भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसश्लोकवार्त्तिक (टीका सहित) · अध्याय 5.7

5.7.30

प्रधानानां तु सामान्यं यत्रैकं सम्प्रतीयते ।
अथवावयवसामान्यानामपि नात्यन्तिको नाशो ऽस्तीत्याहि--- सामान्यस्येति ।
कारणमाह---सर्वस्येति ॥25॥
यद्यस्ति तत्रापि साहश्ययधिया भवितव्यमत आह---तेषामिति ।
भूयस्तया तेषां साहश्यमतिरिक्तं भवति, न त्वेकैकशो न सन्तीति ।
न केवलं सामान्यमनश्ररमितिदेशान्तरादिष्वाश्रयसद्भावऽ कल्प्यते ।
अपि तु प्रत्यक्षे ऽपि क्वचिदर्थे तान्युपलभ्यन्त एवेत्याह---तानीति ॥26॥
नन्वक्ष्यादीनां स्वावयवसामान्यभूम्ना साबश्यमुक्तं, तदवयवानां तु कथं साहश्यं भविष्यत्यत आह---अन्यथेति ।
द्वेधा ह्यनुपपन्नम्--- किञ्चिदनुपपन्नमेव यन्न कथञ्चिदुपपादयितुं शक्यम्, किञ्चिच्चासति कल्पने ऽनुपपन्नम् ।
तत्र यदेकान्तमनुपपन्नं तदुपेक्ष्यत एव ।
यत्तु कल्पिते क्स्मिंश्चिदुपपद्यते अन्यथा नोपपद्यते तदुपपत्तिरन्यकल्पमनयावसीयते ।
एवमेव हि सर्वलौकिकपरीक्षका बुध्यन्ते ।
न च विपर्ययो देशान्तरादिषु दृष्टऽ ।
अतऽ प्रमाणमेवेदम् ।
यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्, एवमिहापि केनचित्प्रमाणेनावगतं प्रमाणान्तरेणोत्थापितवितर्कमम् ।
न चात्रान्यतरत्रापि प्रामाण्ये संशयऽ, किन्तु निश्चितप्रामाण्योरेव द्वयोऽ समर्थनापेक्षामात्रं कथमिदमुभयमुपपद्यतामिति ।
षोडशिन इव ग्रहणाग्रहमसास्त्रयोऽ ।
न तत्रैकपरित्यागेनेतरदुपपादयितुं शक्यते ।
अतो यथा तत्र कथमिदमुभयमुपपद्यतामित्यपेक्षिते प्रयोगभेदेनोभयमुपपाद्यते, एवमिहापि प्रमाणप्रतिपन्नमुभयं निश्चितसद्भावमर्थान्तरपरिकल्पनया सम
... म्स्व् 5,6.29च्द् - म्स्व् 5,7.29च्द् मिस्सिन्ग्!
अविनाभाविता चात्र तदैव परिकल्प्यते ।
न प्रागवधृतेत्येवमन्यथैषा न कारणम्

5.7.31

गृहाभावबहिर्भाव.उ न च दृष्टौ नियोगतऽ ।
साहित्ये तु प्रमाणं च तयोरन्यन्न विद्यते

5.7.32

अन्यथानुपपत्त्यैव ह्येकेनान्यत् प्रतीयते ।
तथा न कल्प्यते तच्चेत् साहित्यं न प्रतीयते

5.7.33

अर्थ्यते ।
ताद्रूप्येणैव प्रतिभानात् ।
विलक्षणानि हि प्रमाणानि विलक्षणसामग्रीकाणि ।
अत एव परस्परतो भिद्यन्ते ।
अप्रामाण्यकारणानि च संशयविपर्ययावज्ञानं वा, तच्चार्थापत्तावपि नास्तीति कथमप्रमाणता ।
कथमज्ञातसम्बन्धात् प्रतीतिऽ प्रमाममिति चेत् ।
न सम्बन्धऽ प्रामाण्ये कारणम्, अपि तु बाधविरहऽ ।
स चेहाप्यविशिष्ट इति न कश्चिद् दोषोर्ऽथापत्तावस्माकं प्रतिभातीति ॥29॥
ननु गृहाभावो नान्तरेण बहिर्भावमुपपद्यते अतो नान्तरीयकऽ, नान्तरीयकाच्च यदर्थान्तरज्ञानं तदनुमानम्, अतो ऽनुमानमेवेदं बहिर्भावज्ञानमत आह----अविनेति ।
अयमभिप्रायऽ--- नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानमिति केचित् पठन्ति, तेषामपि तद्विदो नान्तरीयकताविद एव नान्तरीयकदर्शनमनुमानमभिप्रेतम्, न चेह नान्तरेण बहिर्भावं गृहाभावो भवतीति प्रागवगतम्, तदैव ह्यर्थापत्त्या बहिर्भावं परिकल्प्यायमनेन विना न भवतीत्यविनाभाविता कल्प्यते ।
अतऽ सा स्वरूपसत्यपि न पूर्वमवगतेति न ज्ञानोत्पत्तौ कारणमिति ॥30॥
नन्ववगतसम्बन्धस्य तर्ह्यनुमानं स्यादत आह---गृहाभावेतितान्तेन ।
न तावदन्नियमेन सर्वैरेव द्वयोऽ साहित्यमवगतम्, अविदितसाहित्यस्य तावत् सिद्धं प्रमाणान्तरमित्यभिप्रायऽ ।
येनापि तयोऽ साहित्यमवगतं तस्यापि
नागृहीतयोस्तयोऽ साहित्यग्रहऽ सम्भवति, न च तयोरेकग्रहणे ऽपरदर्शनमर्थापत्त्या विना सम्भवति ।
अन्यथानुपपपत्त्यैव त्वेकेन गृहाभावेन
तेन सम्बन्धवेलायां सम्बन्ध्यन्यतरो ध्रुवम् ।
अर्थापत्त्यावगन्तव्यऽ पश्चाद(स्त्य?स्त्व) नुमानता

5.7.34

गृहद्वारि स्थितो यस्तु बहिर्भावं प्रकल्पयेत् ।
यदैकस्मिन्नयं देशे न तदान्यत्र विद्यते

5.7.35

तदाप्यविद्यमानत्वं न सर्वत्र प्रतीयते ।
न चैकदेशे नास्तित्वाद् व्याप्तिर्हेतोर्भविष्यति

5.7.36

नन्वत्राविद्यमानत्वं गम्यते ऽनुपलब्धितऽ ।
सा चाप्रयत्नसाध्यत्वादेकस्थस्यैव सिध्यति

5.7.37

बहिर्भावेन वा तयोरेकऽ प्रत्येतव्यऽ ।
एवं चाकल्प्य्माने ऽन्यतरस्य सम्ब्नधिनो ऽगृहीतत्वात् साहित्यप्रतीतिरेव न स्यात्, अतऽ साहित्यार्थमर्थापत्तिरर्थनीयेति सिद्धं प्रमाणान्तरमित्यभिप्रायेणाह--- प्रमाणं चेति प्रतीयते ऽन्तेन ।
अभिप्रायं विवृणोति--- तेनेति ॥31-32॥
ननु च नावश्यमर्थापत्त्यैवान्यतरऽ सम्बन्धी ग्रहीतव्यऽ, शक्यते हि गृहद्वारावस्थितेनाभावप्रत्यक्षाभ्यामुभयं विदित्वा सम्बन्धो ऽनुभवितुम्, तथा विदितसम्बन्धाच्च गृहाभावाद् बहिर्भावानुमानमित्याशङ्कते तावत्--- गृहद्वारीति ॥34 ॥अत्रोत्तरमाह--- तदापीति ।
अयमभिप्रायऽ--- सिध्यत्येवं गृहाभावाद् बहिर्भावानुमानम्, न पुनरेवमेव सर्वेषामवगतिऽ, अगृहीतसम्बन्धानामपि प्रतीतिभावात् ।
एषो ऽपि च प्रकारो नैकत्र भावेन सर्वत्राभावावगमे सम्भवति, न हि जगदभावेनैकत्र भावो ऽन्वितऽ शक्यो ऽवगन्तुम् ।
जगदभावस्य प्रत्येतुशक्यत्वादित्यभिप्रायऽ ।
नन्वेवं तदावगतं यदायमेकत्र भवति तदा परत्र तत्समीपे न भवतीति ।
एवं च विदितव्याप्तेरेकदेशभाने सर्वत्राबावानुमानं भविष्यति ।
अत आह--- न चेति ।
न ह्येकदेशनास्तितया त्रैलोक्याभावेन हेतोर्व्याप्तिऽ सिध्यतीति ॥35॥
किंपुनर्जगदभावेन सम्बन्धो नावगम्यते, तस्यानवगतेरिति चेद्, नन्वनुपलब्धिरभावावगमे कारणम्, यथा चैकत्र सन् देवदत्तो देशान्तरे
नैतयानुपलब्ध्यात्र वस्त्वभावऽ प्रतीयते ।
तद्देशागमनात् सा हि दूरस्थेष्वस्ति सत्स्वपि

5.7.38

गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते ।
ततो ऽन्यकारणाभावादसन्नित्यवगम्यते

5.7.39

ननु चाग्न्याद्यभावे ऽपि धूमादिव्यतिरेकिणाम् ।
तद्देशागमनात् स्पष्टो व्यतिरेको न सिध्यति

5.7.40

ऽनुपलभ्यमानो नास्तीति निश्चीयते ।
एवमेकत्र सन् सर्वत्र नोपलभ्यत इति सर्वत्रैव नास्तीति शक्यमवगन्तुम् ।
न हि दर्शनवददर्शनमपि प्रयत्नमपेक्षते, दर्शनं हि कार्यं स्वकारणर्थेन्द्रियसन्निकर्षाद्यपेक्षमाणमेकत्र सतो न सर्वत्र सम्भवति, दर्शनाभावस्तु न किञ्चिदपेक्षत इति चोदयति---नन्वत्रेति ।
अत्रेत्येकदेशं परामृशति ।
अत्र खल्वेकदेशे ऽनुपलब्धितो ऽविद्यमानत्वमवगम्यते ।
तच्च सर्वत्रापि समानमिति ॥36॥
अत्र परिहारमाह----नैतयेति ।
किमिति न प्रतीयते अत आह--- तद्देशेति ।
उपलब्धियोग्यस्य ह्यनुपलब्धिरभावं व्यवस्थापयति, दूरस्थेषु त्वयोग्यत्वादेव सत्स्वप्यनुपलब्धिऽ सम्भवतीति नाभावनिश्चय इति ॥37॥
यदितु सर्वग्रामनगरसरित्कान्तारादिदेशाऽ प्राप्ताऽ भवेयुऽ, एवं चैत्रस्य तेष्वभावऽ शक्यावगमऽ, न चेदं शक्यकरणमित्यभिप्रायेणाह---गत्वा गत्वेति ॥38॥
अत्र चोदयति---ननु चेति ।
अयमभिप्रायऽ--- न तावद् विपक्षादव्यावृत्तो हेतुर्गमकऽ, न च सर्वे विपक्षा गत्वोपलब्धुं शक्यन्ते, अतो ऽवश्यमेकदेशस्थस्यैवानुपलब्ध्या विपक्षाद् हेतोर्व्यतिरेको ग्रहीतव्यऽ ।
तद्वदिहापि भविष्यतीति ।
धूमादयश्च ते व्यतिरेकिणश्चेति धूमादिव्यतिरेकिणऽ ।
अग्न्याद्यभावे ये व्यतिरेकिणो धूमादयस्तेषामग्न्याद्यभावदेशागमनाद् व्यतिरेको न सिध्यतीति ॥39॥
यस्य वस्त्वन्तराभावऽ प्रमेयस्तस्य दुष्यति ।
मम त्वदृष्टमात्रेण गमकऽ सहचारिणऽ

5.7.41

नन्वेवमितरत्रापि सम्बन्धो ऽनुपलब्धितऽ ।
चैत्राभावस्य भावेन दृष्टत्वादुपपद्यते

5.7.42

साहित्ये मितदेशत्वात् प्रसिद्धे चाग्निधूमयोऽ ।
व्यतिरेकस्य चादृष्टेर्गमगत्वं प्रकल्प्यते

5.7.43

परिहरति---यस्येति ।
व्यतिरकेप्रधानवादिनो हि बौद्धस्यासति विपक्षाद् व्यतिरेकग्रहणे न हेतुर्गमको भवति, वस्त्वन्तराभावो हि तस्य प्रमेयऽ, अग्न्यादेर्वस्तुनो ।
अन्यस्यानग्न्यादेरभाव इति यावत् ।
स हि सर्वानग्निव्यतिरेकमन्तरेण न सम्भवति, मम तु सहचारिणो हेतुर्गमकऽ, अन्वयमात्रनियमेन ।
स च विपक्षादर्शनमात्रेण द्वित्रैरेव दर्शनैऽ सिध्यतीति ॥40 ॥नन्वन्वयवादिनो ऽप्यजातातिवृत्तकप्रत्युत्पन्नानन्तदेशवर्तिवह्निसहचरितधूमदर्शनं दुर्लभमेव ।
अथ कतिपयाग्निसाहित्यदर्शनादेवासहितावगता अपि वह्नयो ऽनुमीयन्ते, एवं तर्हीहापि चैत्राभावस्य जगदवर्तिन एकदेशभावेन सम्बन्ध उपपद्यत एव ।
अत्रापि ह्येकत्र चैत्रे भवति कतिपयेषु तदभावो दृष्ट एव, तावता च सर्वत्राभावो ऽवुमास्यत इत्याह--- नन्वेवमिति ॥41॥
अत्र परिहारमाह---साहित्यैति ।
अयमभिप्रायऽ--- न हि नो व्यक्तिविषयमनुमानम्, अपि तर्ह्याकृतिविषयम्, आकृत्योश्च प्रतिव्यक्तिकृत्स्नसमवायात्सुलभमेव साहित्यदर्शनम्, सकृद्दर्शनेनैव ह्याकृत्योऽ साहित्यमवगम्यते ।
अत एव द्वित्रादिदर्शनमपि व्यभिचाराशङ्कायां नियमार्थमभ्यर्थ्यते ।
अवगते हि साहित्ये भवति शङ्का--- किमयमौपाधिकऽ संसर्गो धूमस्याग्निना सह आहोस्वित् सहज एवेति, तत्रासकृद्दर्शने ऽन्वयाव्यभिचारादुपाध्यन्तरप्रवेशकारणाभावात्स्वाभाविको ऽस्याग्निनान्वय इति भवति मतिऽ ।
अग्नेस्तु प्रथममवगतसम्बन्धस्यापि धूमेन दर्शनान्तरे व्यभिचारदर्शनादार्द्रेन्धनादिरुपाधिरनुप्रविशति ।
नच देशादिभेदे व्यभिचारा शङ्का, सकृद्दर्शनावधारितसाहचर्ययोर्हि द्वयोरप्यग्नेस्तावद् व्यभिचारो दृष्टो
इह साहित्यमेवेदमेकस्य सहभाविनऽ ।
अनन्तदेशवर्तित्वान्न तावदुपपद्यते

5.7.44

ननु देशान्तरं शून्यं चैत्रेणैवं प्रतीयते ।
तद्देशव्यतिरिक्तत्वात्समीपस्थितदेशवत्

5.7.45

विरुद्धाव्यभिचारित्वं तद्वदेव हि गम्यते ।
समीपदेशभिन्नत्वाच्चैत्राधिष्ठितदेशवत्

5.7.46

पुरुषस्य तु कार्त्स्न्येन यदेकत्रोपलम्भनम् ।
द्वित्रादिदर्शनेनैव,तद् यदिधूमो ऽप्यग्निं व्यभिचरेत्, अस्यापि हि द्वित्रिचतुरैरेव दर्शनैर्व्यभिचारो दृश्येत, न च दृश्यते ।
अतो ऽग्न्यन्वितस्वभावो ऽयमिति निश्चीयते ।
यस्य त्वेवमप्यनाश्वासऽ ।
तस्य सर्वप्रमाणेष्वेव क्वचिद् व्यभिचारदर्शनादनाश्वासऽ स्यात् ।
विपक्षव्यतिरेको ऽपि चैवमर्थादेव सिद्धो भवति ।
स हि प्रथममन्विच्छतो विपक्षदेशानामनन्तत्वाद् दुर्लभो भवति ।
स्वभावनियमे तु ज्ञाते स्वभावस्याव्यभिचारात् सुलभो व्यतिरेकऽ ।
न हि स्वाभाविकमुष्णत्वमन्तरेण क्वचित् कदाचिदग्निर्भवतीति कश्चिदाशङ्कते ।
मितदेशत्वादिति ।
परिमितदेशत्वादित्यर्थऽ ॥42॥
एकदेशभावजगदभावयोस्तु नैवं साहित्यज्ञानं भवतीत्याह--- इहेति ।
एको ह्यत्र सर्वत्राभावऽ सहभावयनन्तदेशवर्ती, न त्वग्निधूमाकृतिवत् परिमितदेशऽ, अतो ऽत्र दुर्ग्रहं साहित्यमिति ॥43॥
अत्र चोदयति---नन्विति ।
अनुमानेन देशान्तराभावश्चैत्रस्य प्रतीयते ।
एवं ह्यनुमास्यते ।
परोक्षाऽ सर्वभूमयश्चैत्राभावसम्बन्धाऽ, तदाक्रान्तदेशव्यतिरेकित्वात् स्थितचैत्रदेशममीपवदिति ॥44॥
परिहरति---विरुद्धेति ।
कथं हि विरुद्धाव्यभिचारित्वमत आह--- तद्वदिति ।
तद्वच्चैत्रवद्देशान्तरमिति ।
अतोर्ऽथापत्त्यैव सर्वत्राभावो ऽवगन्तव्यऽ, नान्या गतिरस्ति ॥45॥
तथातु तं गृहीत्वासाहित्यग्रहणपुरऽ सरं यद्यनुमानमिष्यते तदर्थापत्तिपूर्वकम्, एतावता च सिद्धमर्थापत्तेऽ प्रामाण्यमित्यभिप्रायेणाह--- पुरुष
तस्यान्यथा न सिद्धिऽ स्यादित्यन्येष्वस्य नास्तिता

5.7.47

तेनार्थापत्तिपूर्वत्वमत्र यत्र च कारणे ।
कार्यदर्शनतऽ शक्तेरस्तित्वं सम्प्रतीयते

5.7.48

स्येत्यत्रान्तेन ।
यस्तु वदति--- स्वात्मनस्तावदेकत्र सतऽ सर्वत्राभावेन सम्बन्धो दृष्टऽ अतो ऽन्यस्याप्यनुमिनोतीति ।
स वक्तव्यऽ स्वात्मन एव सर्वत्रासत्ता कथमवगम्यते, यद्यभावेन, कस्येति वक्तव्यम्, न तावत्प्रत्यक्षस्य निवृत्त्या दूरदेशेष्वभावऽ शक्यते ऽवगन्तुम्, दूरत्वादेव तेषामनुपलब्धियोग्यत्वान्न स्वात्मनो ऽभावस्तेषु शक्यते ऽवगन्तुम् ।
अथ तत्र सतो दूरस्थत्वमेव न स्यात्, अतऽ सहैव देशान्तरे स्वशरीरमुपलब्धियोग्यं भवति, योग्यत्वाच्चोपलभ्येत्, यो हि यत्र भवति तस्य सहैवाधारेणात्मोपलब्धियोग्यो भवति, न चेह तथा, अतो न देशान्तरेषवस्तीति ।
एवं चानुमानेन देशान्तराभावो ग्रहीतव्यऽ ।
न प्रत्यक्षाभावेन ।
तत्र च विरुद्धाव्यभिचारितोक्तैव--- देशान्तराणि विमतिपदानि चैत्रवन्ति चैत्रवद्देशसमीपव्यतिरिक्तदेशत्वाच्चैत्रवद्देशवदिति ।
यत्र च प्रतिहेतुना सन्देहऽ क्रियते तत्र बलवतान्येन सर्वत्राभावेन समर्थम् ।
सा ह्येवं प्रवर्तते, यदेतदेकत्र कार्त्स्न्येन चैत्रस्योपलम्भनं तन्नोपपद्यते, यदि देशान्तरे चैत्रो भवेत्, द्वेधा हि भावाऽ प्रादेशिका विभवश्च, विभवो ऽपि द्वेधा, सर्वव्यापिनऽ स्वाश्रयव्यापिनश्च ।
पूर्वे गगनादयऽ ।
उत्तरे जात्यादयऽ ।
यद्धि सर्वसंयोगिभिरनागतैरगतं सम्बध्यते, तद्विभुतया प्रसिद्धम्, तया चात्माकाशादय इति विभव इत्युच्यन्ते ।
न तावदाकाशवच्चैत्रऽ, एकत्र परिसमाप्तो हि परिमण्डलऽ सो ऽवगम्यते ।
न च यथावयवी स्वावयवेषु वर्तते तथा देशान्तरे वर्तितुमर्हति ।
यदि हि तस्यान्यत्र भागाऽ भवेयुऽ इह कृत्स्नो नोपलभ्येत ।
भवन्वान्तराले विच्छेदादन्यो भवेत् ।
न च जातिवद् वर्तितुमर्हति ।
जातिर्ह्यमूर्ता, सैकत्र नहीदं सामान्यम् ।
संयोगो ऽस्य देशान्तरेण सम्बन्धऽ ।
स च नागतस्य सम्भवति ।
गत्वा ह्यवं देशान्तरैऽ संयुज्यमानो दृश्यते ।
अत एव न विभुऽ ।
कार्यस्य ननु लिङ्गत्वं न सम्बन्धानपेक्षणात् ।
दृष्ट्वा सम्बन्धितां चैषा शक्तिर्गम्येत नान्यथा

5.7.49

तद्दर्शने तदानीं च प्रत्यक्षादेरसम्भवात् ।
अर्थापत्तेऽ प्रमाणत्वं त्रैलक्षण्याद् विना भवेत्

5.7.50

अतो ऽस्यन कथञ्चिदेकत्र सतो ऽन्यत्र सत्त्वमुपपद्यत इत्यन्यत्राभावमन्तर्भाव्य कृत्स्नबोधऽ समर्थ्यते, का पुनरत्रानुपपत्तिऽ, नात्र कृत्स्नबोधस्य केनचित् प्रतिघातो दश्यते ।
भावानुमानेनैव केवलं तु दुर्बले प्रतिघातहेतौ तदबाधेनैवार्थापत्तिरात्मानं लभते ।
दुर्बलं चेह भावानुमानं प्रतिहेतुविरुद्धत्वात् ।
यत्र तु तुल्यबलमुभयमेकत्रोपनिपतितं भवति, तत्रार्थान्तरकल्पनयोपपत्तिरिति न किञ्चिदनुपपन्नमिति ।
एवं तावदभावपूर्विकाया अर्थापत्तेरनुमानाद् भेद उक्तऽ, प्रत्यक्षपूर्विकाया भेदमिदानीं दर्शयितुं तत्प्रतिज्ञानं तावदाह--- यत्र चेति ।
यत्रापि दाहादिकार्यदर्शनादग्न्यादेऽ कारणस्य शक्तिरस्तीति कल्प्यते तत्राप्यर्थापत्तिरेव प्रथमा ।
यदि तु पश्चादनुमानं भवति भवतु ।
भाष्योदाहृतत्वाच्चाभावपूर्विकाया एव प्रथममनुमानाद् भेदो वर्णित इति ॥46,47॥
अत्रानुमानवादिनां लिङ्गमुपन्यस्यति---कार्यस्येति ।
एवं हि मन्यन्ते--- द्विविधमनुमानं दृष्टस्वलक्षणविषयमदृष्टस्वलक्षमविषयं च संयोगविभागादिभ्य इव क्रियाद्यनुमानम् ।
कार्यं हि कारणेन सामान्यतो ज्ञातसम्बन्धमिति ततस्तत्प्रतीतिरनुमानभेवेदमिति ।
एतदपि दूषयति--- न सम्बन्धेति ।
येन ह्येकदा बीजादङ्कुरो दृष्टऽ सो ऽन्यदा तथाविधादेव पुनरनुपलभमानऽ स्वभावानुमानेन जनयितव्यो ऽनेनाङ्कुर इत्यनुमिमान एवात्रा शङ्कते कथमङ्कुरो न जायत इति, ततऽ कल्पयति--- अस्ति कश्चिद् बीजसमवायी शक्तिभेदो यद्वशात् प्राक् कार्यमासीदद्य च नास्तीति ।
तच्चेदमनपेक्षितसम्बन्धस्यैव पुरातनेदानीन्तनाङ्कुरदर्शनादर्शनविचारादेव ज्ञानं जायमानं कथमनुमानमिति ।
अपि च सम्बन्धग्रहणाधीनमेव सर्वमनुमानं न तदगृहीतयोऽ सम्बन्धिनोऽ सम्भवति ।
न चेह तयोरतीन्द्रिया शक्तिऽ
अनुमानादभिन्नत्वान्नोक्तौ जयपराजयौ ।
वघ्यघातकभावेन यौ सर्पनकुलादिषु

5.7.51

पीनो दिवा न भुङ्क्ते चेत्येवमादिवचऽ श्रुतौ

5.7.52

तामर्थगोचरां केचिदपरे शब्दगोचराम् ।
कल्पयन्त्यागमाच्चैनामभिन्नां प्रतिजानते

5.7.53

प्रमाणान्तरेण शक्यते ऽनुभवितुम्, अत एव च न तद्वतो ऽपि ग्रहणं सम्भवति, अतऽ कथमगृहीतसम्बन्धात्
कार्याच्छक्तितद्वतोऽ सिद्धिरिति ।
तदेतदाह--- दृष्टवेति ।
नन्ववगतं तावत् कार्यसामान्यं कारणसामान्येन व्याप्तमिति, अतस्तदनुमास्यते ।
सत्यम्, किन्तु शक्तिककल्पनया विना कारणाख्यैव न निवर्तते ।
अङ्कुरो हि बीजभावभावी व्यभिचरितभावान्तरश्च बीजकारणक इत्यवगतऽ सत्यपि तु बीजे ऽजायमानस्तदपि व्यभिचरतीति कारणावगतिरेवावसीदति, तां शक्तिकल्पनयोत्तभ्नाति ।
कॢप्तायां च शक्तौ कारणसम्बन्धिन्यामर्थापत्त्या यदि सम्बन्धो ऽवगम्यते तदस्तु सिद्धान्तवच्छक्तिसिद्धावर्थापत्तिऽ प्रमाणमिति ।
अनुमानलक्षणाद् विनार्ऽथापत्तिर्जायमाना प्रमाणान्तरमित्युपसंहरति--- अर्थापत्तेरिति ॥49॥
वृत्त्यन्तरोदाहृतमुदाहरण दूषयति---अनुमानादिति ।
जयो हि पराजयेन विदितव्याप्तिरिति तमेकत्र घातके नकुले दृष्ट्वा प्रतिपक्षस्य पराजयो ऽवगम्यते ।
पराजयदर्शनेन प्रतिपक्षस्य जय इति ।
नेदमर्थापत्तावुदाहार्यमिति ॥50॥
श्रुतार्थपत्तिरभिधास्यत इत्युक्तम्, तामिदानीमुदाहरति--- पीन इति ॥51॥
अस्याश्च विषयं प्रत्यस्ति विवादऽ ।
तमेकनिर्धारणार्थमुपन्यस्यति---तामर्थेतिकल्पयन्त्यन्तेन ।
सर्वे चागमाबहिर्भूतामातिष्ठन्त इत्याह--- आगमाच्चेति ॥52॥
प्रायशश्चानया वेदे व्यवाहारो व्यवस्थितऽ ।
सो ऽवैदिकऽ प्रसज्येत यद्येषा भिद्यते ततऽ

5.7.54

वचनस्य श्रुतस्यैव सो ऽप्यर्थऽ कैश्चिदाश्रितऽ ।
तदर्थोपप्लुतस्यान्यैरिष्टो वाक्यान्तरस्य तु

5.7.55

न तावच्छ्रूयमाणस्य वचसोर्ऽथो ऽयमिष्यते ।
न ह्यनेकार्थता युक्ता वाक्ये वाचकता तथा

5.7.56

पदार्थान्वयरूपेण वाक्यार्थो हि प्रतीयते ।
न रात्र्यादिपदार्थश्च दिवावाक्येन गम्यते

5.7.57

न दिवादिपदार्थानां संसर्गो रात्रिभोजनम् ।
न भेदो येन तद्वाक्यं तस्य स्यात् प्रतिपादकम्

5.7.58

आगमाभेदाभ्युपगमे ऽभिप्रायमाह---प्रायशैति ।
फलापूर्वविध्यन्तादिसिद्धौ भूयानस्या वेदे उपयोगऽ, सर्वो ऽनागमत्वेवैदिकऽ स्यादिति ॥53॥
आगमिकत्वे ऽप्यवान्तरविप्रतिपत्तिमुपन्यस्यति---वचनस्येति ।
अत्र निष्कर्षं दर्शयति---न तावदिति ।
कारणमाह--- न हीति ।
वाक्यं तावदवाचकम्, प्रगेवानेकेषामर्थानामिति ॥55॥
यद्यवाचकं कथं वाक्यादर्थप्रतीतिरत आह---पदार्थेति ।
एतच्च तदभूताधिकरणे वक्ष्यत इति ।
ननु रात्र्यादिवाक्यार्थो यदि दिवावाक्येनानभिहितऽ पदार्थान्वयरूपेणैव स्वार्थवद् गमयिष्यते ।
अत आह--- न रात्र्यादीति ।
न हि दिवावाक्ये रात्र्यादिपदार्थाऽ सन्ति, कुतस्तत्र तेषामन्वय इति ॥56॥
ननु दिवादिपदार्थान्वयादेव रात्र्यादिवाक्यार्थऽ प्रत्येष्यते, अत आह---न दिवादीति ॥57॥
अन्यार्थव्यापृतत्वाच्च न द्वितीयार्थकल्पना ।
तस्माद् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते

5.7.59

तस्य चागमिकत्वे ऽपि यत्तद् वाक्यं प्रतीयते ।
प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद् भवेत्

5.7.60

न ह्यनुच्चारिते वाक्ये प्रत्यक्षं तावदिष्यते ।
नानुमानं न चेदं हि दृष्टं तेन सह क्वचित्

5.7.61

यदि त्वनुपलब्धे ऽपि सम्बन्धे लिङ्गतेष्यते ।
तदुच्चारणमात्रेण सर्ववाक्यमितिर्भवेत्

5.7.62

न चार्थापत्तिगम्यानि सर्वैऽ सर्ववचांसि हि ।
सम्बद्धान्युपलब्धानि येन तेष्वनुमा भवेत्

5.7.63

न ह्यनेकार्थतेति यदुक्तं तद् विवृणाति---अन्यार्थेति ।
अतो वाक्यान्तरस्यैवायमर्थो न दिनावाक्यस्येत्याह--- तस्मादिति ॥58॥
एवं तावन्न मूलागमस्यायमर्थऽ, येन तु वाक्यान्तरेण बुद्धिस्थेनायमर्थो ऽवगम्यते, तस्यैव प्रत्यक्षादिषु मध्ये प्रमाणं निर्धारणीयमित्याह--- तस्येति ॥59॥
तत्र प्रत्यक्षं तावन्न तत्सिद्धौ प्रमाणमित्याह---न हीति ।
अनुमानमपि तेन सम्बद्धस्य दिवावाक्यस्यादर्शनान्न सम्भवतीत्याह--- नानुमानमिति ॥60॥
अविदितसम्बन्धे तु दिवावाक्ये लिङ्ग इष्यमाणे ऽव्यवस्थेत्याह---यदि त्विति ॥61॥
यदि तूच्यते सम्बन्धमेवदिवावाक्यस्य रात्रिवाक्येनगृहीत्वा ततस्तदनुमास्यत इति, सिध्यत्येवम्, न तुश्रुतार्थापत्तिवेद्यानि सर्वाणि लोकवेदवाक्यानि सर्वैऽ प्रतिपादकवाक्यैऽ सम्बद्धान्यवगतानि ।
अतऽ कथं तेभ्यस्तान्यनुमीयन्त इत्याह---न चेति ॥62॥
न च सत्तानुमानेन विशेषो वानुमीयते ।
इह वाक्यविशेषस्य सत्तैव त्ववगम्यते

5.7.64

पूर्वसिद्धऽ स्वतन्त्रोर्ऽथऽ स्वतन्त्रेण विशेषितऽ ।
धर्मी धर्मविशिष्टो ऽत्र नानुमेयऽ प्रतीयते

5.7.65

अथ श्रुतस्य वाक्यस्य मीयते तद्विशिष्टता ।
ततऽ पक्षो ऽभ्युपेतऽ स्यादप्रसिद्धविशेषणऽ

5.7.66

किञ्च लिङ्गान्तराभावादेतस्य यदि लिङ्गता ।
प्रतिज्ञार्थैकदेशत्वं पदवत् तै प्रसज्यते

5.7.67

तद्वदेव निराकार्या वचसोर्धर्मधर्मिता ।
नागृहीते हि तद्धर्मो गृहीते नानुमेयता

5.7.68

इतश्च नानुमानमित्याह--- न चेति ।
केनचिद्धि सामान्यात्मना ज्ञातसम्बन्धेन विशिष्टं किञ्चिदनुमीयते न वस्तुसत्तामात्रम् ।
न च विशिष्टऽ, अज्ञातसम्बन्धत्वात् इह तु तदुभयं विपरीतमिति ॥63॥
यतश्चात्र वाक्यास्वरूपमेव प्रमेयमतऽ पर्वतादिरिव पूर्वसिद्धऽ स्वतन्त्रो ऽसम्बद्धऽ केनचिदग्न्यादिनेव स्वतन्त्रेण केनचिद् विशेषितो धर्मी धर्मविशिष्टो नास्तीत्याह--- पूर्वसिद्ध इति ॥64॥
अथ श्रुतमेव वाक्यं धर्मितयोपादायाश्रुतवाक्यविशिष्टता साध्यते ततस्तदप्रसिद्धेरप्रसिद्धविशेषणऽ पक्ष इत्याह--- अथेति ॥65॥
अपि च श्रुते वाक्ये ऽश्रुतवाक्यविशिष्टे साध्यमाने न तावत् किञ्चिल्लिङ्गमुपलभ्यते, न चालिङ्गकनुमानं भवति, तद् यदि तदेव पुनर्लिङ्गमिष्यते ततऽ प्रतिज्ञार्थैकदेशित्वम्, यथा पदे पक्षीकृतेर्ऽथविशिष्टे साध्यमाने ऽभिहितमित्याह---किञ्चेति ॥66॥
धर्मधर्मिभावो ऽपि दिवावाक्यरात्रिवाक्यदयोऽ शब्दार्थयोरिव निराकार्य इत्याह--- तद्वदेवेति ।
यथा तत्रार्थे धर्मिण्यप्रतिपन्ने न पदं तद्धर्म इत्युक्तम्, एवमिहापि नाप्रतिपन्ने रात्रिवाक्ये तद्धधर्मतया दिवा
क्रियाकारकसम्बन्धादृते नास्ति तु धर्मता ।
अवाचकतया चैतन्न धर्मो विषयात्मना

5.7.69

प्रतीतेर्वाचकत्वं चेत् प्रसक्तानेकशक्तिता ।
अनुमाविषयोत्थं तु धर्मत्वं निष्फलं भवेत्

5.7.70

पदार्थैरपि तद्वाक्यं नासम्बन्धात् प्रतीयते ।
सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि

5.7.71

वाक्यं प्रतीयते ।
अथ तु पक्षधर्मताप्रतिपत्त्यर्थं तत् प्रथममवगतमित्युच्यते ततो ऽनुमेयाभाव इत्यभिप्रायऽ ।
अभिप्रायं
विवृणोति--- नागृहीत इति ॥67॥
अपि च तत्रैव पदे वर्णितम्--- न क्रियाकारकसम्बन्धादृते सम्बन्धो भवतीति ।
अतो यथा पदस्य न कश्चित्
क्रियानिवन्धनोर्ऽथसम्बन्धो ऽस्तीति न तद्धर्म इत्युक्तम्, एवं दिवावाक्यस्यापि रात्रिवाक्यधर्मत निराकार्येत्याह---क्रियेति ।
न चात्र विषयविषयिभावरूपापि द्वयार्वाक्ययोऽ शब्दार्थयोरिव सम्बन्धो भवति उच्यते हि शब्देनार्थऽ, न तु वाक्यं वाक्यान्तरस्य वाचकमित्याह--- अवाचकेति ।
पदे त्वर्थप्रतीतिजनकत्वेन तद्विषयतामङ्गीकृत्यानुमेयाभावो दर्शितऽ ।
इह तु वाक्यस्यावाचकत्वात् तद्विषयत्वमेव प्रत्येतुं न शक्यते इति विशेषऽ ॥68॥
यदि तूच्यते प्रतीयते तावद् दिवावाक्याद् रात्रिवाक्यम्, अतस्तस्यापि तद्वाचकत्वमित्यस्ति विषयविषयिलक्षणऽ सम्बन्ध इति, तत्रैकं वाक्यमनेकार्थमभ्युपगतं भवेत्, स्वार्थं हि तत्प्रतिपादयति रात्रिवाक्यमपि, न चैवं न्याय्यमित्यभिप्रायेणाह---प्रतीतेरिति ।
अथोच्येत--- माभूदवाचकतया त्दविषयत्वम्,तेन तु तद्वाक्यमनुमीयते, अतस्तल्लिङ्गमनुमानविषयतया लिङ्गमेव दिवावाक्यं तद्धर्मतयाभिधीयत इति ।
यत्तावदनुमानविषयभावादुत्थितं तद्धर्मत्वं तदनुमानस्य पूर्वसिद्धत्वान्निष्फलमित्याह--- अनुमेति ॥69॥
एवं तावद् दिवावाक्यमलिङ्गमित्युक्तम्, तद्गतपदार्थानामप्येवमेव लिङ्गता निराकार्येत्याह---पदार्थैरिति ।
नन्वगृहीतसम्बन्धा एव पदार्था
न तु वाक्यान्तरेणैषां विना किञ्चिन्न सिध्यति ।
न चाप्यन्यऽ प्रकारो ऽस्ति तेन वाक्येन सङ्गतौ

5.7.72

अथैतद्वाचि कल्प्येत वाक्यमन्यत् तथैव च ।
प्रसङ्गात् तत्र दूरे ऽपि नासम्बन्धात् प्रमुच्यते

5.7.73

ततश्च प्रथमादेव वरं ज्ञातुमसङ्गतात् ।
अन्वयव्यतिरेकौ च प्रतिषेध्यौ पदे यथा

5.7.74

यथा वाक्यार्थं गमयन्ति, एवं रात्रिवाक्यमपि किं न गमयन्ति, अत आह--सामान्येति ।
क्रियासामान्यं कारकसामान्यं वा प्रतिपन्नमलब्धेतरेतरव्यतिषङ्गमन्यथा न सिध्यतीति तं विशेषं गमयति, यश्चासौ विशेषऽ स एव तु वाक्यार्थ इत्युच्यते इति ॥70॥
न चैष प्रकारो रात्रिवाक्यप्रतिपादने सम्भवतीत्याह---न त्विति ।
यद्यपि दिवावाक्यं न रात्रिवाक्यस्य वाचकम्, तथापि कल्पयिष्यामऽ, ततश्च तत्प्रत्येष्यत इति ।
तदिदमाशङ्केते तावत् --- अथैतद्वाचीत्यन्यदन्तेन ।
अत्र दूषणमाह--- तथैवेति ।
अत्र तावदेवं वाक्यान्तरकल्पनायां प्रमाणमेव नास्तीति तदनादृत्य तावदनवस्थामापादयति, यदपि कल्पितं वाक्यं तदपि न रात्रिवाकय्मवगमयितुं शक्तम् ।
न च तदसम्बद्धमेव तस्य गमकमिति युक्तम् ।
पुनरपि वाक्यान्तरकल्पनायां स एव दोषऽ ।
एवं यदेव किञ्चिद् वाक्यं कल्पयितुमिष्यते तदेव नासम्बद्धं गमकमित्यनवस्थापत इति ॥72॥
अथ त्वन्तिममसम्बद्धमेव गमकमिति कल्प्यते, तद् वरं प्रथमस्यैव तथाविधस्य गमक्तवं कल्पतुम्, किं वाक्यान्तरककल्पनया ।
नच तद्युक्तमित्यभिप्रायेणाह--- ततश्चेति ।
एवं तावत् पक्षधर्मत्वाद्यसम्भवेन राक्षिवाक्यस्यानुमेयत्वं निरस्तम्, अन्वयव्यतिरेकयोरपि पदवत् प्रतिषेधो दर्शयितव्य इत्याह--- अन्वयेति ।
नहि सत्येव रात्रिवाक्ये दिवावाक्यं
श्रुतवाक्येन सादृश्यं नाश्रुतस्यास्ति किञ्चन ।
तस्मादनुपमानत्वमर्थस्याप्यनया दिशा

5.7.75

उपमानत्वलिङ्गेन वाक्यं प्रति निवारिते ।
अर्थे ऽपि चैवमेव स्यात् तस्मात् पूर्वेष्वसम्भवऽ

5.7.76

अतऽ श्रुतस्य वाक्यस्य यदर्थप्रतिपादनम् ।
तदात्मलाभ एव स्याद् विना नेत्येतदिष्यते

5.7.77

एतदर्थाद् विना नायमित्यर्थऽ किं न कल्प्यते ।
वाक्यार्थवच्च किं नायमागमार्थऽ प्रतीयते

5.7.78

नासतीत्यन्वयव्यतिरेकौ स्तऽ, तद्देशतत्कालादिसम्बन्धस्याभावात् ।
न च ज्ञानान्वयो ऽसत्यपि रात्रिवाक्यज्ञाने व्युत्पन्नस्य दिवावाक्यज्ञानाद्, विज्ञानोत्तरकालभाविनोश्चान्वयव्यतिरेकयोस्तदनुपयोगादित्यादिपदवद्दर्शयितव्यमित्यभिप्रायऽ ॥73॥
एवं तावत् प्रत्यक्षानुमानागमैर्न रात्रिवाक्यं प्रतीयत इत्युक्तम्, उपमानमपि तत्र न प्रमाणमिति दर्शयति---श्रुतवाक्येति त्वमन्तेन ।
दिवावाक्यवच्च तदर्थेनापि न रात्रिवाक्यमुपमीयत इत्याह--- अर्थस्येति ॥74॥
यथा च रात्रिवाक्यस्य दिवावाक्यततदर्थाभ्यामुपमानं निरस्तमेवं रात्रिवाक्यार्थस्यापि ताभ्यां निरसनीयमित्याह--- उपमानत्वेति स्यादन्तेन ।
उपसंहरति--- तस्मादिति ॥75॥
अतऽ प्रमाणान्तरराभावादर्थापत्तिरेव रात्रिवाक्यावगमे शरणमित्याह---अतैति ।
प्रत्यक्षदृष्टं पीनत्वं भोजनप्रतिषेधेन प्रतिहन्यते, पीनत्वेन दिवाभोजनम्, अतऽ परस्परप्रतिघाताद् दिवावाक्यस्य स्वार्थप्रतिपादनमेवानुपपद्यमानं रात्रिवाक्यमनुप्रवेशयति, अतऽ तद्रात्रिवाक्यं कल्प्यत इति ॥76॥
तामर्थविषयामिति यद्क्तं तदिदानीं दूषयितुमुपन्यस्यति---एतदर्थाद्विनेति ।
अयमभिप्रायऽ--- पीन्तवं हि भोजनप्रतिषेधो वा परस्परेण प्रतिहन्यते तयोश्चार्थकल्पनयैवात्मलाभऽ ।
पीनस्य हि दिवा निषिद्धे
सविकल्पविज्ञानैऽ शब्दऽ पूर्वं प्रतीयते ।
लब्धप्रयोजने वाक्ये परं नागमिकं च नऽ

5.7.79

भोजने, रात्रिभोजनेनैव पीनत्वमुपपद्यते, न रात्रिवाक्येनातोर्ऽथकल्पनैव युक्तेति ।
अपि च, यथा परैरभिधीयमानो ऽपि पदार्थानुपपत्त्या गम्यमानो वाक्यार्थ आगमार्थो भवति ।
एवं वाक्यार्थानुपपत्तिगम्यो ऽप्यर्थऽ किं नागमे ऽन्तर्भवतीत्याह--- वाक्यार्थेति ॥77॥
प्रथमपरिचोदनां तावत् परिहरति---सविकल्पकेति ।
सविकल्पको हि श्रुतार्थापत्तिबोधऽ सविकल्पज्ञानानि च शब्दपुरऽ सराणि ।
अतऽ शब्दपर्यवसितायामर्थापत्तौ शब्दादेव सिध्यन्नर्थो नार्थापत्तेर्विषय इति ।
नन्वेवं सर्वप्रमाणविकल्पेषु समानमिदम्, इन्द्रियलिङ्गाभ्यामपि शब्दपुरऽ सरमेवाग्निऽ प्रतीयते, ततस्तयोरपि शब्दपर्यवसायितैव भवेत् अतस्तत्र स्मृतिस्थ एव शब्दो ऽप्रत्यायकऽ, तदिहापि समानम् ।
यथा हि कर्मेन्द्रियमर्थेनैव सन्निकृष्टमिति तमेव प्रकाशयति लिङ्गं चार्थेन सम्बद्धमिति त गमयति, न शब्दम्, एवमिहाप्यनुपपद्यमानोर्ऽथेनैवोपपद्यते न शब्देन ।
तथा च दृष्टार्थापत्तयोर्ऽथविषया एव ।
अत्रोच्यते ।
सत्यमर्थद्वारिकेव वाक्यान्तरमेवाकाङ्क्षति, यथा पदं पदान्तरम् ।
न हि पचतीत्युक्ते ओदनप्रत्यक्षेणाकाङ्क्षा निवर्तते, किं तर्हि ओदनमिति पदेन, एवं वाक्यमप्यनुपपद्यमानतयावगतं वाक्यान्तरमेवाकाङ्क्षति, न तु तमर्थं स्वरूपेण ।
अत एव निर्वापमन्त्रे ऽतिदेशाद् विकृतिं गते प्राकृतदेवताया अभावात् तत्पदनिवृत्तौ तस्य स्थाने सूर्यायेति पदमूह्यते ।
छेदनमन्त्रे त्विषेत्वेत्यत्र छिनद्मीति पदमध्याह्रियते ।
हृदयस्याग्ने ऽवद्यति अथ जिह्वाया अथ वक्षस इत्यत्रापद्यतिपदानुषङ्गऽ ।
न चार्थ एवानुषज्यते ऽअनुषङ्गो वाक्यसमाप्तिऽ सर्वेषु पेक्ष्यते शब्दोल्लेखेनापि गृह्यमाणऽ, किन्न्वर्थरूपेणैव, तमर्थं विकल्पयनि शब्दन्त्वस्तु नाम सन्मात्रतया ।
यदि तु तत्रापि शब्दो ऽपेक्ष्यते तिरश्चामर्थविकल्पो न स्यात्, स च नास्ति दृश्येत हि तेषामपि हिताहितप्राप्तिपरिहारार्थऽ प्रयत्नऽ ।
तृषिता हि गावस्तटाकानि गच्छन्ति, वर्षातपाभि
ननु चासति सम्बन्धे सति वानवधारिते ।
गम्यज्ञानमिदं वाक्यं प्रसज्येताप्रमाणकम्

5.7.80

भूताश्च तत्प्रतीकारक्षमं देशम् ।
अतो ऽशब्दज्ञानामप्यनुमानादिविकल्पदर्शनान्न तत्र शब्दापेक्षास्तीति निश्चीयते ।
श्रुतार्थापत्तिबोधस्तु तिरश्चां नास्त्येव, शब्दव्युत्पत्तिजो ह्यसौ, न च तेषामसावस्तीति प्रत्यक्षे ऽपि वर्णितम् ।
अन्येषामप्यव्युत्पन्नमशब्दानां श्रुतार्थापत्तिबोधो न दृश्यते ।
किं पुनस्तिरश्चाम् ।
अथो ऽन्वयव्यतिरेकाभ्यामगम्यते ऽस्ति शब्दापेक्षा श्रुतार्थापत्तौऽ ।
अनुमानादिषु तु संस्कारोदबोधेनावर्जनीयतयास्तु नाम शब्दस्मृतिऽ, न तु शब्दापेक्षा ।
अतो ऽत्र वाक्यस्यानुपपन्नस्य वाक्यान्तरमेवार्थवदुपपादकं न त्वर्थमात्रं शब्दमात्रं वा ।
अत एवागृहीतसम्बन्धस्यार्थमविदुषऽ श्रुते ऽप्युपपादके वाक्ये नानुपपन्नवाक्यार्थज्ञाने ऽनुपपत्तिऽ शाम्यति, प्रतिपन्नार्थस्याप्याशयकल्पना ।
अतो न श्रुतवाक्यस्य न्यूनताबुद्धिर्निवलब्धप्रयोजन इति ।
यावद्धयकृतार्थऽ शब्दस्तावद् बोधो ऽवगम्यते, स तदर्थो भवति ।
प्रयोजनवचनो ह्यर्थशब्दऽ ।
अत एव वाक्यार्थ आगमार्थो भवति ।
तु क्रियाकारकसंसर्गे लब्धप्रयोजनं वाक्यमिति ततऽ परमर्थान्तरमवगम्यमानं नागमिकं भवति ।
न हि प्रयोजनत्वावगतार्थानुपपत्त्या यदवगम्यते नासाद्यत इति युक्तं वाक्यार्थस्य पूर्वावगतस्यागमार्थात्वम् ।
कऽ पुनर्विशेषऽ, उच्यते ।
श्रुतागमार्थत्वे यदि प्रमादात् तन्नाशो भवति ततो यजुर्वेदादिविहितनाशनिमित्तं प्रायश्चितम्, इतरथा त्वविज्ञातनाशनिमित्तमिति यद्यविज्ञातो भूर्भुवऽ स्वऽ स्वाहेति महाव्याहृतीऽ समाहृत्य प्रायश्चितं समुपदिशति ।
श्रुतार्थापत्तिवेद्य एव हि वेदो ऽविज्ञात इत्युच्यते, स ह्यृगादीनां नान्यतमत्वेन
ज्ञायत इति ॥78॥
अत्र चोदयति---ननु चेति ।
न तावद् दिवावाक्यरात्रिवाक्ययोऽ सम्बन्धो ऽस्ति, सन्नपि वा न विदितऽ, न
चाविदितसम्बन्धान्यदर्श
सम्बन्धस्य प्रमाणत्वं स्थितं किं चेश्वराज्ञया ।
प्रत्यक्षस्य प्रमाणत्वं कथं वा सङ्गतेर्विना

5.7.81

अस्तीन्द्रियार्थसम्बन्धस्तत्र चेन्नानपेक्षणात् ।
न हि प्रत्यक्षवेलायां सर्वेणासौ निरूप्यते

5.7.82

येनापि तु निरूप्येत पश्चादनुभवादसौ ।
न स्यादेव प्रमाणाङ्गमसता तुल्य एव सऽ

5.7.83

अप्राप्यकारिणी येषां चक्षुऽ श्रोत्रे च ते यथा ।
तज्ज्ञानस्य प्रमाणत्वमिच्छन्त्येवं भविष्यति

5.7.84

तस्मादसत्त्वे सत्त्वे वा सम्बन्धस्य यदेव नऽ ।
जायेताभङ्गुरं ज्ञान तस्यैव स्यात् प्रमाणता

5.7.85

ने ऽन्यकल्पना युक्ता, अतिपप्रसङ्गात् ।
प्रतिबद्धस्वभावं हि प्रतिबन्धबलादेव प्रतिबन्धकमुपस्थापयति, अप्रतिबनधेन त्वन्यकल्पनायां न प्रतिनियमे कारणमस्ति ।
अतो ऽप्रमाणमेवेदं रात्रिवाक्यज्ञानमिति ॥79॥
परिहरति---सम्बन्धस्येति ।
प्रभाणत्वं प्रमाकरणत्वमित्यर्थऽ ।
करणसाधनश्च प्रमाणशब्द इति ।
अकारणत्वमेव प्रामाण्ये सम्बन्धस्य दर्शयति--- प्रत्यक्षस्येति ॥80॥
नन्विन्द्रियार्तसन्निकर्षजमेव प्रत्यक्षमतो नाकारणं प्रामाण्ये सम्बन्ध इति चोदयति---अस्तीतिचेदन्तेन ।
परिहरति--- नानपेक्षणादिति ।
अनपेक्षत्वमेव दर्शयति--- न हीति ।
निरूपितो हि सम्बन्धऽ प्रमाणोत्पत्तौ कारणमनुमाने, न चेह तथेति ॥81॥
प्रत्यक्षोत्तरकालं तु निरूपणं न प्रमाणाङ्गनमित्याह---येनापीति ॥82॥
अपि चाप्राप्यकारीन्द्रियवादिपक्षे स्वरूपसत्त्वमपि सम्बन्धस्य नास्त्येव, अतो यथा ते प्रत्यक्षज्ञानस्य प्रमाणतामिच्छन्ति, एवमिहापि भविष्यतीत्यत आह---अप्राप्येति ॥83॥
तेनानादृत्यैव सम्बद्धमुत्पन्नमसन्दिग्धमविपरीतं च देशादिभेदे ऽपि ज्ञानं प्रमाणमितयाश्रयणीयमित्याह---तस्मादिति ।
जायत इत्त्यनुत्पत्तिलक्षणमप्रामाण्यं निरस्यति, अभङ्गुरमिति संशयविपर्ययाविति ॥84॥
न चाप्यस्याऽ प्रमाणत्वे कश्चिद् विप्रतिपद्यते ।
भेदाभेदे विसंवादऽ कृतस्तत्र च निर्णयऽ

5.7.86

ऋते यत्र च सम्बन्धाद् बुद्धरेव न जायते ।
तत्र किं क्रियतां सो ऽपि प्रामाण्ये नैव कारणम्

5.7.87

स्मृत्या श्रुतिर्या परिकल्प्यते ऽस्मिन् लिङ्गादिभिर्या विनियोजिका च ।
फलादिभिर्यत् परिपूरणं च सम्बन्धदृक् तत्र न काचिदस्ति

5.7.88

अपि चार्थापत्तिरप्रमाणित्यलौकिको विवाद इति ।
न हि तया प्रवर्तमानानां प्रवृत्तिऽ प्रतिहन्यते ।
प्रवृत्तिसामर्थ्यं च प्रामाण्यम् ।
अनुमानाद् भेदाभेदयोरस्ति विवादऽ, तत्र चास्माभिऽ कृतो निर्णय इत्याह---न चापीति ॥85॥
यद्येवमनुमाने ऽपि सम्बन्धो नाङ्गमेवापद्येतात आह---ऋतैति ।
तत्र हि बुद्धिरेवासति सम्बन्धज्ञाने न जायत इति तदुत्पत्तौ कारणमाश्रीयत एव ।
प्रामाण्यं तु तत्रापि बाधविरहीदेवेति ॥86॥
वेदोपयोगमर्थापत्तेर्दर्शयति---स्मृत्येति ।
भूयान् खलु वेदभागऽ श्रुतार्थापत्तिप्रमाणकऽ स तामन्तरेण न सिध्येत, यथैव हि पाठेनाभिव्यक्ता श्रुतिरात्मानं लभते, एवं श्रुतार्थापत्तिप्रमाणका हि ।
यदाह---
ऽयथैव पाठऽ प्रतिपत्त्युपायस्तथैव सामर्थ्यमपि श्रुतीनाम् ।
तेनैव चैकां न समामनन्ति सहस्रभागं तु समामनेयुऽ ॥ऽ इति ।
यथा तावदष्टकादिविषयां मन्वादिस्मृतिमुपलभ्य तन्मूलकारणान्विच्छायामसम्भ्भवत्सु
भ्रमविप्रलिप्सानुभवपुंवाक्यान्तरेषु स्मृतेऽ स्वमूलकारणमन्तरेणानुपपत्त्या श्रुतिरेव मूलतया कल्प्यते ।
तथा लिङ्गादिभिऽ स्वविनियोजिका श्रुतिरुपकल्प्यते---- यथा तावत् प्रकरणाम्नाते मन्त्रे स्वाध्यायविध्यध्यापिते प्रयोजनमन्तरेणानुपपद्यमाने क्रत्वपेक्षया कच सामान्यतऽ क्रतूपकारावगतौ विशेषापेक्षायां मन्त्रशक्तिनिरीक्षया यच्छक्नुयादित्युपबन्धेन शक्यार्थ
तत्सर्वमित्याद्यसमञ्जसं स्यात् न चेदियं स्यादनुमानतो ऽन्या ।
एवंस्वभावाप्यनुमानशब्दं लभेत चेदस्ति यथेप्सितं नऽ

मूल पाठ: Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc