भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसश्लोकवार्त्तिक (टीका सहित) · अध्याय 5.8

5.8.1

इति अर्थापत्तिवार्त्तिकम् ।
विषया मन्त्रस्य विनियोजिका श्रुतिरुकल्प्यते ।
यथा बर्हिर्मन्त्रे ऽनेन लुनीयादिति सो ऽयं लैङ्गिको विनियोगऽ ।
वाक्येन तु यथा --- तस्मिन्नेव मन्त्रे दामीत्येतत् पदं लवने शक्तमिति तदेव लिङ्गे विनियुज्यते, पदान्तराणि तु तत्समभिव्याहारात्मना वाक्येनैव ।
प्रकरणविनोयगस्तु कदर्शपूर्णमासप्रकरणान्मातानां समिदादीनाम्, ते हि प्रयोजनाकाङ्क्षाऽ, क्रतुश्चोपकारसाकाङ्क्षऽ, तदेवमुभयाकाङ्क्षायामेभिऽ क्रतुमुपकुर्यादिति श्रुतिऽ कल्प्यत इति ।
स्थानविनोयोगस्तु यथा--- दर्शपूर्णमासयोरेवोपांशुयाजक्रमाधीतस्य दब्धिर्नामासीति मन्त्रस्य ।
तस्य चानेनोपांशायाजमुपकुर्यादिति श्रुतऽ, अध्वर्युरेतान् कुर्यादिति ।
अश्रुतफलेतिकर्तव्यताकेषु च कर्मसु विश्वजित्सौर्यादिषु पूरणसमर्था श्रुतिऽ कल्प्यते ऽविश्वजिता यजेत स्वर्गकामऽइति, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चमसकाम इति, आग्नेयवदितिकर्तव्येतेति ।
भूयानेवञ्जातीयकऽ श्रुतार्थापत्तेर्वेदोपयोगऽ ।
न चायमनुमानादेव सिध्यति ।
न ह्यत्रानुपपद्यमानस्य कल्पनीयेन सम्बन्धऽ केनचिद् दृष्टऽ ।
न चानपेक्षितसम्बन्धमनुमानं भवति, अतोर्ऽथापत्तरेवात्र शरणम् ।
सम्बन्धदृगिति ।
बुद्धावौपचारिको दृग्भाव इति ।
यदि नार्थापत्तिऽ प्रमाणमाश्रीयते सर्वमिदसमञ्जसं स्यादित्याह---तत्सर्वमिति ।
यदि तु लक्षणतो भिन्नापि पश्चादनुमानसामान्यादनुमानशब्देन वक्तुमिष्यते तदस्तु, सिद्धं नऽ प्रमाणान्तरमित्याह--- एवमिति॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
अर्थापत्तिपिरच्छेदऽ समाप्तऽ ।
अथाभावपरिच्छेदऽ ।
अत्र भाष्यम्--- ऽअभावे ऽपि प्रमाणभावो नास्तीत्यस्यार्थस्यासन्निकृष्टस्येऽति ।
किं पुनरनेन लक्ष्यते ।
न तावत् प्रमाणम् ।
नहि प्रमाणाभावेन प्रमाणं लक्ष्यत इति युक्तम् ।
पूर्वोक्तप्रमाणाभावो लक्षणमिति चेत् ।
एवं तर्हि सर्वेषां प्रमाणानां समानमिदम्, सर्वाण्यपि हि प्रमाणानीतरेतराभावरूपाणि शक्यन्ते प्रमाणाभाव इति वदितुम् ।
न च सर्वप्रमाणसाधारणं किञ्चिदेकं लक्षणमस्ति, यदभावेन षष्ठं लक्ष्यते ।
अपि च--- प्रमाणं नाम कस्यचित्प्रमेयस्य व्यवस्थापकं भवति ।
तदनेन किं व्यवस्थाप्यत इति न विद्मऽ ।
ननूक्तं नास्तीत्यस्यार्थस्यासन्निकृष्टस्येति ।
किमुक्तं भवति ।
प्रत्यक्षाद्यविषो नास्तीत्ययमर्थो ऽभावस्य प्रमेयमिति ।
तदयुक्तम् ।
नास्तीति नेदमिह प्रमीयत इत्यर्थऽ ।
न चाप्रमीयमाणस्य प्रमेयतेति शक्यते ऽवगन्तुम् ।
कस्य च प्रमाणस्य प्रमेयमिदम्, यदि प्रमाणाभावस्य ।
तन्न ।
प्रमाणाभावो हि प्रमितेरनुत्पत्तिऽ ।
सा च प्रमाणमित्यलौकिकमिव प्रतिभाति ।
यदि मतम्--- अस्ति तावन्नास्तीति बुद्धिऽ सर्वलौकिकपरीक्षकाणामविवादसिद्धा, न च बुद्धेरनालम्बनत्वं स्वांशालम्बनत्वं वेति विज्ञानवादे वर्णितमेव ।
अतो ऽस्या एव बुद्धेर्द्रढिम्नऽ प्रमेयमुपकल्प्यते ।
सो ऽभावस्य विषयऽ ।
तदिदं नास्तीति विज्ञानं प्रमाणं घटाद्यभावऽ प्रमेयमिति मन्यन्ते ।
अत एव प्रागभावादिभेदेन चतुर्धाभावं विभजन्ते ।
न ह्यवस्तुनो विभागऽ सम्भवति ।
यदि तु नाभावस्तत्त्वान्तरमिष्यते, कस्तर्हि क्षीरे दध्यभावऽ ।
यं प्रागभाव इत्युचक्षते ।
अतश्चैष दघ्नि क्षीराभावऽ, यऽ किमालम्बनमिति वक्तव्यम् ।
यदि भूतलमेव, तन्न ।
घटवत्यपि प्रसङ्गाकत् ।
केवलमेव भूतलमालम्बनमिति चेत् ।
कऽ तर्हि तत्त्वान्तरमिति सिद्धऽ प्रमेयभेदऽ, तद्भेदाच्च प्रमाणभेदऽ ।
न हि तत् रूपाणां भावेनैव सन्निकर्षऽ, नाभावेन ।
असत्यपि च तद्व्यापारे नास्तीति बुद्धेरुत्पत्तिर्दृष्टा,यथा स्वरूपमात्रदृष्टे गृहादौ देशान्तरगमने कस्यचिदभावं प्रत्यनुयुक्तेन तदैव तदभावो ऽवसीयते ।
तदेवमसत्यपीन्द्रियसन्निकर्षे जायमानं नास्तीति विज्ञानं नैन्द्रियकम् ।
न चास्य किञ्चिल्लिङ्गं
जनकमस्ति ।
अनुपलब्धिर्लिङ्गमिति चेत् ।
न ।
अविज्ञानात् ।
न ह्यविज्ञातरूपं लिङ्गं लिङ्गिनमनुमापयति ।
न चाज्ञातसम्बन्धम् ।
न च तथानुपलब्धिर्ज्ञाता सत्यभावं प्रकाशयति ।
तस्या अप्यभावरुपत्वेनापरसजातीयपेक्षायामनवस्थापातात् ।
अतऽ प्रमाणान्तरमेवेदं भावानामसङ्करसिध्यर्थस्थेयम् ।
अस्ति च मीमांसकानां प्रसिद्धिऽ--- षष्ठं किलेदं प्रमाणमिति ।
अतस्तल्लक्षमार्थो ऽयं ग्रन्थ इति ।
तदयुक्तम् ।
न ह्यनेन प्रमाणं(व?ल) ।
ग्रन्थतो हि प्रमाणाभाव एवावसीयते न प्रमाणम्, नास्तीत्यप्युक्ते प्रमेयाभावमेव लौकिकाऽ प्रतिबुध्यन्ते न प्रमेय किञ्चित् ।
अतो न तावत् ग्रन्थानुगुणं प्रमाणान्तरम्, न च युक्त्या सङ्गच्छते,सिद्धस्य हि ज्ञानस्य प्रमाणमप्रमाणं वेति विचारणा युक्ता ।
न च भूतलोपलभ्भादन्यन्नास्तीति विज्ञानमस्ति ।
तदेव हि द्वेधा प्रकाशते ।
अनयसहितमसहितं च तत् ।
यदा घटादिसहितं तदुपलभ्यते तदा घटो ऽस्तीति व्यवहारऽ प्रवर्तते ।
तन्मात्रबोधे तु नास्तीति ।
न च वाच्यं सत्स्वपि सूक्ष्मेषु भावेषु तन्मात्रबोधो दृष्टऽ ।
अतस्तत्रापि नास्तीति प्रकाशत इति ।
तदेव हि द्वेधा प्रकाशते ।
द्वेधा हि तन्मात्रबोधऽ, दृश्ये प्रतियोगिन्यदृश्ये वा ।
तत्र या दृश्ये प्रतियोगिनि तन्मात्रबुद्धिऽ सैव घटादेर्नास्तित्वम् ।
येषामप्यभावऽ प्रमेयस्तेषामपि दृश्यादर्शनादेव नास्तीत्यभावो निश्चीयते ।
अतो येयं सर्ववादिसिद्धा तन्मात्रबुद्धिऽ सैव नास्तीति व्यपदिश्यते ।
यच्चाभावस्य कारणमिष्यते तत्तन्मात्रबुद्धेरवोभयवादिसिद्धायाऽ कारणमाश्रीयताम् ।
अतो यत्रैव प्राक् संसृष्टबुद्धरासीत् तत्रैव विलक्षणकारणोपनिपाते तन्मात्रबुद्धिरेव जायते न पुनर्घटाद्यभावऽ ।
(अवस्यं) चैतदेवाभ्युपगन्तव्यम् ।
अन्यथा हि नाभावो गृहीतुं शक्यते, प्रमाणाभावो हि तत्र प्रमाणम्, न चागृहीतेनं स प्रतिपादयितुं शक्यते ।
अस्ति हि सुषुप्तस्यापि प्रमाणा....(तऽ?भावऽ) ।
न च नास्तीति निश्चयऽ ।
अतो नागृहीतमदर्शनमभावं निश्चाययति, तदग्रहीतिरपि चाभावरूपत्वादपरेणादर्शनेनेत्येवमनवस्थापातऽ ।
यदि च सन्मात्रमेवादर्शनं निश्चाययति, ततो निवृत्ते ऽप्यदर्शने प्राक् देवदत्तो
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
नासीदिति प्रितपत्तिर्न स्यात् ।
भवति हि कदाचिदेतत् ।
यो यत्र न दृष्टस्तस्मिन् पुनदृश्यमान एवासत्यप्यदर्शने प्रचीनाभावज्ञानं तदसत्यदर्शने न स्यात् ।
अतऽ प्रचीनादर्शनविमर्शजमेव तज्ज्ञानमिति वाच्यम् ।
एवं च गृह्यमाणमेव तदभावं प्रकाशयति ।
ग्रहणे चानवस्थाप्रसङ्गऽ ।
तन्मात्रसंविदेव त्वदर्शनमित्याश्रीयमाणे न किञ्चिद् दुष्यति ।
स्वप्रकाशा हि सा फलभूता न प्रकाशान्तरमपेक्षते ।
अतस्तन्मात्रानुभव एव तदभावुत्वेनापदिश्यते ।
अतो न प्रमेयान्तरमभावऽ ।
न च नास्तीति ज्ञानं प्रमाणम्, भ्रमवदिति न विद्मऽ किमत्र लक्ष्यते इति ।

अत्राह--- किमत्र न ज्ञायते,यथोक्तं भवता ग्रन्थतस्तावत् प्रमाणाभाव एवावसीयते, केचित्किलाभावं नाम प्रमाणमातिष्ठन्ते, तन्निराकरणार्थ एवायं भाष्यकारस्य प्रयत्नऽ ।
कथमनेन निराक्रियते ।
श्रूयताम् ।
यदेके वदन्ति--- नास्तीत्यस्यार्थस्य असन्निकृष्टस्येति, प्रत्यक्षाद्यविषयस्याभावऽ प्रमाणमिति, तन्न, प्रमाणाभावो ह्यसौ--- प्रमाणं न भवतीत्यर्थऽ ।
अप्रमाणत्वे चोक्तो हेतुऽ ।
एतदपि नोपपद्यते ।
यदि ग्रन्थानुगुण्येनायमर्थो व्याख्यास्यते ततो विस्पष्टऽ प्रदेशान्तरे भाष्यविरोधऽ, एवं हि प्रमाणगता संख्या व्यवहारं भिनत्तीति प्रतिज्ञामात्रेण प्रतिपक्षनिराकरणं भवतीति साम्प्रतम् ।
तस्माद् व्याख्येयमेतत् ।
अत्राह---प्रमाणेति ।
अयमर्थऽ ।
प्रमाणलक्षणमेवेदम् ।
यत्तूक्तं तदभावेन कथं तल्लक्ष्यते इति ।
सत्यम् ।
न प्रमाणमात्रविवक्षया प्रमाणशब्दऽ अपि तु किमुक्तं भवति, पूर्वोक्तप्रमाणपञ्चकाभाव इति ।
अस्ति च पञ्चानां भावोपधानमेकम्, सर्वाणि हि भावप्रमाणानि, अतो भावप्रमाणा
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता

5.8.2

भावो ऽभावप्रमाणमिति ।
स चोपरिष्ठाद् द्वेधा व्याकरिष्यते--- आत्मनो ऽपरिणामो वा नास्तीति वा भावज्ञानमिति ।
अस्ति वा भूतलमात्रोपलम्भादन्यन्नास्तीति विज्ञानम् ।
बाढम् ।
को ऽस्य विषयऽ ।
चतुर्धा व्यूढऽ प्रमेयाभावऽ ।
असति हि तस्मिन् पादविहारादिव्यवहारऽ कण्टकाद्यभावावधारण पुरऽ सरऽ सो ऽप्यभावस्यासति प्रमेयत्वे न स्यात् ।
यदि भूतलमात्रमत्रोपलभ्यते न कण्टकादिविवेकऽ, सत्स्वपि तेषूपलभ्यत इति नास्तीति धिया गृह्येत ।
बुध्यपलास्तु संविद्विरुद्ध एव ।
न हि भावाभावयोऽ प्रकाशो विशिष्यते ।
यत्तूक्तं तन्मात्रधीरेव घटो नास्तीति व्यपदिश्यत इति ।
तत्र न विद्मऽ किं मात्रशब्देन व्यवच्छिद्यत इति ।
यदि न किञ्चिद् व्यावर्तयति, अनर्थकस्तर्हि ।
अथ व्यावर्तयति ।
अस्ति तर्हि व्यावृत्तिर्विषयऽ, इतरथा सदात्व एव व्यावर्तयतीति व्यवहारो भवेत् ।
अयमेव संसृष्टधियस्तन्मात्रधियो विशेषऽ ।
यदसौ विविक्तविषया ।
विषयान्तरविवेकश्चाभावऽ ।
बुद्धिरेव विषयऽ न ततो ऽन्य इति चेत् ।
सा तर्हि संसर्गोपलम्भे ऽप्यस्तीति नास्तीति प्रकाशेत ।
अपि च यद्यत्र प्रतिषिध्यते
तत्तत्र नास्तीत्युच्यते ।
न चेह घटो नास्तीति बुद्धिऽ प्रतिषिध्यते तत्तत्र नास्तीत्युच्यते ।
न चेह घटो नास्तीति बुद्धिऽ प्रतिषिध्यते,
बुद्धिगोचरे हि नास्तीति शपब्दे बुद्धेरेवाभावऽ स्यात् ।
अथोच्यते घटो नासतीत्ययमर्थऽ--- भूतलमात्रमुपलभ्यत इति ।
न तावदेवं लौकिका बुध्यन्ते ।
अपि चैवं सूक्ष्मस्य वस्तुनऽ सदसद्भावौ प्रति जिज्ञासा न स्यात्, यद्यभावो नाम न कश्चिदस्ति, तर्हि वस्तुन्युपलब्धे को ऽयमपरऽ संशयऽ सूक्ष्मेषु केशकाटादिषु, तन्मात्रोपलम्भो हि भावान्तराणामभावऽ, स च ज्ञात एवासंशयितव्यश्च, संविदऽ स्वप्रकाशत्वात् किमपरमन्विष्यते ।
दृश्ये प्रतियोगिनि तन्मात्रबोधो ऽभावो नादृश्य इति चेत्, किं पु(न)रदृश्यतया, यदा बुद्धेरभावो नातिरिच्यते ।
यदि तत्त्वान्तरमभावो भवेत्, तदा तदवधारणे दृश्यादर्शनमुपयुज्यते ।
आत्मेन्द्रियमनोर्ऽथसन्निकर्षो हि ज्ञानजननकारणम्, तद् यदा सत्स्वप्यविगुणेष्विन्द्रियादिषु जिज्ञासितो ऽप्यर्थऽ प्रयत्नेनान्विष्टो न दृश्यते तदा तदभावाददर्शनमिति कल्प्यते ।
तदेवं दृश्यत्वसिद्ध्यर्था युक्ता सूक्षजिज्ञासा ।
तन्मात्रोपलम्भे त्वभावे ऽदृष्टार्थमेव दृश्यविशेषणमापद्येत ।
यच्चोक्तम्--- यदभावस्य कारणं तत्तन्मात्रधिम एव कल्पनालाघवादस्त्विति ।
तदयुक्तम् ।
न हि कल्पनालाघवं भवतीति प्रमाणावगतमुपेक्षितुं शक्यम् ।
न च यदभावस्य कारणं तत्तन्मात्रधिय इति युक्तम् ।
मुद्गरप्रहारादिर्ह्यभावस्य कारणम् ।
न च तेन तन्मात्रबोधो जन्यते ।
भूतलादिवस्तुरूपप्रकाशो हीन्द्रियादिकारणकऽ, नासौ घटादेरुत्सारणं प्रहरमं वापेक्षते ।
यत्तु नानिरूपतिमदर्शनमभावं निश्चाययति, सुषुप्ते प्रसङ्गादिति ।
तदयुक्तम् ।
न ह्यगृहीते वस्तुनि निराश्रयो ऽभावऽ प्रकाशते, क्वचिद्धि कस्यचिदभावऽ प्रतिभाति न स्वतन्त्रऽ ।
अत एवाह---
वस्तुरूपे न जायत इति ।
न च सुषुप्तस्य किञ्चित् प्रकाशते ।
क्व चाभावऽ परिच्छिन्द्यात् ।
अपि च योग्यप्रमाणानुत्पत्तिरभावं निश्चाययति, न च सुषुप्तस्य प्रमाणयोग्योर्ऽथऽ, यो न प्रकाशत इति कथमभावनिश्चयो जायते, अतो नादर्शनमगृहीतमिति सुषुप्तस्याभावो न प्राकशते, किन्तु योग्यादर्शनमेतन्न भवतीति ।
यच्चापि निवृत्ते ऽप्यदर्शने प्राङ्नास्तित्वं व्यपदिश्यते सम्प्रति दृश्यमानस्यापीति ।
तन्न ।
तत्र हि समानोपलम्भयोग्येषु बहुषु स्मर्यमाणेषु यदेको न स्मर्यते, तेन स्मृतिनिवृत्त्या फलतऽ प्रत्यक्षनिवृत्त्या तदबावऽ प्रतीयते स्मृत्येव भावान्तराणाम् ।
तदानीन्तनो ऽभावऽ स्मृतिनिवृत्तिश्च तदानीमस्त्येव ।
न चावगम्यते ।
वसत्वभावमेव तु प्राचीनमवगमयतीति नानवस्था ।
अतो नास्तीति ज्ञानं प्रमाणम्, अभावश्च प्रागभावादिभेदभिन्नऽ प्रमेयमिति साम्प्रतम् ।
तदयमर्थो भवति ।
यत्र पञ्च प्रमाणानि सम्भवत्प्रतिपत्तीनि यथायथं पटादेर्वस्तुनऽ सत्तां बोधयितुं न जायन्ते, तस्मिन् विषये ऽभावस्य प्रमाणता सम्भवति, तदनेन प्रमाणशब्दो ऽधिकारात् प्रमाणपञ्चके प्रयुक्त इति दर्शितम् ।
वस्तुरूपे न जायत इति च स्वतन्त्राभावमात्रज्ञानं न प्रमाणमिति दर्शयति ।
लौकिकप्रमाणलक्षणकथनाच्च यत्रैव प्रमाणानां शक्तिसम्भवस्तत्रैव तेषामनुत्पादऽ प्रमाणमभावो ऽभावावधारणे ।
तादृशेनैव हि लौकिका नास्तीति बुध्यन्त इति ।
भाष्यस्याप्ययमर्थऽ--अभावो ऽपि न लौकिका नास्तीति बुध्यन्त इति ।
अव्यभिचारात् ।
प्रमाणाभावो ह्यसन्निकृष्टेर्ऽथे ऽभावाख्ये नास्तीत्यनेन रूपेण प्रकाशमाने यां बुद्धिमुत्पादयति साभावप्रमा(णऽ?) ।
वस्त्त्वसङ्करसिद्धिश्च तत्प्रामाम्यसमाश्रया ।
क्षीरे दध्यादि यन्नास्ति प्रागभावऽ स उच्यते

5.8.3

नास्तिता पयसो दध्नि प्रध्वंसाबाव इष्यते ।
गवि यो ऽश्वाद्यभावस्तु सो ऽन्योन्याभाव उच्यते

5.8.4

शिरसो ऽवयवा निन्मा वृद्धिकाठिन्यवर्जिताऽ ।
शशशृङ्गादिरूपेण सो ऽत्यन्ताभाव उच्यते

5.8.5

क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटऽ ।
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तरात्मनि

5.8.6

न चैवञ्जातीयकस्य व्यभिचारऽ सम्भवतीति ।
व्यवहितमपि चाकाङ्क्षावशात् यां बुद्धिमुत्पादयतीति सम्बन्धनीयम् ।
ऽयेन यस्याभिसम्बन्धो दूरस्थेनापि तेन तत्ऽ ।
इति न्यायात् ॥1॥
यत्र वस्तुसद्भावबोधार्थं योग्यप्रमाणानुदयस्तत्राभावऽ प्रमाणमित्युक्तम्,किं पुनस्तत्रानेन प्रमीयते, अभावस्तावत् स्वप्रमाणैरेव यथास्वमवगम्यते, अत आह---वस्त्वशङ्करैति ॥1 1।2॥
वस्त्वसङ्करमेव विवृणोति--- क्षीरे दधीति सार्धद्वयेन ।
यो ऽयं कार्यकारणादिना परस्परविवेकश्चतुर्धा दर्शितऽ स वस्त्वङ्कर इत्याख्यायते ।
सो ऽभावेन प्रमीयते ।
शशशृङ्गादिरूपेणेति ।
तेन रूपेणालोच्यमानाऽ शशमूर्ध्न्यवयवा अभावऽ,
स्वरूपेण तु भावा एवेति ॥2-4॥
असति त्वभावप्रामाण्ये सर्वऽ सर्वेण सङ्कीर्यत इत्याह--- क्षीर इति द्वयेन ।
एवमिति ।
यथा क्षीरे दधि एवं दध्नि क्षीरमित्यर्थऽ ।
शशे शृङ्गमित्यतऽ प्रभ्तयत्यन्ताभावासिद्धौ दोषप्रसञ्जनम् ।
अभावप्रमाणानाश्रयमे हि (?) न शशादिषु शृङ्गादीनामात्यन्तिको ऽभावऽ सिध्यति ।
परिपन्थिनश्च भूतचैतन्यवादिनो न निराकर्तुं शक्यन्ते ।
महाभूतानां च वाय्वादीना
अप्सु गन्धो रसश्चग्नौ वायौ रूपेण तौ सह ।
व्योम्नि संस्पर्शिता ते च न देचस्य प्रमाणता

5.8.7

न च स्याद व्यवहारो ऽयं कारणादिविभागतऽ ।
प्रागभावादिभेदेन नाभावो विद्यते यदि

5.8.8

न टचावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ।
कार्यादीनामभावऽ को यो भावऽ कारणादिना

5.8.9

मात्यन्तिको गन्धाद्यभावो न सिध्येत् ।
यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिरिति ॥5,6॥
सर्वत्र सङ्करे दोषमाह---न चेति ।
यो ऽयं कारणादिविभागेन लौकिकानां व्यवहारो दृश्यते, सर्वसङ्करे न स्यात्, क्षीरमानयेति नियुक्तो यत् क्षीरमेवानयति न दधि, दध्यानयने क्षीरम्, इदमसति कार्यकारणादीनामतिरेतरविवेके न सिध्यतीति ॥7॥
ननु नाभावो नाम तत्त्वान्तरमुपलभ्यते, भूतलं हि स्वप्रमाणादवगच्छामऽ, घटं चासति प्रमाणे न पश्यामऽ, न तु घटाभावो नामापरऽ कश्चित् बुद्धौ भवति ।
घटो नास्तीत्यपि घटो न प्रमीयत इत्यर्थऽ, न तु घटाबावऽ प्रमीयत इति ।
अतऽ सर्वोपाख्याविरहलक्षण एवाभावो न किञ्चित् तत्त्वान्तरमत आह---न चेति ।
यत्तावत् भावप्रमाणैर्नोपलभ्यत इति ।
सत्यम् ।
अत एवाभावऽ प्रमाणान्तरम् ।
घटो नास्तीत्यपि नायमर्थऽ घटो न प्रमीयते इति, सन्नपि हि घटो न प्रमीयत इत्युच्यते ।
अत एव घटो ऽस्ति न वेति पृष्टो ऽनिर्णीताबावो नास्तीति व्यपदिशति, किन्तु अनुपलब्धिमात्रम् ।
अतो ऽभावप्रमितिरेवायं घटो नास्तीति ।
यश्चायं चतुर्धा भेदो वर्णितऽ सो ऽपि सर्वोपाख्याविरहलक्षणे ऽभावे न सिध्यति ।
प्रयोगश्च भवति--- वस्तु अभाविऽ(?), चतुर्धा भेदाद्, द्रव्यादिवदिति ।
यदप्याहुऽ--- नाभावो नाम किञ्चित् तत्त्वम्, प्रत्यर्थनियतेन ह्यात्मना नीलादयऽ परस्परं भिद्यन्ते, नैवमभावस्य भावात् किञ्चिद् भेदकम् ।
अतो न व्यावृत्तमुपलभामह इति कथं तत्त्वान्तरमवस्थापमयामऽ ।
तद्व्यवहारस्तु नास्तीति विकल्पशब्दप्रयोगात्मा भावाश्र एव कथञ्चिदुपपादनीयऽ, न त्वेकाकारप्रतिनियतादन्यासंसर्गिणो(र?)भावादन्यो ऽभाव इति ।
तदप्येकदेशिनिराकरणेनैव निराकृतम् ।
अपि च, अविषयो नास्तीति विकल्पऽ कथं संवेद्यत इति वक्तव्यम् ।
शब्दसंस्पृष्टं हि रूपं विकल्पस्य विषयऽ, न चेह तदस्ति ।
न चात्मा विकल्पस्याभिलापसंसर्गयोग्यऽ, असाधारणत्वात् ।
अत एवात्मनि निर्वकल्पत्वात् कल्पना स्वसंवित्ति प्रत्यक्षामाह ।
यदाह ऽनैनमियमाभिलापेन संसृजति ।
तथा वृत्तेरात्मनि विरोधात्ऽ इति ।
यदि मतं--- जात्यादिवदभावविकल्पा अपि समारोपितविषया एव, नानेनाभावविकल्पो दुष्यतीति ।
तन्न ।
समारोपितं हि यत्किञ्चिज्जातयीकं तत्प्रतिविकल्पमन्यदन्यच्च, कथमेकशब्दालम्बनं भवेत् ।
कल्पिताकारभेदानामेकऽ कश्चिदस्ति प्रतिसन्धाता, यऽ पूर्वापरयोरारोपितैकत्वाध्यवसायादेकशब्दं प्रयुञ्जीत ।
विकल्पास्तुक्षणिकाऽ स्वविषये नियता नान्योन्यस्य विषयमभिनिविशन्त इति कथं प्रतिसान्दधीरन् ।
असति च विपर्यये समारोपितविषयत्वाभिधानमलीकमेव ।
तदवश्यं नास्तीत्येकशब्दोपश्लिष्टमुपेतयाश्रयणीयं भाववदभावाख्यमपि किञ्चिदस्थितं रूपम् ।
अत एव किं पुनस्तत्त्वमित्यपेक्षिते सतस्तु सद्भावो ऽसतसत्वसद्भाव इति द्वेधैव तत्त्वविद्भिस्तत्त्वमाश्रितम् ।
अपि च--- असत्यभावे कस्य हेतोराहतस्य घटस्यानुपलम्भऽ, विनष्टत्वादिति चेत् ।
को विनाशऽ ।
यदि न किञ्चित्, प्राग्वदुपलम्भप्रसङ्ग ।
न ह्यप्रच्युतप्राच्यार्थक्रियारूपस्यानुपलम्भे घटस्य किञ्चित्कारणमधुना पश्यामो यद्यस्य विनाशो नाम किमपि तत्त्वान्तरं नाश्रीयत इति सिद्धं तत्त्वान्तरमिति ।
एतच्चानुपाख्येयत्वमभावस्य निराकर्तुमुक्तम्--- न त्वबावो वस्तु, लोकविरोधात् ।
यथाह्यचन्द्रऽ शशीति लोकविरुद्धम्, एवमभावो वस्त्विति ।
सत्ता हि वस्तुत्वम्, न चासावभावे वस्तुत्ववादऽ न मुख्यतया ।
अभावो ह्यर्थक्रियासमर्थ एव, ज्ञानजनन दर्शनात् ।
विहिताकरणे च प्रागभावस्यैव क्रियान्तरविशेषणतया प्रत्यवायहेतुत्वात् ।
एवमुत्तरत्रापि वस्तुताप्रसाधनं वेदितव्यमिति ।
इतश्चभावो
यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् ।
तस्माद् गवादिवद् वस्तु प्रमेयत्वाच्च गम्यते

5.8.10

न चौपचारिकत्वं वा भ्रान्तिर्वापि यदृच्छया ।
भवत्यतो न सामान्यविशेषात्मकता मृषा

5.8.11

वस्त्वित्याहो---- कायादीनमिति ।
वस्त्वेव सदसदात्मकमिति सिद्धान्तऽ ।
तत्र कथं वस्तुरूपस्यैवाभावस्य निऽ स्वभावत्वम् ।
किमिदानीं भावाभावयोरभेद एव, नेति वदामऽ, भेदो ऽपि ह्यनयोर्धर्मधर्मितया कियानप्यस्त्येव रूपादीनामिव ।
कऽ पुनरनयोऽ सम्बन्धऽ, संयोगऽ समवायो वा, न तावत्संयोगऽ, द्रव्यधर्मत्वात् तस्य ।
न च समवायऽ, भावाभावप्रसङ्गात् ।
अभावसमवाये हि भावो न स्यादेव ।
नाभावसमवायादसत्त्वम्, न हि घटो ऽभावसमवायादसन् भवति ।
असति समवायानुपपत्तेऽ ।
किन्तु प्रहारादेव घटस्याभावऽ ।
यत्त्वनाहतमनपसारं च भावान्तरमभावरूपेणावगम्यते तत् कथमसद् भविष्यति ।
अतऽ स्वहेतोरेव जायमानो नित्यो वा सर्वो ऽसङ्कीर्णस्वभाव एव जायत इति सिद्धमस्य जात्यादिवद् भावधर्मत्वम् ।
ततश्च वस्तुत्वमिति ॥8॥
इतश्च वस्तु अभाव इत्याह---यद्वेतिवस्त्वन्तेन ।
अभाव इति सामान्यात्मना प्रागभावादिबेदेन च व्यावृत्त्यात्मना गृह्यमाणो ऽभावऽ सामान्यविशेषात्मकऽ, ततश्च वस्तुविषयप्रयोगार्थऽ--- अभावो व्सतु, सामान्यविशेषात्मकत्वात् गवादिवदिति ।
तस्मिन्नेव साध्ये हेत्वन्तरमाह--- प्रमेयत्वादिति ॥9॥
नन्वयमसिद्धो हेतुऽ,औपचारिको हि सामान्यविशेषभावो ऽभावे ।
एकशब्दवाच्यं सामान्यरूपं दृष्टं गवादि, नानाशब्दवाच्यं च विशेषरूपं शाबलेयादि ।
अतो ऽत्राप्यौपचारिकऽ सामान्यविशेषभावो विवेकज्ञस्य ।
असति तु विवेके एकशब्दनिबन्धनभ्रम एवायम्--- अभावऽ सामान्यविशेवात्मेति ।
अत आह--- न चेति ।
सति हि बाधके भ्रान्तिरुपचारो वा कल्प्यते, न चेह तथेति भाव इति ॥10॥
प्रत्यक्षादेरनुत्पत्तिऽ प्रमाणाभाव उच्यते ।
सात्मनो ऽपरिणमो वा विज्ञानं वान्यवस्तुनि

5.8.12

स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते कैश्चिद्रूपं किञ्चित् कदाचन

5.8.13

यस्य यत्र यदोदभूतिर्जिधृक्षा वोपाजायते ।
चेत्यते ऽनुभवस्तस्य तेन च व्यपदिश्यते

5.8.14

एवं तावत् ऽवास्तीत्यस्यार्थस्यासन्निकृष्टस्यऽ इति यदुतक्तं भाष्ये तद् विवृतम् ।
इदानीं प्रमाणाबावशब्दं व्याचष्टे---प्रत्यक्षादेरनुत्पत्तिरिति ।
अनुत्पत्तिरेव केति चेदत आह--- सात्मन इति ।
आत्मनो हि ज्ञानात्मकऽ परिणामऽ ।
तद् यदा आत्मा भूतलादौ न घटादिज्ञानात्मना पिरणमति सा तस्य प्रत्यक्षाद्यनुत्पत्तिऽ स्वरूपावस्थानं प्रमाणाभाव इत्याख्यायते, तत्प्रामाण्ये च नास्तीति ज्ञानं फलम् ।
नास्तीत्येव वा भावज्ञानं प्रत्यक्षाद्यनुत्पत्तिरित्युच्यते, अतस्तदेव प्रमाणम्, (ना?हा) नादिबुद्धिऽ फलमिति विवेकऽ ॥11॥
ननु यदि द्व्यात्मकं वस्तु, तर्हि सकृदेव तथा प्रतिभातगिति किं प्रमाणान्तरेणात आह--- स्वरूपेति ।
स्वरूपेण तद्वस्तु गवादि सद्रूपमश्वादिरूपेण चासद्रूपम् ।
तदस्मिन्नेव द्विरूपे किञ्चिदेव कदाचित् प्रतीयते न तु सर्वात्मकमेव गृहीतव्यमिति नियम इति ॥12॥
किं पुनऽ कारणं द्व्यात्मकस्यैकमेव रूपं गृह्यते नापरं किञ्चिदत आह---यस्य यत्रेति ।
उद्भूतं हि गृह्यते नानुदभूतम्, अग्नेरिव रात्रौ रूपं न स्पर्शऽ, जिधृक्षितं वा प्रायेण ।
अतो यदेव सदसतोरुद्भूतं भवति तेनैव बुद्धिव्यपदेशौ भवतऽ ।
चेत्यते ऽनुभव इति किमिदम्, न ह्यनुभवश्चेत्यते, स एव चेतना, विषयस्तु चेत्यते ।
सत्यम् ।
विषयप्राप्त्यन्यथानुपपत्त्यानुभवो ऽपि चेत्यत एव ।
तदनेन प्रकारेण विषयप्रकाशमेव दर्शयतीत्यदोष इति ॥13॥
तस्योपकारकत्वेन वर्ततेंऽशस्तदेतरऽ ।
उभयोरपि संवित्तावुभयानुगमो ऽस्ति हि

5.8.15

अयमेवेति यो ह्येष भावे भवति निर्णयऽ ।
नैष वस्त्वन्तरंराभावसंवित्त्यनुगमादृते

5.8.16

नास्तीत्यपि च संवित्तिर्न वस्त्वनुगमादृते ।
ज्ञानं न जायते किञ्चिदुपष्टम्भनवर्जितम्

5.8.17

प्रत्यक्षाद्यवतारस्तु भावांशो गृह्यते यदा ।
व्यापारस्तदनुत्पत्तिरभावांशे जिघृक्षिते

5.8.18

न तावदिन्द्रियैरेषा नास्तीत्युत्पद्यते मतिऽ ।
भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि

5.8.19

उद्भूतजिघृक्षितैकग्रहणे चेतरस्तनुगुणतयैव लीनो भूत्वावतिष्ठते ।
सामान्यविशेषयोरिवैकग्रहणे ऽन्यतर इत्याह---तस्येति ।
इदं चान्वारुह्यवचनेनास्माभिरुक्तम् ।
अस्त्येव तु भावाभावप्रतीतावन्यतरानुगम इत्याह---उभयोरिति ॥14॥
उभायनुगममेव दर्शयति---अयमेवेति द्वयेन ।
अयमेवेति ।
भावान्तरेणासङ्कीर्ण इत्यर्थऽ ।
न ह्यप्रतिसंहिते भावान्तराबावे सङ्कीर्णस्वभावो न निश्चेतुं शक्यते ।
नास्तीत्यपि प्रतिषेध्यप्रतिषेधारभावोपष्ठम्भनवर्जितं न किञ्चित् ज्ञानं जायते ।
किञ्चिच्छब्देन भावस्याभावानुगमशून्यमपि ज्ञानमस्त्येव, न त्वेवभावस्येति दर्शयति ॥15,16॥
दर्शितं तावत् सदसदात्मकं वस्त्विति ।
कदाचित् किञ्चिदनुभूयत इति च ।
उभयोरंशयोरिदानीं प्रमाणविभागं दर्शयति---प्रत्यक्षादीति ॥17॥
कथं पुनरिदमवगम्यते, विस्फारिताक्षस्य हि सहसा नेह घटो ऽस्ति, अघटं वा भूतलमित्यभावविशिष्टं भूतलज्ञानं जायमानमुपलभ्यते?दण्डिप्रत्यक्षवत्, तदभावस्याप्रत्यक्षत्वे नावकल्पते ।
न ह्यप्रत्यक्ष एव विशेषणे विशिष्टऽ प्रत्यक्षो भवति, दण्ड इव दण्डी ।
न च नास्त्येव विशिष्टा धीरिति वक्तव्यम्, अनाश्रयाभावसंवित्त्यभावात् ।
अपि चात्मा भावस्याभावऽ, स कथं स्वतन्त्रो ऽनुभूयते ।
न हि रूपादयो भावधर्माऽ स्वतन्त्रा एवावसीयन्ते ।
स्वतन्त्राभाववादस्तु स्वातन्त्र्यमेव, सदसदात्मके वस्तुनीति हि दर्शयति ।
भावांशो ऽभावांश इति च विस्पष्टं तदभावविशिष्टं ग्रहणमित्याह ।
किञ्चास्य स्वातन्त्र्ये प्रमाणम्, न ह्यं कदाचिदपि तथावसीयते ।
किमिदानीमभावो नावसीयत एव, स्वतन्त्रो वावसीयते ।
न तावत् पूर्वऽ कल्पऽ,तदवगमे प्रमाणान्तराभावात् नित्यासंवित्तिसङ्गात् ।
न च संयोगप्रतिषेधे स्वतन्त्राभावावसायो ऽस्ति, प्रतियोगिसंयोग्परतिषेधात्मै व ह्यभावऽ, स चाधारतन्त्र एवेति संयुक्तविशेषणत्वलक्षणया प्रत्यासत्त्या सतीन्द्रियसन्निकर्षे ऐन्द्रियज्ञानगोचर एव ।
एकं हीदं विशिष्टं ज्ञानम् ।
तदस्याभावऽ प्रमाणमिन्द्रियं वा, यद्यभावऽ स तर्हि भावमपि गोचरयेत् ।
न चैतदिष्टम् ।
अतऽ सत्युपलभ्यमाने तदैव यन्नोपलभ्यते तन्नास्तीति सत एव प्रकाशकमसतो ऽपीति न प्रमाणविभागं पश्यामऽ ।
अत आह--- न तावदिति ।
तावच्छदोलिङ्गापेक्षया ।
तच्चोपरिष्ठान्निराकरिष्यत इति ।
अत्र कारणमाह--- भावांशेति ।
योग्यता हि कार्यदर्शनसमधिगम्या, सा चेन्द्रियाणां भावात्मकग्रहण एवोपलभ्यते नाभावे ऽपि ।
विनापि तु तेन तद्ग्रहणादिति वक्ष्यामऽ ।
अत्र तु योग्यतासहिता प्राप्तिरिन्द्रियार्थयोऽ सम्बन्ध इत्यभिप्रायऽ ।
यत्त्वेकज्ञानसंसर्गिणोरेकप्रमाणत्वमिति ।
तन्न ।
एकस्या अपि बुद्धेर्नानाकारणत्वदर्शनात् ।
एकं हीदं भावनेन्द्रियसमाहारजं प्रत्यभिज्ञानमिति वक्ष्यामऽ ।
एकज्ञानप्रतिभासिनोरपि च गृह्यमाणस्मर्यमाणयोर्विवेक उक्तऽ ।
विविक्ता एव ते ह्यर्था इति ।
न हि स्मृत्युपस्थापितनामविशिष्टो डित्थो न प्रत्यक्षो भवति ।
नाम चाप्रत्यक्षं स्मर्यमाणत्वात्, तस्यागृहीते हि विशेषणे विशिष्टो नावगम्यते नाप्रत्यक्षे ।
एवमिहापि प्रमाणाभावोपनीताभावविशिष्टे सत्युपलभ्यमाने न किञ्चिदनुपपन्नम् ।
दण्डिन्यपि शाब्दे तावद् दण्डपदोपनीतविशेषणविशिष्ट एव प्रत्ययार्थो न दण्डो ऽपि ।
प्रत्यक्षं तु योग्यतयोभयत्र प्रवर्ततां नाम, न चैवमुभयत्राक्षाणां योग्यता ।
अभावज्ञाने तदनपेक्षाया
ननु भावादभिन्नत्वात्सम्प्रयोगो ऽस्ति तेन च ।
न ह्यत्यन्तमभेदो ऽस्ति रूपादिवदिहापि नऽ

5.8.20

धर्मयोर्भेद इष्टो हि धर्म्यभेदे ऽपि नऽ स्थिते ।
उद्भवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते

5.8.21

वक्ष्यमाणत्वात् ।
किमिदानीमनुमाने ऽपि प्रत्यक्षानुमानसमाहारजो विशिष्टबोधऽ ।
न ।
अनुमानस्यान्वयाधीनजंमत्वात् ।
विशिष्टेनैव चान्वयानुगमात् ।
धूमवानग्निमानिति हि व्याप्तिरवगता ।
उक्तं च---
"नैवं न ह्यत्र लिङ्गस्य शक्त्यनन्तत्वकल्पना" इति ।
अत्रापि चायमग्निमानिति विशेषबोधे ऽस्त्येव प्रत्यक्षापेक्षा ।
अयमेवाभावस्य प्रतीतिप्रकारऽ, यत्प्रमाणान्तरप्रापिताश्रयं विशिनष्टीति न किञ्चिदनुपपमन्नम् ।
यच्च संयुक्तविशेषणतया इन्द्रियसन्निकर्षो ऽभावस्येत्युक्तम्, तदयुक्तम् ।
असम्बद्धस्य विशेषणत्वानुपपत्तेरतिप्रसक्तेऽ ।
इतरथा विसेषणार्थमर्थितेनैव सन्निकर्षोपपत्तौ वृथैव
संयुक्तविशेषणार्थत्वाश्रयणमित्यलमेनेनेति ॥18॥
अभिप्रायमजानानश्चोदयति---नन्विति ।
प्राप्तिमात्रं ह्यर्थेन्द्रिययोऽ सन्निकर्षऽ ।
अस्ति च भावादभिन्नस्याभावस्य भाववदेवेन्द्रियप्राप्तिरिति ।
अत्र च योग्यताया उद्धाटनेनैवोत्तरं देयम्, तदुपेक्ष्यैव तावदत्यन्ताभेदमेवायमाह, तदेतमेव तावन्निराकरो(षी?मी)त्यभिप्रायेणाह--- नहीति ।
यदि भावाभावयोरेकान्तरमभेद एव स्यात् ततो भावेन्द्रियसन्निकर्षे तदभिन्नस्याभावस्यापि स्यात्, न त्वेवमस्ति ।
अभावस्यापि रूपादिवदत्यन्ताभेदाभावादिति ॥19॥
रूपादितुल्यतामेवाभावस्य दर्शयति---धर्मयोरिति ।
भावाभावात्मनोर्धर्मयोर्धर्म्यभेदे ऽपि स्थिते भेदो ऽपीष्ट इत्यर्थऽ ।
भेदे कारणमाह--- उद्भवेति ।
भावाभावयोरप्यु(द्भवा?चद्भूता)भिभूतयोर्गहणाग्रहणव्यवस्था दृश्यते ।
न चैतदेकत्वे कल्पिते ।
न ह्येकमेव तत्त्वमुद्भूतमभिभूतं चेति प्रतीयत इति ॥20॥
इदमेव निमित्तं च विवेकस्य प्रतीयते ।
भावाभावधियोरक्षैऽ सम्बन्धो ऽक्षानपेक्षणम्

5.8.22

रूपादेरपि भेदं च केचिद् ग्राहकभेदतऽ ।
वर्णयन्ति यथैकस्य पुंसऽ पुत्रादिरूपताम्

5.8.23

बुद्धिमात्रकृतो भेदो रूपादौ नित्यमेव हि ।
न च देशाद्यभिन्नानां समुदायावकल्पना

5.8.24

इदं चानयोर्विवेककारणमित्याह---इदमेवेति ।
अक्षानपेक्षता चाभावधियो वक्ष्यत इति ॥21॥
अयं च ग्राहकभेदनिबन्धनो भेदो रूपादीनामिति कैश्चिदिष्यते ।
सो ऽनयोरपि शक्यते ऽवगन्तुमित्याह---रूपादेरिति ।
एवं हि केचिद् वदन्ति--- यथा ह्येकमेव मुखं मरतकपद्मरागाद्युपाधिभेदाद् भिन्नमिव प्रतिभाति, यथा चैक एव पुरुषो ऽपेक्षाभेदात् भिन्नमिव प्रतिभाति, एवमिहापि भावाभावयोरौपाधिको भेदो भविष्यतीति ।
नन्वेवमौपाधिके भेदे तात्त्विकमेकत्वं प्राप्नाति ।
भवत्वस्मिन्मते,तथापि रूपादिव्यवस्था सिध्यत्येवेति ॥22॥
इदं चान्वारुद्यवचनेनास्माभिरुक्तम्, न हि रूपादीनां ग्राहकभेदनिबन्धनो भेदऽ, किन्तु बुद्धिभेदनिबन्धन एव, मुखं हि प्रमाणान्तरादेकरूपमवगतं तदुपाधिभेदाद् भिद्यत इति युक्तम् ।
न त्वेकत्वे रूपादीनां भेदहेतुर्भावाभावयोरपि समान एवेत्यभिप्रायेणाह---बुद्धिमात्रेति ।
कऽ पुनरयं भावाभावात्मको धर्मी, यद्धर्मौ भावाभावौ, नैकं रूपादिसमुदायाद् भिन्नमुपलभ्यते, वृत्त्यादिविकल्पाक्षमत्वात् ।
अतो देशाद्यभिन्नानां रूपादीनां समुदायो धर्मी, न तत्त्वान्तरमत आह--- न चेति ।
नात्र वन इव बाधिका बुद्धिरस्तीति भावऽ ।
इदं च सविकल्पकसिद्धावुक्तमप्यभावाश्रयसमर्थनार्थमत्रोक्तमित्यपुनरुक्ततेति ॥23॥
सद्गुणद्रव्यरूपेण रूपादेरेकतेष्यते ।
स्वरूपापेक्षया चैषां परस्परविभिन्नता

5.8.25

यदि तद्वदपेक्षात्र न स्याद् भेदो ऽत्र नैव हि ।
सदसद्रूपता बुद्धेर्भवेदन्यतरत्र नऽ

5.8.26

सत्सम्बन्धे सदित्येवं सद्रूपत्वं प्रतीयते ।
नास्त्यत्रेदमितीदं तु तदसंयोगहेतुकम्

5.8.27

गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतीयोगिनम् ।
मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षया

5.8.28

एवं तावदभावस्य भावाद् भेदाभेदौ दर्शितौ ।
तावेव रूपादिदृष्टान्तेन द्रढयति--सद्गुणद्रव्येति ।
न हि रूपादयऽ सदादिरूपेण न भिद्यन्त इति स्वरूपापेक्षयापि तेषां भेदऽ शक्यते वारयितुम्, तया वा भेद इति न सदाद्यात्मनाभेदऽ प्रतिक्षिप्यते ।
एवमभावो ऽपि भावधर्मतया ततो भिन्नो ऽपि स्वरूपापेक्षयाभिन्न इष्यते ।
द्रव्यरूपेणेति ।
रूपादयो द्रव्यादभिन्नाऽ, तच्चाभिन्नमिति तद्रूपेणैषामभेद इत्यर्थऽ ॥24॥
स्वरूपापेक्षया रूपादिवद् भेदानाश्रयणे भावाभावयोरन्यतरत्र न बुद्धेऽ सदसद्रूपता भवेदित्याह---यदिति ॥25॥
अस्ति त्वसाविन्द्रियसम्बन्धासम्बन्धहेतुको बुद्धिभेद इत्याह---तत्सम्बन्धैति ।
एतेन, यदाहुऽ--- न भावाद् भेदकमभावस्य रूपमुपलभामह इति, तन्निराकृतम् ।
सदसद्रूपविवेकादिति ।
यदिन्द्रियेण संयुज्यते भूतलं तदस्तीति प्रतीयते,
यन्न सम्बध्यते घटादि तन्नास्तीति प्रतीयत इति ॥26॥
नन्विन्द्रियव्यापारनन्तरमेवेह घटो नास्तीति ज्ञानमुत्पद्यते , तत् कुतो ऽयं विवेको नेन्द्रियेणाभावबुद्घिर्जन्यत इति ।
न ह्यसति तद्व्यापारे भावबुद्धिवदभावबुद्धिरपि जायमाना दृश्यते ।
यद्यपि भावादभावो भिद्यते, तथापि तस्य रूपादिवत्संयुक्तसमवायेन वा तद्विशेषणतया वेन्द्रिय
स्वरूपमात्रं दृष्ट्वापि पश्चात् किञ्चित् स्मरन्नपि ।
तत्रान्यनास्तितां पृष्टस्तदैव प्रतिपद्यते

5.8.29

सन्निकर्षो ऽस्त्येव ।
अतस्तज्ज्ञानमैन्द्रियकं भवेदत आह---गृहीतत्वेति ।
अयमभिप्रायऽ--- नानाश्रयो ऽभावऽ शक्यते ग्रहीतुमित्याश्रयग्रहणार्थमेवात्रेन्द्रियापेक्षा नाभावग्रहणाय, यथा नास्मृते प्रतियोगिन्यभावो गृह्यत इति तत्स्मरणार्थं प्राचीनज्ञानजन्मनऽ संस्कारस्योदबोधाप्यपेक्षितऽ, एवमाश्रयग्रहणार्थमिन्द्रियम् ।
न च प्राप्तिमात्रमैन्द्रियकज्ञानजन्मनि कारणम् ।
अपि तु योग्यतासहिता प्राप्तिरिति प्रत्यक्षे वर्णितम् ।
न चेन्द्रियाणामभावज्ञानजननयोग्यता, तेष्वसत्स्वपि तद्भावादिति वक्ष्यते ।
मानसमिति कोर्ऽथऽ ।
किं सुखादिज्ञानवन्मनसा जन्यत इति ।
यद्येवं तथापि प्रत्यक्षतैव ।
न चानन्तरिव बहिर्मनसऽ स्वातन्त्र्यमस्ति ।
सत्यम् ।
सर्वप्रमाणसाधारणस्तु मनसो व्यापारो ऽत्र कथितऽ ।
केवलात्ममनऽ सन्निकर्षादेव बाह्येन्द्रियानपेक्षं प्रमाणाभावेनाभावज्ञानं जन्यत इत्युक्तं भवति ।
गृहीत्वा स्मृत्वेति च धर्मधर्मिणोरभेदात् समानकर्तृकत्वाभिधानमिति ॥27॥
कथं पुनरिदमवगम्यते भावग्रहणमिदन्द्रियापेक्षं नाभावग्रहणमिति ।
समानो हि तद्भावभावऽ ।
अत आह---स्वरूपेति ।
यो हि गृहस्वरूपेमेवावधार्य क्वचिद्गतऽ पृच्छ्यते--- तत्र चैत्रो ऽस्ति न वेति, तदासौ पृष्टस्तत्र नास्तीतां तदैव प्रतिपद्यते ।
यदि त्विन्द्रियाधीनमबावज्ञानं भवेत् ना सति तद्व्यापारे जायते ।
न च पूर्वावगताभावस्मरणमेवेति वाच्यम् ।
न ह्यसति प्रतियोगिस्मरणे भावो दृश्यते ।
न चाश्रयग्रहणकाले प्रतियोगिस्मरणमस्ति ।
बहूनामेव हि पृष्टेनाभावऽ कथ्यते ।
न च तावातां स्मरणं सम्प्रति विशेषेण स्मर्यत इति, तदयुक्तम् ।
न ह्यभावत्वं नाम सामान्यन्यतो ऽवगतो विशेषेण स्मर्यत इति, युक्तम् ।
पूर्वानुभवाहितभावनाबीजा हि सा स्मृतिऽ,नाल्पमव्यतिरेकं गोचरयितुमुत्सहते ।
तस्तदानीमेव प्रतियोगिस्मरणपुरऽ सरमिन्द्रियानपेक्षमभावज्ञानं जायत इति मनोहरमिदम् ।
तदिदमुक्तं तदैव प्रतिपद्यत इति ।
इदं च प्रतय्क्षफलस्मृतिनिवृत्त्या फलतऽ प्रत्यक्षानवृत्तिरित्युक्तमेवेति ॥28॥
न चाप्यत्रानुमानत्वं लिङ्गाभावात् प्रतीयते ।
भावांशो ननु लिङ्गं स्यात् तदानीं नाजिघृणात्

5.8.30

अभावावगतेर्जन्म भावांशे ह्यजिघृक्षिते ।
तस्मिन् प्रतीयमाने तु नाभावे जायते मतिऽ

5.8.31

न चैष पक्षधर्मत्वं पदवत् प्रतिपद्यते ।
सह सर्वैरभावैश्च भावो ऽनैकान्तिको मतऽ

5.8.32

क्वचिद् भावे ऽपि सद्भावो ज्ञातो यस्य कदाचन ।
तस्याभावो ऽपि तत्रैव कदाचिदवगम्यते

5.8.33

एवं तावदक्षजत्वमभावधियो निराकृत्तम् ।
इदानीं लैङ्गिकत्वं निराकरोति---न चाप्यत्रेति ।
अत्र चोदयति--- भावांशेति ।
परिहरति--- तदानीमिति मतिरन्तेन ।
द्वावत्र भावौ प्रतिषेध्यऽ प्रतिषेधाधारश्च, तत्र न तावत् प्रतिषेध्यो लिङ्गम्, अवगतं हि लिङ्गं भवति ।
न च तदा घटो गृह्यते, न हि तस्मिन् गृह्यमाणे तदभावो ग्रहीतुं शक्यते ।
सत्यां तु प्रतिज्ञायां नासतो ऽदृष्टसय् लिङ्गत्वम् ।
अतो नाभावो जिघृक्षितेजिघृक्षितप्रतिषेध्यभावो लिङ्गमिति ॥29,30॥
अस्तु तर्हि प्रतिषेधाधारभावो लिङ्गमत आह---न चैषैति ।
एष इति परोपस्थितमपरोक्षं भावं निर्दिशति ।
यथार्थे पक्षीकृते पदमतद्धर्मतया न हेतुरित्युक्तम्, एवमेषो ऽपि भूतलभावो न घटाद्यभावधर्म इति ।
अपि चान्वयाधीनात्मलाभमनुमानज्ञानम्, न च भूतलभावस्य सर्वैरभावैऽ सम्ब्नधो ज्ञायते ।
तत् कथं ततस्ते प्रत्येष्यन्त इत्याह--- सहेति ॥31॥
अस्तु तावदभावान्वयऽ क्वचिद् भूतलादौ भावे, सद्भावो ऽपि यस्य घटादेऽ कदाचित् ज्ञातऽ तस्यापि
तत्राभावो ऽवगम्यत इत्याह---क्वचिदिति ॥32॥
यत्रापय्दृष्टपूर्वत्वं यदभावस्य तत्र च ।
तदभावमतिर्दृष्टा सम्बन्धे ऽक्षानपेक्षया

5.8.34

कस्यचिद् यदि भावस्य स्यादभावेन केनचित् ।
सम्बन्धदर्शनं तत्र सर्वमानं प्रसज्यते

5.8.35

गृहीते ऽपि च भावांशे नैवाभावे ऽनयवस्तु नऽ ।
सर्वस्य मतिरित्येवं व्यभिचारादलिङ्गता

5.8.36

सम्बन्धे गृह्यमाणे च सम्बन्धिग्रहणं ध्रुवम् ।
तत्राभावमतिऽ केन प्रमाणेनोपजायते

5.8.37

तदानीं नहि लिङ्गेन सम्बन्धिग्रहणं भवेत् ।
तत्रावश्यमभावस्य प्रमाणान्तरतो गतिऽ

5.8.38

न केवलं यद्यत्र कदाचिद् दृष्टं तन्मात्रस्य तत्राभावो ऽवगम्यते, यस्यापि तु यत्राभावो न दृष्टपूर्वस्तस्यापि तत्राभावो ऽवगम्यत इत्याह---यत्रेति ॥33॥
यदि तु येन केनचिदेकेनाभावेनगृहीतसम्बन्धाद् भावादभावान्तरानुमानमिष्यते, ततो ऽतिप्रसक्तिरित्याह---कस्यचिदिति ॥34॥
न चैवमस्तीति व्यतिरेकेण दर्शयति---गृहीते ऽपि च भावांशे नैचाभावे ऽन्यवस्तुनऽ ।
सर्वस्यमतिरित्यन्तेन ।
अनैकान्तिकश्चायं भावो ऽभावान्तरैरपि सम्बन्धात् ।
अतो ऽनैकान्तिकत्वादस्य घटादेरभावं गमयितुमलिङ्गत्वमित्याह--- एवं व्यभिचारादलिङ्गतेति ॥35॥
अपि च सम्बन्धग्रहणं सम्बन्धिग्रहणाधीनम् ।
तदिहाभावाख्ये सम्बन्धिनि ग्रहीतव्ये किं प्रमाणमिति वक्तव्यमित्याह--- सम्बन्ध इति ॥36॥
न तावल्लिङ्गगविदितसम्बन्धं तदवधारणे प्रमाणम्, इतरेतराश्रयं हि तथा स्यादित्यभिप्रायेणाह---तदानीमिति ।
अतो ऽवश्यं तद्ग्रहणे प्रमाणान्तरमर्थनीयमित्याह--- तत्रेति ॥37॥
प्रत्यादेरनुत्पत्तिर्न तु लिङ्गं भविष्यति ।
न विशेषणसम्बन्धस्तस्याऽ सामान्यतो भवेत्

5.8.39

अत्रेदानीमनुपलब्धिलिङ्गवादिनो बौद्धस्य प्रत्यवस्थानमाह--- प्रत्यक्षादेरिति ।
द्वेधा हि हेतवो बौद्धैर्विभज्यन्ते--- कार्यं स्वभाव इति, अनुपलब्धिश्चेकज्ञानसंसर्गिणोरेकोपलब्धिरेव, तस्याश्च स्वरूपं ज्ञेयरूपं च प्रकाशते इति ज्ञानज्ञेयस्वभावा ।
न ह्यसौ स्वरूपमिव ज्ञेयसत्तामपि व्यभिचरति ।
तस्याश्च स्वसाध्येन नास्तीति विकल्पशब्दात्मकव्यवहारेण तद्योग्यतया वा तादात्म्यमेव प्रतिबन्धऽ ।
न ह्यसौ नास्तीति व्यवहारं व्यभिचरति शिंशपेव वृक्षताम् ।
तदेवं ज्ञातप्रतिबन्धानुपलब्धिऽ यो नाम भ्राम्यन् विविक्तदेशोपलब्धावपि घटाय घटते तं प्रति नास्तीति व्यवहारं तद्योग्यतां वानुमापयति ।
एवं च घटाद्यभावानुपलब्धिप्रयोगऽ--- यद् दृश्यं हि सद्यत्र नोपलभ्यते तत्तत्र नास्ति ।
नोपलभ्यते चोपलभ्यमाने देशे दृश्यो घट इति ।
एतदपि दूषयति--- न विशेषणसम्बन्धस्तस्या इति ।
य एवानुपलब्ध्यानुमातुमिष्यते घटाभावो नास्तीति व्यवहारस्तद्योग्यता वा नैकेनापि विशेषेणानुपलब्धेऽ सम्बन्धो ऽवगतऽ, कथं ततो विशेषानुमानम् ।
भूतलोपलब्धिर्हि सा, तस्याश्च नानाविधानेकघटपटादिविषया नास्तीति व्यवहारा दृश्यन्त इति कथं विशेषेण घटो नास्तीति व्यवहारयेत् ।
घटानुपलब्धिरसौ, अतो घटाभावं तद्व्यवहारं वा प्रसाधयतीति चेत् ।
कस्तस्या घटेन सम्बन्धऽ ।
देशोपलब्धिर्हि सा, तावदेव तस्या घटानुपलब्धित्वम् ।
तच्च सर्वान् प्रत्यविशिष्टमिति कथमेकेनैव व्यपदिश्यते चेद् घटाभावो नाम कश्चित्_ ।
कस्माच्च सत्यपि घटे घटो नास्तीति व्यवहारो न प्रवर्तते ।
सद्व्यवहारविरोधादिति चेत् ।
कथं घटानुपलब्धौ सद्व्यवहारऽ ।
अस्ति हि तदानीमपि देशोपलब्धिऽ ।
विविक्तोपलब्धिर्हि घटानुपलब्धिऽ, नासौ घटे सतीति चेत्, को विवेकार्थ इति ।
नन्वयमभाव एव ।
तदभावे ऽनर्थकं विविक्तवचनम्, अतो ऽनुपलब्धेरयमपि विशेषो दुऽ साध एव, यदसति घटे नास्तीति व्यवहारो न सतीति ।
यच्चेदं घटाभावमतिलङ्घ्य नास्तीति व्यवहारानुमानमवस्थितं तदपि केन विशेषेणेति न विद्मऽ ।
सो ऽपि भावातिरेकी न कश्चिदुपलभ्यते ।
योग्यता तदनतिरेकिणी तस्मिन् बुद्धे बुद्धैवेति न किञ्चिदनुमेयं पश्यामऽ ।
वार्तिककारेण
त्विदमुपेक्ष्यैव तावद्
दूषणान्तरमुक्तमिति ॥38॥
न चाप्यभावसामान्ये प्रमाणमुपजायते ।
व्यभिचारादा विशेषास्तु प्रतीयेरन् कथं तया

5.8.40

न चानवगतं लिङ्गं गृह्यते चेदसावपि ।
अभावत्वादभावेन गृह्येतान्येन हेतुना

5.8.41

स चान्येन ग्रहीतव्यो नागृहीते हि लिङ्गता ।
तद्गृहीतिर्हि लिङ्गेन स्यादन्येनेत्यनन्तता

5.8.42

लिङ्गाभावे तथैव स्यादनवस्थेयमित्यतऽ ।
क्वाप्यस्य स्यात् प्रमाणत्वं लिङ्गत्वेन विना ध्रुवम्

5.8.43

नास्तीति धीऽ फलं चैषा प्रत्यक्षादेरजन्मनऽ ।
तस्यैव च प्रमाणत्वमानन्तर्यात् प्रतीयते

5.8.44

अभावसामान्येन त्वनुपब्धेऽ सम्बन्धऽ सिध्यत्येव, न त्वभावसामान्ये प्रमाणमुपजायत इत्याह--- सामान्येति ।
विशेषास्त्वनैकान्तिकतया नानुपलब्ध्या बोधयितुं शक्यन्त इत्याह--- व्यभिचारादिति ॥39॥
अपि च--- नानवगतरूपं लिङ्गमनुमाने लिङ्गं भवति, तदियं प्रत्यक्षाद्यनुत्पत्तिरभावत्वादपरेण लिङ्गेनावगन्तव्या ।
एवं हि वदन्ति,यावान् कश्चित् प्रतिषेधऽ स सर्वो ऽपलब्धेरेवेति ।
एवं च तत्र तत्र सदृशापरापरलिङ्गानुसारेणानवस्थापात इत्याह--- न चेति द्वयेन ।
एतच्चोपलब्ध्यभावो ऽनुपलब्धिरित्यापाद्योक्तम्, विविक्तेतरपदार्थो ऽनुपलब्धिरिति तु प्रत्युक्तमिति ॥40,41॥
एवं यो ऽप्यसौ लिङ्गिरूपाभावऽ सो ऽपि सम्बन्धग्रहणार्थमवश्यं प्रथमवगन्तव्यऽ ।
तदवगमे ऽपि तद्रूपापरलिङ्गाभ्युपगमादनवस्थैव ।
अतऽ क्वचिदवश्यमनुमानाभावात् प्रमाणान्तरमभ्युपगन्तव्यमित्याह---लिङ्गेति ॥42 ॥
यदि तु नास्तीति बुद्धिरेव लिङ्गमित्युच्यते तन्न ।
फलं हि सा, प्रत्यक्षाद्यनुत्पादस्य कथं तल्लिङ्गम्, तत्सिद्ध्यर्थमेव हि लिङ्गमिष्यते ।
त्रिलक्षणेन या बुद्धिर्जन्यते सानुमेष्यते ।
न चानुत्पत्तिरूपस्य कारणापेक्षिता क्वचित्

5.8.45

मानं कथमभावश्चेत् प्रमेयं चास्य कीदृशम् ।
मेयो यद्वदभावो हि मानमप्येवमिष्यताम्

5.8.46

भावात्मके तथा मेये नाभावस्य प्रमाणता ।
तथाभावप्रमेये ऽपि न भावस्य प्रमाणता

5.8.47

सिद्धायां तु बुद्धौ किं लिङ्गेन ।
तदेतदाह---नेति ।
यदि सा फलं किं तर्हि प्रमाणत आह--- तस्यैवेति ।
यस्यैव सा फलं तदेव प्रत्यक्षाद्यनुत्पत्तेऽ फलानन्तर्यात्प्रमाणमिति ॥43॥
किञ्च सौगतसमयसिद्धानुमानलक्षणग्रन्थानुसारेणापि न प्रत्यक्षाद्यजन्मनो ऽनुमानत्वमित्याह---त्रिलक्षणेति ।
एवं हि ते पठन्ति ।
ऽत्रिरूपाल्लिङ्गतोर्ऽथदृगनुमानऽमिति ।
न चानुत्पत्तिरुत्पत्तेऽ प्रागभावो बुद्धेऽ केनचिज्जन्यते, प्रागेव त्रिलक्षणेन हेतुनेति ।
ननु च हेतुतयानुपलब्धिरनुमानमिष्यते,न त्वनुमितिरनुमानमिति भावसाधनतया ।
अतऽ किं तन्निरासेन ।
सत्यम्, अहेतुतया तावदनुमानत्वं निराकृतमेव ।
अनेन तु लक्षणानन्तऽपातो वर्ण्यत इति ॥44॥
अत्र चोदयति--- (मानमिति) प्रमाणता हि भावात्मना व्याप्ता प्रत्यक्षादिष्ववगता, तन्निवृत्त्या निवर्त्यत इति भावऽ ।
इतरस्तु--- वर्णितो ऽस्माभिऽ प्राग्भावनामसङ्करश्चतुर्धा ।
न च तब्दोधस्य भावबोधवैलक्षण्यमुपलभ्यते, बाधविरहसामान्यात् ।
स च प्रामाण्ये कारणं न भावस्वरूपता ।
सा तु प्रामाण्यं प्रत्यप्रयोजिकैव कथञ्चित्तेषु सङ्गता, अतो नाभावत्वेनाप्रामाण्यं भवति ।
भावे तु प्रमेये तदप्रमाणमेवेत्यभिप्रायेणाह--- प्रमेयमिति ।
अनुरूपमेवेदं यदभावे ऽभावऽ प्रमाणमित्याह---मेय इति ॥45॥
यथा भावात्मके मेये ऽभावऽ प्रमाणं नानुरूपं तथा तदभावे भाव इत्याह--- भावात्मक इति ॥46॥
भावात्मकस्य मानत्वं न च राजाज्ञया स्थितम् ।
परिच्छेदफलत्वाद्धि प्रामाण्यं स्याद् द्वयोरपि

5.8.48

यदि चास्य प्रमाणत्वमभावत्वेन नेष्यते ।
वस्तुनऽ कारणत्वं हि दृष्टमित्यभिमानिता

5.8.49

न लिङ्गत्वप्रमेयत्वे भवेतां तद्वदेव हि ।
तथा सति च पूर्वोक्तो व्यवहारो न सिध्यति

5.8.50

प्रमाणानामनुत्पत्तेर्नाभावस्य च धर्मता ।
यत्राभावो ऽस्ति तेनास्याऽ सम्बन्धो नैव विद्यते

5.8.51

यो न सन्निहितस्तत्र तस्य धर्मो भवेदियम् ।
न च तस्य प्रमेयत्वं धर्मधर्मित्ववर्जनात्

5.8.52

न भावत्मकमेव प्रमाणमिति राजाज्ञा, यदेव तु परिच्छेदफलं तदेव तु प्रमाणम्, तच्च प्रत्यक्षाद्यजन्मनो ऽपि समानमित्याह---भावात्मकस्येति॥
स्यादेतत्--- वस्तुन एव प्रामाण्यदर्शनान्नावस्तुनो ऽनुपलब्धेऽ प्रमाणत्वमिति ।
तथा च सति बौद्धानामपि लिङ्ग प्रमेयत्वे न स्याताम्, ते ऽपि हि नावस्तुनो दृष्टे इत्याह-- यदीति सार्धेन ।
अनुज्ञाने दोषमाह--- तथा सतीति ।
न च स्याद् व्यवहारो ऽयमिति कारणादिविभागेनोक्तो व्यवहार इत्यर्थऽ ॥48,49॥
अपक्षधर्मत्वादपि प्रत्यक्षाद्यनुत्पत्तिर्न लिङ्गमित्याह---प्रमाणानामिति ।
नाभावे पक्षीकृते प्रत्यक्षाद्यनुत्पत्तिस्तद्धर्मतयावगम्यते ।
अभावेन सम्बन्धाभावदित्यभिप्राय इति ।
नन्वभावविशिष्टं भूतलं साधयिष्यामऽ, तच्च पूर्ववगतमिति तद्धर्मो भविष्यतीत्यत आह--- यत्रेति ।
न हि भूतले प्रत्यक्षानुत्पत्तिऽ, ज्ञायमानत्वात् तस्येति ॥50॥
घटस्य तर्हि धर्मो भविष्यति तद्गोचरे प्रत्यक्षादीनामनुत्पत्तेरत आह---यैति ।
सत्यम् ।
यत्र प्रत्यक्षादीनि नोत्पद्यन्ते तद्धर्मता कथञ्चिद् भवेदपि, न त्वसाविह प्रमीयते ।
धर्मधर्मित्वयोरभावात् ।
न हि
अभावेन तु सम्बन्धो भवेत्तद्विषयत्वतऽ ।
तज्ज्ञानाद् विषय्तवं च ज्ञाने मेयं न विद्यते

5.8.53

संयोगसमवयादिसम्बन्धो नैव विद्यते ।
नागृहीते हि धर्मत्वं गृहीते सिद्धसाधनम्

5.8.54

अभावशब्दवाच्यत्वाप्रत्यक्षादेश्च भिद्यते ।
प्रमाणानामभावो हि प्रमेयानामभावावत्

5.8.55

अभावो ऽपि प्रमाणेन स्वानुरूपेण मीयते ।
प्रमेयत्वाद् यथा भावस्तस्माद् भावात्मकात् पृथक्

5.8.56

कर्माणि सर्वाणि फलैऽ समस्तैऽ सर्वैर्यथावच्च यदङ्गकारण्डैऽ ।
न सङ्गतानीह परस्परं हि नाङ्गं तदेतत्प्रभवं क्रतूनाम्

5.8.57

तद्धर्मिणं कृत्वाभावविशिष्टता साध्यते तस्याप्रतीतेऽ ।
नापि तद्विशिष्टं भूतलादि, तदानीं तस्य तत्राभावादिति ॥51॥
अभावस्य तु साधर्मो भविष्यति तद्विषयत्वात् तस्याऽ ।
अभावे हि प्रमेये सा लिङ्गं भवत्येव ।
किन्तु नास्रञ्चेतितो भावो विषयो भविष्यति, ज्ञाते च प्रमेयाभाव इत्याह---अभावेनेति ॥52॥
अन्यस्तु न कश्चिदभावेनानुत्पत्तेऽ सम्बन्धप्रकारो विद्यते, येन तद्धर्मतामनुगम्यानुमानं भविष्यतीत्याह---संयोगैति ।
इतश्चापक्षधर्मत्वमित्याह--- नागृहीत इति ।
न ह्यगृहीते पर्वते धूस्तद्धर्मतयावगम्यते ।
अथ तद्वदभावो ऽपि प्राक् प्रतीयत इत्युच्यते, सिद्धं तर्हि साध्यत इति ॥53॥
एवं प्रत्यक्षानुमानाभ्यां प्रसाधितं भेदं प्रयोगेण दर्शयति---अभावशब्देति ॥54॥
प्रयोगान्तरमाह---अभावो ऽपीतिभावान्तेन ।
अतऽ सिद्धं भावात्मकात् प्रमाणादन्यत्वमभावस्येत्युपसंहरति---तस्मादिति ॥55॥
वेदोपयोगमभावस्य दर्शयति---कर्माणीति ।
यो ऽयं सर्वकर्मणां फलासङ्करऽ परस्परासङ्करश्च परस्पमङ्गाङ्गिभावाभावऽ, नासावभावप्रामा
युक्त्यागमाभ्यामिह तर्कितो ऽयं प्रमाणषटकं प्रविभज्य भाष्ये ।
ततो ऽधिकं यद् द्वयमिष्टमन्यैर्भेदो न तस्येत्यपि सिद्धमेतत्

5.8.58

इह भवति शतादौ सम्भवाद्या सहस्रान्मतिरवियुतबावात् सानुमानादभिन्ना ।
जगति बहु न तथ्यं नित्यमैतिह्यमुक्तं भवति तु यदि सत्यं नागमाद् भिद्यते तत्

मूल पाठ: Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc