वाक्यनिष्पत्तौ हेतुः, नादृष्टेन रूपेण. स च विवक्षान्तरप्रयुक्तेनैव कृतः कुतंश्चिद् वैगुण्यान् न सम्यक् परिनिष्पन्नः. ततो ऽशक्तिजन्यम् अन्यद् एव जातम्. यथा कश्चित् शुष्के पतिष्यामीति कर्दमे पतति. सूक्ष्मविवक्षास्तित्वं तु सूक्ष्मदृश एव प्रतिपद्यन्ते. विवक्षा हि वक्तुम् इच्छा. सा चेद् आत्मगुणान्तरं, तर्हि सुखादिवन्मानसप्रत्यक्षवेद्यं कथम् अज्ञायमानम् अस्तीति शक्यते वक्तुम्. अथाभिलाषात्मकज्ञानरूपा, तथापि कथं वाक्यान्तरप्रकाशे ऽन्यविवक्षास्तीति शक्यते कल्पयितुम् इति यत् किञ्चिद् एतत्

2.162

__________नोतेस्__________
[479] सद्भावात् (क)
एवम् आक्षिप्तं भाष्यं समादधाति -- वक्तृधीर् इति. अयम् अभिप्रायः -- द्विविधो हि वक्ता आप्तो ऽनाप्तश् च. तत्र य एवम् अवधारितो भवति {1,146}नायम् अन्यथाज्ञातम् अन्यथा वदति आप्त इति यावत्, तद्वाक्याद् एवं वेदेति वक्तृधीर् अवगम्यते. अन्यत्र त्व् अनाप्तवाक्ये विप्लुतिर् इति विप्लवत इत्यादिनोक्तम्. तत्रेदम् उक्तं[480]भवति -- यदा तावदाप्तवाक्याद् अनाशङ्कम् एव ज्ञानं जातं व्यवहारश् च प्रवृत्तः न च विसंवादो दृष्टः, तदा कल्याणम् एव. जाताशङ्कस्यापि वक्तुर् आप्तत्वम् अनुस्मृत्य[481]तज्ज्ञानपुरस्सरम् एवार्थे निश्चयो जायते. आप्तस्य च भ्रमो न तावद् आशङ्क्यते. स हि सुनिपुणो न तावत् प्रायशो भ्राम्यति. न चासम्यग्विदिते तस्यैतावती चेष्टा भवति यद् असौ परप्रतिपत्तये वाक्यं प्रणयति. तथापि वा संशयानस्य तत्परिप्रश्नाद् एव तत्प्रमाणनिश्चयो भवति. स एव निर्बध्यपृष्टो यदि त्रिचतुरज्ञानम् आत्मन उपदिशति, तावतैव स्वप्रमाणवदनाशङ्क्यव्यवहारसिद्धिः. विप्लवश् चानाप्तवाक्याद् विविधो व्याख्यात एवेति. एवं तावद् ज्ञानप्रत्ययविप्लवौ विषयव्यवस्थया व्याख्यातौ. इदानीं भाष्यतात्पर्यं दर्शयति -- तेने ति. यत् तावद् वाक्यत्वम् अतथाभूतत्वे हेतुतयोक्तं तस्यानेनाप्रयोजकत्वम् उच्यते. आप्तवाक्येषु हि गुणनिराकृतदोषेषूत्सर्गेण सत्यत्वं दृष्टम्. अत एव हि तज्ज्ञानानुसार्यर्थनिश्चयो भवति. इतरथा तस्यापि मिथ्यात्वं भवेत्. अनाप्तवाक्येषु तु तद्दोषाद् अपवादाद् अप्रामाण्यम्. एवं च स्वाभाविकसम्यक्परिच्छेदशक्तिर् अत्र वचसश् शब्दस्योच्यते. मिथ्यात्वं चौपाधिकं न वाक्यत्वेन प्रयुज्यते परप्रयुक्तव्याप्त्युपजीवि हि तत्, निषिद्धत्वप्रयुक्त इवाधर्मत्वे हिंसात्वम् इति

2.163

__________नोतेस्__________
[480] तत्रैतद् उक्तं
[481] सृ
वक्तृधीर् आप्तवाक्येषु गम्यत इत्य् उक्तं, तत्र कारणम् आह -- पदार्थे ति. श्रोतुर् हि वक्त्रा पदार्थेषु विरचितेषु
वाक्यार्थप्रत्ययो जायते. वक्तुश् च रचनाकृतिर् विवक्षापूर्विका. सा चाप्तस्याविज्ञाते[482]न सम्भवतीति पूर्वज्ञानम् अपेक्षते. अतः प्रतिबन्धबलेनाप्तवाक्यात् पूर्वविज्ञानम् अवगम्यत इति

2.164

__________नोतेस्__________
[482] तेन न (ग)
{1,147}विवक्षावशत्वम् एव रचनाया दर्शयति -- विवक्षान्तरे ति. पूर्वविवक्षाया यद् विवक्षान्तरागमेन रचनान्तरं दृश्यते पूर्वोत्तरपदोद्वापावापभेदेन, अतो विवक्षाधीना रचनेत्य् अवगम्यत इति

2.165

एवञ् च यद् विवक्षाधीना रचना सा च ज्ञानपूर्विका, तेन कारणेन वाक्याद्[483]अर्थप्रत्ययोत्पादे श्रोतुर् जाते[484]ऽपि नूनम् अनेनायम् अर्थो वक्त्रा ज्ञात इति वक्तृज्ञाने मतिर् भवतीत्य् आह -- तेने ति. वक्तृप्रमाणपूर्वत्वाद् रचनाया न स्वतन्त्रो ऽर्थज्ञानमात्रान् निश्चय इति भावः. तद् इह तेनोत्सर्गापवादाभ्याम् इत्य् अत्र स्वाभाविकी वचसश् शक्तिर् इति भाष्यतात्पर्यम् उक्तम्. पदार्थरचनायत्त इत्य् अतः प्रभृति तेनार्थप्रत्यय इत्य् एवम् अन्तेनाप्तवचसां प्रत्ययान्तरापेक्षितेति भाष्याभिप्रायो विवृत इत्य् अनुसन्धातव्यम् इति

2.166

__________नोतेस्__________
[483] क्यार्थ
[484] ते नू
इतश् चाप्तवाक्यं तज्ज्ञानपरतन्त्रम् अवगम्यत इत्य् आह -- आप्तोक्तिर् इति. यदाप्तोक्तम् अर्थम् एको ऽनुतिष्ठति तं चापरो ऽनुयुङ्क्ते किम् अत्र ते प्रमाणम् इति, तदा असाव् आप्तोक्तिकारी तम् आप्तम् एव तत्र मूलतया दर्शयति य एवं[485]वादी स एवाप्त एतज् जानाति नाहम् इति. स्वातन्त्र्ये हि तज्ज्ञानप्रकाशनम् अनर्थकं भवेद् इति

2.167

__________नोतेस्__________
[485] वदति स
किम् इदानीम् आप्तवाक्यम् अर्थे न प्रमाणम् एव,[486]नैवम् अपि तु आप्तवक्तृप्रमाणानवधारणाज् जाताशङ्कस्य वाक्यम् उदास्ते. यदा हि वक्तृधियो हेतुभूतम् अदुष्टम् इन्द्रियाद्यवधारितं भवति, तदा दोषाशङ्कानिराकरणात् प्रामाण्यम् एव{1,148}स्थाप्यते. तद् इहावगतिहेतुतया शब्दानां प्रामाण्यम् उपक्रान्तम् अप्रामाण्यशङ्कया शिथिलीकृतं वक्तृप्रमाणावधारणनिराकृतेषु दोषेषु दाढ्यर्थं लभते, तद् एतद् आह -- तज्ज्ञाने ति. तज्ज्ञानान्तरितत्वात् वक्तृज्ञानान्तरितत्वात्. निश्चयजनने शब्दस्येत्य् अर्थः. तावच्छब्देनात्यन्ताप्रामाण्यं निराकरोति. कियतापि विलम्बनेन प्रामाण्यं प्रतितिष्ठतीति. नन्व् एवं वक्तृप्रमाणानुसारिणि निश्चये सत्यनुवाद एव शब्दः प्रागनिश्चयाद् अप्रमाणम् इति कदा प्रमाणम्. उक्तम् इदं स्वकाल एव तत् प्रमाणं, दोषाशङ्कानिराकरणमात्रे वक्तृज्ञानस्य व्यापार इति. श्रोत्रा हि प्रथमम् अविदितपूर्व एवार्थो ऽवगतः क्वचिद् व्यभिचारदर्शनेन जातायाम् आशङ्कायां तन्निराकरणेन तस्यैव प्रामाण्यं प्रतिष्ठाप्यते. अत एव स्थापनम् इत्य् उक्तम् इति

2.168

__________नोतेस्__________
[486] णं नैवम् अपि आ (क)
कथं पुनः प्रथमं शब्दा उदासते. स ह्य् अर्थः शब्देन[487]प्राक् प्रत्यायितो न वा. यदि नेत्य् आह कथम् एवं वेदेति वक्तृज्ञानम् उन्नीयते. प्रकारार्थो ह्य् एवंशब्दः. न च निराकारं विज्ञानम् अनाश्रितार्थपरिष्वङ्गे स्वरूपेण प्रकारवद् भवेत्. न च[488]श्रोतुर् बुद्धावनारूढो ऽर्थो वक्तृज्ञनम् एवम्भावेन विशिनष्टि. यदि तु पूर्वम् अप्य् अर्थप्रत्ययो ऽवगम्यते, ततः पारतन्त्र्ये कारणं वाच्यम्. उत्पद्यमानेनैव हि तेन स्वविषयपरिच्छेदः कृत इति किम् अन्यद् अपेक्षते. निश्चयार्थं वक्तृप्रमाणापेक्षेति चेद्, न. अनिश्चयज्ञानासम्भवात्. निश्चय एव हि ज्ञानं, तच् चेद् अस्ति कथं निश्चयो नास्तीति शक्यते वक्तुम्. अतो ऽनुपपन्नम् इदम् अर्थज्ञानगम्यैव वक्तृधीस् तत्प्रामाण्ये कारणम् इति. अत आह -- अर्थ इति. यत् तावद् उक्तम् अनवगते ऽर्थे नैवम्भावो भवतीति, तत्राभ्युपगमेनैवोत्तरम्. सत्यं पूर्वं प्रतीत एवार्थ इति. यत् तु प्रतीते ऽनिश्चयो न घटत इति. तन् न, जाताशङ्कस्य तदुपपत्तेः. यद्य् अपि न शब्दात् संशयः, तथापि व्यभिचारदर्शनात् संशयो जायत एव. यत् त्व् अनिश्चयात्मकं ज्ञानम् एव नास्तीति ज्ञानोत्पत्तौ निश्चय एव जायत इत्य् उच्यते. तन् न. संशयस्यापि ज्ञानत्वात्. अतो{1,149}जाते ऽपि[489]ज्ञाने कुतश्चिन् निमित्तात् संशयोत्पत्तौ वक्तृप्रमाणाश्रयत्वान् निश्चयस्यार्थज्ञानसमधिगम्यापि सैव वक्तृधीः पूर्वज्ञानप्रामाण्ये पूर्वभाग् भवतीति[490]तया समुत्सारितायां दोषाशङ्कायां प्रामाण्यस्याध्यवसानाद् इति

2.169

__________नोतेस्__________
[487] ब्दैः प्रा
[488] ज्ञा (क)
[489] पि विज्ञा
[490] वति तया
एवं तावत् पुरुषवाक्येषु ज्ञानान्तरापेक्षया प्रामाण्यं क्वचिच् चौपाधिकम् अप्रामाण्यम् इत्य् उक्तम्. वेदवाक्ये तु स्वाभाविकत्वाद् एव वचसः सम्यगर्थपरिच्छेदशक्तेर् न मृषार्थता सम्भवतीति न तु वेदवचनस्येत्यादिनोक्तं, तद् एतद् आह -- अत इति. अस्तु नाम वक्तृदोषाशङ्कया पुंवचसाम् अप्रामाण्यं, स्वभावनिर्दोषं तु वेदवचो न तत्स्वभावम् अनुभवितुम्[491]अर्हतीति

2.170

__________नोतेस्__________
[491] वर्तितु
वक्तृबुद्ध्यन्तरयोर् व्यवधानम् अपि वेदे नास्तीति पदार्थैर् एव केवलैर् नित्यनिर्दोषैर् वाक्यार्थः प्रतीयत इत्य् आह -- तद्बुद्धी ति. अतः सिद्धं न वेदे प्रत्ययान्तरापेक्षा, न चायथार्थत्वम् इति. प्रकरणार्थम् उपसंहरति -- अत इति

2.171

अन्यथा भाष्याभिप्रायम् आह -- अप्रमाणत्वे ति. वेदानाम् अप्रमाणत्वसिद्धये यत् किञ्चन लौकिकं[492]वचनं दृष्टान्ततयोक्तं, तस्यानेन ग्रन्थेन दृष्टान्तस्य साध्यानासङ्गिता साध्यविकलतोच्यते इति

2.172

__________नोतेस्__________
[492] कं दृ (क)
कथं साध्यानासङ्गिता, अत आह -- तेषाम् इति. अयम् अभिप्रायः -- परमतेनेदं भाष्यकारेण परान् प्रत्युच्यते. तथा हि -- यदा{1,150} तावल्लोकायतिकाभिप्रायः प्रयोगः -- चोदना मृषा प्रत्यक्षाद्यगतार्थत्वाद् ईदृग्बुद्धादिवाक्यवद् इति, तदा बौद्धाभिप्रायेणेदम् उच्यते. साध्यानासङ्गी दृष्टान्त इति. तन्मते हि शब्दो नार्थे प्रमाणम्. तथा हि पदानि तावदर्थं स्मारयन्ति, न तु क्वचित् किञ्चिद् उपनयन्त्य् अपनयन्ति वा. वाक्यम् अपि व्यभिचारदर्शनान् नार्थे[493]प्रमाणम्. अतः कथं तत् साधनं भवेत्. वक्त्रभिप्राय एव तु प्रतिबन्धबलात् शब्दैर् बोध्यते. तथाहुः -- न त्व् एतेभ्यो ऽर्थसिद्धिस् तेषां तत्र प्रतिबन्धासिद्धेः वक्त्रभिप्रायं तु सूचयेयुर् इति. अतो यद् बुद्धादिवचसां कार्यं प्रतिपाद्यम् उक्तं, तत्र तेषां सम्यक्त्वम् एवाव्यभिचारात्. अर्थे तु तेषां व्यापारो नेष्यत एव. अतो न किञ्चिद् वेदवाक्यानां मिथ्यात्वे कारणम्[494]अस्तीति पूर्वत्र प्रतिपादितम् इति

2.173

__________नोतेस्__________
[493] र्थेन प्रतिबद्धम् अ (ग)
[494] णम् इति (क)
पदार्थरचनायत्त इत्यादिना यत् प्रतिबन्धबलेन वाक्याद् वक्तृज्ञानानुमानम् उक्तं तद् दर्शयतीति यदि च यत्र पुंवाक्यं व्याप्रियते वक्तृज्ञाने तदतिरिक्ते ऽर्थ एव दृष्टान्ततयोच्यते, ततः सिद्धसाधनम् इत्य् आह -- स्वव्यापारे ति. स्वविषयातिरेकेण वेदानाम् अपि मिथ्यात्वम् इष्यते. पूर्वपक्षार्थे मृषात्वाभ्युपगमाद् इति

2.174

अत्रापरं भाष्यं - ननु सामान्यतो दृष्टम् अनुमानं भविष्यति, पुरुषवचनं वितथम् उपलभ्य वचनसामान्याद् वेदवचनं मिथ्येत्य् अनुमीयते इति. तस्याभिप्रायम् आह -- अज्ञात्वे ति दृष्टम् अन्तेन. वाक्यत्वं मिथ्यात्वे न प्रयोजकम् इति यो ऽयम् अभिप्रायो भाष्यकारस्य, तम् अज्ञात्वाप्तानाप्तवाक्ययोः सम्यङ्मिथ्यात्वहेतुदोषसदसद्भावयोर् उक्तिमात्रं भाष्यकारेण कृतम् इति ज्ञानात् परः पूर्वपक्षवादी ननु सामान्यतो दृष्टम् इत्याद्य् अब्रवीत्. अतो नैवं चोदनीयं कथं हेतोर् अप्रयोजकत्व उक्ते पुनस् तेनैव हेतुना प्रत्यवस्थानम् इति.{1,151}अगृहीताभिप्रायस्य परिचोदनात्. एवं हि मन्यते -- भवतु यथातथा वा पुरुषवचसां मिथ्यात्वम्, एवम् अपि प्रतिबन्धसिद्धेर् हेतुर् गमक एवेति कृतकाकृतकवाक्ययोः सामान्यतोदृष्टम् इत्य् अन्वय इति. अत्र परिहारभाष्यं न, अन्यत्वाद् इति, तदाक्षिपति -- नान्यत्वाद् इति. कथम् अदूषणम् अत आह -- एतस्माद् इति. वेदवाक्यमिथ्यात्वे साध्ये पुंवाक्यं दृष्टान्त उक्तः. तत्र किम् अयं दोषः यद् अन्यत्वं नाम, प्रत्युत गुण एवायम्. अन्यत्वाद् एव हि दृष्टान्तो भवति. अनन्त्यत्वे साध्यसमत्वापत्तेः. न हि पक्ष एव सपक्षो भवति. पक्षस्य साध्यत्वात्, सपक्षस्य सिद्धत्वात्. सिद्धसाध्ययोश्[495]चैकत्वविरोधाद् इति

2.178

__________नोतेस्__________
[495]कत्र वि (क)
तस्माद् उपेक्ष्यैव तावद् ग्रन्थव्याख्यां भाष्यकाराभिप्रायम् अभिदध्महे इत्य् आह -- तस्माद् इति. तम् एवाभिप्रायं वर्णयति -- अभ्युपेत्ये ति वाक्यता न्तेन. अयम् अर्थः -- परमताभिप्रायेणापिचेत्यादि भाष्ये वक्तृज्ञान एव वाक्यं प्रमाणम्, अर्थे तु न तस्य व्यापार इत्य् उक्तम्. तद् अभ्युपगच्छामः. भवतु पुंवाक्यं बाह्य एवार्थे प्रमाणं न वक्तृज्ञाने. बाह्यार्थापेक्षयैव चाप्रामाण्यवादिनो दृष्टान्तो ऽस्तु नाम. तथापि दूषणम् उच्यते -- व्यवधाने ऽपीति. यद्य् अपि ज्ञानव्यवहिते ऽर्थे ऽप्रमाणम् एव पुंवाक्यं, तथापि तद्विषयप्रामाण्याभ्युपगमेनैव ब्रूमः साधारणानैकान्तिको हेतुर् इति. सत्येष्व् अप्य् आप्तवाक्येषु वाक्यत्वस्य हेतोर् दृष्टत्वाद् इतीदम् अत्र सामान्यतोदृष्टानुमानदूषणं भाष्यकारस्य मनसि विपरिवर्तते. अनेनैवाभिप्रायेण भाष्यम् अपि गमयितव्यम् इति भावः. नन्व्{1,152}अतीन्द्रियार्थवे सत्य् अपि वाक्यत्वाद् इति विशेषयिष्यामः. पौरुषेयवचनं सर्वम् अतीन्द्रियार्थम् अप्रमाणम् इति नानैकान्तिकत्वम् अत आह - अतीन्द्रिये ति. अतीन्द्रिये ऽपि हि यदा कश्चिद् यदृच्छया अदृष्टपूर्वार्थे वाक्यं प्रणयति, यथेन्द्रो ऽस्तीत्य् एको वदति, अन्यो नास्तीति. तत्र द्वयोर् अन्यतरेण नियोगतः सत्येन भवितव्यम् इत्य् एकस्य वाक्यस्य सत्यता. न हीन्द्रसदसद्भावयोर् अन्यतरद् अपि प्रमाणान्तरेणावधारितम्. अतो ऽनाप्तवाक्यम् अपि क्वचिद् यदृच्छया प्रयुक्तम् अतीन्द्रियार्थविषयम् एव सत्यं दृष्टम् इति विशिष्टे ऽपि हेताव् अनैकान्तिकत्वम् एवेति

2.179

एवं भाष्यकाराभिप्रायम् उक्त्वा तत्रैव भाष्यं योजयति -- नान्यत्वाद् इत्य् आभासो ऽन्तेन. अथम् अर्थः -- यादृशं परैर् नैयायिकैः सामान्यतोदृष्टानुमानम् उक्तं, ततो ऽन्यद् इदम् अनैकान्तिकहेतुकं तदाभासम् उक्तम्. अतो ऽस्मात् सामान्यतोदृष्टाभासात् साध्यं न सिद्ध्यति इति. प्रमाणभूतात् सामान्यतोदृष्टाद् अस्य तदाभासस्यान्यत्वाद् इति भाष्यार्थ इति व्याख्यानान्तरम् आह -- विपक्षम् इति. अयम् अभिप्रायः -- वाक्यत्वहेतुर् आप्तवाक्येषु सत्येष्व् अपि दृष्ट इति विपक्षवृत्तिर् न साध्यं साधयतीति तद् एव दूषणं, योजनामात्रं तु भिद्यते. मिथ्यात्वे साध्ये विपक्षस्य सत्यत्वस्य ततो ऽन्यत्वात् तद्गामित्वाच् च हेतोर् इति भावः

2.180

अन्यथा व्याचष्टे -- यद् वे ति. यत् तद् वाक्यत्वस्याप्रयोजकत्वम् अपि चेत्यादि भाष्ये दर्शितं यद् अज्ञात्वा परेण सामान्यतोदृष्टानुमानम् उक्तं, तद् एव न अन्यत्वाद् इति भाष्यकारेणोद्धाटितम्. अन्यः खलु अप्रामाण्यस्य प्रयोजको हेतुर् विसंवादः, न वाक्यत्वम्. न चासौ वेदे सम्भवति, अपौरुषेयत्वात्. पुरुषाश्रयत्वाच् च शब्दे दोषाणाम्. अदुष्टकारणजनित्यस्य च ज्ञानस्य विसंवादासम्भवात्. नैतद् एवम् इति प्रत्ययविपर्यासो विसंवादः कथम् अदुष्टकारणजे भविष्यति. अन्यत्वान् मिथ्यात्वकारणस्येति भाष्यगमनिकेति{1,153}व्याख्यानान्तरम् आह -- विषयस्ये ति. पूर्वं हि परमतेन साध्यानासङ्गी दृष्टान्त इत्य् उक्तम्. सैवेयं साध्यानासङ्गिता विषयान्यत्वाद् उच्यते. अन्यो हि पुंवाक्यस्य विषयो वक्त्रभिप्रायः. न च तत्र मिथ्यात्वम् अभ्यभिचारात्. पूर्वं त्व् अर्थविषयव्यापारम् उपेत्यान्यत्वम् उक्तम्. अधुना पुनः परमत एव स्थित्वा साध्यानासङ्गितोच्यत इति

2.181

अपरम् अपि न ह्य् अन्यस्य वैतथ्ये ऽन्यस्यापि वैतथ्यम् इति भाष्यम्. तस्यार्थं दर्शयति -- न ही ति. न ह्य् अन्यस्येत्यादिना भाष्येण नान्यस्यान्यथात्वे ऽन्यस्य मृषार्थता भवतीत्य् उच्यत इति. एतद् एव विवृणोति -- विवक्षे ति. विवक्षा हि वक्तुस् तत्रायथार्थगोचरत्वान् मृषार्था. न वाक्यं, तस्य तत्प्रतिपादनमात्रेण प्रामाण्यात्. तस्याश् च ततः प्रतिबन्धबलात् सिद्धेः. अतो न वाक्यं मृषार्थम् इति[496]सिद्धा साध्यानासङ्गितेति. प्रथमपक्षे[497]पि चैवं न हीत्यादि भाष्यं व्याख्यातव्यम्. नान्यस्यानाप्तवाक्यस्य मृषार्थत्वे ऽन्यस्याप्तवाक्यस्यापि तद् भवतीति. सत्ये विपक्षे पुंवाक्यत्वस्य भावाद् अनैकान्तिको हेतुर् इति. एवम् एव द्वितीये तृतीये च विसंवादस्य वैतथ्ये साध्ये ऽन्यस्य वाक्यत्वस्य वैतथ्यं साध्यं न सम्भवतीति व्याख्येयम्. चतुर्थे तु वार्त्तिकस्था व्याख्येति

2.182

__________नोतेस्__________
[496] ति सा
[497] क्षे चैवं (क)
अन्यच् च न हि देवदत्तस्य श्यामत्त्व इत्यादि भाष्यं, तस्याभिप्रायम् आह -- श्यामत्व इति. यथा श्यामत्वे साध्ये पुंस्त्वम् अनैकान्तिकं गौरादिष्व् अभावाद्, एवं वाक्यत्वम् अपि सत्याप्तवाक्यस्य साधारणम् इति साधारण्यप्रदर्शनार्थं वेदं निदर्शनम् इति. अन्ये तु दुष्टसाधनप्रयोगे दुष्टम् एवोत्तरं देयम् इति मन्वाना विकल्पसमा नाम जातिर् इयं भाष्यकारेण नान्यत्वाद् इत्य् उक्तम्{1,154}इत्य् आहुर् इत्य् आह -- परोक्तेर् इति. धर्मान्तरविकल्पनात् साध्यधर्मविकल्पापादनं विकल्पसमा. सा चैवं दर्शनीया -- वाक्यम् एव किञ्चित् पुरुषवाक्याद् अन्यद् दृष्टं यथा वेदवाक्यम्. किञ्चिद् अनन्यद् यथा तद् एव. एवम् अन्यानन्यत्वयोर् अपि विकल्पनात्[498]सत्यमिथ्यात्वयोर् अपि वाक्यत्वाविशेषे विकल्पो भविष्यतीति नावश्यं वाक्यत्वान् मिथ्यात्वं सिध्यतीति. इयं च वाच्यानुक्तीतरोक्तिजनिग्रहस्थानद्वयापत्तेर् अवाच्यैव परमतेनोपन्यस्तेति[499]वेदितव्यं विकल्पसमम् उत्तरम् इति

2.183

__________नोतेस्__________
[498] ल्पात् (ग)
[499] ति परिवे
एवं तावन् नान्यत्वाद् इति दूषणोक्तिर् इयम् इत्य् उक्तम्. इदानीं साधन वचनम् एवेदम् इति व्याख्यानान्तरम् आह -- यद् वे ति. परेण हि मिथ्यात्वे साधिते सिद्धान्ती हेत्वन्तरेण सयत्वं साधयति. प्रमाणम् अनुमानम्. तदुपरिष्टाद् वक्ष्यत इति. कीदृशं पुनस् तत् प्रमाणम् इत्य् आह -- विरुद्धे ति. यदि तुल्यबलत्वं, विरुद्धाव्यभिचारी नाम संशयहेतुः. अथ सिद्धान्तहेतुर् बलीयान्, ततो ऽनुमानबाधः. इह चानुमानबाध एव, सत्यत्वहेतोर्[500]बलीयस्त्वाद् अन्यत्वाद् असत्यत्वहेतूनाम् इति भाष्यार्थ इति

2.184

__________नोतेस्__________
[500] तुब
तद् एव[501]सत्यत्वे प्रमाणम् उपन्यस्यति -- चोदने ति. इदं चैकान्तिकहेतुकम् अनुमानं सामान्यतोदृष्टाद् अनैकान्तिकहेतुकाद् बलवत्. अनैकान्तिकता च केवलस्य सविशेषणस्य च हेतोर् उक्तैव. अतो ऽनेनैव बलवता मिथ्यात्वानुमानं बाध्यत इति

2.185

__________नोतेस्__________
[501] सम्यक्त्वे प्र (क)
अस्मिन्न् एव साध्ये ऽपरम् अपि हेतुद्वयम् आप्तोक्तिनिदर्शनेनैव दर्शयति -- तथे ति. देशकालादिभेदादौ बाधवर्जनाद् इत्य् अन्वयः. अत्र च{1,155}बाधवर्जनाद् इति हेतोर् लिङ्गाक्षबुद्ध्योर् अपि दृष्टान्तता सम्भवत्य् एव. साधारण्येन त्वाप्तोक्तिप्रत्ययो निदर्शित इति

2.186

नन्व् इदम् अदुष्टकारणजनितत्वम् अनाप्ताप्रणीतोक्तिजन्यत्वं चासिद्धं, सर्ववाक्यानां कृतकत्वाद् अत आह -- अकर्तृकत्वे ति. साधयिष्यते हि वेदानाम्[502]अकर्तृकत्वम्, अतो नासिद्धो हेतुर् इति. एवमादिसत्यत्वानुमानाभिप्रायेणेदम् अन्यत्वम् उक्तवान् भाष्यकृद् इत्य् आह -- एवम् इति. आदिशब्देन सम्बन्धाक्षेपोक्ता हेतवो ऽनुसन्धातव्याः.
__________नोतेस्__________
[502] म् अकृत्रिमत्वं
भाष्यव्याख्याविकल्पाश् च षोढाद्यग्रन्थवत् कृताः ।
इति

2.187

अत्रापरं सामान्यतोदृष्टस्यागमबाधप्रदर्शनार्थं भाष्यम् अपि च पुरुषवचनसाधर्म्याद् वेदवचनं मिथ्येत्य् अनुमानं, प्रत्यक्षस् तु वेदवचने प्रत्ययः इति. तद् यदि वाक्यगोचरप्रत्ययाभिप्रायं, तद् अयुक्तम्. अनाप्तवाक्ये ऽपि समानत्वात्. तत्स्वरूपप्रत्ययो ऽपि प्रत्यक्ष एव. न च[503]तन्मिथ्या. अर्थस् तु वेदवाक्यानाम् अतीन्द्रिय इति प्रत्यक्षसूत्रे वक्ष्यते. अतो नार्थाभिप्रायम् इदम्. अथ प्रत्ययस्वरूपाभिप्रायेण प्रत्यक्षतोच्यते, साप्य् अयुक्ता. शून्यवादे तस्याप्य् अनुमेयताया वक्ष्यमाणत्वात्. अतो व्याख्येयम्, अत आह -- प्रत्यक्ष इति. अयम् अभिप्रायः -- मुख्यप्रत्यक्षत्वासम्भवाद् गौणः प्रत्यक्षशब्दः. दृढं हि प्रत्यक्षं प्रथमं च स्वतःप्रमाणं परतो विसंवादाद् अप्रमाणम्. एतच् चतुष्टयान्यतम् अगुणविवक्षया प्रत्यक्षशब्द आगमिक एव प्रत्यये प्रत्युक्तः. सो ऽपि दृढः, संशयविपर्ययाभावात्. श्रीघ्रभावी च, मिथ्यात्वानुमानाद् दृष्टान्ताद्यपेक्षाविरहात्. उत्पन्नस्य चानुमानेन मिथ्यात्वसाधनात्. प्रामाण्याप्रामाण्ययोः स्वपराश्रयत्वं सर्वप्रमाणानां साधितम्. अतः प्रत्यक्षतुल्यो ऽयम् प्रत्ययः कथम् अन्यथा भवति. तद्[504]एतद् विपरीतार्थप्रतिज्ञानम्[505]अनेन विरुध्यत इति.{1,156} न चेह वेदप्रामाण्यम् अस्माकम् असिद्धम् इति प्रत्यवस्थातुं शक्यम्. नास्तिकानाम् अपि तच्छ्रवणे असन्दिग्धाविपर्यस्तज्ञानजन्मनो ऽविशेषान् नित्यागमजनितायाश् च संविदो दुष्टकारणजनितत्वासम्भवात्. पौरुषेयागमवादिभिस् त्व् आत्मात्मनैव बद्ध्वा समर्पित इति न ते परेषां मिथ्यात्वं साधयताम् आगमविरोधम् उद्भावयितुम् उत्सहन्ते. पुरुषाश्रयदोषाशङ्कया स्वागमानां[506]दूषितत्वात्. सर्वं चेदं भाष्योक्तम् एव वार्त्तिककृता प्राग् एवोद्ग्राहितं चोदनार्थान्यथाभावम् इत्यादिनेत्य् अनुसन्धातव्यम् इति

2.188

__________नोतेस्__________
[503] तदमिथ्या (क)
[504] द् एव त
[505] ज्ञानेनैव वि (ग)
[506] तदागमानां
मुख्य एव वा प्रत्यक्षशब्दो व्याख्येय इत्य् आह -- ज्ञानाभावश् चे ति. एवं मिथ्यात्ववादी वक्तव्यः -- त्रेधा खलु मिथ्यात्वम्. इह च न तावत् संशयविपर्ययौ स्त इति भाष्य एवोक्तम्. तद् यदि ज्ञानाभाव एव मिथ्यात्वं साध्यते, तत्र ते प्रत्यक्षविरोधः. प्रत्यक्षम् एव हि भवत्सिद्धान्ते ज्ञानम्. यदि[507]कामम् अस्यैव श्रोत्रियस्य तदनुमेयं[508]तत्त्वं, प्रत्यक्षम् एव वेदवाक्यश्रवणाद् उत्पन्नं ज्ञानं विलोकयमानः कथं तदभावात्मकं मिथ्यात्वमत्थ इति

2.189

__________नोतेस्__________
[507] दि परमस्यै (ग)
[508] यं तत् प्र
एवं तावदागमविरोधो ऽनेन भाष्येणोक्त इति व्याख्यातम्. इदानीम् अस्यैव तात्पर्यान्तरं दर्शयति -- यथैवे ति. अयम् अर्थः -- एतद् अनेन भाष्येणोच्यते पुंवाक्यसाधर्म्याद् भवान् मिथ्यात्वं साधयति. तद् यथैवैतन् मिथ्यात्वं दृष्टं, तथैव वेदवाक्येनापि मिथ्या भवितवयम्. तच् च बाधकाधीनं मिथ्यात्वं दृष्टम् इति वेदे ऽपि तथैव भवेत्. न च तथा सम्भवतीति साधितम् एव. अतः प्रत्यक्षो[509]हि दृढो वेदवचने प्रत्ययः. नासौ क्वचिद् बाध्यते. अतो विशेषविरुद्धो हेतुर् इति

2.190

__________नोतेस्__________
[509] क्षे ऽपि दृ (क)
{1,157} एवं चोदनालक्षणत्वम् उपपाद्य भाष्यकारेणोपसंहृतं तस्माच् चोदनालक्षणः श्रेयस्करः इति. अत्र च यथासूत्रम् एव निगन्तव्ये श्रेयस्करपदप्रयोगे ऽभिप्रायम् आह -- धर्म इति. धर्मपदार्थम् एव व्याख्यातुं श्रेयस्करशब्दः प्रयुक्तः. तत्प्रयोगे हि चोद्यपरिहारक्रमेण श्रेयस्करो धर्म इत्य् आवेदितं भवतीति

2.191

अत्र भाष्यकारेण एवं तर्हि श्रेयस्करो जिज्ञासितव्यः इति परिचोदनापूर्वम् उक्तं य एव श्रेयस्करः स एव धर्मशब्देनोच्यते इति. तत्र कस्यानेन प्रकारेण धर्मतोक्तेति न ज्ञायते. अतस् तद्विवेकार्थम् आह -- श्रेय इति. श्रेयश्शब्दो ऽयं पुरुषप्रीतौ प्रसिद्धः. तत्कारणानि च द्रव्यगुणकर्माणि चोदनासामर्थ्याद् अवगम्यन्ते. अतस् तेष्व् एव श्रेयस्करतया धर्मता भाष्यकारेणोक्तेति

2.192

अत्रापरं भाष्यं - यो हि यागम् अनुतिष्ठति तं धार्मिक इति समाचक्षते इति. तस्यार्थः -- श्रेयस्करो धर्मः यत्कारणं चोदनावधारितश्रेयस्करत्वयागादिकर्तरि धार्मिकशब्दं लौकिका उपचरन्ति. तद् एवम् उपपद्यते यदि यागादिर् धर्मः, यो हि धर्मं चरति स धर्मिकः. अतो यागादेर् धर्मत्वम्. अत एव हि तच्चरितरि धार्मिकपदप्रयोगो घटते, नान्यथेति. तद् अयुक्तम्. नावश्यम् अयं प्रयोगो यागादीनां एव धर्मतां गमयति, नृगुणापूर्वादिधर्मत्वेनाप्य् अस्योपपत्तेः. यागादिकार्य् एव ह्य् अपूर्वाद्य् अपि करोति. तत् कुतो ऽयं विवेकः यागचरणाद् अयं धार्मिकः नापूर्वादिचरणाद् इति, अत आह -- अन्यद् इति. अयम् अभिप्रायः -- सत्यं, यागाद्यनुनिष्पादिन्यपूर्वसिद्धिर् इति न तु तद्यागादिसाध्यम् अपूर्वं प्रयोक्तृभिर् निर्दिश्यते. शक्तिरूपत्वात् तस्य. शक्तेश्{1,158}चातीन्द्रियत्वात्. अतस् तद्दर्शनेन तच्चरितरि धार्मिकपदप्रयोगो न घटते. तस्माद् यागादियोगाद् एव धार्मिकत्वसमाख्यानम् इति निश्चीयते.
किं पुनर् यागादीनां स्वरूपम् एव धर्मः. यद्य् एवं पूर्वापरविरोधः. पूर्वेण तावदुकतं ताद्रूप्येण च धर्मत्वम् इति. अपरेण च
फलसाधनरूपेण तदानीं[510]येन नास्त्य् असौ ।
__________नोतेस्__________
[510] नीं नास्तीति (क)
इति. तद् अपि च रूपं यागादीनाम् अतीन्द्रियतया नापूर्ववत् प्रत्यक्षादिदृश्यम् यागादिस्वरूपाभिधाने त्व् अनन्ता[511]एकस्य धर्मपदस्य शक्तयः कल्पनीया भवेयुः. कथं खल्व् एकयैव शक्त्यायं नानाजातीयेषु द्रव्यगुणकर्मसु वर्तते. स्याद् एतत् -- सकलानुगतप्रीतिसाधनत्ववचनाद् अदोष इति. न. तस्याप्य् अतीन्द्रियत्वाद् इत्य् उक्तम्. विशेषणमात्राभिधानप्रसङ्गाच् च. प्रीतिसाधनं हि नानभिधाय प्रीतिं शक्यते ऽभिधातुम् इति सैव पूर्वतरम् अभिधेया भवेत्. एवञ् च तन्मात्रोपक्षयिण्य् अभिधाव्यापारे न तद्वि[512]शिष्टाभिधानसिद्धिः. गवादिशब्दवत् सामशब्दवच् च. यत्र ह्य् अखण्डेन शब्देन विशिष्टो बोध्यते तत्र विशेषणम् एव शब्दस्य वाच्यम् इति सिद्धम्. अत एव सामशब्दो गीतिमात्रवचनो न सक्तां गीतिमाहेति वक्ष्यति. वार्त्तिककारेणाप्य् अपूर्वविशिष्टं कर्म धर्म इति निराकुर्वतोक्तं -
__________नोतेस्__________
[511] न्तास् ता ए (ग)
[512] शेषाभि (ख)
कर्मापूर्वविशिष्टं चेद् धर्म इत्य् अभिधीयते ।
विशेष्यं नाभिधां गच्छेत् क्षीणशक्तिर् विशेषणे ॥
इति. तद् इदं फलविशिष्टाभिधाने ऽपि समानम्. स्यान् मतं विधेयो धर्मपदार्थ इति. तन् न. एवं सति विधेर् अत्यन्तप्रत्यासन्ना भावनैव विधेयतया धर्मशब्दवाच्यताम् अश्नुवीत. सा हि त्र्यंशा विधीयते इति सिद्धान्तः. तद्वरम् अपूर्वम् एव धर्मपदवाच्यं तदन्वयव्यतिरेकानुविधानाद् धर्मपदस्य. तथा हि फलकाले ऽसत्य् अपि कर्मणि अपूर्वसत्तयैव धर्मवान् अयम् इत्य् उपचरन्तो दृश्यन्ते. सत्स्व् अपि यागादिषु वैगुण्याद् अलब्धापूर्वनिष्पत्तिषु न धर्मपदं प्रयुञ्जाना दृश्यन्ते. अतो वक्तव्यो धर्मपदार्थः.
{1,159} स उच्यते -- धर्मशब्दो ऽयं पाचकादिवत् सभाग एव धृतिसाधने वर्तते. धृतिश् च प्रीतिपर्यायः. अयं च यथोपदिष्टानुगतपृषोदरादिमध्ये पठितः प्रकृतिप्रत्ययविभागेनोहितव्यः. तद् इह धृञा धृतिः,[513]मनिन्प्रत्ययेन च तत्साधनम् अभिधीयते. न चैवमाहारविहारादौ प्रसङ्गः. पङ्कजादिवद् योगरूढ्यभ्युपगमात् चोदनालक्षणश्रेयस्करमात्राभिधानात्. न च योगनिरपेक्षा समुदायशक्तिः, येन विशेषणमात्रे प्रसङ्गो भवेत्. न च भावनायां प्रसङ्गः, तस्या अतत्साधनत्वाद्, यागादीनाम् एव श्रेयस्साधनत्वस्य चोदनाप्रमाणकत्वात्. केवलरूढ्यभ्युपगमेनैवोपाधिद्वयस्याभिधानम् एष्टव्यम्. प्रतीतिसाधनत्वस्य विहितत्वस्य च प्रीतिसाधने विहिते च धर्मपदोपचारात्. प्रायिकं चैवाखण्डस्य विशेषणमात्राभिधानम्. असत्यां तु गतौ सर्वाभिधानम् एव. तुल्यवच् चेह धर्मपदात् प्रीतिस् तत्साधनं च विहितम् अवगम्यते इति किं न शब्देनोच्यते. यद् एतद् अपि रूपम् अदृश्यम् इत्य् उक्तम्. तन् न, वेदाद् अवगमात्. अभ्युदयसाधनं याग इत्य् एतावद् एव विदितवन्तो ऽपूर्वम् अगणयित्वैव यागादिकर्तृषु धार्मिकशब्दम् उपचरन्तो दृश्यन्ते. अतस् ताद्रूप्यमात्रेणैव ते धर्मा इति निश्चीयन्ते. अतः सिद्धम् अभ्युदयसाधनं विहितं धर्मपदार्थ इति. यत् तूक्तं विगुणे प्रयोगाभावान् न यागादिर् धर्म इति. तन् न. तथाविधस्याभ्युदयसाधनत्वाभावात् तस्य चाधर्मत्वात् कथं तत्र धर्मशब्दः प्रयुज्यते. फलकाले तु धर्मपदप्रयोगो ऽभ्युदयसाधनाभिप्राय एव. अस्ति हि तत् तदानीम् अपि. शक्तिरूपेणाध्रियमाणम् अपि स्वरूपेण. यथा चापूर्वं न धर्मपदवाच्यं तथा वक्ष्यत एवेति

2.194

__________नोतेस्__________
[513] प्रीतिः (ग)
एवं तावल्लौकिकप्रयोगानुसारेण[514]यागादयो धर्मा इत्य् उक्तम्. अपि च येयं पश्वादिषु धर्मफलत्वप्रसिद्धिः तयापि यागादीनाम् एव धर्मत्वम् अवगम्यत इत्य् आह -- पश्वादीनी ति. अयम् अर्थः -- पश्वादीनि तावद् धर्मफलतया प्रसिद्धानि. अतो यस्यैव तानि[515]फलानि स एव धर्म इति भवति मतिः. चित्रादिफलतया चैतानि शास्त्राद् अवगतानीति चित्रादयो धर्मा इति उपसंहरति -- तस्माद् इति. न केवलं लोके. वेदे ऽपि यागादिष्व् एव धर्मपदप्रसिद्धिर्{1,160}इति दर्शयता भाष्यकारेण दर्शितं यज्ञेन यज्ञम् अयजन्त देवाः. तानि धर्माणीति. तद् दर्शयति -- धर्माणी ति. अस्याम् अपि श्रुतौ यज्ञसमानाधिकरणो धर्मशब्द इति तद्वचनो निश्चीयत इति. कथं पुनर् विलिङ्गो विसङ्ख्यश् च धर्मशब्दः यज्ञसमानाधिकरणतया निर्दिश्यते. तत्सामानाधिकरण्ये हि स धर्म इति भवेत्. एकस्यैव यज्ञस्य प्रकृतत्वात्, पुल्लिङ्गत्वाच् च तस्य, अत आह -- लिङ्गे ति. समुज्झितलिङ्गसङ्ख्याविशेषो धर्मशब्द एवात्र भाष्यकृता दर्शितः. तद्वृत्तस्य प्रकृतग्राहित्वात्, अन्यस्य चाप्रकरणान् निश्चीयते यज्ञसमानाधिकरणो धर्मशब्द इति. लिङ्गसंख्ययोश् च छान्दसो व्यत्यय इति भावः. आद्यश् चात्र यज्ञशब्दो यज्ञसाधनलक्षणार्थः. इतरः श्रुत्यर्थ इति

2.196

__________नोतेस्__________
[514] कपदप्र (ख)
[515] नि स (क)
एवं तावद् भाष्यकारानुसारेण धर्मपदार्थो व्याख्यातः. मतान्तराणीदानीम् उपन्यस्य निरस्यति -- अन्तःकरणे ति न दृष्टो ऽन्तेन. साङ्ख्या ह्य् अन्तःकरणस्य मनसो वृत्तिविशेषं धर्मम् आश्रिताः. शाक्यास् तु चित्तस्यैव चित्तान्तरेण[516]भावितां शुभां वासनाम्. आर्हतास् तु कार्यारम्भकान् सूक्ष्मान् मूर्तिमतः पुद्गलान् धर्मम् आहुः. पुद्गलशब्दस् त्व् आर्हतैस् तेष्व् एव परिभाषितः. वैशेषिकास् त्व् आत्मनो विशेषगुणा धर्मा इति प्रतिपन्नाः. मीमांसकैकदेशिनस् त्व् अपूर्वजन्मन्य् एव धर्मशब्दम् उपचरन्ति. वर्णितश् च तेषाम् अभिप्रायः. अपूर्वजन्मनीति चापूर्वशब्दनिर्वचनम्. न पूर्वं जन्मास्येत्य् अर्थः. तद् धि न कर्मणः पूर्वं जायत एव, कृते कर्मणि तन्निष्पत्तेः. एतेषु सर्वेषु च लोके धर्मशब्दप्रयोगो न दृष्टः. लौकिकश् च प्रयोगः शब्दाद् अर्थावधारणे मूलम्. अतो न ते धर्माः. कथं पुनर् अन्तःकरणवृत्तेर् धर्मत्वं निराक्रियते. मीमांसकैर् अपि तद्धर्मत्वम् इष्यत एव. यागाद्यनीक्षणादिसङ्कल्पानां मानसानाम् एव धर्मत्वाभ्युपगमात्.{1,161}नैवम्. न मानसाः सङ्कल्पाः, आत्मकर्तृकत्वाद् उपनिषत्सु तथा दर्शनात्. श्रूयते हि -- य आत्मा अपहतपाप्मा विरजो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसङ्कल्पः इति. तथा स यदि पितृलोककामो भवति सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्तीति. कृद्योगलक्षणा कर्तरि षष्ठी आत्मकर्तृकतां सङ्कल्पस्य दर्शयतीति न मनोवृत्तेर् धर्मत्वम्. चित्तानां च वास्यवासकभावानुपपत्तिः क्षणिकायुगपद्भुवां विज्ञानवादे ऽभिधास्यत एव. तद् उपेक्ष्यैव तावत् प्रयोगाभावान् न चित्तवासना धर्म इत्य् उक्तम्. पुण्याः पुद्गला इति यद्यणवः, न तेषु धर्मशब्दप्रयोगो लोके दृष्टः. अथान्ये ते, तर्हि प्रमाणाभावात् कुतः सेत्स्यन्ति. कुतस् तरां च तेषु धर्मशब्दप्रयोगो ऽलब्धसद्भावेषु. पुंगुणस् तु नित्यो वा वैभवादिवत्, कार्यो वा सुखादिवत्. नित्यत्वे अनुष्ठानवैयर्थ्यम्. कार्यं तु नापूर्वाद्यन्यतमम् आत्मसमवायिनं गुणभेदम् उपलभामहे. अपूर्वं तु यथा न धर्मस् तथोक्तम् एव. अप्रयोगाद् इति वक्ष्यति च. यद् अपि च कर्तृफलदाय्यात्मगुणः संयोगजो दृष्टः कार्यविरोधीति
धर्मस्य लक्षणम् उक्तं, तद् अयुक्तम्. अधर्मसाधारण्यात्, स्मृतिहेतुसंस्कारसाधारण्याच् च. तयोर् अप्य् एवंलक्षणकत्वेन धर्मत्वप्रसङ्गात्. कर्तृफलदायीति चाव्यापकः. श्राद्धे त्व् अकर्तॄणां पित्रादीनां तृप्तिफलश्रुतेः. वैश्वानर्याश् च पितृकर्तृकाया एव पुत्रगामि फलम् इति वः सिद्धान्तः. वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते इति हि विधाय आम्नायते यस्मिन् जात एताम् इष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीति. शास्त्रफलं प्रयोक्तरि (3.7.18) इत्य् उत्सर्गतः प्राप्तपितृगामिता पुत्रगामिफलश्रुत्यापोद्यते. अतः सिद्धं नान्तःकरणवृत्त्यादयो धर्मा इति. ननु श्रेयस्साधने तावद् धर्मपदप्रयोगो भवद्भिर् अपीष्यते. एते च श्रेयस्साधना इति कथं तेषु धर्मशब्दप्रयोगो न दृष्ट इत्य् उच्यते. अत आह -- न चे ति. न तावद् एषां फलसाधनता प्रत्यक्षादिगम्या, अतीन्द्रियत्वात्. न च चोदनागम्या, यागादीनाम् एव तया फलसाधनतावगतेर् इति

2.197

__________नोतेस्__________
[516] ण शु (क)
{1,162}आह -- अस्त्व् अन्तःकरणवृत्त्यादयो न श्रेयस्साधनतयावगम्यन्त इति न धर्मा इति. अपूर्वं तु प्रीतिसाधनम् एव, अतिक्रान्ते कर्मणि तत एव फलसिद्धेः. यागसाधनवादिनो ऽपि हि अपूर्वं कृत्वेति व्याचक्षाणा अपूर्वसिद्धिम् अन्तर्भावयन्ति. परैर् अप्य् उक्तम् -- आरम्भात् स्वर्गः कर्मणा चारम्भः इति. आरम्भ इत्य् अपूर्वम् एव समाचक्षते. स ह्य् आरभ्यते. अतो ऽपूर्वं धर्म इत्य् एव न्याय्यं मन्यन्ते, अत आह -- न चे ति. अयम् अभिप्रायः -- किम् इदम् अपूर्वं नाम. यदि तावत् कर्मशक्तिः फलशक्तिर् वा, नासौ साधनं साध्यं वा. शक्तेर् अकारकत्वात्, पुरुषाभिलषितफलानुषङ्गिकतया सिद्धत्वाच् च. यदि वस्त्वन्तरम् एवापूर्वम् उच्यते, तद् अप्य् अयुक्तम्. तस्य साध्यसाधनयोर् अन्यतररूपाननुप्रवेशितया प्रत्येतुम् अशक्तेः. न हि तत् स्वर्गस्य साधनं यागस्य च साध्यं शब्दाद् अवगच्छामः. नान्यतः प्रमाणात्, तदवेद्यत्वाभ्युपगमात्. अत एव न शब्दात्, प्रमाणान्तरागोचरे व्युत्पत्त्यभावात्. अपदार्थस्य चावाक्यविषयत्वात्. अतः साध्यसाधनभावाद् अन्यथापि[517]प्रमाणान्तरेण न वस्त्वन्तरभूतम् अपूर्वं शक्यावगमम्. एतद्रूपद्वयरहितस्य[518]तस्य रूपान्तरेण दर्शयितुम् अशक्यत्वाद् इति

2.198

__________नोतेस्__________
[517] प्रकारान्त (क)
[518] स्य रू (ग)
अपि च यद्य् अपूर्वं यागस्य साध्यं स्वर्गस्य च साधनम् इष्यते, ततः श्रुतहानिर् अश्रुतकल्पना चेत्य् आह -- श्रुतसाधने ति. ताद्रूप्यं तेन भावना च वाक्यार्थः. सा च साध्यसाधनापेक्षिणी यथा स्वर्गयागाव् एव गृह्णाति तथा भावार्थाधिकरणे वक्ष्यते. इहापि च भावनापञ्जरप्रकरणे. अतस् तत् तावद् धेयम् अश्रुतं च. अतीन्द्रियस्यावस्तुनो गगनकुसुमादिसन्निभस्य साध्यसाधनत्वं कल्पनीयम् इत्य् अश्रुतकल्पनेति. अन्यतररूपानभ्युपगमे निस्स्वभावस्याभाव एव भवेद् इत्यभिप्रायेणाह -- व्यतिरेके त्व् अरूपते ति

2.199

{1,163} इदं च प्रौढिप्रदर्शनार्थम् उक्तम्. न त्व् एतद्रूपद्वयरहितस्य धर्मशब्दवाच्यतोपपद्यत इति. अतो न तत्त्वान्तरम् अपूर्वम्. किन् तु फलं कर्तुम् अभिप्रवृत्तस्य यागादेर् एव शक्तिमात्रं, पश्वादेर् वोत्पत्ताव् अभिप्रवृत्तस्य शक्तिमात्रम् एव सूक्ष्मावस्था अपूर्वम्.
न तत्त्वान्तरम्. न च कर्मशक्तिर् एव फलसाधनं, कर्माव् आन्तरव्यापारत्वात्. न चावान्तरव्यापारव्यवधिरकारणताम् आपादयति, काष्ठादीनां ज्वलनादिव्यापारव्यवधाने तत्प्रसङ्गात्. अतः कर्मैव शक्तं फलसाधनं न शक्तिर् इति शास्त्राद् अवगम्यमाने कथं शक्तेर् धर्मपदवाच्यतेत्यभिप्रायेणाह -- तस्माद् इति

2.200

इतश् च फलसाधनशक्तिर् न धर्म इत्य् आह -- शक्तय इति. अस्यार्थः -- भावशक्तयः खलु साधारणशब्दैर् एव योग्यताशक्तिसामर्थ्यादिभिर् दृष्टाभिधानाः न विशेषतो भावशब्दैर् उपाख्यायन्ते. धर्मशब्दस् तु विशेषतो भावशब्दः. अन्यत्रैवञ् जातीयके ऽप्रयोगात्. न हि लौकिकानां द्रव्यादीनां शक्तयो धर्मपदेनोपाख्यायन्ते. अतो न यागादीनां शक्तयो धर्मपदेनोपाख्यायन्त इति सिद्धम् इति

2.201

अत्रापरम् अर्थपदव्याख्यानार्थं भाष्यम् -- उभयम् इह चोदनया लक्ष्यते अर्थो ऽनर्थश् च. को ऽर्थः, यो निःश्रेयसाय ज्योतिष्टोमादिः. को ऽनर्थः, यः प्रत्यवायाय श्येनो वज्र इषुर् इत्येवमादिः. तत्रानर्थो धर्म उक्तो मा भूद् इत्येवमर्थम् अर्थग्रहणम् इति. अस्य किलायम् अर्थः -- यदि चोदनालक्षणो धर्म इत्य् एतावद् उच्येत, अतो ऽनर्थस्य चोदनालक्षणस्य श्येनादेर् धर्मता भवेत्. अनर्थश् चासौ प्रत्यवायकरत्वेन. अतस् तन्निवृत्त्यर्थो ऽर्थशब्द इति. तद् एतद् आक्षिपति -- पुरस्ताद् इति. अस्यार्थः -- एकाङ्गविकलं हि प्रत्युदाहरणं भवति.[519] न द्व्यङ्गविकलम्. तद् यद् एव चोदनालक्षणपदेन न व्यावर्तयितुम् इष्टं, तदर्थग्रहणेन व्यावर्तनीयम्. अनर्थश् च चोदनालक्षणपदेन व्यावर्तितः. विधायकस्य वाक्यस्य चोदनात्वात्. तेन चानर्थहेतोः हिंसाया अलक्ष्यमाणत्वात्. प्राणवियोगफलो हि व्यापारो हिंसा. सा च न हिंस्याद् इति श्रुत्या निषिद्धेत्य् अनर्थः. स च निषेधलक्षितः न तु चोदनालक्षित इति चोदनालक्षणपदेनैव तद्व्यावृत्तिसिद्धेर् अनर्थकम् अर्थपदम् इति. पुरस्ताद् इति. चोदनेति क्रियायाः प्रवर्तकं वचनम् इत्य् अत्रेत्य् अर्थः

2.202

__________नोतेस्__________
[519] ति. तद् य (ग)
स्याद् एतत् -- श्येनादयो ऽत्र भाष्यकारेण प्रत्युदाहृताः, ते च चोदनालक्षणा एवेति. तद् अयुक्तम्. यदि नाम श्येनादयश् चोदनालक्षणाः, न त्व् अर्थपदेन व्यावर्तयितुं शक्यन्ते. निषेधप्रमाणकत्वाद् अनर्थत्वस्य. तेषां च विधिविषयाणां निषेधागोचरत्वाद् इत्य् अभिप्रायेणाह -- चोदने ति. तद् इह यो ऽनर्थो हिंसा नासौ चोदनालक्षणा, निषेधलक्षणत्वात्. ये च चोदनालक्षणाः श्येनादयः, न ते ऽनर्था इत्य् उभयतःपाशा रज्जुर् इति

2.203

स्याद् एतत् -- यदि नाम निषेधप्रमाणकम् अनर्थत्वं न. एवम् अपि श्येनादौ न सम्भवति, विधिविषयाणाम् अपि निषेधविषयत्वसम्भवादतिरात्र इव षोडशिनः. अत आह -- यद्य् अपी ति. अयम् अभिप्रायः -- न तावद् विध्यवरुद्धे विषये निषेधः सम्भवति. यद्य् अपि क्वचिद् भवति, तथापि न तादृशान् निषेधाद् अनर्थत्वं विज्ञायते. केवलो हि निषेधो ऽनर्थत्वम् आपादयति, न विधिसहितः यथोदाहृत एव षोडशिनि. न ह्य् असाव् अनर्थः, अनुष्ठानविकल्पमात्रार्थत्वान् निषेधस्य, उभयथापि क्रतुफलसम्पदो ऽविशेषात्.[520]अतो यदि नाम श्येनो निषिध्येत नैवम् अप्य् अभिचारविधिना विहितो ऽनर्थत्वं प्रतिपद्यते. केवलनिषेधगोचरा एव कलञ्जभक्षणादयो ऽनर्थाः, प्रत्यवायहेतुत्वात्.
__________नोतेस्__________
[520] त् यदि (क)
{1,165}किं पुनस् तेषां प्रत्यवायहेतुत्वे प्रमाणम्. यदि निषेधः, तद् अयुक्तम्. नञर्थपर्यवसाय्य् एव हि निषेधविधिर् न निषेध्यस्यानर्थताम् आपादयितुं क्षमः. तावतैव निषेधविध्यर्थसिद्धेः. निषिध्यमानक्रियाकर्तुर् एव निषेधविधिष्व् अधिकारः. तस्यां च रागादिना प्रवृत्तः पुमान् अधिकारी लब्ध एवेति नाधिकार्यन्तरापेक्षा. एवञ् च न तद्विशेषणे ऽपि. अधिकारी हि नानवच्छिन्नो विशेषणेन बोद्धुं शक्यत इति तद्विशेषणापेक्षा. तत्र स्वर्गपुत्रादिश्रुतिषु कामाधिकारेषु काम्यपर्यन्तता सिद्धा. जीवनभेदनादिश्रुतिषु निमित्ताधिकारेषु निमित्तपर्यन्ततेति मीमांसाकृतधियो धीरा विभजन्ते. निषेधाधिकारेषु न तावत् प्रत्यवायपरिहारः साध्यतया श्रुतः. न च पिण्डपितृयज्ञवत् कल्पयितुं शक्यते. अधिकारिलाभात्. उक्तं हि -- निषिध्यमानक्रियाकर्तुर् एवाधिकारः इति. किं पुनस् तत्र विशेषणम्. भक्षयतिर् एव. नन्व् असौ विषयविशेषणम्. सत्यम्, विषयस्यैव विशेषणं गले पातिकया भक्षयतिर् अधिकारिविशेषणम् आख्यायते. यत्र खलु नञर्थे पुरुषो नियुज्यते स विषयः. न चासौ भक्षयतिनानवच्छिन्नो बोद्धुं शक्यत इति तद्विशेषणतयैव पर्युपयुक्तस्य भक्षयतेर् बलाद् अधिकारिविशेषणता सम्पत्स्यते. एषा हि तत्र वचनव्यक्तिः यो भक्षयेत् स नेति. एवञ् च सम्पन्नम् उभयं यश् च विषयो नञर्थः यश् च भक्षयति प्रवृत्तो ऽधिकारीति नाधिकार्यन्तरापेक्षायां प्रमाणम् अस्ति. न च किञ्चिद् अधिकारे हेतुतया सम्बद्धं साध्यतया सम्बध्यते. नियोगसिद्धिनान्तरीयकत्वात् फलसिद्धेः. इतरथा साध्यद्वयापत्तेः. एवं सर्वत्र. किम् इदानीं प्रत्यवायकराणि. निषिद्धानि महापातकोपपातकादीनि तथा नाम. न तु श्रुतिपरतन्त्राणाम् अशब्दार्थकल्पना मीमांसकानाम्. किम् इति तर्हि निषिद्धं न क्रियते, विहितं वा किम् इति क्रियते. विहितत्वाद् इति चेत्, समानम् इदं निषिद्धायां क्रियायाम्. तद् अपि निषिद्धत्वाद् एव न क्रियते. न हि विधिनिषेधाभ्याम् अन्यद् अस्ति नाम हेत्वन्तरं वैदिकेषु प्रवृत्तिनिवृत्त्योः. तस्मान् न किञ्चिन्निषिद्धानां प्रत्यवायकरत्वे प्रमाणं पश्यामः. कस् तर्हि दुःखहेतुः. किं नो विदितेन कारणेन. अस्ति तावद् दुःखहेतुः तद् एव हि नस् तत्र प्रमाणम्.
अत्राभिधीयते -- निषेधश्रुताव् अर्थापत्तिर् एव निषिद्धानां प्रत्यवायकरत्वे प्रमाणं विधिश्रुताव् इव विहितानाम् अभ्युदयहेतुत्वे. तथा व्युत्पत्तेः. यथा{1,166}खल्व् अयं प्रवर्तितो ऽप्य् अनपेक्षितयोगक्षेमो न प्रवर्तते, एवं वारितो ऽपि न तावच् चिकीर्षितान् निवर्तते यावद् दुःखहेतुर् अयम् इति न प्रतिपद्यते. एष ह्य् आसम्भवाद् दुःखहेतुम् एव त्रिविधम् अहासीद् इति निषेधश्रावी दुःखहेतुर् अयं निषेधविषय इति प्रतिपद्यते. यत् त्व् अधिकारिलाभे न कल्पनाबीजम् इति. तन् न. हिताहितप्राप्तिपरिहारार्थिन एव सर्वत्राधिकारात्. नित्याधिकारेष्व् अप्य् उपात्तदुरितक्षयाकरणनिमित्तप्रत्यवायपरिहारार्थिन एव सर्वत्राधिकारसमर्थनात्. या तु विषयविशेषणता निषेधगोचराणां क्रियाणाम् उक्ता, साप्य् अयुक्ता. भावार्थविषयत्वाद् विधेः. जञर्थस्याभावार्थीभूतस्याविधिविषयत्वात्. अत्यन्तानुपाख्येयनञर्थवादिनां च सुतराम् अविधिविषयत्वं तदर्थस्य. अतो नात्र विध्यर्थः सम्पाद्यतयावगम्यते. किन् त्व् अनागतानुतिष्ठासितभावविरोध[521]फल एवात्र नञ्. एषा चात्र वचनव्यक्तिः यद् धन्यात् तन् नेति. वक्ष्यति च -- भाववारिका नञो वृत्तिर् इति. अतो येषाम् एव नात्यन्तम् अवस्त्वात्मा नञर्थः, तेषाम् एव तावत् तदर्थो ऽभिधीयत इति युक्तम् अभिधातुम् इति. अपि च यद् एतद् विषयविशेषणतयोपयुक्तस्य पुनरधिकारिविशेषणत्वकल्पनं, तद् अपि न चतुरश्रम् इव मन्यामहे. विषयविशेषणं हि सर्वम् अपूर्ववत् साध्यतयाग्नीषोमीयसौर्यादिषु समधिगच्छन्तो दृश्यन्ते एवं यागं कुर्याद् इति. अधिकारिविशेषणं तु सिद्धं यत् स्वर्गकामजीवनभेदनादिमान् इति. तत् कथम् एक एव भक्षयतिः सिद्धसाध्यभावम् अनुभवतीति सम्भावयामः. निर्दोषाश् च निषेधाधिकारा इति लोकशास्त्रविरुद्धम् अभिधीयमानं नास्तिक्यम् एवापादयति. दुःखोत्पत्तौ किं नो विदितेन कारणेनेति[522]निस्सरणोपायमात्रम्. नैवंविधेनोत्तरेण शिष्याणां भ्रान्तिर् आधातुम् उचिता. न तावद् अहेतुकानि दुःखानि, अभूत्वा भवनात्. न विहितहेतुकानि.[523]तेषां श्रुताश्रुतानेकविधाभ्युदयहेतुत्वात्. न चाविहिताप्रतिषिद्धहेतुकानि, तेषाम् अपि वर्जनीयत्वापत्तेः. को[524]हि प्रेक्षावान् दुःखहेतुं न परिहरति. पारिशेष्यान् निषिद्धानाम् एव दुःखहेतुत्वम् आस्थेयम्. कथं तदप्रमाणम् अभिधीयते. पारिशेष्यं
प्रमाणम् अस्तु[525]न शास्त्रम् इति चेत्. एवञ्जातीयकेष्व् अनुमानस्याप्रवृत्तेः. अश्रुतफलानां च विहितानाम् अपि नित्यानां हेतुत्वसम्भवान् न पारिशेष्यलाभः. तस्मात् शब्दप्रमाणम् एव निषिद्धानां प्रत्यवायकरत्वं यथास्माभिर् उक्तम्.
__________नोतेस्__________
[521] धि
[522] स्सारणमात्रम्
[523] विहितानि
[524] यो (क)
[525] त्र (ग)

{1,167}यस् तु वदति -- ब्राह्मणहननादिषु निषेधाधिकारेषु ह्य् अर्थवादोपात्ता यातनाविशेषाः तं शतेन यातयाद् इत्यादयः साध्यतया श्रूयन्ते. तैश् च मिलितैव निषिध्यमानक्रियाधिकारिणं विशिनष्टि. अतः संवलिताधिकार एवायं, शतादियातनापरिहारकामो हननाभिप्रवृत्तो न कुर्याद् इति. दृष्टं चार्थवादोपात्तम् अधिकारिविशेषणं रात्रिसत्रे. तद् इहाधिकारिहेत्वपेक्षायाम् अगृह्यमाणे विशेषे तद् अपि हेतुतया स्वीक्रियत इति. तद् अयुक्तम्. अगृह्यमाणे विशेष एवं नाम. न चेह तदग्रहणम्. स्वपदवाक्यान्तरोपात्तयोर् महाविशेषात्. रात्रिसत्रे हि फलान्तराश्रवणाद् अर्थवादोपात्तप्रतिष्ठाब्रह्मवर्चसादीनां चागृह्यमाणविशेषाणां च युगपदुपस्थानात् सर्वार्थवादोपात्तफलार्थिन एवाधिकार इति युक्तं कल्पयितुम्.[526]एवं जातेष्टाव् अपि समस्तार्थवादोपात्तपूतादिविशेषाणाम् अगृह्यमाणविशेषत्वात् पुत्रजन्मनश् चाधिकारिविशेषणानुरूपेणाश्रयणाद् युगपद् एव सर्वविशेषणविशिष्टो ऽधिकारीति कथ्यते. इह तु न कलञ्जं भक्षयेद् इति समानपदोपात्तो भक्षयतिर् अधिकारिविशेषणतयावगत इति नाधिकारिहेत्वन्तरापेक्षा. एवं ब्राह्मणहननादिप्रतिषेधेष्व् अपीति न क्वचिद् आर्थवादिकफलविशेषणापेक्षा.[527]यदि तूच्यते -- नञर्थविशेषणतयैव धात्वर्थो ऽवगतो यावदधिकारिविशेषणतया कल्प्यते, तावदर्थवादोपात्तविशेषणान्य् उपस्थितानीति विशेषाग्रहणम्[528]इति. न, एवम् अपि विपरीतविशेषणापत्तेः. धात्वर्थो हि[529]यदा विषयविशेषणतयावगतः[530]पुरुषगुणतयावकल्प्यते. अर्थवादोपात्तानि त्व् अनन्यत्रोपयुक्तानीति तद्विशिष्टाधिकारिकल्पनैव न्याय्येति न संवलिताधिकारसिद्धिः. एवञ् च विषयविशेषणस्यैव भक्षयतेर् गलेपातिकयाधिकारिविशेषणत्वम् इत्य् उपेक्षितव्यम्. यद् अपि शतेन यातयाद् इत्यादिविध्युपनिबन्धनं साध्यत्वाम् आचक्षते, तद् अप्य् अयुक्तम्. अविधिविषयत्वात् फलानां साध्यभावस्य. वक्ष्यते च तस्य लिप्सार्थलक्षणेति. काम्यतयैव फलानि श्रुतिभिर् उपनीयन्ते, किम् अत्र विधिश्रुत्या. अत एव रात्रिसत्रे प्रतिष्ठाकाम इति विपरिणामाश्रयणं प्रतिष्ठादीनां साध्यतासिद्ध्यर्थं, न तु प्रतितिष्ठेयुर् इति विध्याश्रयणम् इति यत् किञ्चिद् एतत्. अतः सिद्धं निषेधप्रमाणकम् अनर्थत्वम् इति

2.204

__________नोतेस्__________
[526] नम्. ए
[527] क्षा इति. य
[528] षणाग्र
[529] यावद्विष
[530] वकल्प्य (ग)
एवं श्येनादिस्वरूपाभिप्रायेण तत्फलाभिप्रायेण वा न प्रत्युदाहरणग्रन्थो घटत इत्य् उक्तम्. पूर्वापरिविरोधाद् अप्य् अयम् अग्रन्थ इत्य् आह -- चोदने ति. उभयम् इह चोदनया लक्ष्यते इति श्येनादीनां चोदनालक्षणत्वम् उक्तम्. पुनश् च कथं पुनर् असाव् अनर्थः. हिंसा हि सा. सा च प्रतिषिद्धेति यन् निषिद्धत्वम् उच्यते, तत् तेन चोदनालक्षणत्वप्रतिज्ञानेन विरुध्यते. विधायकं हि वाक्यं चोदना. अतः कथं तल्लक्षितस्य विधेयस्य निषिद्धत्वं पुनरभिधीयते इति. अपरम् अपि हिंसा हि सा. सा च प्रतिषिद्धेति भाष्यं, तद् दूषयति -- श्येनादाव् इति. यो ऽयम् उपदिष्टश् चोदनालक्षणः श्येनादिर् असौ हिंसेति समभिव्याहारो न युज्यत इति

2.205

कथं न युज्यते, अत आह -- हिंसा ही ति. न श्येनादयो हिंसा. फलं हि तेषां हिंसा. सा च स्वरूपेण भिन्ना. न तु त एव हिंसेति स्वरूपभेदम् एव दर्शयति -- सा हीति. अभिचारो हिंसा मारणम् इति पर्याया इति प्राणवियोजनात्मिकैव हिंसा. न तु तथा श्येनादिः, तस्यासिवद्धिंसायाः पृथक्त्वात्. यथा ह्य् असिना शत्रौ व्यापाद्यमाने छेदनम् एवासिजन्यं, हिंसा नासिः, एवं श्येनादिजन्यमायुर्भाग्यच्छेदनम् एव हिंसा न श्येन इति न तस्मिन् हिंसाभिधानम् उपपन्नम् इति

2.206

अपरम् अपि कथं पुनर् असाव् अनर्थः कर्तव्यतयोपदिश्यते इति प्रश्नपूर्वकम् उक्तं नैव श्येनादयः कर्तव्या विज्ञायन्ते, यो हि हिंसितुम् इच्छेत् तस्यायम् अभ्युपाय इति हि तेषाम् उपदेशः इति. तद् अपि नोपपन्नम् इत्य् आह -- उपदेशे ति. यदा हि नैव श्येनादयः कर्तव्यता विज्ञायन्त इति तेषां विधेयत्वम् अपह्नुतं,[531]तदा कथम् अविधेयेष्व् एवोपदेशाभिधानं तेषाम् उपदेश इति. विध्युपदेशशब्दयोः पर्यायत्वाद् इति भावः.
__________नोतेस्__________
[531] ह (ग)
{1,169} स्याद् एतत् -- अविधेयेष्व् एव चोदनालक्षणत्वमात्रेणोपदेशवाचोयुक्तिः. कथम् अविधेयानां चोदनालक्षणत्वम् इति चेत्. क्रमवद् इति ब्रूमः. यथा खलु अध्वर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीति न तावत् क्रमो विधीयते. यागादिवद् अभावार्थीभूतस्याविधिविषयत्वात्. न च दध्यादिद्रव्यवत्. अकारकत्वात्. अकारकत्वं चामूर्तत्वात्. न चारुणादिगुणवद् द्रव्यावच्छेदेन कारकत्वम्, एकैकपदार्थावच्छेदकत्वेनानुपलक्ष्यमाणत्वाद् अनेकाश्रयत्वात्. न च संखादिवद् विधानम्, अपृथक्पदाभिधेयत्वात्. पृथक्पदाभिधेया हि संख्या तां चतुर्भिर् आदत्त इति सा विधीयेतापि. न चैवं क्रमः, प्रचयाद् अवगम्यत्वात्. अतः कथं विधिविषयो भवेत्. तथा वेदं कृत्वा वेदिं कुर्याद् इति पदार्थ एव कर्तव्यबुद्ध्या गृह्यते न तु क्रमः. कथं व अतद्गोचरो विधीयेत. अतो ऽविधेय एव क्रमः. अथ च नाचोदनालक्षणः. विध्यनुमतत्वात्. अनुमन्यते हि विधिरानुपूर्व्यम् अग्न्याधानादिब्राह्मणतर्पणावसानं पदार्थजातम् एकत्र कर्तर्य् उपसंहरन्. न ह्य् एकः कर्ता युगपदखिलम् उपपादयितुम् अलं विधिवितानम्. अतो विध्यभ्यनुज्ञामात्रेण विधानविनियोगशून्यो ऽपि क्रमः शास्त्रार्थ एव. एवं श्येनादयो ऽपि नियोगविषयतयावगताश् चोदनालक्षणाः, न तु विधीयन्ते. यद् धि नियोगसामर्थ्याद् एवोपादीयते तद् विधेयम् इति तन्त्रे व्यवहारः. कथं तर्हि विषयभावः.[532]यस्मिन्न् अर्थे स्थित्वा पुरुषो नियुज्यते नियुक्तो ऽस्मीत्य् अधिकारं बुध्यते स तु विषयः, न तु विषये नियोगो नियुङ्क्ते. आत्मन्य् एव नियोगात्. वक्ष्यति चापूर्वाधिकरणे -- आरम्भे हि पुरुषो नियुज्यते न कर्मणीति. अतः सिद्धम् अविधेया अपि चोदनालक्षणाः श्येनादय इति. एवं च उभयम् इह चोदनया लक्ष्यते इति श्येनादिस्वरूपाभिप्रायम् एव, श्येनस्य विधिविषयत्वेन चोदनालक्षणत्वात्. अविधेयत्वाच् च निषेधविषयत्वोपपत्तिः. अतो निषिद्धत्वाभिधानम् अपि युक्तम् एव. फलार्थिता हि श्येनानुष्ठाने निमित्तं, न विधिः. तदभिप्रायेण च तस्य लिप्सार्थलक्षणेति. अङ्गहिंसा त्व् अफलसाधनत्वाद् असत्यां फलप्रयुक्तौ विधिनैवानुष्ठाप्यते इति नास्पदं निषेधस्य.{1,170}इतिकर्तव्यता हि[533]सा. सा विधिनैवाङ्गीकृता कथं निषेधविषयो भवेत्. हिंसाहीत्य् अपि श्येनादिस्वरूपाभिप्रायम् एव. प्राणवियोगफलो हि व्यापारो हिंसा, तथा च श्येनादिः
अतः सो ऽपि हिंसैव. न च खङ्गादौ प्रसङ्गः, अव्यापाररूपत्वात्. न च श्येनसम् अनन्तरं निधनं नोपलभ्यत इति श्येनो न हिंसा, तावतापि तत्फलत्वानपायात्. न हि खङ्गादिहते व्रणपरिपाकादिना चिराद् विपद्यमाने खङ्गाभिघातो हिंसेति न बुध्यते. अत एव खादकादयो ऽपि घातका इति मानवाः स्मरन्ति. अतो हिंसा श्येनो निषिद्धश् चानर्थश् च चोदनालक्षणत्वेन धर्मो मा भूद् इत्यर्थग्रहणेन व्यावर्तित[534]इति सर्वं समञ्जसम् एवेति. अत आह -- श्येनादेर् इति. अस्याभिप्रायः -- यत् तावदविधेया अपि क्रमवच्चोदनालक्षणाः श्येनादय इति. तद् अयुक्तं, दृष्टान्तासिद्धेः. न हि नः क्रमो न विधीयते. यत्रैव हि विधेर् अन्यतः पुरुषो न प्रवर्तते तद्विधेयम्. अप्रवृत्तप्रवर्तकत्वाद् विधेः. न च फलाद् अन्यत्र पुरुषो रागादिना प्रवर्तते. न ह्य् अस्य क्रमानुष्ठाने रागादयः प्रवर्तकाः. विधिर् एव तु निश्शेषशेषशेषिविषये प्रयोगे एकं कर्तारम् आयोजयन् नानाक्षिप्तानुपूर्व्यविशेषपरिग्रह आत्मानं लभत इति षोढाविभक्तपाञ्चमिकप्रमाणसहायस् तं तम् आनुपूर्व्यविशेषं शास्त्रार्थतया नियच्छति ॥
__________नोतेस्__________
[532] यविभागः य (ग)
[533] हिंसा वि
[534] ते (ग)
किम् इदानीं प्रयोगविधिप्रमाणक एव क्रमः. नन्व् असौ युगपद् उपसंहरति. तत्र च क्रमविरोधः. न. क्रमानुगुणयौगपद्यपरिग्रहात्. न खल्व् ईश्वरो ऽपि साङ्गं प्रधानम् एकत्र क्षण उपसंहर्तुं क्षमः. अत एकोपक्रमावसानत्वम् एव शेषशेषिणां प्रयोगविधिप्रमाणकं नैकक्षणभावित्वम्. अवधृतस्वरूपाणां प्रयोगो रच्यते. सक्रमकाश् च पदार्था अवधृता इति[535]तद्विरोधिन्य् एव यौगपद्यकल्पना. यत् तु असति विनियोगे नाङ्गत्वम् इति. तन् न. तार्तीयैर् एव श्रुत्यादिभिः किञ्चिद्विलक्षणर्विनियोगात्. अपि च अविनियुक्तम् अपि पश्वेकत्वम् अङ्गम् इच्छतां किम् अपराद्धं क्रमेण, यद् असाव् अनङ्गम् इत्य् आश्रितम्. औपादानिकं तस्याङ्गत्वम् इति चेत्, यदि नियोगाक्षेप उपादानं, नासाव् इह दण्डवारितः. अत्रापि हि क्रमं प्रति विध्याक्षेपो वर्णित एव. अभिधेया संख्या सोपादानतः शेषो भवतीति युक्तम्. न त्व् एवं क्रम इति चेत्, किम् अत्राभिधानेन.{1,171}यद् एव किञ्चित् कथञ्चिद् अवगतं तद् एव विध्यनन्यथासिद्ध्या तेनाक्षिप्यते. विरोधपरिहारश् चोक्तः.[536]अपि च वषट्कर्तुः प्रथमभक्षः इत्यादाव् अनन्यपराभिधानावगतत्वाद्[537]विधेर् नाविधेयता सिध्यति. तत्रैव हि विधीयते नान्यत्रेति चेत्. तदर्धजरतीयम्. यत् तु कर्तव्यता[538]बुद्धिविषयो नेति. तन् न. वेदं कृत्वा वेदिं कुर्याद् इति सक्रमपदार्थकर्तव्यतावगमात्. निष्कृष्यकर्तव्यता नावसीयत इति चेत् पदार्था वा किं तद्रहिताः कर्तव्यताधिया[539]गोचरीक्रियन्ते यद्विधेयतयेप्यन्ते. सर्वथा नः सक्रमकपदार्थविषयैवानुष्ठानसंवित्. पदार्थावच्छेदादेवारुणादिवन्नाकारकत्वम्. यत् त्व् एकैकपदार्थावच्छेदकतया नावगम्यत इति.[540]नैतावता अकारकत्वं शक्यते वक्तुम्. स्वभावो ह्य् अयं क्रमस्य यन् नानाश्रयत्वं द्वित्वादिवत्. न हि द्वित्वादयः संख्या एकैकत्र न समवयन्तीति नावच्छेदिका भवन्ति. अकारकं वा. अतः सिद्धं तावत् क्रमो विधीयत इति. एवं च न तन्निदर्शनेनाविधेयानाम् एव चोदनालक्षणत्वं श्येनादीनाम्. अपि च यदि श्येनादयो न विधीयन्ते, किम् अन्यद् विधेयम् इति न विद्मः. नन्व् अङ्गानि विधीयन्त इत्य् उक्तम्. रागादिभिस् तेषु नराणाम् अप्रवृत्तिविषयवात्. किं पुनस् तेषु रागादयो न प्रवर्तकाः. अप्रीत्यात्मकत्वाद् इति चेत्. समानम् इदं साधनेषु. तान्य् अपि बह्वायाससाध्यानि

दुःखात्मकान्य् एवेति न नरं रञ्जयन्तितराम्. यदि तु प्रीतिसाधनत्वात् तेषु रागादयः प्रवर्तका इत्य् उच्यन्ते, अङ्गेष्व् अपि प्रसङ्गः. अननुगृहीतस्य साधनत्वानुपपत्तेः. अङ्गजन्यत्वाच् चानुग्रहस्य. एवं चाङ्गप्रधानद्वयस्याविधेयत्वाद् अविषयो विधिर् आपद्यते. अपि च विधिविषयाः श्येनादयो न विधीयन्त इति दुरधिगमम्. विधिविषयम् एव विधेयविदो विधेयं मन्यन्ते. अविधेयस्य विधिविषयभावानुपपत्तेः. नन्व् एतावद् एव[541]विधिविषयत्वं यत् तत्र विधिर् अवगम्यते. न पुनस् तस्य[542]कर्तव्यता. यथाहुः -- कर्तव्यताविषयो हि नियोगो न तत् कर्तव्यताम् आहेति. का पुनः कर्तव्यता. यागादयः. एषैव हि नियोगस्य कर्तव्यता यद्यागानुष्ठानम्. तत्प्रकाराश् चेतिकर्तव्यताः प्रयाजादयः. यद्य् एवं केन रूपेण यागादिषु विधिर् अवगम्यते. यदि यागं कुर्याद् इति, नन्व् इयम् एवासौ कर्तव्यतेति कथं न{1,172} यागादीनां कर्तव्यताम् आहेत्य् उच्यते. नन्व् आत्मन्य् एव प्रवर्तयतीत्य् उक्तम्. सत्यम्. न तु यागातिरेकि किञ्चित् कार्यं कार्यतयावगम्यते इति विधिविवरणे वक्ष्यामः. अतो विधेयाः श्येनादयः प्रियम्, अस्य भ्रातृव्यवधस्य साधनानीति नानर्थतया प्रत्युदाहरणम् अर्हन्तीति. यद् अपि तेष्व् एव हिंसाशब्दो मुख्य इत्य् उक्तं, तद् अयुक्तम्. अभिचारपर्यायो हि हिंसाशब्दः. सा च हिंसा फलं श्येनस्य अभिचरन् यजेतेति हि श्रूयते. न तु श्येनादय एवाभिचाराः. खादकादिषु घातकादिपदप्रयोगो गौणः. न चेह गौणहिंसापदाश्रयणे किञ्चित् कारणम्. श्येनशब्दे[543]तु फललक्षणाकारणं वक्ष्यामः. तस्मात् सूक्तम् अविधेये श्येनादौ न किञ्चिद् विधेयम् इति

2.208

__________नोतेस्__________
[535] तदविरो (ख)
[536] अत्रापि (ग)
[537] त्वाद् नावि
[538] तावि
[539] यो (क)
[540] ति तन् न नै (ग)
[541] वाद्वयस्य विधिविषयत्वात् यत् (क)
[542] स्य कर्तव्यताविषयो (ग)
[543] ब्देन तु (ग)
एवं तावदुपपत्तितः श्येनादीनां विधेयत्वम् उक्तम्. इदानीम् एतत् परित्यागे सिद्धान्तहानिर् अपीत्य् आह -- सर्वत्रे ति हा न्तेन. जानात्य् एवासौ मयैतत् कर्तव्यम् इति, उपायं तु न वेदेत्यादौ सर्वत्र भाष्यकारानुसारेणैवांशद्वयगामी विधिर् अवगम्यते. तद् इह श्येनाद्यविधेयपक्षे बाध्यत इति. अयं चापरः श्येनादीनाम् अविधेयत्वे दोष इत्य् आह -- ये चे ति स्युर् अन्तेन. ननु[544]यथा ज्योतिष्टोमादयो न विधीयन्ते एवं न निषिध्यन्ते ते ऽपीति.[545]कस्माद् धर्मता न भवत्य् अत आह -- हिंसे ति. यद्य् अपि ज्योतिष्टोमादयो न स्वरूपेण हिंसा, तथाप्य् अग्नीषोमीयादिपशुहिंसा तेषां साधनम्. सा चांशद्वयगामिन्य् अपि निषिद्धेत्य् उक्तम्. अतो निषिद्धाङ्गत्वेन प्रत्यवायहेतुत्वाद् अधर्मता ज्योतिष्टोमादीनाम् इति. अपि चांशद्वयाविधाने तदुत्खातिर् एवेत्य् आह -- न चे ति. विधेर् अयं महिमा यत् स्वभावसाध्यो यागः फलाङ्गः, तथा वक्ष्यति जैमिनिः कर्माण्य् अपि फलार्थत्वात् (3.1.4) इति. तथेतिकर्तव्यतापि यत् फलसाधनाङ्गम् असाव् अपि विधिमहिम्नैव. सा विहिता सती पुरुषार्थात्मकसाध्यसम्बन्धमीहमाना फलवत्क्रत्वङ्गभावम् अनुभवतीति फलवत्सन्निधाव् अफलं तदङ्गम् इति{1,173}वक्ष्यते. अविधीयमानस्य यागस्याग्नेयादेः प्रधानस्याङ्गस्य वा प्रयाजादेर् यथाक्रमं न फलाङ्गता तत्साधनाङ्गता वापि सिध्यतीति

2.209

__________नोतेस्__________
[544] नु ये ज्यो
[545] त (क)
स्याद् एतत् -- साधनत्वेन विहिता अपि न साध्यतया विधीयन्त इत्य् अविधेया इत्य् उच्यन्ते. अत एवाह -- नैव श्येनादयः कर्तव्या विज्ञायन्ते इति. नैव साध्यतया विधीयन्त इति यावद् इत्य् अत आह -- साधनत्वेने ति. विधानं ह्य् अनर्थत्वपरिपन्थि तद् यथातथा वा विहितस्य न सम्भवति. अतः किम् अवान्तरभेदाश्रयणेनेति. अन्वारुह्य चेदम् अस्माभिर् उच्यते. न तु साध्यतया विधानं सम्भवति, स्वयम् एव साध्ये पुरुषाणां प्रवृत्तेः. तद् एतद् आह -- साध्यत्वेने ति. सर्वं यागदानजपोपवासादीष्टसाधनतयैव विधीयत इति भावः

2.211

अतो न श्येनादिनिवृत्तिर् अर्थशब्दस्य प्रयोजनम् इत्य् अन्यथा वर्णनीयम् इत्य् आह तेने ति. प्रयोजनवर्णनां प्रतिज्ञाय तद् उपोद्धातम् एव तावद् भाष्यकाराभिप्रायम् आह -- प्रवृत्तौ वे ति. प्रवर्तिका निवर्तिका चोभय्य्[546]अपि चोदनेति भाष्यकारस्य हृदये लक्षणं व्यवस्थितं चोदनायाः. अतो निषेधचोदनालक्षणानां धर्मत्वं निवर्तयितुम् अर्थशब्द इत्य् अभिप्राय इति. कथं तर्हि प्रवर्तकं वाक्यं चोदनेति भाष्यम् अत आह -- प्रवर्तक इति. प्रवर्तकग्रहणं प्रदर्शनार्थम् इत्य् अर्थ इति

2.212

__________नोतेस्__________
[546] यम् अपि (ग)
उदाहरणार्थत्वे कारणम् आह -- तात्पर्ये ही ति. पूर्वापरसङ्गतो हि ग्रन्थो व्याख्येयः. यद्य् अपि प्रवर्तकैकपर एव पूर्वग्रन्थो भवेत्, अर्थशब्दस्येयं{1,174}व्याख्या चोदनालक्षणानर्थनिवृत्त्यर्थो ऽर्थशब्द इत्येवमात्मिका नोपपद्यते. अनर्थानां[547]प्रवर्तकवाक्यलक्षित नामचोदनालक्षणत्वापत्तेर् इति भावः. अर्थशब्दसहितस्य[548]वा चोदनापदस्यार्थो व्याख्यातः.[549]अर्थो हि प्रवर्तकवाक्यलक्षण एवेत्यभिप्रायेणाह -- अर्थग्रहणे ति

2.214

__________नोतेस्__________
[547] नाम् अप्र
[548] ब्दस्याहि
[549] ख्येयः अ (क)
अथवा धर्मप्रमाणम् अत्र सूत्रकारेण सूत्रितं धर्मस्य प्रवर्तकम् एव वाक्यं प्रमाणम् इति. तच् चोदनालक्षणम् एव भाष्यकारेण वर्णितम् इत्य् आह -- धर्मे ति. यदा चोभय्य् अपि चोदनेति स्थितं तदा विधिचोदनाभ्यस् तावद् विधेयानां ज्योतिष्टोमादीनाम् अर्थत्वेनावधारणं भवति. निषेधचोदनाभ्यश् च निषेध्यानां ब्रह्महत्यादीनाम् अनर्थत्वेन निर्णयः. उभयोर् उभाभ्याम् अर्थानर्थत्वे लक्षिते इति यावत्. तद् एतद् आह -- एवं सती ति. येन च विधिप्रमाणकम् अर्थत्वं, तेन तल्लक्षितानां ज्योतिष्टोमादीनाम् अत्रार्थग्रहणेन धर्मत्वम् उक्तम् इत्य् आह -- तेने ति

2.217

विधेयार्थधर्मत्वे चोक्ते विपरीतानाम् अधर्मत्वम् अर्थसिद्धत्वान् न सूत्रकारेण सूत्रितम् इत्य् आह -- निषेध्यानाम् इति. एवम् उद्ग्रन्थम् एव भाष्यकाराभिप्रायम् उक्त्वा तदनुसारेणोभयम् इत्यादि भाष्यं योजयति -- तस्माद् इति. यस्माद् एवं भाष्यकाराभिप्रायः, तस्माद् उभयम् इहेत्यादिग्रन्थे विधेयप्रतिषेध्ययोर् यथाक्रमं यागादिब्रह्महत्यादिवर्गयोर् निदर्शनं कार्यम् इत्य् अर्थः. यदि ब्रह्महत्यादिवर्गस्यानर्थतया निदर्शनं कथं तर्हि श्येनाद्युपन्यासः. ते हि विधेयाः. तत एव चेष्टसाधनाः. महत् खल्व् इदम् इष्टं यः शत्रुवधः. न हि तादृशी{1,175}स्वर्गे ऽपि नराणां तृप्तिः सम्भवति यादृशी शश्रुवधे. अतः कथं ते ऽनर्थतयोदाह्रियन्ते, अत आह -- श्येनादीनाम् इति. अयम् अभिप्रायः -- यथावगतम् आयुष्मतां न स्वरूपेण श्येनादयो ऽनर्था इति. भाष्यकारेणापि न तत्स्वरूपम् अनर्थतयोदाहृतम्. किन् तु यत् तेषां फलं हिंसात्मकम् आयुर्भाग्यविच्छेदः, सो ऽपि विहितो निषिद्धश् च. स्वयं विहितत्वाद् अर्थात्मको ऽप्य् अनर्थानुबन्धीति तद् इदम् अनर्थत्वं श्येन उपचरितं, कारणे कार्योपचारात्. श्येनशब्द एव वा तत्फल उपचरितः कार्ये कारणोपचाराद् इति भावः. किं पुनरुपचाराश्रयणे कारणम् अत आह -- प्रतिषिद्धे ति. भाष्यकारानुसारेणैवेदम् उपचाराश्रयणम्. एवं हि भाष्यकारो वदति -- प्रतिषिद्धा हि से ति. न हि श्येनादिस्वरूपाभिप्रायं प्रतिषिद्धा हीतीदम् उपपद्यते. ततस् तत्फलाभिप्राय एव श्येनाद्युपन्यास इति भाष्यकृता स्फुटीकृतम् इति

2.218

इदं चापरं लिङ्गदर्शनम् इत्य् आह -- हिंसा ही ति. कथं पुनर् असाव् अनर्थः इत्य् उक्त्वा यद् उक्तं हिंसा हि सेति, ततो ऽवगम्यते न श्येनादिस्वरूपमात्रम् अनर्थतया विवक्षितम् इति. वर्णितम् इदम् आक्षेपकाले न स्वरूपेण श्येनो हिंसेति. अतो हिंसा हीत्य् अत्र भाष्यकारेणैतत् स्फुटीकृतम्. तथा श्येनेनाभिचरन् यजेतेति हि समामनन्ति नाभिचरितव्यम् इत्य् अन्ते वक्ष्यते. अत्राप्य् अभिचारस्यैव श्येनफलस्य निषेधं दर्शयन्न् अनर्थतां स्फुटीकरिष्यतीति. श्येनादिस्वरूपाभिप्राये तु ग्रन्थे सर्वो ऽयम् उत्तरग्रन्थे न सङ्गच्छत इत्य् आह -- श्येनादीनाम् इति

2.220

तत्र प्रतिषिद्धा हीत्य् एतत् तावद् अनुपपन्नम् इत्य् आह -- विहितत्वाद् इति. विहिता हिंसासाधनतया श्येनादयः. न तेषु प्रतिषेधो ऽवकाशं{1,176}लभत इत्याक्षेपे वर्णितम् एवैतत् प्रदर्शनार्थम् उक्तम्. अन्ये ऽप्य् आक्षेपोक्ता एवानुपपत्तिप्रकारा अनुसन्धेया इति. एवं तावद् विधिनिषेधात्मिका चोदनेत्याश्रित्योभयम् इत्यादिग्रन्थो व्याख्यातः. इदानीं प्रवर्तिका चोदनेत्य् अत्रापि पक्षे शक्यत एव भाष्यं व्याख्यातुम् इत्य् आह -- यदे ति. उभयं विधायिकया चोदनया लक्ष्यते साध्यं साधनं चेत्य् अर्थः. कथं पुनः साध्यसाधनात्मकम् उभयं चोदनया लक्ष्यते. न हि साध्यं विधीयते, स्वयम् एव हि तत्र पुरुषाः प्रवर्तन्ते, अत आह -- साध्ये ति उभयोर् अन्तेन. अयम् अभिप्रायः -- सत्यम्. साध्यसाधनाङ्गगोचरम् एव विधेः प्रवर्तनम्. तथापि विधिप्रमाणकम् एव स्वर्गयागादीनां साध्यसाधनसम्बन्ध इति औत्पत्तिकसूत्रे (1.1.5) वक्ष्यते. यथा यागादीनां साधनभावश् चोदनालक्षणः, एवं स्वर्गादीनां यागादिसाध्यत्वावगतिर् अपीति तेन रूपेण ते ऽपि चोदनालक्षणा भवन्त्य् एव, यद्य् अपि तेषु स्वयं प्रवृत्तः पुरुषो न चोदनया प्रवर्त्यत इति. यदि साध्यसाधनाभिप्रायम् उभयत्वं, तर्हि अर्थो ऽनर्थ इति केन सम्बध्यते, अत आह -- द्विविधम् इति. अयम् अर्थः -- फलसाधनात्मकम् उभयं चोदनालक्षणम् इत्य् उक्तम्. तत्रेदम् उच्यते फलम् अर्थानर्थात्मकत्वेन द्विविधं क्रतूनाम् इति

2.221

फलद्वैविध्ये कारणम् आह -- स्वर्गादी ति हिंसाद्य् अन्तेन. तत्रोभयात्मके फले स्वर्गादिफलं तावत् ज्योतिष्टोमादीनाम् अनतिक्रान्तप्रतिषेधेनैवावाप्यते. तन् न निषिद्धम् इति यावत्. श्येनादिफलं तु हिंसाद्यतिक्रान्तप्रतिषेधेनावाप्यते. अतस् तत्सदसद्भावकारितः फलार्थानर्थविवेकः. अस्मिंश् च व्याख्याने को ऽर्थः इत्यादि भाष्यम् एवं व्याख्येयम् अर्थात्मकफलस्यापि यत् साधनं सो ऽप्य् अर्थ इति. अन्तर्णीयैतत् प्रदर्शितं को ऽर्थः यो निःश्रेयसाय ज्योतिष्टोमादिर् इति. एतद् उक्तं भवति -- अर्थात्मकफलस्य साधनस्य ज्योतिष्टोमादेर् धर्मत्वं वक्तुम् अर्थपदं प्रयुक्तम् इति. तद् उक्तं -
{1,177} तस्यापि साधनं यत् तदर्थ एवाभिधीयते ।
वक्तुं तस्यैव धर्मत्वम् उक्तम् अर्थविशेषणम् ॥
इति. को ऽनर्थ इति तु श्येनादिफलपरो लक्षणया श्येनादिपदप्रयोगः, तस्य चार्थाद् अधर्मत्वम् उक्तम् इति वेदितव्यम् इति. ननु श्येनादिविधिसामर्थ्याद् एव श्येनादिफलम् आसाद्यमानं कथं प्रतिषेधातिक्रमेणावाप्यत इत्य् उच्यते, अत आह -- शास्त्रान्तरे ति. अयम् अभिप्रायः -- सत्यं श्येनचोदनालक्षणं तत्फलं, तद् उद्दिश्य तद्विधानात्. क्वचित् किञ्चिद् विधीयत इति विधेः स्वरूपं, तत्र विधेयम् इवोद्देश्यम् अपि विधिर् विगाहत एव. यत् तु न हिंस्याद् इति शास्त्रान्तरं, तन्निरीक्षणेन श्येनादिफलस्य हिंसायाः प्रतिषिद्धत्वम् अवगम्यत इति

2.222

ननु विधिस्पृष्टे प्रतिषेधो ऽनवकाशः. सत्य् अपि वा प्रतिषेधे नैवंविधस्यानर्थत्वम् इत्य् उक्तम्. तद् यदि चोदनालक्षणा हिंसा, कथं निषिद्धत्वाद् अनर्थः. चोदनालक्षणत्वे ऽप्य् अविधेयत्वम् इति तु भवद्भिर् एव निराकृतम्. अत एव क्रमो विधेय इत्य् आश्रितम्, अत आह -- फलांश इति वक्ष्यते ऽन्तेन. अयम् अभिप्रायः -- उक्तम् इदम् अस्माभिः किञ्चिद् विधातुं फलम् उद्दिश्यते इत्य् एतावती चोदनालक्षणता. न तु फलम् एव विधीयते, भावनायाः फलांशे प्रत्ययाविधायकत्वस्य वक्ष्यमाणत्वात्. वक्ष्यति हि -- जानात्य् एवासौ मयैतत् कर्तव्यम् इति उपायं तु न वेदेति. अतः स्वयम् एव कर्तव्येषु पुरुषाणां प्रवृत्तेर् न तद्विषयप्रवृत्तिज्ञापनं विधेः फलम्. साधनोपाययोस् त्व् अप्रवृत्तः पुरुषः प्रवर्त्यत इति तयोर् विधेयत्वम्. क्रमे तु न तावत् किञ्चिद् विधीयते. सो ऽपि चेन् न विधीयेत, कथं चोदनालक्षणो भविष्यति. जैमिनेर् अप्य् एतद् एवाभिमतम् इत्य् आह -- जैमिनिर् इति. लिप्सया प्रवृत्तिं लक्षयति, तया प्रवृत्तेः. अर्थशब्दः प्रयोजनवाची फले प्रवृत्तिः प्रयोजनलक्षणा न वैधीति दर्शितं भवतीति

2.223

{1,178} यतश् चायं सूत्रभाष्यानुगतः सिद्धान्तः यत् फलं न विधीयत इति, तेन कारणेन न हिंस्याद् इति प्रतिषेधः श्येनफलोपनिपातिन्यां हिंसायां सामान्यतो ऽवतरन् विधिना न निवारित इति तस्यानर्थताम् आपादयतीत्यभिप्रायेणाह -- तेने ति

2.224

एवं च निषेधेन श्येनफलस्यानर्थप्राप्तिहेतुत्वे बोध्यमाने ऽपि न श्येनः स्वरूपेणानर्थः, तत्फलम् एव तु हिंसानर्थ इत्य् आह -- अनर्थे ति

2.225

अत्रापरं परिचोदनाभाष्यं कथं पुनर् इत्यादि. तस्याभिप्रायम् आह -- परस् त्व् इति. अयम् अभिप्रायः -- सो ऽयं साधनफलयोर् विधेयाविधेयभेदो दर्शितस् तम् अविद्वान् उभयम् इत्यादिभाष्ये श्येनादेश् चोदनालक्षणत्वाभिधानात्[550]फलस्यापि विधेयतां मन्वानः, अथवा त्र्यंशभावनाविधानेन फले जातविधेयाभिमानः[551]श्येनफलस्यानर्थत्वम् आक्षिप्तवान्. अयं च भाष्यार्थः -- कथं य कर्तव्यतयोपदिश्यते सो ऽनर्थः. यद्य् अपि ग्रन्थात् कर्तव्यतोपदेशपर्यनुयोगो ऽवगम्यते, तथाप्य् अपौरुषेये उपदेशपर्यनुयोगासम्भवाद् उपदिश्यमानस्य कथम् अनर्थत्वम् इत्य् एव पर्यनुयोगार्थः. अत एवोक्तम् -- अनर्थत्वम् आक्षिपद् इति

2.226

__________नोतेस्__________
[550] णाभि (ग)
[551] नस्या (क)
अत्र परिहारभाष्यं - नैव श्येनादयः कर्तव्यतया विज्ञायन्ते इति. तच्छ्येनादिकर्तव्यतानिषेधपरम् इवोपलभ्यते. तच् चायुक्तम्. श्येनादिविधानस्य पूर्वोक्तत्वात्. अतो भित्त्वा योजयति -- नैवे ति. अस्य श्येनफलस्य हिंसाया नैवेत्य् एतावतैव विधेयत्वं निराकार्यम् इत्य् अर्थः. किं तर्हि विधेयम्{1,179}इति तूपस्कृत्योत्तरग्रन्थयोजनेत्य् आह -- किम् इति. श्येनादयो यागाः कर्तव्याः, न तत्फलं हिंसेति

2.227

अत्र च नैवेति भिन्ने कथं पुनर् अनर्थ इत्य् अस्य प्रश्नस्यापाकरणे ऽनुषक्तकर्तव्यतापदे फलस्य कर्तव्यतायां प्रतिषिध्यमानायां साध्यताप्रतिषेधभ्रमम् अपनेतुम् आह -- प्रश्नापाकरण इत्य् अर्थे न्तेन. नात्र फलस्य साध्यता प्रतिषिध्यते, तन्निषेधे श्येनभावनापरिसमाप्तेः. किन् तु विधेयतैव फलस्य प्रतिषिध्यत इति. अनुपयुक्ते च पूर्वोत्तरपक्षयोः स्थापनबाधने साध्यत्वस्येत्य् आह -- द्वये ऽपी ति. यदि कथं पुनर् इति पूर्वपक्षवादिना साध्यत्वानुपपत्तिर् उक्ता भवेत्, एवम् उत्तरवादी नैवेति तन्निराकुर्यात्. न तु साध्यत्वस्य पूर्वपक्षे कश्चिद् उपयोगः. न च तन्निरासस्य सिद्धान्त[552]इति

2.228

__________नोतेस्__________
[552] न्तहानिर् इति (क)
अत्रोभयत्रानुपयोगतुल्यताम् एव दर्शयति -- अनर्थस्यापी ति. न तावत् पूर्वपक्षवादिनः साध्यताप्रतिपादनम् उपयुक्तम्. अर्थत्वं हि तस्यापादनीयम्. अतो यद् एव तदनुगुणं तद् एव वक्तव्यम्. न च साध्यतामात्रानुबन्ध्यर्थत्वम्, अनर्थस्याप्य् अविधेयस्य सुरापानादेः साध्यतावगमात्. न च साध्यतानिराकरणं सिद्धान्त उपयुज्यते. अर्थत्वं हि तस्य फलस्य निराकरणीयम्. तदनुगुणं च विधेयतानिराकरणम् एव सिद्धान्तिना कार्यम्. किं साध्यतानिराकरणेन, असाध्यस्यापि विधेयस्य गोदोहनादेर् अर्थत्वाद् इति

2.230

यच् चेदं श्येनादिफलाभिप्रायम् अविधेयत्वं न स्वरूपाभिप्रायम् इत्य् अस्माभिर् उच्यते, तद् भाष्यकारेण स्फुटीकृतम् इत्य् आह -- शतुर् इति. यो हि हिंसितुम् इच्छेत् तस्यायम् अभ्युपाय इति हि तेषाम् उपदेशः. श्येनेनाभिचरन् यजेतेति{1,180}हि समामनन्ति नाभिचरितव्यम् इति वदन् भाष्यकारो लक्षेणे शतुर् उत्पत्तिं दर्शयति, यो हि हिंसितुम् इच्छेद् इत्य् अभिचारप्रवृत्तपुरुषानुवादात्. तच् चेदम् अभिचरन् नाभिचरितव्यम् इति व्यक्तीकृतम्. लक्षणं च यद्वृत्तयुक्तं सिद्धवद् एवावगम्यते न विधेयतया. अतो न तावद् धिंसा विधीयते. तेषाम् उपदेशः इति च स्पष्टम् एव श्येनादीनां विधानम् उक्तम्. अन्यथा अविधेयस्योपदेशानुपपत्तेः, विध्युपदेशशब्दयोः पर्यायत्वाद् इति भावः. श्येनादय इत्यादिशब्दस्य प्रयोजनम् आह -- विधित्वम् इति. साधनानि तावद् विधीयन्ते. इतिकर्तव्यतापि हिंसात्मिका दैक्षपश्वादि(?का।गा) विधीयते.[553]एतेन फलांशस्थैव हिंसा न विधीयत इति दर्शितं भवति. विधित्वं विधिशक्तिर् इत्य् अर्थः

2.232

__________नोतेस्__________
[553] न्ते
यतो ऽङ्गहिंसा विहितैव, अतः फलांशस्थैवावैदिकी हिंसा न हिंस्याद् इति निषिध्यते. अतश् चानर्थ इत्यभिप्रायेणाह -- तस्माद् इति.[554]सर्वस्वारफलस्येदानीं का वार्ता. मरणं तस्य फलं, न हिंसा. तच्[555]चानिषिद्धम् इति चेद्[556]न. असति भाग्यच्छेदे तदनुपपत्तेः. अतः फलांशोपनिपातिनीसर्वस्वारहिंसानर्थो भवेत्. उच्यते -- पूर्वापरीभूते हि यज्ञे तार्तीयसवनीयार्भवस्तोत्रकाले सर्वस्वदक्षिणापरिवृतो विपद्यते दीक्षितः. अतो विधिकोष्ठप्रविष्टैवासौ हिंसा. अन्यत्र तीर्थेभ्यः इति च तीर्थबहिर्भूतैव हिंसा निषिद्धा. इयं तु तीर्थमध्यगता विधिस्पृष्टैवेति नानर्थः. श्येनफलं तु चिरातिपन्ने श्येने तज्जन्यापूर्वविच्छिन्नभाग्येषु शत्रुषु विपद्यमानेषु जायते. अतस् तीर्थबहिर्भावाद् अर्थो न भवति. तेन क्रतुबहिर्भूता फलांशहिंसावैदिकी निषिध्यते. नान्तःक्रत्व् इति विवेकः इति. किं पुनः कारणं साधनोपायभूता न निषिध्यते. सामान्येन न हिंस्याद् इति शास्त्रं प्रवृत्तम्. अतो ऽङ्गसाधनहिंसयोर् अपि प्रतिषेधो भवेत्, अत आह -- अंशद्वय इति. साधनोपायांशद्वयगामिनी{1,181}हिंसा प्रतिषिध्यते इति ब्रुवाणस्य अविशेषेण यच्छास्त्रं तत् सन्दिग्धम् अन्याय्यत्वाद् विकल्पस्याराद् विशेषशिष्टं स्यात् (10.8.16) इति सूत्रम् उत्तरम्. शिरोवद् इति च सूत्रान्तरैकदेशः. अत्र ह्य् उभयत्रापि सामान्यशास्त्रस्य विशेषशास्त्रेण बाधो दर्शितः. पूर्वत्र तावद् यथा. ज्योतिष्टोमे श्रूयते -- वर्त्मनि जुहोतीति. अस्ति चानारभ्यविधिः यदाहवनीये जुह्वतीति.[557]अत्र संशयः -- किं ज्यौतिष्टौमिके होमे वर्त्माहवनीययोर् विकल्पः, उत बाध्यबाधकभाव इति. तत्र विकल्प इति प्राप्तम्. तथा हि -- न तावद् एकार्थयोः समुच्चयः सम्भवति. न च पाक्षिकानुग्रहसम्भवे आत्यन्तिको बाधः. आहवनीयो हि सामान्यशास्त्रेण वर्त्महोमम् अप्य् आस्कन्दतीति न तस्यात्यन्तबाधो न्याय्यः. अतो विकल्प इति प्राप्ते उक्तं - यद् एतद् अविशेषेणाहवनीयशास्त्रं तदाराद् विशेषशिष्टं स्याद् इति. दूरे विशेषशिष्टस्येत्य् अर्थः. विशेषशिष्टं वर्त्महोमं नास्कन्दतीति यावत्. कुतः. अन्याय्यत्वाद् विकल्पस्य. कथम् अन्याय्यता. लक्षणया हि सामान्यशास्त्रं विशेषशास्त्रेषु प्रवर्तते. तत् तेषु सन्दिग्धम् अयं वा विशेषो ऽस्य विषय इति,
विशेषशास्त्रं तु निश्चितविषयम्. अतो वैषम्यान् न विकल्पः. अत एव सामान्यवचनः शब्दो दुर्बलः इति वक्ष्यति. तस्मात् सिद्धम् आहवनीयो बाध्यत इति. तथा क्वचित् पुरुषशीर्षम् उपदधातीति विशेषवचनसामर्थ्यात् शवशरीर[558]स्पर्शनं स्मृतिप्रतिषिद्धम् अपि क्रियत एव, सामान्यनिषेधदौर्बल्याद् इति शिरोवद् इत्य् उक्तम् इति. इदं त्व् इह वाच्यम्.[559]केयं साधनांशगामिनी हिंसेति. यदि श्येनादयः न, तेषाम् अहिंसात्वेनोक्तत्वात्. सत्यम्. प्रधानपशुहिंसैव तत्रोदाहरणम्. यथा वायव्यं श्वेतम् आलभेतेति. इदं च श्येनोदाहरणम् असत्सु भार्यापहारादिमन्युहेतुषु अनर्थतया दर्शयितव्यम्. आततायिवधे दोषाभावस्मरणात्. षट्स्वभिचरन् न पतेद् इति बौधायनाः पठन्ति. अन्यत्राप्य् उक्तं -
__________नोतेस्__________
[554] {सर्वस्वारो नाम मरणकामकर्तव्यो यागविशेषः (10.2.23).}
[555] च्चापि नि
[556] त् तन् न. (ग)
[557] होती (क)
[558] शिर
[559] वक्तव्यम् (ग)
नाततायिवधे दोषो हन्तुर् भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥
{1,182}इति. नन्व् असत्य् अपि निषेधे किमंशद्वयगामिनी हिंसानर्थो न भवतीत्य् अत आह -- निषेधेने ति

2.233

अत्र कारणम् आह -- प्रत्यक्षादेर् इति. नानार्थत्वे प्रत्यक्षादीनि क्रमन्ते. न चाप्रमाणको ऽर्थः कल्पयितुं शक्यत इति. प्रत्यक्षाद्यशक्तिम् एव दर्शयति -- न हीति. न हि त्रिवृत्पानविरेकयोर् इव साध्यसाधनभावो हिंसाप्रत्यवाययोः प्रत्यक्षः, तदानीं प्रत्यवायादर्शनाद् इति

2.234

नन्व् असत्य् अपि दोषदर्शने बाह्यहिंसानाम् अनर्थत्वदर्शनाच् चोदितास्व् अपि विचिकित्सा जायत एव, अत आह -- बाह्ये ऽपी ति. अयम् अभिप्रायः -- नात्र विचिकित्सायां किञ्चित् कारणम्. शास्त्राद् एव बाह्ये ऽपि विचिकित्सा. अङ्गहिंसापि शास्त्रविहितैवेति निर्विचिकित्सम् अनुष्ठातव्येति. ननु प्रत्यक्षम् एव हिंस्यमानस्य दुःखितत्वम् उपलभ्यते. अतः कर्तुर् अपि ततो दुःखित्वम् अनुमास्यामहे. क्रियानुरूपं हि कर्तॄणां फलम् इति महाजनप्रसिद्धम्. यथा चाहुः --
तथा च नारीष्व् अपि सिद्धम् एतत् करोति यो यल्लभते ऽप्य् असौ तत् ।
यत् कर्मबीजं वपते मनुष्यस् तस्यानुरूपाणि फलानि भुङ्क्ते ॥
इति. अतः क्रियानुरूप्येणैव हिंसानर्थकरीत्य् अनुमास्यते, अत आह -- हिंस्यमानस्ये ति स्याद् अन्तेन. अयम् अभिप्रायः -- यद् एतद् हिंस्यमानस्य दुःखित्वदर्शनं, तेन कर्तुः दुःखित्वानुमानम् अयुक्तम्. व्याप्तलिङ्गदर्शनाभावात्. न हि हिंस्यमानस्य दुःखिता कर्तुर् भविष्यता दुःखेन व्याप्तावगतेति. प्रत्यक्षदर्शनानुसारेण तु विपर्यय एव तावदनुमातुं शक्यते, तदानीं हि कर्तुः{1,183}स्फुटं सुखम् एवोपलभ्यते. अतः कालान्तरे ऽपि हिंसा सुखकरी, हिंसात्वाद् अद्यवद् इति शक्यते प्रयोगो वक्तुम् इत्य् अभिप्रायेणाह -- तदानीम् इति

2.235

अत्र कश्चिद् अनुमानकुशल आह -- क्रियाविशेषाः खलु विषयानुरूपफलदायिनो दृष्टाः. यथा दानादयः शास्त्रोक्ताः. दानं हि सम्प्रदानापरनामानं विषयं सुखयतीति प्रत्यक्षम् अवगतम्. तच् च कालान्तरे दातुः परां प्रीतिमाधास्यतीति शास्त्राद् अवगम्यते. हिंसापि च क्रियाविशेषः. अतो यादृगस्या विषये हिंस्ये कर्मणि फलं दुःखात्मकं, तादृग् एव[560]कर्तुर् अनुमीयत इति, तद् एतद् उपन्यस्यति -- विषय इति

2.236

__________नोतेस्__________
[560] वक्तुर् अ (क)
अत्र दूषणम् आह -- य एवम् इति. एवंवादिनो हेतुर् अनैकान्तिकः. क्रियाविशेषाणाम् अपि गुर्वङ्गनागमनादीनां विषयानुरूपफलदायित्वाभावात्. दुःखफलत्वात् तेषाम्. विषये च गुर्वङ्गनादौ तदात्वे प्रीतिदर्शनात्. सुरापानस्यापि यदि पेया सुरैव विषयः, न तस्य दुःखम् अदुःखं वेति विषयानुरूपफलदायित्वम् एवम् आदीनां असिद्धम् इति विपक्षैर् एभिर् व्यभिचारिता हेतोर् इति

2.237

विरुद्धश् चायं हेतुर् इत्य् आह -- विरुद्धे ति. कथं विरुद्धता, अत आह -- यादृग् इति. दृष्टान्तानुसारेण हि हेतुर् गमको भवति. दानं चात्र दृष्टान्तः. अतो यादृशं दाने फलम् अवगतं, हिंसायाम् अपि तादृग् एव फलं भवेद् इति. तादृक्त्वम् एव फलस्य दर्शयति -- विधिगम्ये ति. दाने हि विधिगम्यफलावाप्तिर् अवगता. तद् इदं व्याप्तिबलेन हिंसायाम् अपि प्राप्नोतीति. विधिबलेन त्व् अर्थफलत्वम् एव हिंसाया अवगम्यते. अतो नानर्थत्वं सिध्यतीति सिसाधयिषितानर्थफलत्वविपरीतार्थफलत्वसाधनाद् विरुद्धो ऽयं हेतुर् इत्यभिप्रायेणाह{1,184}-- अदुःखे ति. तथेति. विधिगम्यफलावाप्तौ सत्याम् अगुःखात्मतेत्य् अर्थः. न हि दुःखात्मके फले विधिः प्रमाणं भवतीति

2.240

एवं तावद्धेतुदोषाव् उक्तौ. इदानीं दृष्टान्तदोषं दर्शयति -- न चे ति. विषयानुरूपफलदायिता ह्य् अत्र साध्यते. दाने च सम्प्रदानं विषयः. न च दानं दातरि तदनुरूपं फलम् अभिनिष्पादयति, ततो विशिष्टतमस्य महतो ऽभ्युदयस्य दातरि निष्पत्तेः. अल्पा हि प्रीतिर् गां गृहीतवतो भवति. दातुस् तु तां पात्रसात्कृतवतः सवत्सरोमसम्मितानि तानि वत्सराणि स्वर्गो भवतीति शास्त्रानुसारेणावगम्यते. क्वचित् तु समद्विगुणसाहस्रानन्तानि फलान्य् अब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः इति साध्यहीनो दृष्टान्त इति. अपि चैकार्थेनैव साध्यपदेन पक्षसपक्षयोर् व्याप्तिः कथ्यते. इह च दृष्टान्ते दाने सम्प्रदानं विषयशब्दस्यार्थः. हिंसने तु हिंस्यमानं कर्म. न चैतद् युक्तम् इत्यभिप्रायेणाह -- सम्प्रदानम् इति वैषम्यम् अन्तेन. यदि तु वैषम्यपरिहारार्थं पक्षे ऽपि सम्प्रदानम् एव विषयशब्दस्यार्थो भवेत्, ततः सिसाधयिषितानर्थविपरीतप्रतिज्ञानाद् विरुद्धः पक्षो भवेद् इत्य् आह -- सम्प्रदाने इति. विरुद्धताम् एव स्फुटयति -- प्रीयत इति. अग्नीषोमदेवतासम्प्रदानको हि पशुयागः. तत्र चाग्नीषोमौ देवता[561]प्रीयते[562]इति विषयानुरूपफलप्रतिज्ञाने हिंसाकर्तुर् अपि प्रीतिकरी हिंसेति प्रतिज्ञातं भवेत्. एवञ् च नानर्थकरत्वं सिध्यति, प्रीतिफलस्यानर्थत्वासम्भवात्. अतो विरुद्धः पक्षो भवेद् इति. किं पुनर् इदं देवताधिकरणविपरीतविग्रहवत्त्वम् इहाभिप्रेत्य देवता[563]प्रीयत[564]इत्य् उच्यते. यद्य् अपि अनिराकरणात्मकं सम्प्रदानं देवता स्यात्, तथापि नासौ प्रीयते.{1,185}श्रुतिसमवायित्वात् कर्मसु. अत आह -- इति स्थितं तवे ति. सत्यं, नायं सिद्धान्तः. तव तु साङ्ख्यस्य स्थितम् इदं[565]यद् देवता प्रीयत इति. अतस् ते पक्षो विरुद्ध इति

2.241

__________नोतेस्__________
[561] ते
[562] ये
[563] ताः
[564] न्त (ग)
[565] इयं दे (क)
पूर्वं तावद् उभयत्र सम्प्रदाने विषयशब्दार्थे दोष उक्तः. कर्मवचनत्वे दोषम् आह -- दृष्टान्त इति. यदि हि दाने कर्मैव विषयो भवेत्, ततस् तस्य दीयमानस्य गवादेर् न किञ्चित् फलम् इति न तदनुरूपफलसाधनं युक्तम् इत्य् अभिप्रायः. विरुद्धाव्यभिचारी चायं हेतुर् इत्य् आह -- जपहोमादी ति. जपादयो हि क्रियाविशेषा न परेषां पीडानुग्रहयोर् वर्तन्ते. चोदितत्वमात्रेणैव[566] तु ते ऽर्थतयावगताः. अतस् तद्दृष्टान्तेनैव चोदिता हिंसा अर्थ इति शक्यते साधयितुम्. अतो विरुद्धाव्यभिचारिता. न चात्र विषयानुरूपम् एतत् फलम् इति शक्यते वक्तुम्. विषये फलादर्शनात्. जपस्य यदि तावज्जप्यमानं विषयः, किं तस्य फलम्. अन्यस्य तु न कस्यचित् पीडानुग्रहौ दृश्येते. अत एवोक्तं परपीडादिवर्जनाद् इति. एवंविधं दृष्टान्तम् आसाद्य चोदितत्वस्य हेतुत्वं सम्भवतीति विरुद्धाव्यभिचारी हेतुर् भवति. भवति च प्रयोगः -- दैक्षपशुहिंसा अर्थः, विहितत्वाज् जपादिवद् इति

2.242

__________नोतेस्__________
[566] ण तु (ग)
अपि च विधिनिषेधप्रमाणकयोर् धर्माधर्मयोर् अनुमानोपन्यासो ऽतिदूरम् अपभ्रष्ट इत्य् आह -- विहिते ति

2.243

अपि च विषयानुरूपफलवादिना पीडानुग्रहनिबन्धनं धर्माधर्मत्वम् आश्रितम्. एवञ् च जपे शीधुपाने चान्यतराभावाद् उभयानुग्रहता न स्याद् इत्य् आह -- अनुग्रहाद् इति

2.244

{1,186} गुरुदारगामिनां[567]च परानुग्रहाद् एव महान् धर्मो भवेद् इत्य् आह -- क्रोशते ति. गुरुदाराभिगामिनो हि ससाध्वसस्य हृदयं शब्दायत इवेति क्रोशतेत्य् उक्तम्. यदि ब्रूयाद् गुर्वङ्गनागामिनो हि ब्राह्मणम् इव घ्नतो हृदयक्रोशनम् उपलभ्यते. हिंसा च विषयानुरूपफलदायितयानर्थ इति स्थितम्. अतो ऽनर्थफलकर्मानुष्ठायिनाम् एव हृदयक्रोशनोपगम्यत[568]इति गुरुदाराभिगामिनो ऽप्य् अधर्मोत्पत्तिर् अवगम्यत इति. तत्रेदम् उत्तरं क्रोशता हृदयेनापीति. एवं हि मन्यते -- विषयानुरूपं चेत् कर्मणां फलम्, एवं सति क्रोशतापि हृदयेन गुर्वङ्गनागामी विषयस्याङ्गनाया महान्तम् उपकारं जनयतीति धार्मिको भवेत्. हृदयक्रोशनाद् अस्याधर्मो ऽप्य् अनुमीयत इति चेद्, न तर्हि विषयानुरूपं (फलं) क्रियाणाम् इति व्याप्त्यसिद्धिः. अतश् चानैकान्तिको हेतुः. विरुद्धार्थहेतुद्वयसमावेशे[569]च धर्माधर्मत्वसंशयो भवेत्. अतो न पीडानुग्रहनिबन्धनं धर्माधर्मत्वम् इति

2.245

__________नोतेस्__________
[567] राभिगा
[568] शनाद् अवग
[569] शाच् च ध (ग)
अपि च अनुमानप्रधानस्यास्य वादिनो ऽनपेक्षितनिषेधशास्त्रस्य हृदयक्रोशने ऽपि न कारणम् उपलभामहे. अधर्मानुष्ठानबुद्ध्या हि तद् भवति. आनुमानिकधर्माधर्मवादिनश् च नाधर्मबुद्धौ किञ्चिन् निबन्धनम् अस्ति. शास्त्रानुसारेण हि तन्निश्चयः. उच्छास्त्रं प्रवर्तमानस्याधर्मम् आचरामीति हृत्कम्पो न जायते. इतरथा तु परोपकारित्वाद् अस्य हृदयस्य प्रसाद एव जायत इत्य् आह -- अनुमाने ति

2.246

ननु यद् एव स्वस्मिन् परस्मिन् वानुष्ठीयमानं पीडाम् आवहति, स एवाधर्मः. अत एवात्महिंसाप्य् अधर्मः. तद् इह यद् अपि परोपकारो दृश्यते, स्वस्य{1,187}तु हृदयक्रोशात् पीडोपलभ्यत इत्य् अधर्मत्वम्. एवञ् चाधर्मत्वे पीडोपपत्तिर् इत्य् अत आह -- पीडात इति. अनपेक्षितशास्त्रस्य प्रागधर्मज्ञानोत्पत्तिनिमित्ताभावात् किंकृता पीडेति वक्तव्यम्. अधर्मत्वबुद्धिकृतेति चेत्, तद् एव किन् निमित्तम्. सैव पीडा अधर्मत्वे निमित्तम् इति चेत्, तद् इह पीडाधर्मत्वयोर् एकतरस्यापि मूलान्तरासम्भवाद् दुरुत्तरम् इतरेतराश्रयम् अशास्त्रपरतन्त्रस्यापद्यत इति

2.247

अपि च[570]यदि सत्य् अपि परोपकारे कर्तुर् उद्वेगदर्शनाद् गुर्वङ्गनागमनम् अधर्मः, तर्हि यस्यातो म्लेच्छादेर् उद्वेगो न जायते तस्याधर्मोत्पत्तिर् न स्याद् इत्य् आह -- एवमादाव् इति. शास्त्रज्ञस्यैव शास्त्रानुसार्युद्वेगो जायते. तदनभिज्ञस्य तदभावाद् अप्रमाणको ऽधर्मयोग इति

2.248

__________नोतेस्__________
[570] च स (क)
अतो विमुच्यानुग्रहपीडे तदभावं च धर्माधर्मज्ञानार्थिभिर् विधिनिषेधाव् एवानुसर्तव्याव् इत्य् उपसंहरति -- तस्माद् इति. अयम् अर्थः -- नानुग्रहो धर्मत्वे कारणं पीडा वा अधर्मत्वे, अनुग्रहाभावो वा पीडाभावमात्रं वा धर्माधर्मत्व इति

2.251

अत्र वदन्ति -- नानुमानेन हिंसादीनाम् अधर्मत्वं साध्यते. किन् तु शास्त्रानुसारेणैव. निषेधशास्त्रेण हिंसायाः प्रत्यवायशक्तिर् अवगता. सर्वा च{1,188}तीर्थातीर्थगता हिंसैव. अतः कथं हिंसा सती काचित् प्रत्यवायं न जनयिष्यति. न हि दैक्षपशुहिंसाविधानं वस्तुनः शक्तिम् उत्सारयितुम् उत्सहते विद्यमानद्रव्य[571]गुणादिशक्तिमात्रोपदेशित्वात् शास्त्राणाम्. नैषां शक्त्यावापोद्वापयोर् व्यापारः. अतस् तद् एवेदं न हिंस्याद् इति शास्त्रोपदर्शितप्रत्यवायहेतुत्वं दैक्षपशुहिंसाक(?र्मे।र्मणी)ति[572]शास्त्रानुधावनेनैव हिंसादीनाम् अधर्मत्वं कल्प्यत इति. तद् एतद् उपन्यस्यति -- क्वचिद् इति त्रयेण. क्वचिद् बाह्यहिंसायां निषिद्धत्वात् प्रत्यवायहेतुत्वे हिंसायाः शक्तिर् बोधिता न विधानाद् अपगच्छतीति सम्बन्ध इति

2.253

__________नोतेस्__________
[571] व्यादि (क)
[572] स्त्राधाव (ग)
एवम् उपन्यस्य निरस्यति -- एवम् इति द्वयेन. एवंवादिनो हि न सुरां पिबेद् इति निषेधशास्त्रात् सुरापानस्य प्रत्यवायशक्तिर् अवगतेति शूद्रो ऽपि तां पिबन् प्रत्यवेयात्. तथा वैश्यस्तोमेन वैश्यस्य यजमानस्य विधिनाभ्युदयसिद्धिर् दर्शितेति वैश्यस्तोमशक्त्यनुसारेण विप्रराजन्ययोर् अपि तत्फलं भवेत्. न चैतद् इष्यते. तथा कालभेदेन शक्तिभेदो दृष्टः. इष्ट्योर् दर्शपूर्णमासयोः पर्वणि शक्तेः पञ्चम्यां चाशक्तेः. अग्निहोत्रस्य सायंप्रातरनुष्ठितस्य फलसाधनत्वान् मध्याह्ने च तदभावात्. अतो यथाशास्त्रम् एव शक्तिसद्भावो ऽभ्युपेयत इति

2.254

तस्मात् शास्त्रानुसारेणैव कर्मणां फलशक्तिर् आस्थेयेत्य् उपसंहरति. -- तस्माद् इति

2.255

एवं साधनोपायांशद्वयातिरिक्तायां हिंसायां न हिंस्याद् इति प्रतिषेधाज्{1,189}जातं प्रत्यवायहेतुत्वज्ञानम् अन्यत्र तीर्थेषु यो दीक्षितः यद् अग्नीषोमीयं पशुम् आलभेतेत्यादिविधिना वार्यत इत्य् आह -- हिंसे ति

2.256

यत् तूक्तं न वस्तुशक्त्यावापोद्वापयोः शास्त्रस्य व्यापार इति, तद् इष्यत एव. केवलं शास्त्रानुसारेणैव तत्तत्क्रियाभेदव्यवस्थिता एव शक्तयो ऽवगम्यन्ते. अतो नातिप्रसङ्ग इत्यभिप्रायेणाह -- ज्ञानम् इति

2.257

कथम् एकस्य कर्मणः शक्तिभावाभावाव् इति चेत्. लौकिकानि कर्माणि विदाङ् कुर्वन्तु भवन्तः. यथा तावद् एकम् एव भोजनं स्वस्थातुर् अकर्तृकं भिन्नशक्तिकं दृष्टम्. स्वस्थेन हि तत् क्रियमाणं रसलोहितमांसपरिणामपरम्परया शरीरं वर्धयति. आतुरेण तु क्रियमाणम् असम्यग्धातुपरिणामात् कृशी करोति. एवम् अदृष्टार्थेष्व् अपि कर्मसु भविष्यतीत्यभिप्रायेणाह -- व्यवस्था इति

2.258

यथा भोजनत्वाभेदे ऽपि स्वस्थातुर् अकर्तृभेदनिबन्धनं[573]व्यक्तिभेदम् आश्रित्य तत्र शक्तिभेदः समाधीयते, एवम् इहापि हिंसात्वेनाभेदे ऽपि रूपस्येयम् अङ्गहिंसा इयं बाह्यहिंसेति व्यक्तिभेदावगतेर् उपपन्नः शक्तिभेद इत्यभिप्रायेणाह -- रूपाभेद इति

2.259

__________नोतेस्__________
[573] व्यवस्थाभे (ख)
यदि त्व् अवान्तरभेदम् अनङ्गीकृत्य रूपाभेदमात्रेणैकफलत्वम् इष्यते, एवं सति सर्वलौकिकवैदिकक्रियाणां क्रियात्वाद् एकफलत्वं स्यात्. तत्रेदं स्वर्गफलम् इदं पुत्रफलम् इत्याद्यसङ्करो न सिध्यतीत्यभिप्रायेणाह -- तथापी ति. आस्तां तावन्महासामान्येनैकत्वात् फलसङ्करो भवतीति. यजित्वाद्यवान्तरसामान्याभेदाद् अपि चित्रादीनां कर्मणां फलतुल्यता भवेद् इत्य् आह -- यजित्वे ति

2.261

यदि तु तत्र व्यवस्थावान्तरभेदाश्रयाभिधीयते, सेहापि समानेत्य् आह -- भेदाद् इति. ननु विहिता नामाङ्गहिंसा. तथापि किं नानर्थः. न विधिनानर्थफलेन न भवितव्यम् इति राजाज्ञा. अत आह -- विधीनाम् इति. अयम् अभिप्रायः -- नेयं राजाज्ञा. शब्दशक्तिर् एव. विधिर् हि कर्तव्यताबुद्धेर् हेतुः. इष्टाभ्युपायं च कर्तव्यतया लोको बुध्यते. अतो ऽवश्यम् एव साक्षाद् व्यवहितो[574]ऽपि वा विधेयानां पुरुषार्थः फलम् इत्य् अवसीयते. साक्षात् प्रधानानां, व्यवहितो ऽङ्गानाम्. तस्मान् नातो विधेर् अनर्थफलत्वम् अवसीयते. विधिबलाद् अवगम्यमानं विधीनां फलम् इत्य् आहेति. अपि च, अनर्थकर्यङ्गहिंसेति नेदं सान्दृष्टिकम्. न चानर्थसमभिव्याहारो ऽस्याः श्रूयते. अतः कथम् अनर्थसाधनम् इत्य् आह -- न चैष्व् इति. नन्व् अश्रूयमाणो ऽपि कलञ्जभक्षणादिवत् कल्पयिष्यते, अत आह -- निषेधाद् इति. तत्र निषेधः कल्पनायां कारणं, नासाव् इह सम्भवति. अभावाद् एव विधानदर्शनाद् इति

2.262

__________नोतेस्__________
[574] तो वा (क)
अपि चाङ्गहिंसानां पुरुषार्थत्वे सिद्धे कदाचिद् अनर्थो ऽपि फलतया कल्प्यते. न च तासां पुरुषार्थः फलम्. प्रकरणे पाठात्. प्रकरणविधिविनियोगेन क्रत्वर्थत्वाद् इत्यभिप्रायेणाह -- न चे ति. किं नाम[575]तत् कल्प्यम् अत आह -- कर्मोपकार इति. यत् खलु प्रकरणस्थं, ततः प्रधानकर्मोपकार एव कल्प्यते दृष्टो ऽदृष्टो वा. यथावघातस्य व्रीहीणां वितुषीभावो विध्यपेक्षितो दृष्टः. अदृष्टो वा यथा प्रयाजादिजन्य इति

2.263

__________नोतेस्__________
[575] मातः क (ग)
{1,191} अतो नात्रानर्थकल्पनावसरो ऽस्तीत्य् आह -- कल्पने ति. नाङ्गहिंसासु फलम् अपेक्षितं, क्रतूपकारेण निराकाङ्क्षत्वाद् इति भावः. क्रत्वर्थे ऽपि चायं विशेषः यद् अयं पशुसंस्कार एव, न तु प्रयाजादिवदाराद् उपकारो ऽङ्गहिंसा, तत्पुरस्सरं विशसनादिसंस्कारानुष्ठानात्. अत एव संज्ञपने पशुर् व्रीहिवत् प्रधानतया श्रुतः पशुं संज्ञपयतीति. तद् एतद् आह -- क्रत्वर्थ इति. सन्निपत्योपकारप्रदर्शनेन[576]क्रत्वर्थतैव बलीयसीति दर्शितं भवति. आराद् उपकारकत्वे यावान् क्लेशो भवेद् न च तावान् अप्य् अस्तीति

2.264

__________नोतेस्__________
[576] नेनैव क्र
संस्कारत्वे ऽपि चास्यायं विशेषः यद् अयं दृष्टार्थ एवावघातादिवत्. न तु[577]प्रोक्षणादिवददृष्टार्थः, क्रत्वपेक्षितैकादशावदाननिष्पत्तेः. दैक्षे हि पशौ हृदयस्याग्रे ऽवद्यति. अथ जिह्वायाः. अथ वक्षसः इत्यादिभिर् एकादशावदानसाध्यो याग उक्तः. न चासति हिंसासंस्कारे पशोर् एकादशावदाननिष्पत्तिः सम्भवति. अतो दृष्टार्थत्वाद् अङ्गहिंसाया नानर्थकल्पनावसरो ऽस्तीत्यभिप्रायेणाह -- दृष्टे ति. एवं तावज्ज्योतिष्टोमोपायांशस्था हिंसा नाधर्म इत्य् उक्तम्. ये चाभिचारयज्ञाः श्येनादयः, तत्राप्य् एकाहानां ज्योतिष्टोमप्रकृतित्वाच् चोदकप्राप्ताङ्गहिंसा नाधर्म इत्य् आह -- अभिचार इति

2.265

__________नोतेस्__________
[577] च (क)
अतो ऽनङ्गभूतायाम् एव फलांशस्थायां हिंसायाम् एतद् अनर्थत्वम् इत्य् उपसंहरति -- तस्माद् इति. ननु च फलांशस्थापि हिंसा श्येनाद्युद्देशेन विधीयमाणा[578]कथम् अनर्थः अत आह -- उद्देशाद् इति. अयम् अभिप्रायः -- नात्र श्येनोद्देशेन फलं विधीयते, फलत्वेन हिंसाया एवोद्देशात्. फलं ह्य् उद्दिश्य साधनं विधीयते, न तु विपर्ययः. ननूद्देश्ययोर् अपि देशकालयोर् विधानम्{1,192}इष्यत एव. सत्यम्. अन्यतस् तयोर् अप्राप्तेः. फले तु रागतः प्रवृत्तः पुरुषो न विधिना प्रवर्त्यत इत्य् उक्तम् एवेति

2.266

__________नोतेस्__________
[578] नत्वात् क (क, ग)
कथं पुनस् त्र्यंशभावनाविधाने विधेयाविधेयभेदः शक्यते[579]वक्तुम्. अत एव भावनान्तर्गतत्वाद्[580]अनर्थत्वाक्षेपो निदर्शितः. तत्रोत्तरम् आह -- भावने ति. अयम् अभिप्रायः -- विधिर् हि हंस इवोदकात् क्षीरं विविच्य प्राप्तपरिहारेणाप्राप्तं गृह्णाति. तथा च वक्ष्यति -- तद्गुणास् तु विधीयेरन्न् अविभागाद् विधानार्थे[581]न चेद् अन्येन शिष्टाः (1.4.9) इति. अतो विशिष्टभावनाविधाव् अपि साधनेतिकर्तव्यतामात्रपरत्वात् फलांशान् निवर्तत इति. अतः सिद्धं न स्वरूपेण श्येनो धर्मः. नाप्य् अधर्मः. फलस्यैव त्व् अनर्थानुबन्धित्वात् तद्द्वारेणानर्थ इत्य् उपचर्यत इत्य् उपसंहरति -- अत इति

2.268

__________नोतेस्__________
[579] कर्तुम् (ग)
[580] द् अर्थाक्षेपो दर्शि
[581] ने ऽर्थे (क)
ननु च विधीनां पुरुषार्थफलत्वात् श्येनस्य च विधिविषयत्वात् तद्बलेनार्थात्मकम् एव फलान्तरं विश्वजिदादिवत् किं न कल्प्यते. अतः स्वरूपेण धर्मो भविष्यतीत्य् आह -- निराकाङ्क्षस्ये ति. अयम् अर्थः -- भ्रातृव्यवधेनैकेन स्वर्गाद् अपि प्रियतरेण निराकाङ्क्षस्य श्येनस्य न फलान्तरकल्पना सम्भवति. भावनाकाङ्क्षा हि तत्कल्पनाबीजम्. एका च भावनैकेनैव भाव्येन निराकाङ्क्षेति न भाव्यान्तरसम्बन्धं लभते. तथा च वक्ष्यति -- एकं वा चोदनैकत्वात् (4.3.14) इति. अतः सिद्धम्{1,193}अनर्थफलस्य तद्द्वारेणानर्थत्वम् इत्य् आह -- तस्माद् इति. किं पुनः कारणं, फलानर्थानुबन्धित्वात् श्येनो न धर्म इत्य् अत आह -- फलत इति. ईदृशे कर्माणि लोके धर्मशब्दः प्रसिद्ध इति[582]

2.269

__________नोतेस्__________
[582] ति भावः ॥ (क)
अत्र चोदयति -- ननु चे ति. अयम् अभिप्रायः -- किं पुनः कारणं स्वतो न धर्मत्वं श्येनादेः, नाप्य् अधर्मतेति. इष्टाभ्युपायो हि चोदनालक्षणो धर्मः. तथा श्येनः फलस्यानर्थानुबन्धित्वे ऽपि. अतो धर्म इत्य् एवायं वक्तव्य इति. अत्रोभयरूपरहितः श्येन इत्य् अभिप्रेत्य सम्प्रधारणाम् अवतारयति -- फलम् इति. स्थितं तावत् श्येनफलं हिंसा. हिंसा च न धर्म इति. श्येनादिस्वरूपम् इदानीं लोकप्रसिद्ध्यनुसारेणावधारयामः धर्मो ऽधर्मो वेति

2.271

तत्रान्यतरनिर्धारणाय पक्षद्वयम् उपन्यस्यति -- यदी ति द्वयेन. लोकप्रसिद्धिर् हि नः सर्वशब्दार्थावधारणे मूलम्. तद् असाव् एव निरूपणीया. तत्र यद्य् अनिष्टानुबन्धरहितेष्टाभ्युपायश् चोदनालक्षणो धर्म इति लोकेनोच्यते, ततः श्येनादीनाम् अधर्मत्वेन वर्जनं, परम्परयानर्थानुबन्धित्वात्. यदि त्व् अनादृत्य परम्परयानर्थानुबन्धित्वम् आहत्य प्रीतिफलं लौकिका धर्मशब्देनोपचरन्ति चोदनासमधिगम्यं, तथा सति श्येनो ऽपि तादृशत्वाद् धर्मो भवेत्. कार्याकार्यानपेक्षयेति. यद् एव हि प्रीतिमात्रानुबन्धि तत् कार्यम् इति विवेकिनो बुध्यन्ते, विपरीतम् अकार्यम् इति भावः. प्रसिद्धिविभागकथनेनैव चात्र निर्धारणम् उक्तम्. यथाप्रसिद्धि तावद् धर्मशब्दो ऽभ्युपगन्तव्य इति स्थितम्. प्रसिद्धिश् चानिष्टाननुबन्धीष्टसाधनविषयैव धर्मशब्दस्येति श्येनादिवर्जनम् एवावसीयत इति

2.272

{1,194} नन्व् एवम् अधर्म एवानिष्टानुबन्धित्वात् श्येनः फलद्वारेण, अत आह -- यदी ति. अयम् अभिप्रायः -- अधर्मपदप्रयोगो ऽपि लौकिकानां सम्प्रधारणीयः किंविषय इति. तद् यदि चोदनार्थो ऽपि साक्षाद् व्यवधानेन वाप्रीतिहेतुर् अधर्म इति प्रसिद्धः, ततः श्येनो ऽप्य् अधर्मः. अथ वेदविहिते नाधर्मशब्दम् अप्रीतिकरे ऽपि परम्परया लोकः प्रयुङ्क्ते, ततो नाधर्मः. न च वेदविहितगोचरो ऽधर्मशब्दप्रयोगो लौकिकानां दृष्ट इति नाधर्मः स्वरूपेण श्येनादय इति भावः

2.273

यस् तु वदति -- विहिता नामांशद्वयगामिनी हिंसा. तथापि प्रतिबद्धलिङ्गदर्शनेन तस्यानर्थहेतुत्वम् अनुमास्यामहे. तथा हि हिंसात्वम् अनर्थत्वेन प्रतिबद्धं बाह्यहिंसास्व् अवगतं, तद् धि विहितास्व् अपि दृश्यमानम् अनर्थत्वम् अनुमापययतीति. तद् एतद् उपन्यस्य दूषयति -- यस् त्व् इति. अयं चागमबाधो ऽनुमाने प्रपञ्चयिष्यत इति

2.274

आगमानादरे त्व् अनवस्था भवतीत्य् आह -- तम् इति

2.275

नन्व् आगमानुसारेण क्रतुगतानाम् अपि हिंसानाम् अधर्मत्वम् अवगम्यते. तथा हि -- सन्ति हि केचन मन्त्रार्थवादे[583]तिहासादयः ये क्रतुवर्तिनीम् अपि हिंसां निन्दन्ति.[584]यथा जपस्तुतौ
__________नोतेस्__________
[583] दाः ये
[584] त
विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः
इति हिंसा[585]ङ्गत्वेनैव विधियज्ञनिन्दा स्मर्यते. अत आह -- गीते ति. अस्यार्थः -- प्रत्यक्षो ऽत्र श्रुतिबाधः. क्रतौ विधानदर्शन्तात् अन्यत्र तीर्थेभ्यः इति च श्रुतेः.[586]
__________नोतेस्__________
[585] साकरत्वे (ग)
[586] स्मृ (क)
{1,195} यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयम्भुवा ।
यज्ञा हि भूत्यै लोकस्य तस्माद् यज्ञे वधो ऽवधः ॥
इति[587]च. अन्यपरतयार्थवादो व्याख्येयः. यथा वक्ष्यति -- न हि निन्दा निन्द्यं निन्दितुं, किं तर्हि निन्दितादितरं प्रशंसितुम् इति

2.276

__________नोतेस्__________
[587] ति. अ (क)
अत्रापरं भाष्यं - नन्व् अशक्तम् इदं सूत्रम् इमाव् अर्थाव् अभिवदितुं चोदनालक्षणो धर्मः नेन्द्रियादिलक्षणः, अर्थश् च धर्मो नानर्थ इति. भिद्येत हि तदा वाक्यम् इति. एवं वाक्यभेदपरिचोदनां कृत्वा परिहारभाष्यम् -- उच्यते. यत्र वाक्याद् एवार्थो ऽवगम्यते तत्रैवम्. तत् तु वैदिकेषु न सूत्रेषु. अन्यतो ऽवगते ऽर्थे सूत्रम् एवम् अर्थम् इत्य् अवगन्तव्यम् इति. तदाक्षिपति -- शिष्यान् इति. अस्यार्थः -- अन्यतोविदितवेदार्थेभ्यो जिज्ञासुभ्यः सूत्राणि जैमिनिना न प्रणीतानि. अतस् तानि तेषां वेदवाक्यतुल्यानि उभयं च वेदसूत्रात्मकं वाक्यभेदादिदोषाद् असमर्थम्. न चाशक्तम् अर्थप्रत्यायने प्रमाणम्. अतो न वेदसूत्रयोः कश्चिद् विशेष इति न सूत्रेष्व् इति भाष्योक्तम् अनुत्तरम् इति

2.277

अत्र परिहारम् आह -- प्रागुक्ते ति. अस्यार्थः -- सत्यम्. वाक्यभेदादिना सूत्राणाम् अप्य् अशक्तिः शिष्यांश् च प्रत्यविशेषः. किन् तु या पूर्वं सति सम्भव इति परिसंख्योक्ता, तस्याः फलम् एतद् भाष्यकारेण प्रतिपाद्यते. एवं हि न्यायाभासभ्रान्ताः शिष्या भाष्यकारेण शिक्षिताः यद् विवक्षितासम्भवे वाक्यभेदादिभिर् अपि सूत्राणि गमयितव्यानीति. तद् इहैव तावच् चोदनासूत्रे प्रदर्श्यते यद् वाक्यभेदेनापि चोदनासूत्रार्थो बोध्यत इति. अनयेति. भाष्योक्तया प्रमाणान्तरप्रतिपन्नार्थविषयतया युक्त्येत्य् अर्थः. एषेत्य् अपि च भाष्योक्तैव वाक्यभेदगतिः प्रत्यवमृश्यते. यथाह -- भिन्नयोर् एव वाक्ययोर्{1,196}इमाव् एकदेशाव् इति. तद् अनेन शिष्यान् प्रत्यविशेषे ऽपि व्याख्यातॄणाम् एव व्याख्याप्रकारो भाष्यकारेणोक्त इति दर्शितम्. व्याख्याकारा हि चिरपरिचितन्यायसामस्त्यस्मरणक्षमा न्यायबलेन वाक्यभेदादिभिर् अपि सूत्राणि व्याचक्षत इति

2.278

यतश् च प्रमाणान्तरानुसारेण वाक्यभेदादिभिर् अपि सूत्रेष्व् अवगतिः सम्भवति, तस्माद् आवृत्त्या वा तन्त्रेण वेदं सूत्रं व्याख्येयम् इत्य् आह -- तस्माद् इति. आवृत्तौ तावत् सकलम् एव सूत्रं द्विः पठितव्यम्. तत्रैकस्य चोदनालक्षणो धर्म इत्य् अत्र तात्पर्यम्. अपरस्य चार्थो धर्म इत्य् अत्र. अन्यपरत्वे ऽन्यतरसम्बन्धो ऽनुवादः. सूत्रभेदेन चोभयविधानात् तत्सिद्धेर् उभयानुवादोपपत्तिः. तन्त्रं चोदनालक्षणादीनां त्रयाणाम् अन्यतमम्. तदुपरिष्टाद् वक्ष्यते. तस्मिन् पक्षे न वाक्यभेदः. तथा हि -- त्रिपदम् इदं सूत्रम्. पदत्रयस्यापि चेतरेतरसम्बद्धो ऽर्थो वाक्यार्थः. तद् यद् एव त्रयाणाम् उभयसन्धानार्थम्[588]आवर्त्यते तद् एव वाक्यं भिनत्ति. तन्त्रेण तूभयसम्बन्धे न वाक्यभेदः. सकृद्वचनात्. सकृदुक्तस्यैव योग्यतयोभयसम्बन्धे शक्तिभेदात्. तद् इह धर्मपदं वा तन्त्रोच्चरितम् उभाभ्यां सम्बध्यते. सिध्यति चोभयं चोदनालक्षणो धर्मो ऽर्थो धर्म इति च. मध्यपदं वाद्यन्ताभ्याम्. एवम् अपि चेष्टं सिध्यति अर्थो धर्मः स चोदनालक्षण इति. आद्यम् एव वोत्तराभ्याम्. चोदनालक्षणो ऽर्थः स एव च धर्म इति. इदम् एकम् एव वाक्यं त्रयाणाम् अन्यतमस्य तन्त्रेणोभयसम्बन्धाद् द्व्यर्थम् इत्य् अवगन्तव्यम्. आह च --
__________नोतेस्__________
[588] सम्बन्धार्थ
चोदनालक्षणादीनां तन्त्रेणैकस्य सङ्गतौ[589]।
__________नोतेस्__________
[589] तेः (ग)
द्वाभ्यां सहार्थवाचित्वाद् द्व्यर्थम् एकं भविष्यति ॥
इति

2.279

भाष्यकारेण भिन्नयोर् एव वाक्ययोर् इमाव् एकदेशाव् इति वदता सूत्रद्वयम्{1,197}एवेदं दर्शितम्. तद् उपन्यस्यति -- एकदेशे ति. अर्थो धर्म इत्य् एकं सूत्रम्, अपरं चोदनालक्षण इति. तेन चोदनालक्षणावयवेनानुमितेनानन्तरसूत्रस्थेन धर्मपदेनैकं निष्पद्यते चोदनालक्षणो धर्म इति. तद् इदम् उक्तम् -- एकदेशानुमानाद् इति. नन्व् अर्थो धर्म इति चोदनालक्षणाचोदनालक्षणयोर् अन्यतरस्या[590]नुपादानात् तदपेक्षायाम् अचोदनालक्षणो ऽप्य् उपतिष्ठमानः केन वार्यते. एवं चोदनालक्षणो धर्म इत्य् अत्राप्य् अनर्थप्रसङ्गो दर्शयितव्यः. अत आह -- इतरेतरे ति. एताव् एव चोदनालक्षणार्थशब्दाव् इतरेतरसमीप्यात् परस्परं सूत्रद्वये ऽपि विशेषणत्वेन वाक्यशेषतया कल्प्येते. अतो नाचोदनालक्षणानर्थावयवकल्पनेति. अनुवादत्वेन चात्र चोदनालक्षणार्थावयवसम्बन्धो भिन्नयोः सूत्रयोर् दर्शयितव्यः, यदर्थो धर्म इत्य् एकसूत्रेणोक्तं तच्चोदनालक्षण इति, यच्चोदनालक्षणो धर्म इत्य् अत्रोक्तं तदर्थ इति

2.281

__________नोतेस्__________
[590] रानु
अपरम् अपि अथवा अर्थस्य सतश् चोदनालक्षणस्य धर्मत्वम् इत्य् एकार्थम् एवेति भाष्यम्. तदाक्षिपति -- विशिष्टे त्य् एवा न्तेन. अर्थविशेषणविशिष्टचोदनालक्षणानुवादेन धर्मविधानं दर्शितम्. एवम् अपि विशेषणविशेष्योभयपरत्वेन वाक्यं भिद्यत[591]एव, यथैकत्वविशिष्टग्रहानुवादेन सम्मार्गविधौ. अतः केन विशेषेणा[592]थवेति परिहारान्तरम् उक्तम् इति. यतश् चायम् अपरिहारः, तस्मात् पूर्वोक्तम् एव पदत्रयतन्त्रत्वं वाक्यभेदपरिचोदनायाम् उत्तरम् इत्य् आह -- इती त्य् अर्थशब्दयोर् अन्तेन.
एतच् च तन्त्रत्रयं व्याख्यातम् एव. संज्ञाशब्देन धर्मपदम् उच्यते.[593]तद् धि चोदनालक्षणस्यार्थस्यालौकिकी संज्ञा भूवादीनाम् इव{1,198}धातुशब्दः. पूर्वाचार्याणां मतेन चैतद् उक्तम्. यद्य् अवश्यं[594]वाक्यभेदः[595]परिहर्तव्यः, ततस् तन्त्रेण द्व्यर्थम् एकं वाक्यं व्याख्येयम्. न च प्रकारान्तरेण वाक्यभेदपरिचोदना परिहर्तुं शक्यत इति

2.282

__________नोतेस्__________
[591] द्येतैव (ग)
[592] ण परि
[593] ते. सा हि चो (क)
[594] श्यम् अवा
[595] दो वक्तव्यः
अत्र चोदयति -- धर्म इति. अयम् अभिप्रायः -- द्वे किलात्र वचनव्यक्ती. चोदनालक्षणानुवादेन धर्मविधानं विपरीतं वा. तत्राद्ये तावत् पक्षे चोदनालक्षणत्वस्यार्थत्वव्यभिचाराद् युक्तम् एव विशेषणम्. यदा तु सामान्यतः सिद्धधर्मानुवादेन प्रमाणम् अनेन कथ्यते, तदा अर्थत्वं प्राप्तम् एव, अर्थस्यैव श्रेयस्साधनस्य धर्मत्वप्रसिद्धेः. सर्वे हि वादिनः प्रीतिसाधनं धर्म इत्य् अत्राविप्रतिपन्नाः, तद्विशेषेष्व् एव विवादः. मीमांसका हीष्टापूर्तयोर् धर्मत्वम् इच्छन्ति. सङ्घट्टवन्दनादौ सौगताः. सामान्यं तु प्रीतिसाधनं धर्मस्वरूपं सर्ववादिनाम् अविवादसिद्धम् एव.[596]एषैव च प्राग् अपि सामान्यसिद्धिर् उक्ता. अत एव च विशेष[597]सिद्धिजिज्ञासायां प्रमाणविशेषविधानं, तत एव तत्सिद्धेः. वेदागमे हि प्रमाणे यागादयो धर्माः. बुद्धागमे तु चैत्य् अवन्दनादयः. को धर्म इत्य् अत्रापि विशेषजिज्ञासयैव प्रश्नः. वक्ष्यति च विशेषस्य च जिज्ञासेति. तस्माद् एषैवात्र वचनव्यक्तिर् मुख्या. अत एवाद्ये प्रथमम् उक्त्वा सत्सूत्रेण च प्रत्यक्षादिनिराकरणाद् एषैव वचनव्यक्तिः सूत्रकाराभिमता लक्ष्यते. यो धर्मः स चोदनालक्षणः इति प्रतिज्ञाते ऽन्यलक्षणनिराकरणं सङ्गच्छते, नान्यथा. तस्माद् एषैवात्र वचनव्यक्तिः. अस्यां चार्थाव्यभिचाराद् अर्थविशेषणम् अनर्थकम् इति

2.283

__________नोतेस्__________
[596] व. प्रा (क)
[597] षमात्रजि (ग)
परिहरति -- चोदने ति. अयम् अभिप्रायः -- सत्यम्. एषैव चात्र वचनव्यक्तिः. इयम् एव तु नासत्यर्थविशेषणे सिध्यतीति फलवदर्थग्रहणम्.{1,199}असति हि तस्मिन् वचनव्यक्त्यन्तरसन्देहो बह्वेत्. एवं हि तदा सम्भाव्यते, यश् चोदनालक्षणः स धर्म इति. अत्र तु वक्ष्यमाणो दोषः. नित्यानुवादभूते त्व्[598]अर्थग्रहणे नैवं वचनव्यक्तिः सम्भवति, अर्थग्रहणस्य विध्यनुवादयोर् असम्भवात्. विधौ तावद् वाक्यभेदाद् असम्भवः. अनुवादस्य चाप्राप्तेः. न हि चोदनालक्षणम् अर्थसम्बन्धं न व्यभिचरति अनर्थस्यापि तल्लक्षितत्वात्. अतो नानुवादः. न चैतत् परित्यागेन वाक्यार्थत्वम् अनर्थकत्वाद् वाक्यैकदेशस्य. अतो यतरस्मिन् पक्षे ऽर्थपदान्वयो घटते, ततरः पक्षो ऽवधार्येत. धर्मानुवादेन प्रमाणविधौ सम्भवति नित्यानुवादभूतो ऽर्थशब्द इति स एव पक्षो निश्चीयते. अतो विध्यनुवादसूचनार्थ एवार्थशब्दो न विशेषणम्. विशेषणाद् विना चैतद् इति च स्पष्टम् एव सूत्रार्थ इति दर्शयिष्यति

2.284

__________नोतेस्__________
[598] प्य् अ (ग)
स्याद् एतत्. सम्भावितवचनव्यक्तिपरिग्रहे को दोष[599]इति, अत आह -- तथे ति. चोदनालक्षणानुवादेन धर्मविधावधर्माणाम् अपि निषेधचोदनयानर्थसाधनत्वेन लक्षितानां ब्रह्महत्यादीनां चोदनालक्षणत्वाद् धर्मत्वं भवेत्. न चैतद् इष्टम्. अतो न विधेयार्थम् अपि विधिफलम् अर्थवद्[600]अर्थपदग्रहणम्. अतो नेयं वचनव्यक्तिः साधीयसीति

2.285

__________नोतेस्__________
[599] षः अ
[600] र्थग्र (क)
अतस् तत्परित्यागेनात्र सा[601]नाम वचोभङ्ग्याश्रयणीया, यस्याम् अर्थश् च धर्मतया न त्यज्यते, एकश् च वाक्यार्थो भवति. सा च धर्मानुवादेन प्रमाणविधिः, तस्यां हि धर्मस्यार्थत्वाव्यभिचाराद् अर्थो न त्यज्यते. एक एव वाक्यार्थो भवति, सामर्थ्यलक्ष्यत्वाद् अर्थस्य. इयं चार्थानुवादाद् एव सिध्यति, [602]नान्यथेत्य् उक्तम् एवेत्य् आह -- तस्माद् इति

2.286

__________नोतेस्__________
[601] साधनाम् एव
[602] न त्व् अन्य (ग)
{1,200} यद्य् एषैवात्र वचनव्यक्तिः, कथं तर्हि भाष्यकारः उभयम् इहेत्यादिग्रन्थेनार्थपदस्य विशेषणतां दर्शयति. विस्पष्टं हि तत्रोक्तं तत्रानर्थो धर्म उक्तो मा भूद् इत्य् एवम् अर्थम् अर्थग्रहणम् इति, यद् अपि चेदम् अथवेत्यादि भाष्यम् आक्षिप्तं तस्याप्य् अद्ययावन् न किञ्चित् समाधानम् उपलभामहे, अत आह -- विशेषणाद् इति. अनेन भाष्यद्वयम् अपि समाहितम्. यत् तावदुभयम् इहेत्य् उक्तं तदर्थविशेषणाद् विनैवार्थसामर्थ्यकारितम् एव भाष्यकारेण कथितम्. किम् इदम् अर्थसामर्थ्यकारितम् इति. एतद् उक्तं भवति -- यद् धर्मानुवादेन प्रमाणविधानाद्[603]एवानर्थानां हिंसादीनाम् अधर्मत्वेन वर्जनं भवति, प्रमाणानुवादेन च धर्मविधौ तेषाम् अपि धर्मतापद्येत. तद् इहानर्थो धर्म उक्तो मा भूद् इत्येवमर्थम् अर्थग्रहणम् इति वदता वचनव्यक्तिविशेषपरिग्रहार्थो ऽर्थशब्द इति दर्शितम्. आक्षिप्तभाष्यसमाधाने ऽप्य् अयम् एव ग्रन्थो व्याख्येयः. नेदम् अथवेति शब्दसामर्थ्यकारितं भाष्यकारीयम् उत्तरम्. तथा हि वाक्यभेदो भवति. इह तु विनैव विशेषणाद् अर्थसामर्थ्यकारितम् एवेदम् उच्यते. तच् च वचनव्यक्तिविशेषाश्रयणेन दर्शितम्. न चार्थाद् आपद्यमानो वाक्यभेदम् आपादयति. अशब्दप्रमाणकत्वाद्, वाक्यभेदस्य च शब्ददोषत्वात्. अतो ऽथवेत्यादिना धर्मोद्देशेन प्रमाणविधानम् अत्र भाष्यकृता दर्शितम्. तत्र चार्थशब्दस्यानुवादत्वाद्[604]वाक्यभेदः सुपरिहर एव. यद् एतद् अनर्थानां हिंसादीनां वर्जनम्, इदं धर्मानुवादेन प्रमाणविधानवचनव्यक्तेर् एवार्थसामर्थ्यकारितं फलं भाष्यकारेण कथ्यत इत्य् अर्थ इति

मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc