भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसश्लोकवार्त्तिक (टीका सहित) · अध्याय 5.9

5.9.1

ण्यादृते सिध्यतीति ।
(यथेति ।
यावत् तावद् यथावदिति?) इहेति ।
वेदं प्रतिनिर्देश इति ॥56॥
ननु च व्यासमतानुसारिणोपमानातिरिक्तं प्रमाणद्वयमुपवर्णितम्, ऋषिणा च सम्भवैतिह्ययोरपि प्रमाणत्वमाश्रितम्, तत्परित्यागे कारणं वक्तव्यमत आह----युक्तीति ।
प्रमाणषटकमेव हि युक्त्या सङ्गच्छते ।
आगमानुगतश्च ।
आगमश्च मीमांसातन्त्रम्, अतो युक्त्यागमाभ्यामिह शाबरे भाष्ये प्रमाणषट्कमेव प्रविविच्य तर्कितम् ।
यत्तु द्वयमधिकमिष्टं तदत्रैवान्तर्गतमिति ॥57॥
(कऽ?क्व) पुनस्तस्यान्तर्गतिरत आह---इह भवतीति ।
या तावत् सहस्राच्छते मतिऽ सम्भवाख्यं प्रमाणमिष्यते सानुमानान्न भिद्यते ।
सहस्राच्छतमवियुतिभावादविनाभावादवगम्यते ।
अतस्तावदनुमानान्न भिद्यते ।
ऐतिह्यप्रमाणमुक्तं तावदसत्यमेव ।
निधिप्राप्त्यसुरकन्यावशीकरणादि, द्रौपदीपञ्चभर्तृकेत्यादि , यदि तत् सत्यं तदागमाद् (न) भिद्यते ।
आप्तागमो ह्यसौ ।
उक्तं च--- ऽपुरुषोक्तिरपि श्रोतुरागमत्वं प्रपद्यतेऽ इति ।
अतो ऽनुमानागमयोरन्तर्भावान्न सम्भवैतिह्ययोऽ पृथगुपन्यासऽ सिद्धऽ॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिका-
टीकायामभावपरिच्छेदऽ समाप्तऽ ।
अथ चित्राक्षेपऽ ।
परलोकफलाऽ पूर्वमाक्षिप्ताश्चोदनाऽ परैऽ ।
इदानीमैहिकाक्षेपऽ सूत्रकारेण वोच्यते

5.9.2

भाष्यपाठो विचार्यऽ,अत्र भाष्यम्--- ऽननु भवन्त्वन्यानि प्रमाणानि, शब्दस्तु न प्रमाणम्, कुतऽ? अनिमित्तं विद्यमानोपलम्भनत्वात्ऽ इति ।
अस्यार्थऽ--- यद्यपि सर्वप्रमाणाव्यभिचारान्न प्रमाणसामानयभाविना धर्मेण शब्दो ऽपि न प्रमाणम्, विशेषेण त्वात्मभाविना धर्मेणाप्रमाणम् ।
तथा हि चित्रया पशवो भाव्यन्त इति चित्रया यजेतेत्यस्यारथऽ ।
कृतचित्रस्यापि यजमानस्यानन्तरमविकलसकलेन्द्रियैरपि पशवो न दृश्यन्ते ।
तन्न नूनमिष्टिऽ पशुफलेति भवति मतिऽ ।
तदिदमुक्तम् ऽअनिमित्तं विद्यमानोपलम्भनत्वात्ऽ इति ।
किमुक्तं भवति--- उपलम्भनानि हि चक्षुरादीनि पशूनां विद्यन्ते ।
न च पशुकामेष्ट्यमन्तरं पशव उपलभ्यन्ते ।
तस्मादुक्तविसंवादादप्रमाणं चित्राचोदनेति ।
स पुनरयमाक्षेपो गतार्थ उपलक्ष्यते ।
चोदनासूत्रे हि ऽनन्वतथाभूतम्ऽ इत्यादिना भाष्यकारेणाक्षेपपरिहारावुक्तौ ।
अतऽ पुनरुक्तमिदमित्याशङ्क्याह---- परलोक इति ।
अस्यार्थऽ परलोकफला हि तत्र स्वर्गकामो यजेतेत्येवमादिचोदना वेदबाह्यबोद्धादिपरमतेनाक्षिप्ताऽ ।
इदानीमैहिकफलाश्चित्रादिचोदना आक्षिप्यन्ते ।
ननूभयीमपि चोदनामाक्षेप्तुं शक्यत एव वाक्यत्वादयो हेतवऽ ।
त एव तत्र भाष्यकारेण ऽयत् किञ्चन लौकिकं वनचम्ऽ इति दर्शयतान्तर्णीताऽ ।
वार्तिककृतापि---ऽयदि वा पुरुषाधीनप्रामाण्याऽ सर्वचोदनाऽ इति विवृताऽ ।
तस्मादसदेतत् परलोकफला एव तत्राक्षिप्ता इति ।
यदपि चेदनीमैहिकाक्षेप इत्युक्तं तदयुक्तम्, इहापि च---ऽएवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं नास्तीति मन्यामहऽ इति सर्वाक्षेपऽ कृतऽ ।
वार्तिककारेणापि च
ऽएवं सत्यग्निहोत्रादिवाक्येष्वपि मृषार्थताऽ
इति वदता ।
तस्मादुभयत्राप्युभयाक्षेपमेव न्याय्यं मन्यन्ते ।
केयं व्यवस्था ।
अत्रोच्यते ।
सत्यमुभयत्राप्यभयाक्षेपऽ,
तथापि हेतुभेदादपौनरुक्त्यम् ।
तथाहि--- तत्र वाक्यत्वादयऽ परैरुक्ता आक्षेपहेतवऽ,
चित्रापशुफलत्वादिविषयाश्चोदना मृषा ।
प्रत्यक्षाद्यधिकारे ऽपितैरर्थासङ्गतिर्यतऽ

5.9.3

इदानीं तुशब्दशक्तिपरामर्शद्वारेणाभ्यन्तरा एव हेतव उपपत्स्यन्ते ।
तथा चोक्तम्---
आनन्तर्यमनुक्तं चेन्न सामर्थ्यावबोधनात् ।
इति ।
सामर्थ्यं हि सर्वाख्यातानामर्थं ब्रुवतां सहकारि ।
तद् यद्यपि नेष्टिरनन्तफलेति श्रुतिऽ, तथाप्यर्थसामर्थ्यातदवगम्यते, कथमपरथाऽयदासौ विद्यमानासीत् तदा पलं न दत्तवती, कालान्तरे पुनरसती कथं दास्यतिऽ इति न च पशवो ऽनन्तसमभवद्भावनाऽ, स्वर्गो हि नानाक्षिप्तविशिष्टदेहेन्द्रियादिपरिग्रहो भवितुमुत्सहते, अतो माभूदनन्तरम्, अमी पुनऽ पशवऽ सम्भवन्ति यजमानस्यात्रैवेति स्वहेतुसमनन्तरमनुपलभ्यमाना दृष्टप्रतिग्रहादिहेत्वन्तराऽ श्रुतचित्रादिफलतया न शक्यन्ते ऽवगन्तुम् ।
अयमेव तु शब्दशक्तिपरामर्शो वार्तिककृता तार्किकप्रक्रियामनुविदधानेन ऽन वा पशुफलेऽत्यादिना साधनप्रयोगैरुपदर्शितऽ ।
तदेवमैहिकफलासु चित्राचोदनास्वाक्षिप्तासु तत्सामान्यादितरासु तथात्वमिति पुनरप्यग्निहोत्रादिचोदनाक्षेपे ऽवतिष्ठते ।
स चायमैहिकाक्षेपद्वारेणापिनोच्यते ।
अत एव चैहिकाक्षेप इत्युक्तम् ।
एतदुक्तं भवति--- ऐहिकफलानामामुष्मिकफलानां चायमैहिकाक्षेपपुरस्कारेणैवाक्षेपऽ, यदामुष्मिकस्वर्गादि तन्मा नाम कर्मानन्तरमुपलभ्यतामैहिकफलं तु पश्वादि किं नोपलभ्यते, न चेदमुपलभ्यते, तन्न नूनं तत् फलमिति ऐहिकफलकर्मचोदनाव्यभिचारेणान्यासामपि परलोकफलानां तत्सामान्यादाक्षेपऽ ।
पूर्वं तु ताऽ परतऽ प्रामाण्यमाश्रित्य परोक्तैरैव वाक्यत्वादिभिर्हेतुभिराक्षिप्ताऽ ।
तदुक्तं परैरिति ।
परिहारान्तरमाह--- सूत्रेति ।
अयमभिप्रायऽ--- चोदनासूत्रे भाष्यकृता सूत्रकारेण वक्ष्यमाणाक्षेपपरिहारावनागतावेक्षणेन प्रतिज्ञासमर्थनार्थभुपवर्णितौ ।
इदानीं तु सूत्रकारेण स्वयमेवोच्यत इति तेनेदमेव सर्वचोदनाक्षेपक्षेत्रमित्युक्तमिति ॥1॥
अत्र परिहारे पूर्वोक्त एवाक्षेपहेतुरिति, तमुपन्यस्यति--- चित्रेति फलानीत्यन्तेन ।
अयमर्थऽ--- चित्रापशुफलत्वादिविषयाश्चोदना धर्मिण्यऽ
यदीदृक्तन्मृषा दृष्टं विप्रलिप्सोर्यथा वचऽ ।
नदीतीरे फलानीति तत्रादृस्यानि तानि चेत्

5.9.4

न वा पशुफला चित्रा स्वकाले तददानतऽ ।
स्नानभुज्यादिवत् ते ऽपि तत्साध्या न भवन्ति वा

5.9.5

तदुत्पत्तावसद्भावात् स्वर्गतृप्तिसुखादिवत् ।
वैधर्म्येणोभयत्रापि भवेतां सुखमर्दने

5.9.6

आनन्तर्यमनुक्तं चेन्न सामर्थ्यावबोधनात् ।
मृषेति साध्यो धर्मऽ ।
अधिकृतैऽ प्रवृत्तियोग्यैरपि प्रत्यक्षादिभिरर्थानवगतेऽ ।
यदीदृशं तन्मृषा--- यथा विप्रलिप्सोर्वचऽ ।
आदिशब्देनाग्निहोत्रादिविषया अपि चोदनाऽ पक्षीकरोति ।
ननु विप्रलिप्सुवाक्यमत्र दृष्टान्तऽ ।
न च तन्नियमेन प्रत्यक्षाद्यसङ्गतार्थमसत्यं च ।
तस्मादुभयविकलो दृष्टान्तऽ ।
अत आह--- तत्रेति ।
असत्यर्थे प्रयुक्तमेव नदतीरादिवाक्यमिह दृष्टान्तऽ ।
प्रायेण चैत्रञ्जातीयकं विप्रलिप्सुरेव प्रयुङ्क्त इति विप्रलिप्सोरित्युक्तमिति ॥2,3॥
इदानीमैहिकाक्षेप इत्युक्तं विवृणोति--- न वेति वदन्तेन ।
चित्रेष्टिर्धर्मिणी, न पशुफलेति साध्यम्, स्वकाले पश्वदानात्, स्नानादिवदिति ।
प्रयोगान्तरमाह--- ते ऽपीति ।
ते पशवो न चित्रासाध्याऽ , चित्रोत्पत्तावसद्भावात् स्वर्गतृप्तिसुखादिवत् ।
आदिशब्देनात्र भोजनजन्या तृप्तिरभिप्रेता ।
एतौ च प्रयोगौ ऽनेष्टिऽ पशुफला,कर्मकाले च कर्मफलेन भवितव्यम्ऽ इति भाष्योक्तौ वेदितव्याविति ।
अत्रानन्तरं ऽयत्कालं हि मर्दनं तत्कालमेव मर्दनसुखम्ऽ इति भाष्यकारेणोक्तम्, तद् वैधर्म्यदृष्टान्ततया प्रयोगद्वये योजयति--- वैधर्म्येणेति ।
चित्रा न पशुफला पशवो न तत्साध्या इत्युभयत्रापि प्रयोगे वैधर्म्येण सुखमर्दने भवेताम्, ईदृशी चात्र वैधर्म्यरचना, यद्यत्साध्यं तत्तत्सकाले प्रसूते, मर्दनमिव सुखम् ।
यच्च यत्साध्यं तत् तदुत्पत्तौ भवत्येव सुखमिव मर्दनोत्पत्ताविति ॥4,5॥
ननूक्तिविसंवादादप्रामाण्यमुक्तम् ।
न च किञ्चिदिह विसंवादऽ, न हि कृते कर्मणि तावत्येव फलेन भवितव्यमिति शब्दो ब्रूते, किन्तु अस्येदं
शब्दैकदेशभूतेन तेन तत्प्रतिपादितम्

5.9.7

कालान्तरानुपादानात् कर्मस्वाभाव्यतो ऽपि च ।
चोद्यमानस्य चित्रादेरानन्तर्यं विशेषणम्

5.9.8

अत्र तावदसंवादो विरोधश्चोत्तरत्र तु ।
स्वर्गयानविरुद्धो हि भस्मीभावो ऽत्र दृश्यते

5.9.9

फलमिति ।
एतावति च पर्यवसानात् ।
अतऽ कालान्तरे फलं दास्यति ।
तदेतदुक्तम्--- ऽकालान्तरे फलं दास्यतीति चेत्ऽइति, तदेतदाह---आनन्तर्यमिति ।
परिहरति--- नसामर्थ्येति ।
साक्षादनुक्त्सयानन्तर्यस्याप्यत्र सामर्थ्येनावबोधनं कृतम्,यैव ह्यस्येदं फलमित्युक्तं तदैवमर्थादेवावगम्यते अनन्तरमनेन भवितव्यमिति ।
कथं नामान्यथासत्कालान्तरे फलं दास्यतीति ।
नन्वेवमपि सामर्थ्यलभ्यमानन्तर्यमनन्तरफलानुपलम्भनेन बाध्यताम्, अविशेषप्रवृत्ता तु चोदना कतं बाध्यते अत आह--- शब्देति ।
न हि सामर्थ्यं नाम पृथक् प्रमाणम्, अपि तर्हि सर्वाख्यातानामर्थं ब्रुवतां शक्तिऽ सहकारिणीति शब्दैकदेश एव ।
अतऽ स्रुवावदानमिवाप्यद्रव्येष्वर्थादनन्तरमेव फलं निश्चीयत इति तद्बोधे ऽपि शाब्दबोधो भवत्येवेति ॥6॥
इतश्चानन्तर्यमवगम्यत इत्याह---कालान्तरेति ।
यदि ह्यत्र फलं दास्यतीति ऌङ्श्रोष्यत् तदा तत्सामर्थ्येन कल्पना काचिदप्यभविष्यत् ।
अद्य पुनरस्येदं कर्मणऽ फलमिति पर्यवसिते वचसि सर्वकर्मणामनन्तरफलोपलम्भाद् वैदिकस्यापि चित्रादेश्चोद्यमानस्यापि कर्मणस्तत्स्वाभाव्यादानन्तर्यं विशेषणतयावतिष्ठत इति ॥7॥
अत्रानन्तरमपरं भाष्यम्--- ऽदृष्टविरुद्धमपि किञ्चित् वैदिकं वचनं ऽस एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीऽति ।
तद् येन विशेषेणोक्तं तमाह---अत्रेति ।
अत्र हि चित्रादिवाक्येषूक्तिविसंवादादप्रामाण्युक्तम् ।
उत्तरत्र यज्ञायुधिवाक्ये प्रत्यक्षादिविरोध इति विरोधमभिद्योतयति--- स्वर्गयान इति ।
यजमानस्य निरतिशयानन्दात्मनऽ स्वर्गादतिदूरमपभ्रष्टो भस्मीभावऽ प्रत्यक्षमुपलभ्यते, चित्रादिचोदना
यज्ञायुधिवचो मिथ्या प्रत्यक्षेण विरोधतऽ ।
साधर्म्येण शिलावाक्यं वैधर्म्येणाप्तभाषितम्

5.9.10

शरीदाद् यदि चान्यऽ स्यान्नासौ यज्ञायुधी भवेत् ।
न चास्य यजमानत्वं सद्भावो ऽपि च दुर्लभऽ

5.9.11

सु त्वनन्तरफलानुपलम्भमात्रं न तु विरुद्धोपलम्भऽ कश्चिदस्तीति स्यादपि कालान्तरे फलकल्पना, भस्मीभूतं तु शरीरं कालान्तरे ऽपि स्वर्गं लोकं यास्यतीति न सम्भवतीति पूर्वस्माद् विशेषऽ ॥8॥
अपरमपि च ऽएवञ्जातीयकं प्रमाणविरुद्धं वचनमप्रमाणम्--- अम्बुनि मज्जन्त्यलाबूनि, ग्रावाणऽ प्लवन्त इति यथा ऽ इति भाष्यम्, तद् व्याचष्टेयज्ञेति वाक्यमन्तेन ।
यज्ञायुधवचो धर्मी, मृषेति साध्यो धर्मऽ, प्रत्यक्षविरोधात्, यत्प्रत्यक्षविरुद्धं तन्मिथ्या, यथा ग्रावाणऽ प्लवन्त इति शिला वाक्यं साधर्म्येण यथेति दर्शयितव्यमिति ।
वैधर्म्यदृष्टान्तमाह--- वैधर्म्येणेति ।
यदमिथ्या न तत्प्रत्यक्षविरुद्धं यथाप्तभाषितमिति ।
पूर्वं तु मर्दनसुखयोर्वैधर्म्ये दृष्टान्तरतयोपन्यासाच्छिलावाक्यमपि वैधर्म्येण भाष्यकृतोक्तमिति भ्रान्तिमपनेतुं साधर्म्यवैधर्म्यविवेको वार्तिककृता दर्शितऽ ॥9॥
ननु प्रत्यक्षविरोधादिति हेतुसिद्ध एव, अस्ति हि परलोकफलभोक्ता चेतनऽ कर्मणां कर्ता, स स्वर्गं लोकं यास्यतीति ।
तमेवाभिप्रेत्य स्वर्गं लोकं यास्यतीत्युक्तम् ।
अतऽ को विरोधो ऽत आह---शरीरादिति ।
यदि हि शरीरादन्यश्चेतनो भवेत्, भवेदपि न तस्य यज्ञायुधैरस्ति कश्चित् सम्बन्धप्रकारऽ, शरीरस्यैव तु स्रुक्कपालादियज्ञायुधैऽ सम्बन्धऽ, यद्यज्ञायुधी यजमान इति तदभिप्रायेण मत्वर्थसंयोगो घटते ।
अपि च ऽस एषऽ इत्यपरोक्षप्रतिनिर्देशऽ, सो ऽपि शरीरस्यैव प्रत्यक्षत्वादुपपन्नो नात्मनऽ ।
तदेतदपि भाष्यकारेणोक्तं हि --- ऽशरीरकं व्यपदिशतिऽइति ।
किञ्च यजमानशब्दो ह्यात्मन्यसमञ्जसऽ, यागस्य हि कर्ता यजमान इत्युच्यते, न च यथाचोदितविततपूर्वापरीभूतानेककर्भक्षणात्मकक्रतुक्रियाकर्तृत्वमात्मनऽ सम्भवति, विभोऽ पूर्वापरदेशविभागसंयोगयोगफलकर्मणामसमवायात् ।
तदेतदाह--- न
यदि स्याद् विधिशब्दो ऽत्र नैवादर्शनतो भवेत् ।
विशेषो ऽस्येति भेदेन नोपात्तं स्यादिदं ततऽ

5.9.12

विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य हि ।
विरोधपरिहारऽ स्याद् वर्तमाने ऽपि नास्त्यसौ

5.9.13

फलं च न भवेदेवं भस्मीभावाद् विधावपि ।
तत्सामर्थ्येन यान्यपि कल्पना तां निषेधति

5.9.14

चेति ।
अभ्युपगम्य चात्मनऽ सद्भावमिदमस्माभिरुक्तम्, परमार्थेन तु देहेन्द्रियव्यतिरिक्तात्मसद्भावो ऽपि प्रमाणाभावाद् दुर्लभ इत्याह--- सद्भाव इति ।
प्रपञ्चयिष्यते चैतदात्मवाद इतीह न प्रतन्यत इति ॥10॥
अपरं च--- ऽन चैष यातीति विधिशब्दऽऽइति भाष्यम् ।
तस्याभिप्रायमाह--- यदीति ।
अस्यार्थऽ--- यदि ह्यत्र
यज्ञायुधिवाक्ये विधिशब्दो भवेत्, तदा चित्रादीनामनन्तरफलादर्शनाद् भेदेन विरोधोपन्यासार्थं यज्ञायुधिवाक्योपादानं नोपपद्यते ।
अतऽ स्वकृतभेदोपादानसमर्थनार्थं विधिशब्दनिराकरणमिति ॥11॥
विधिशब्दे को विशेषऽ, अत आह--- विधीति ।
विधिशब्दे हि कालविशेषानुपादानाद् विधिसामर्थ्यादेव कालान्तरभावितां फलस्य परिकल्प्य स्यादपि चित्रादिचोदनास्विवाभावविरोधपरिहारऽ ।
इह तु यातीति वर्तमानापदेशान्न प्रत्यक्षविरोधऽ शक्यते परिहर्तुमित्यदर्शनाद् विशेष इति ॥12॥
चित्रादिवाक्याभिप्रायेण चेदमस्माभिरुक्तम्--- विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य विरोधऽ शक्यते परिहर्तुमिति ।
इह तु प्रत्यक्षेण भस्मीभावोपलम्भान्न कालालन्तरफलभावितया स्वर्गगमनं फलमिति शक्यते कल्पयितुम् ।
न हि विधिसहस्रेणाप्याशङ्कनीयोर्ऽथऽ शक्यऽ प्रत्याययितुम् ।
तदेतदाह--- फलं चेति ।
तकिं तर्हि विधिशब्दतानिराकरणस्य फलमत आह--- तत्सामर्थ्येनेति ।
चेतनप्रवर्तनात्मको हि विधिरन्तरेण परलोकफलोपभोक्तार
प्रायश्चैवंप्रकारत्वमर्थवादेषु दृश्यते ।
मन्त्रेषु चेति ते सर्वे पक्षीकार्याऽ प्रयत्नतऽ

5.9.15

एवं सत्यग्निहोत्रादिवाक्येष्वपि मृषार्थता ।
वेदवाक्यैकदेशत्वाच्चित्रादिदवचनेष्विव

5.9.16

इति चित्राक्षेपवादऽ ।
मनुपपद्यमानऽ कल्पयेदपि कायकरणसङ्घातातिरिक्तमात्मानम्, तस्य च स्वर्गलोकगमनमुपचर्येतापि शरीरे, तस्य वा प्रत्यक्षत्वमात्मनि भाक्तमित्येवमादिकल्पनानिषेधार्थं विधिशब्दनिराकरणमिति ॥13॥
भूयांश्चायं प्रमाणान्तरविरुद्धो मन्त्रार्थवादात्मको वेदभागऽ ।
यथा ऽअदितिर्द्येरदितिरन्तरीक्षंऽ ऽयजमान एककपालऽऽ इत्येवमादिऽ ।
स च सर्व एवात्र प्रयत्नतो मुख्यतया मिथ्यात्वेन ऐहिकाक्षेपे पक्षीकार्यऽ, तन्मिथ्यात्वेन चानुषङ्गिकं पेरषां मिथ्यात्वं भविष्यतीत्यभिप्रायेणाह---प्रायैति ।
ऽतत्सामान्यादग्निहोत्रादिचोदनास्वप्यनाश्वासऽ इति भाष्यम्, तस्याभिप्रायमाह--- एवं सतीति ।
यदा हि चित्रादिवाक्यादिष्वप्रामाण्यं समर्थितं भवति, तदा वेदवाक्यैकदेशतयाग्निहोत्रादिवाक्येष्वपि मृषार्थता शक्यते ऽनुमातुम्, अतऽ कृत्स्नस्यैव वेदस्याप्रामाण्यान्न चोजनालक्षणार्थो धर्म इत्याक्षेपऽ॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
चित्राक्षेपवादऽ समाप्तऽ ।
अथ सम्बन्धाक्षेपवादऽ ।
स्वपक्षसाधनं तावदमृषा वैदिकं वचऽ ।
स्वार्थे वक्त्रनपेक्षत्वात् पदार्थे पदबुद्धिवत् ॥1॥
अत्रानन्तरम्"औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानम्"इति भाष्यकारेण
सम्बन्धनित्यताद्वारेणाक्षेपपरिहारो ऽवतारितऽ, सो ऽयुक्तऽ, परोक्ताक्षेपहेत्वनन्तरं हि तस्यैव विरुद्धासिद्ध्यादिदोषोद्भावनमुचितम् ।
यत्तु तमदूषयित्वैवान्यदुच्यते तदसङ्गतमेवात आह--- स्वपक्ष इति ।
अयमभिप्रायऽ--- यावद्धि सम्बन्धौत्पत्तिकत्वेनानपेक्षालक्षणं चोदनायाऽ स्वतऽ प्रामाण्यं न प्रतिपाद्यते तावद् दूषिते ऽपि साधने न ऽचनोदनालक्षणो धर्मऽ इति प्रतिज्ञा सिध्यति ।
भूयांश्चानेन क्रमेणार्थो वक्तुमभिप्रेतऽ शब्दार्थसम्बन्धनिरूपणादिऽ ।
अन्यथा क्रियमामं (?) तदाकाशपतितमिवापद्येत ।
तच्चैतत् शब्दस्वरूपनिरूपणावसरे वक्ष्यते ।
न चेदमाक्षेपेण न सङ्गच्छते, द्वेधापि प्रत्यवस्थानदर्शनात् ।
यथोक्तम्---
ऽद्वेधापि प्रत्यवस्थानं परहेत्ववबाधनात् ।
आत्मीयसाधनोक्त्या वा तत्रात्मीयमिहोतच्यतेऽ इति ।
न चात्र परसाधनदूषणं न करिष्यते ऽतत्र हेतोरसिद्धत्वम्ऽ इति चित्रापरिहारे वक्ष्यते ।
अनेन तु क्रमेण तत् कर्तव्यमिति तावदित्युक्तमिति ।
तच्च स्वपक्षसाधनं तार्किकाणां चित्तमनुरञ्ज यितुं प्रयोगद्वारेणाह---अमृषेति ।
वैदिकवचो धर्मी, स्वार्थे सत्यमिति साध्यो (?) धर्मऽ, स्वार्थे वक्त्रनपेक्षत्वात्, यत् स्वार्थे वक्तारं नापेक्षते तत् सत्यम्, यथा पदात् पदार्थगता बुद्धिऽ ।
पदं हि स्वभावादेव स्वार्थेन सम्बद्धं तत्प्रतिपादनाय वक्तारं नापेक्षत इति सम्बन्धपरिहारे वक्ष्यते ।
स्वार्थ इति तन्त्रेमोभयविशेषणतया योजनीयम् ।
यदि ह्यमृष वैदिकं वचनमित्येतावदुच्यते पूर्वपक्षार्थसम्यक्त्वापातादनिकष्टार्थताप्रसाधनप्रसङ्गऽ ।
न हि स्वर्गकामो यागं कुर्यादित्याद्यर्थे स्वर्गकामो यजेतेति वाक्यं सम्यगिष्यते, षष्ठाद्यसिद्धान्तविरोधात् ।
यागेन स्वर्गं कुर्यादिति हि तत्र स्थास्यति ।
वक्त्रनपेक्षत्वादिति चाविशिष्टो हेतुरुपात्तो ऽसिद्ध एव स्यात् ।
अस्ति हि वैदिकवाक्यानामपि स्वरूपामि
तत्कृतऽ प्रत्ययऽ सम्यङ्नित्यवाक्योद्भवत्वतऽ ।
वाक्यबुद्धिवेदवात्र पूर्वोक्ताश्वापि हेतवऽ ॥2॥
नित्यान् शब्दार्थसम्बन्धानाश्रित्योक्तेन हेतुना ।
असम्बन्धोद्भवत्वेन परो मिथ्यात्वमब्रवीत् ।
सम्बन्धो ऽस्ती च नित्यश्चेत्युक्तममौत्पत्तिकादिना ॥4
व्यक्तये वक्त्रपेक्षा, स्वार्थे तु प्रत्याययितव्ये न वक्तारमपेक्षन्ते, अपौरुषेयत्वात् ।
शब्दार्थसम्बन्धनित्यत्वाच्च ।
पौरुषेयं प्रमाणान्तरप्रमितगोचरमाप्तवचनमपि वक्तुऽ प्रमाणमपेक्षते ।
यथोक्तम्, ऽआप्तोक्तिषु नरापेक्षेऽति ॥1॥
प्रयोगान्तरमाह---- तत्कृत इत्येवान्तेन ।
वैदिकवाक्यकृतऽ प्रत्ययऽ सम्यगिति साध्यम्, नित्यवाक्योद्भवत्वात्, यथा तद्वाक्यस्वरूपविषया बुद्धिऽ ।
सापि हि वाक्यादुद्भवति, निर्विषयबुध्यनुत्पत्तेऽ ।
वेदवाक्यनित्यता च वेदाधिकरणे स्थापयिष्यत इति ।
अत्रैव साध्ये पूर्वोक्ताऽ--- ऽनान्यत्वात्ऽ इति भाष्यव्याख्यानावसर उक्ताऽ--- दोषवर्जितैऽ कारणैऽ जन्यमानत्वात्, अनाप्ताप्रणीतोक्तिजन्यत्वात्, देशादिभेदे ऽपि देशादिभेदे ऽपि बाधवर्जनात् इति हेतवो दर्शयितव्या इत्याह--- अत्रेति ॥2॥
अत्र भाष्यम्--- ऽस्यादेतत्, नैव शब्दस्यार्थेन सम्बन्धऽ, कुतो ऽस्य पौरुषेयता अपौरुषेता वाऽइति ।
तस्याभिप्रायमाह--- नित्यानित्यब्रवीदन्तेन ।
अस्यार्थऽ--- शब्दार्थसम्बन्धानां नित्यत्वमाश्रित्यानपेक्षत्वादिति सूत्रकारेण यो हेतुऽ स्वतऽ प्रामाण्यसिध्यर्थमुक्तऽ, तेन चोदनानामप्रामाण्ये निराकृते ऽधुना सम्बन्धोद्भवत्वाभावेन परो बौद्धादिर्मिथ्यात्वमुक्तवान् ।
एवं च तदा वार्तिककारेण वृत्तिकारमतेनात्रैव स्वतऽ प्रामाण्यं व्युत्पाद्यमिति दर्शितम् ।
तथा च ऽसूत्रकारेण चोच्यतऽ इति पुनरुक्तिपरिहारे परतऽ पप्रामाण्योक्तैरेवाक्षेपहेतुभिऽ पूर्वपक्षो ऽभिहितऽ ।
इहापि च भाष्यकारेण ऽब्रूतऽ इत्युच्यते--- अवबोधयति बुध्यमानस्य निमित्तं भवति, इत्यादि चोदनासूत्रोक्तमेव स्वतऽ प्रामाण्यकारणमुक्तमिति ॥3 1।2॥
मिथ्यात्वस्य निरासार्थं तत्परैर्नेष्यते द्वयम् ।
नैव वास्त्यत्र सम्बन्धऽ कृतको वेति वक्ष्यते ॥5॥
असम्भवेन शेषाणां संश्लेषऽ परिशिप्यते ।
तस्मिन्नेव च सम्बन्धे प्रतीतिर्लौलिकी ध्रुवम् ॥6॥
एतदेव विवृणोति --- सम्बन्ध इति वक्ष्यते ऽन्तेन ।
चोदनामिथ्यार्थनिरासार्थं हि सम्बमन्धसद्भावो नित्यता च हेतुरुक्तऽ ।
तच्च द्वयमपि परैर्नेष्यते ।
तत्र सम्बन्धाभावस्तावदनेनैव भाष्येणोक्तऽ ।
कृतकत्वं तु ऽयदि प्रथममश्रुतो न प्रत्याययति, कृतकस्तर्हिऽ इत्यनेन वक्ष्यते ।
तदत्र सम्बन्धाभावेनानपेक्षत्वादिति हेतोरसिद्धिरुक्ता ।
न चासति सम्बन्धे
परोक्तार्थप्रतीतिरुत्पद्यत इति दर्शितम् ।
प्रतिबन्धबले ह्यर्थान्तरदर्शिनो ऽप्यर्थान्तरे ज्ञानमुत्पद्यते ।
अनादृतप्रतिबन्धस्तु यत्किञ्चिद् विद्वान् स सर्वं जानीयादित्यतिप्रसज्यत इति ॥4,5॥
अत्र भाष्यकारेण कार्यकारणभावादयऽ सम्बन्धाऽ शब्दस्यानुपपन्ना इत्युक्त्वा संश्लेषसम्बन्धभाव एव दर्शितऽ, तदेतद्वार्तिककारो दर्शयति--- असम्भवेनेति ।
निमित्तनैमित्तिकाश्रयाश्रयिभावादयऽ सम्बन्धाऽ शब्दार्थयोरत्यन्तासम्भाव् इता एव, कार्यकारणभावस्तु बोद्धगन्धिवैयाकरणैरभ्युपगत एव ।
ते ऽप्याहुऽ----
ऽअर्थाऽ शब्दाश्च दृश्यन्ते प्रत्यक्षा यद्यपि स्फुटम् ।
अभिधानाभिधेयौ तु ज्ञानाकारौ तथापि नऽऽ॥
इति ।
एवं हि मन्यन्ते--- न तावद् वर्णाऽ शब्दऽ, प्रत्येकमवचाकत्वात् ।
अयुगपद्वर्तिनां चावयविसमुदायासरम्भानुपपत्तेऽ ।

अत एव गोशब्दत्वादिजात्यसम्भवात् भूतादिविशेषाणां च प्रतिप्रयोगमन्यत्वेनावाचकत्वाद् वर्णबुद्धिस्मृतिसंस्काराणां चाक्षरवत् प्रत्याख्यानात् पूर्ववर्णजनितसंस्कारसहितान्त्यवर्णस्यापि वर्णत्वेनापूर्ववर्णवदवाचकत्वात् पूर्वपूर्वनिखिलवर्णपदोपसहारक्रमेण चरमस्य कस्यचित् स्फोटात्मनो ऽनवग्रहाद् युगपदवस्थितानेकवर्णाकारज्ञानात्मैव शब्दऽ ।
अर्थो ऽपि जातिव्यक्त्यवयवावयविगुणगुणिव्यतिरेकाव्यतिरेकादिविकल्पदूरीकृतनि रूपणो न बाह्यऽ सम्भवतीति ज्ञानात्मकशब्दवेदनानन्तरोत्पद्यमानबाह्यजात्यादिनिर्भास्परत्ययमात्रात्मैव ।
तन्निषेधमतऽ प्राह न शब्दोर्ऽथेन सङ्गतऽ ।
तद्देशानन्तरादृष्टेर्विन्ध्यो हिमवता यथा ॥7॥
एवमर्थो द्वयं वापि साधनीयमसङ्गतम् ।
क्षुरेत्यादि च सिद्ध्यर्थं हेतोरुक्तमथापरऽ ॥8॥
शक्तिरूपं गृहीत्वाह संश्लेषो यदि वार्यते ।
सम्ब(न्धा?न्धऽ) सिद्धसाध्यत्वमथ सम्बन्धमात्रकम् ॥9॥
स चायमेवम्भूतोर्ऽथऽ शब्देन जन्यत एवेति कार्यकारणभावमेव शब्दार्थयोऽ सम्बन्धमातिष्ठन्ते ।
तच्चेदमतिदूरमपभ्रष्टम्, एवं च सत्यविदितस्वरूपशक्तीनामप्यर्थसंविदुपजायेत ।
दृष्टा हि खलु मृत्सलिलप्रच्छन्ना अपि व्रीहयो ऽङ्कुरादिकार्यमारभमाणा अविदितस्वरूपशक्तयो ऽपीति सूक्तम्--- असम्भवेन शेषाणामिति ।
कथं तु संश्लेषऽ परिशिष्यत इति, प्रतीतेरभ्युपगमाच्च ।
गौरयमिति हि सामानाधिकरण्येन शब्दोपश्लिष्टमर्थमवयन्तो लौकिका दृश्यन्ते ।
अभ्युपगतश्च कैश्चिच्छब्दार्थयोऽ संश्लेष एव सम्बन्धऽ ।
प्रपञ्चितश्चासावध्यासवाद इति ।
लौकिकाश्च प्रायेण संश्लेषमेव संबन्धं मन्यन्ते इति स एव सम्बन्धऽ प्रसक्को निराकार्य इत्याह--- तस्मिन्निति प्राहायेन भवति स तद्देश एव दृश्यते रञ्जुरिव घटे, तदनन्तरदेशे वा प्रदेशिनीवमध्यमायाऽ ।
नच च शब्दार्थयोरन्यतरदेशे वान्यतरो दृश्यते ।
अतोहिमवद्विन्ध्ययोरिव नानयोऽ सम्बन्ध इति ॥6,7॥
अर्थो वा पक्षीकार्य इत्याह---एवमिति ।
द्वयं वा परस्परमसम्बद्धमितरेतरदेशे तदनन्तरदेशे वादृष्टेऽ साध्यमित्याह--- द्वयमिति ।
अत्र भाष्यकारेण ऽस्याच्चेदर्थेन सम्बन्धऽ क्षुरमोदकशब्दोच्चारणे मुख्यस्य पाटनपूरणे स्याताम्ऽ, इत्युक्तम् ।
तस्याभिप्रायमाह--- क्षुरेत्युक्तमन्तेन ।
अस्यार्थऽ--- अत्र भाष्यकारेण शब्दार्थयोऽ सम्ब्नधसिद्ध्यर्थं तद्देशानन्तरादृष्टेरिति हेतुरन्तर्णीतऽ, तं च गौरयमिति सामानाधिकरण्यप्रतीतिभ्रमाद् यो नामासिद्धं मन्यते, स एवं प्रतीबोध्यते--- यदि शब्दार्थयोरुपश्लेष
पितापुत्रादिसम्बन्धैरनैकान्तऽ प्रसज्यते ।
एकभूम्यादिसम्बन्धाद् दृष्टान्ते साध्यहीनता ॥10॥
वाच्यवाचकसम्बन्धनिषेधे लोकबाधनम् ।
विरोधश्च स्ववाक्येन न हि सम्बन्धवर्जितैऽ ॥11॥
लक्षणऽ सम्बन्धो भवेत्, अर्थो ऽपि शब्ददेश एव स्यात्, मुखं च तस्य देश इति क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, न च ते स्तऽष तस्मान्मोदकाद्यर्थक्रियानुपलम्भाच्छब्ददेशे तद्देशानन्तरादृष्टेरिति सिद्धो हेतुऽ ।
सामानाधिकरण्यबुद्धिस्तु शब्दार्थयोर्नास्त्येव ।
न हि नीलिम्नेवानुरक्तमुत्पलं शब्दानुरक्तमर्थमुपलभामहे ।
गादिसास्नादिमद्रूपा हि तयोर्बुद्धरुदेति ।
अत्र सिद्धान्तभाष्यं ऽयो ऽत्र व्यपदेश्यऽ सम्बन्धऽ तदेत(तमेकं)न्न व्यपदिशति भवान्ऽ इत्यादि ।
तस्याभिप्रायमाह--- अथेति हीनतान्तेन ।
अत्रायमभिप्रायऽ---- प्रत्याय्यप्रत्यायकशक्तिरूपो हि नऽ शब्दार्थयोऽ सम्बन्धो ऽभिप्रेतऽ, तद् यदि
संश्लेषलक्षणसम्बन्धाभावऽ साध्यते, तदा सिद्धसाध्यतादोषऽ ।
सम्बन्धाभावमात्रे तु यौनादिसम्बन्धैरनैकान्तिकत्वम् ।
हिमवद्विन्ध्योरपि चैकभूम्यादिसम्बन्धात् साध्यहीनो दृष्टान्त इति ॥8.10॥
यदि तु वाच्यवाचकसम्बन्धमेवाभिप्रेत्य न शब्दार्ऽथेन सङ्गत इति साध्यते ततो लौकिकविरोध इत्याह---वाच्येति ।
दूषणान्तरमाह--- विरोध इति ।
अत्र कारणमाह--- न हीति परान्तेन ।
अयमभिप्रायऽ--- चतुर्विधो हि पुरुषऽ, प्रतिपन्नो ऽप्रतिपन्नऽ सन्दिग्धो विपर्यस्तश्चेति ।
तत्र प्रतिपन्नऽ प्रतिपादयिता, इतरे सापेक्षाऽ प्रतिपाद्याऽ, तत्प्रतिपादनार्था च प्रतिज्ञा, तद्य एव तेषामन्यतमऽ परऽ प्रतिपादयितुमभिप्रेतो भवति स एव वाच्यवाचकसम्बन्धवर्जितैऽ प्रतिज्ञार्थगौचरैऽ पदैऽ प्रतिपादयितुमशक्यऽ, अतऽ प्रतिज्ञां प्रयुञ्जानैराश्रितऽ शबादर्थयोर्वाच्यवाचकलक्षणसम्बन्ध इति तन्निनिराकरणे स्ववाग्विरोध इति ।
स चायमभिधया स्ववाग्विरोधऽ ।
पञ्चधा हि तद्विरोधऽ ।
उच्चारणाभिधाधर्मधर्म्युभयोक्तिभिरिति ॥11 1।2॥
प्रतिज्ञार्थं पदैऽ शक्यऽ प्रतिपादयितुं परऽ ।
अभिधानक्रियायां हि कर्मत्वं वाच्यसंश्रितम् ॥12॥
शब्दानां करणत्वं वा कर्तृत्वं वा निरूपितऽ ।
प्रतिपत्तावुपादानात् साहित्ये च विवक्षिते ॥13॥
वाच्यवाचकसम्बन्धस्वरूपमिदानीमभिद्योतयति---अभिधानेति ।
अस्यार्थऽ--- एकस्यामभिधानक्रियायां शब्दऽ करणं कर्ता वा, विवक्षातऽ कारकप्रवृत्तेऽ ।
अर्थस्तु कर्मैव ।
अतो(यद्?अ) नयोऽ कर्मकरणत्वं (कर्म) कर्तृत्वं वा ।
निरूपितऽ--- सम्बन्ध इति वक्ष्यमाणेन सम्बन्ध इति ।
यद्वा--- एकस्यां गवाद्यर्थप्रतिपत्तौ साध्यमानायामेकेन वक्त्रोपादीयमानावरुणैकहानीवद्विवक्षितसाहित्यौ शब्दार्थो यन्नियम्येते सो ऽनयोऽ सम्बन्ध इत्याह--- प्रतिपत्ताविति ।
उपादानादित्युपादीयमानतया विशेषणविवक्षां दर्शयति ।
उपादेयस्य हि विशेषणं विवक्षितं भवति शोरिवैकत्वं--- पशुना यजेतेति ।
उद्देश्यविशेषणं त्वविवक्षितं भवति, यथा ग्रहविशेषणमेकत्वम्, उद्देश्या हि ग्रहाऽ, तेषु संमार्जनविधानात् ।
इह चार्थप्रतिपत्तावेकस्यामुपादेयौ शब्दार्थौ, पशुरिव योगे ।
अतो विवक्षिततमनयोऽ साहित्यं विशेषणमित्यरुणैकहायन्योरिवानयोर्नियमऽ सम्बन्ध इति ।
(नत्वे?न्वे)वमरुणैकहायन्योऽ श्रूयमाणयोऽ साहित्यविवक्षा युक्ता ।
समुदाये हि तत्र वाक्यं समाप्यते ।
(शब्दार्थौ तु) नैव प्रतीतिक्रिया(यां विशेष)णतयाश्रुतौ, कथमनयोऽ साहित्यविवक्षा ।
न श्रूयमाणता विशेषणविवक्षाहेतुऽ ।
अपि तु अर्थसंव्यवहारो ऽपि हि ।
पाकादौ यदौदनादिस्थाल्यादि...(क्रिया) व्यवहारदर्शनात् अनभिहितमप्यर्थं जानाति तदा स्थाल्यादीनां विवक्षितं साहित्यं मन्यते, कतथा मन्वानऽ स्वयमपि पक्तुकामस्तत्सर्वमाहरति ।
एवमिहापि बालऽ प्रयोज्यवृद्धस्य विविष्टार्थव्यवहारदर्शनेन तद्विषयां बुद्धिमनुमाय शब्दानन्तरभावितया शब्दकारणतां तादववधारयति ।
वक्तुश्चास्यां प्रयोज्यवृद्धप्रतिपत्तौ दर्शनपारार्थ्यात् प्रधानभूताया(मुपा)दीयमानयोऽ शब्दार्तयोऽ साहित्यं विवक्षितमिति ।

एवं च विदित्वा स्वयमपि परार्थप्रयोगे सहितौ शब्दार्थौ हृदयमावेशितावुपादाय शब्दं चोच्चार्य परप्रतिपत्तिं भावयतीति सूक्तं साहित्यविवक्षा वर्णसाहित्यविवक्षावदिति ॥12-13 1।2॥
नियम्येते तदेकस्यां सम्बन्धऽ सोर्ऽथशब्दयोऽ ।
तत्र यद्यप्यसम्बन्धऽ कारकाणां परस्परम् ॥14॥
तथापि यत्क्रिया तस्यामुपकार्योपकारिता ।
तत्क्रियासङ्गतेऽ पश्चात् सम्बन्धऽ कीर्त्यते तयोऽ ॥15॥
नन्वेवं वदता शब्दार्थयोऽ क्रियासम्बन्ध एव दर्शितऽ, न परस्परम्, गुणप्रधानभावमन्तरेण सम्बन्धायोगात् ।
वक्ष्यति हि--- ऽगुणानां च परार्थत्वादसम्बन्धऽ समत्वात्ऽ इति ।
स्यादेतत् ।
क्रियाकारकसम्बन्धपूर्वकत्वात् सर्वसम्बन्धानां क्रियाकारकसम्बन्ध एव दर्शित इति ।
अस्तु तावत्, तदुत्तरकालभावी तु को ऽनयोऽ सम्बन्ध इति वाच्यमेव ।
तदेतत् सर्वमनुभाष्य परिहरति---तत्रेति तयारेन्तने ।
अस्यार्थऽ---- यद्यपि कारकाणां प्रधानार्थत्वान्न परस्परसम्बन्धऽ ।
तथापि प्रतिपत्त्यभिधानयोर्या काचित् क्रिया गृह्यते, तस्यां च क्रियाकारकसम्बन्धोत्तरकालभावी परस्परोपकार्योपकारकलक्षणऽ शब्दार्थयोरस्ति सम्बन्धऽ॥
तत्पुनरिदं पूर्वापरविरुद्धं प्रदेशान्तरविरुद्धं च ।
तथाहि --- अत्र तावदेकस्यां क्रियायामुपकार्योपकारकत्वं शब्दार्थयोऽ सम्बन्ध इत्युक्तम्, ऽप्रतिपत्तावुपादानात्ऽ इति क्रियानुमानाङ्गत्वमेव परस्परनियमात्मको सम्बन्ध इत्युक्तम् ।
प्रदेशान्तरे शक्तिरेव सम्बन्ध इति वक्ष्यति ।
क्वचिच्च शब्दशक्तिनियममेव सम्बन्धमाह---
ऽवाच्यवाचकशक्त्योश्च नियमऽ फललक्षणऽऽ इति ब्रुवाणऽ ।
अन्यत्राप्युक्तम्---
ऽएकाभिधानिमित्त्वं कर्मकर्तृत्वयोश्च यत् ।
यो वा करणक्रमत्वनियमो ऽभिधयैकया॥
स नोर्ऽथशब्दसम्बन्धऽऽ
इति ।
अतो विवेचनीयमिदम्--- को ऽत्र सम्बन्धऽ शब्दार्थयोर्वार्त्तिककारस्याभिमत इति ।
अत्रोच्यते--- यथैकेन क्रयकर्मणा परिगृहीतयोर्द्रव्यगुणयोरितरेतराकाङ्क्षापरिपूरणेन परस्परोपकार्योपकारकलक्षणऽ
सम्बन्धऽ न ह्यनाश्रितऽ क्रयक्रियामभिनिर्वर्तयति ।
न द्रव्यं गुणविशेषानवच्छिन्नमुत्सहते क्रयक्रियां निर्वर्तयितुम् ।
न च गुणेन स्वमहिम्ना आश्रयभूतद्रव्यमात्रमुपादीयमानमपि क्रये गृह्यते, (स्वकीयगो) द्रव्यावरोधात् ।
द्रव्ये (गुणमात्रा) वच्छेदात् तद् गुणमात्रमुपादीयमानमपि क्रयक्रिया न प्रतीच्छति स्वकीयारुणिमगुणावरोधात् ।
सो ऽयमर्थो नियमऽ सम्पद्यते ।
तदेवमिहाप्येकार्थप्रतिपत्त्यभिधानक्रियासिद्ध्यर्थमुपादीयमानयोर्विवक्षितसाहित्ययोऽ शब्दार्थयोऽ क्रियाकारकसम्बन्धोत्तरकालभावी यो ऽयमुपाकार्योपकारकभावऽ, स एव सम्बन्धऽ ।
कऽ पुनरनयोऽ परस्परोपकारऽ ।
श्रूयताम्--- अर्थो हि न प्रतिपादकमन्तरेण प्रतिपाद्यो भवति, शब्दो न प्रतिपाद्यमन्तेरण प्रतिपादकऽ ।
अतऽ प्रतिपाद्यप्रतिपादकतयावतिष्ठमानावन्योन्यस्योपकार्योपकारकौ भवतऽ ।
तच्चेदं रूपमनयोर्नियतमित्यत्यन्तसन्निकर्षमात्रेण नियमे सम्बन्धाभिधानम्, न तु नियम एव सम्बन्धऽ ।
शक्तिसम्बन्धवादो ऽपि चात एव ।
वाच्यवाचकशक्त्योरेव हि सत्योरुपकार्योपकारकभावो भवति ।
न तु शक्तिरेव सम्बन्धऽ, तदत्र प्रत्यासत्तेरभेदोपचारेण शक्तिऽ सम्बन्धऽ, नियमऽ सम्बन्धऽ, कर्तृत्वं करणत्वं वा सम्बन्ध इत्येवमादयऽ समुल्लापाऽ ।
वस्तुतस्तूपकार्योपकारकत्वमेव सम्बन्धऽ ।
कथं पुनस्तद्रूपमनयोर्नियतमित्युच्यते ।
न ह्यनुच्चरिते शबेद परस्परोपकार्योपकारकभावऽ शब्दार्थयोरस्ति ।
न च सदानीं तौ न स्तऽ, नित्यत्वात् ।
तस्मादसदेतत् ।
तन्न ।
शक्त्यात्मना विद्यमानत्वात्
न चाप्यत्राविनाभाव उपयोगीति साधितम् ।
संज्ञेति गमकत्वं चेन्न तदङ्गमियं भवेत्

5.9.17

गमयन्ती श्रुतिं दृष्ट्वा कल्प्यते व्यवहारतऽ ।
न चैषा गमयत्यर्थं सम्बन्धे ऽनवधारिते

5.9.18

अनुच्चरिते ऽपि हि शब्दे ऽस्ति प्रतिपादकशक्तिऽ,अर्थे च प्रतिपाद्यशक्तिऽ अत एव सम्बन्धो नित्य इत्युच्यते ।
नन्वेमपि करहस्तादिभिरनेकैऽ शब्दैरेकत्रार्थे प्रतिपाद्ये अनेकार्थवचने चैकस्मिन् गवादिशब्दे कथमव्यभिचारऽ शक्यते ऽवगन्तुम् ।
अतऽ प्रकरणादीनामपि पदार्थावधारणापोयत्वाद् वृद्धव्यवहारे हि बालेन केवलपदाप्रयोगादावापोद्धारभेदेनैतदवधारितम्--- यदा यदर्थविवक्षया शब्दऽ प्रयुज्यते स तस्यार्थ इति ।
विवक्षा चार्थप्रकरणादिवशोन्नेया ।
गामानयदोग्धुमित्युक्ते अर्थादेतदवगम्यते सास्नादिमत्यस्य विवक्षेति ।
योत्स्यामीत्युक्ते अर्थादि(मु?) षौ प्रतीतिरुदेति ।
तदेवमर्थप्रकरणादिभेदभिन्नमन्ययान्यया च शक्त्योपहितमन्यदन्यच्च पदमन्यस्यान्यस्य वाचकमिति न पदव्यभिचारऽ ।
अर्थो ऽपि चोद्भूततत्पदाभिधानयोग्यावस्थाभेदभिन्नो हस्तादिरन्यो ऽन्यशच् करादिपदानां वाच्य इति न पदं व्यभिचरति ।
अपि चैकस्यां क्रियायामयं नियम इत्युक्तऽ ।
न चैकस्यां प्रतिपत्तावभिधाने वोपादीयमानयोऽ शब्दार्थयोरन्योन्यव्यभिचारो ऽस्ति ।
तदिदमुक्तं हि ऽनियम्येते यदेकस्याम्ऽ इति ॥14,15॥
नन्वेवमेक्रियानिमित्तको नियमऽ शब्दार्थयोऽ सम्बन्ध इत्युच्यमाने ऽनुमानाङ्गमविनाभाव एवाश्रितो भवेत्, अतस्तदबलेन धूमादिवाग्निज्ञानं शब्दादर्थज्ञानमुपजायमानमनुमानं स्यादत आह---न चापीति ।
इदं च शाब्दे प्रसाधितमित्याह--- साधितमिति ।
ननु यद्यविनाभावो नोपयुज्यते, कस्तर्ह्युपयुज्यते ।
उक्तं भाष्यकारेण--- ऽसंज्ञासंज्ञिसम्बन्धऽऽइति ।
ननु चायमपि सम्बन्धो ऽनुपयोग्येव ।
तदेतदाशङ्कते--- संज्ञेति ।
तदङ्गं गमकत्वाङ्गमित्यर्थऽ ॥16॥
कथमनङ्गमत आह---गमयन्तीति ।
व्यवहारदर्शनेन गम
तस्माद् गमकता पश्चाद् धूमादेरिव जायते ।
सानङ्गं तद्वदेव स्यान्नेयं धूमादिभिऽ समा

5.9.19

निरूपिते ऽविनाभावे तत्र तत्कारिता ह्यसौ ।
गमकत्वेन पूर्वं च तत्र नोत्पद्यते मतिऽ

5.9.20

इह वाचकतायाऽ प्राङ् नाविनाभावितामतिऽ ।
यदैव चेह सम्बन्धं वृद्धेभ्यऽ प्रतिपाद्यते

5.9.21

तदैव गमको ऽस्यायमिति नान्यस्वरूपतऽ ।
कथयन्ति क्वचित्तावद् बोद्धव्यो ऽस्मादयं त्विति

5.9.22

क्वचिद् वाचक इत्येवं वाच्यो ऽयमिति चोच्यते ।
क्वचिदुच्चारिताच्छब्दाद् दृष्ट्वार्थविषयां क्रियाम्

5.9.23

यन्ती एषा संज्ञा कल्प्यत इति ।
किमतो यद्येवमत आह--- न चैषेति ।
एतदुक्तं भवति ।
गमकत्वमेव संज्ञात्वं न तत्सम्बन्धान्तरमन्तेरेणेति ॥17॥
यतश्चैवमतो धूमादेरिव गमकत्वं सम्बन्धान्तरपूर्वकमेव पश्चादापतितमित्याह---तस्मादिति ।
तत्तुल्यत्वे दोषमाह--- सानङ्गमिति ।
यथैवाविननाभाव एव धूमादौ प्रतीत्यङ्गं न तदुत्तरकालभावि गमकत्वम्, एवं तत्रापि स्यादिति ।
धूमादिवैषम्येणेदानीं परिहारमाह--- नेयमिति ॥18॥
वेषम्येमेव दर्शयति--- निरूपित इति ।
तत्र हि धूमादौ महानसादिदेशे ऽग्न्यविनाभावनिरूपणोत्तरकालं तत्कृतैवासौ गमकतेति ।
अपि च धूमे प्रथमं गमकत्वं नावगम्यत इत्याह -- गमकत्वेनेति ॥19॥
शब्दे तु विपरीतमित्याह--- इहेति सार्धेन ॥20 1।2॥
गमकत्वेनैव शब्दे प्रथमं व्युत्पत्तिरित्युक्तं तद् विवृणोति---कथयन्तीतित्रयेण ।
अयमर्थऽ--- त्रेधा हि शब्दे व्युत्पत्तिऽ, वृद्धोपदेशात् तदव्यवहारात् पदान्तरसमभिव्याहाराद्वा ।
सर्वत्र चात्र गमकतैवादाववगम्यते ।
तथाह--- वृद्धोपदेशे तावदयमस्य वाच्यऽ अयमस्य वाचक
केषाञ्चित् तत्र बोद्धृत्वमनुमानात् प्रतीयते ।
एतेनास्माद् यतऽ शब्दादर्थो ऽयमवधारितऽ

5.9.24

तेन नूनमिमौ लोके सिद्धौ वाचकशक्तिकौ ।
इत्थं वाचकता सिद्धा सङ्कीर्णापि ततऽ परम्

5.9.25

अन्वयव्यतिरेकाभ्यां निष्कृष्टेर्थे ऽवधारिते ।
बहुजातिगुण्द्रव्यकर्मभेदावलम्बिनऽ

5.9.26

प्रत्ययान् सहसा जातान् श्रौतलाक्षणिकात्मकान् ।
न लोकऽ कारणाभावान्निर्धारयितुमिच्छति

5.9.27

इति गम्यगमकभाव एवावगम्यते ।
यत्रापि क्वचिदुच्चरिताद् वाक्यात् प्रयोज्यवृद्धस्यार्थाविषयां क्रियां दृष्ट्वा चेष्टानुमानेन गवाद्यर्थबोद्धृत्वमुपकल्प्यते तत्रापि यस्मादतऽ शब्दादनेनायमर्थो ऽवगतऽ, तस्मादयमस्यार्थ इति गमकतैव शब्दस्यादाववगम्यते ।
प्रसिद्धपदान्तरसमभिव्याहारे ऽपि इह सहकारतरौ मधुरं पिको रौतीत्येवमादौ विदितसहाकरादाद्यर्थो ऽविदितपिकाद्यर्थश्च यो ऽयं सहकारतरौ रौति तस्य पिकशब्दो गमक इति गमकत्वमेवावगच्छतीति सिद्धं सर्वत्र गमकत्वं न व्युत्पत्तिरिति ॥21-23 1।2॥
नन्वाकृतिऽ शब्दार्थ इति वऽ सिद्धान्तऽ ।
न च तद्वाच्यत्वमन्वयव्यतिरेकावन्तरेण शक्यते ऽवगन्तुम् ।
अतस्तत्प्रधानैव शब्दप्रतीतिरापद्येत ।
अत आह---इत्थमिति ।
अयमर्थऽ--- अन्वयव्यतिरेकयोरत्र निष्कृष्टार्थनियममात्रे व्यापारऽ, वाचकता तु नानाजात्यादिसङ्कीर्णार्थविषया सिद्धैवेति ॥24 1।2॥
नन्वागोपालं शब्दार्थव्यवहारो दृश्यते ।
न च ते ऽन्वयव्यतिरेकाभ्यामर्थनिष्कर्षं कुर्वन्ति ।
न च तान् प्रत्यवचाकाऽ शब्दा इति युक्तं वक्तुम् ।
तुल्यवत् प्रतीतेऽ ।
पिकाद्यर्थनिर्णयस्य च म्लेच्छादिनिबन्धनस्य
बलाबलादिसिद्ध्यर्थं वाक्यज्ञास्तु विविञ्चते ।
कक्ष्यान्तरितसामान्यविशेषेषु हि दुर्बलऽ

5.9.28

सामान्यवचनऽ शब्दो जायते लक्षणाबलात् ।
तेनावश्यं विवेक्तव्य शब्देन कियदुच्यते

5.9.29

वक्ष्यमाणत्वादत आह---बहुजातीतिसार्धेन ।
अयमभिप्रायऽ--- लौकिका हि हानोपादानादिव्यवहारमात्रार्थिनऽ, न च तेषां व्यवहारऽ शब्दौच्चारणक्षणोपजातसङ्कीर्णार्थबोधसाध्य एवेति, श्रौतलाक्षणिकादिविवेकं प्रत्यनादृता इति ॥25,26॥
तेन तर्हि किमर्थं विवञ्चते अत आह--बलाबलादीति ।
शास्त्रस्था ह्यनिरूपितशक्तयो न शास्त्रार्थमनुष्ठातुं शक्नुवन्तीति तेषां हानोपादानोपयोगी शब्दशक्तिविवेक इति ते विविञ्चत इति ॥26 1।2॥
एतदेव प्रपञ्चयतिकक्ष्यान्तरितेतिद्वयेन ।
अस्यार्थऽ-- द्विविधं सामान्यं परमपरं च ।
परं सत्ताख्यम्, अपराणि
द्रव्यत्वादीनि ।
तानि सामान्यान्यपि सन्ति ।
व्यावृत्तिबुद्धेरपि हेतुत्वात् विशेषसंज्ञामपि लभन्त इति, तानि सामान्यविशेषशब्देनापदिशन्ति, तत्र च सामान्यविशेषाऽ सामान्यशब्दस्य स्वार्थेन कक्ष्ययान्तरिता भवन्ति ।
यथा सच्छब्दस्य सत्तामाचक्षाणस्य तदन्तरिता द्रव्यत्वादयऽ सामान्यविशेषाऽ, तेषु चासौ लक्षणाबलेन प्रवर्तमानो दुर्बलो जायते ।
स्वर्थे तु श्रुत्या वर्तते इति स तत्र बलवान् ।
का पुनरियं लक्षणा नाम--- अभिधेयविनाभावेन प्रतीतिऽ ।
यथोक्तम्----
"अभिधेयाविनाभावप्रतीतिर्लक्षणेष्यते" इति ।
क्रिया कियद्वाभिधेयाविनाभावेन लक्ष्यते कियत् स्वमहिम्ना शब्देनोच्यत इति शास्त्रस्थानामनुष्ठानविशेषार्थं विवेको युक्तऽ ।
सा च लक्षणा प्रायेण नित्यसम्बन्धाद् भवतीति नित्यसम्बन्धादित्युक्तम् ।
सम्बन्धमात्रमेव तु लक्षणाया बीजम् ।
आह--- कऽ पुनरनुष्ठाने श्रौतलाक्षणिकविवेकस्योपयोगऽ ।
श्रूयताम्--- लोके तावद् ब्राह्म
कियद्वा नित्यसम्बन्धादभिधेयेन लक्ष्यते ।
तत्र प्रयोगबाहुल्यात् तद्विशेषेष्वसत्स्वपि

5.9.30

णेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति ब्राह्मणसामान्यस्था ब्राह्मणश्रुतिर्लक्षमया तद्विशेषं कौण्डिन्यमवतरन्ती दुर्बला भवति इत्यव्यवहितविशेषस्थया कौण्डिन्यश्रुत्या बाध्यते ।
वेदे ऽप्येमेव ।
यजुऽ सामान्यस्था ऽउपांशुयजुषाऽइति श्रुतिस्तद्विशेषस्थया ऽउच्चैर्निगदेनऽ इति श्रुत्या बाध्यत इत्येवमादि दर्शयितव्यमिति ।
सामान्यशब्देनात्र विशेषान् विशिंषन्न सामान्यतिरिक्ताऽ केचन विशेषा विद्यन्त इति दर्शयति ।
असति हि केषाञ्चिद् दर्शनं-- नित्यद्रव्यवृत्तयो ऽन्त्या विशेषाऽ ।
ते च व्यावृत्तिबुद्धेरेव हेतुत्वाद् विशेषा एवेति ।
परमाणुकारयमकं हि काणादा द्व्यणुकादिक्रमेण जगतो निर्माणमातिष्ठन्ते ।
न चाणुत्वेन परस्परमनतिशयानैरणुभिरसङ्कीर्णाकारजगदुत्पादयितुं शक्यते ।
अतऽ सन्ति केचनाणुसमवायिनो विशेषा नाम ये तानितरेतरतो व्यावर्तयन्तीति सङ्गिरन्ते ।
ते च निर्धूतनिखिलकालुष्यैरपरोक्षमीक्षन्त एवेति ।
तान् प्रत्युच्यते ।
न तावदक्षाधीनेषु भावेष्ववान्तरसामान्यातिरिक्तान् विशेषानीक्षामहे ।
द्रव्यत्वेन हि पृथिव्यादयो गुणकर्मभ्यो विशिष्यन्ते(द्रव्य?पृथिवी)त्वेन पृथिवी अबादिभ्यो द्रव्यान्तरेभ्यऽ, वृक्षत्वेन वृक्षाऽ पार्थिवान्तरेभ्यऽ, शिंशपात्वेन शिंशपा वृक्षान्तरेभ्य इत्येवमणून् यावदिय विशेषकथा वर्तयितव्या ।
किमत्र विशेषान्तरेण ।
अणुषु त्वेकजातीयेष्वपि कार्यविभागाद् रूपमेव विभक्तमनुमास्यामहे ।
नो खल्वविभक्ताकारं पूर्वव्सतु विभक्ताकारकार्यघटनायोत्सहत इति ।
पृथक्त्वाख्यो वा गुणस्तेषामन्योन्यस्य विशेषकत्वाद् विशेषो भविष्यति ।
स एवानपेक्षितविशेषान्तरो न सिध्यतीति चेत् ।
विशेषा वा कथमनपेक्षितविशेषान्तराऽ सेत्स्यन्ति ।
अक्षणे वा तदानन्त्यम्, अतो मन्द एवायं विशेषान्तराभ्युपगमऽ ।
योगिनस्तु तान् पश्यन्तीति श्रद्धधाना बुध्यन्ते वयमश्रद्धधानाऽ स्मऽ,ये युक्तिं प्रार्थयामह इति सूक्तं सामान्यविशेषेष्विति ॥27-28 1।2॥
प्रयोगात् परसामान्ये सति चाप्यप्रयोगतऽ ।
सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकऽ

5.9.31

गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ।
तस्माद् गमकतैवादावभिधायकता पुनऽ

5.9.32

तन्निमित्तेति सम्बन्धऽ संज्ञासंज्ञित्वलक्षणऽ ।
सम्बन्धनियमो ऽयं तु याविनाभावितोच्यते

5.9.33

सम्बन्धग्रहणात्पूर्वं यस्मान्न गमयत्यतऽ ।
गवादेर्नाभिधाशक्तिर्देवदत्तपदे यथा

5.9.34

ऽअन्वयव्यतिरेकाभायं वाक्यज्ञास्तु विविञ्चतेऽ इत्युक्तम् ।
तावन्वयव्यतिरेकौ दर्शयति--- तत्रेति द्वयेन ।
तत्र सामान्ये गवादौ
गोशब्दस्य बहुलं प्रयोगात् तद्विशेषेषु च शाबलेयादिषु असत्स्वपि बाहुलेयादिषु प्रोय(गा?ग)दर्शनात् परसामान्ये च सत्तादौ सत्यपि भावान्तरे ऽप्रयोगात् सास्नादिभिऽ सहैकावयविरूपार्थसम्नब्धिगोत्वमात्रस्य गोशब्दो वाचक इत्यन्वयव्यतिरेकाभ्यां ज्ञानं जन्यते सास्नाद्येकार्थसम्बन्धीति चाविनाभाविना चिह्नेन गोत्वमुपलक्षयतीति ।
अतऽ सिद्धं गम्यगमकभाव एव शब्दार्थयोऽ सम्बन्धऽ प्रथममवगम्यते न पुनरविनाभाव इति ॥29-30 1।2॥
उपसंहरति---तस्मादिति ।
ननु--- संज्ञासंज्ञिसम्बन्धो भाष्यकारेणोक्तऽ, न च गमकं संज्ञेति लौकिका मन्यन्ते, न ह्यग्नेर्धूमऽ संज्ञेत्युच्यते, अत आह--- अभिधायकतेति ।
अयमभिप्रायऽ--- अस्यार्थंस्यायं गमक इति ज्ञाते
नाव्याप्रियमाणस्यावगतौ कारणत्वमुपपद्यत इति तद्व्यापारो ऽवसीयते, शब्दव्यापारश्चाभिधेत्युच्यते ।
अतो ऽत्राभिधानक्रियासम्बन्धाद् गमकत्वस्यैव विशेषो ऽभिधायकता शब्दे ज्ञायते ।
अभिधायकतैव संज्ञात्वमित्युपपन्नऽ संज्ञासंज्ञिसम्बन्ध इति ।
अविनाभाविता तु सम्बन्धनियमऽ, न सम्बन्ध इत्याह--- सम्बन्धेति ।
इदं च ऽनिष्कृष्टेर्ऽथे नियम्यतेऽ इत्यत्रोक्तमस्माभिऽ ।
तस्मादिति पदानुषङ्गेणोपसंहृतमिति वेदि
यथैव गमकऽ शब्दो व्यवहारात् प्रतीयते ।
तथैव शक्तिविज्ञानं तस्योपायो ऽवगम्यते

5.9.35

स्वरूपग्रहणं चास्य यथा व्याप्रियते फले ।
तथा सम्बन्धविज्ञानं नाशक्तित्कृता भवेत्

5.9.36

तव्यम् ।
अन्वयव्यतिरेकाभावशब्दौ पर्यायविति नार्थभेदऽ शङ्कितव्य इति ॥31,32॥
ऽयदि प्रत्यायकऽऽ इति भाष्यकारेण प्रयोगो ऽन्तर्णीतऽ, तमाह---सम्बन्धेति ।
देवदत्तादयो हि यदृच्छाशब्दा यत्रैव सङ्केत्यते तमेव प्रतीपादयन्ति ।
न चैषां क्वचिदपि स्वाभाविकी शक्तिऽ ।
तदयं प्रयोगार्थऽ--- गवादिशब्दो धर्मी, नाभिधाशक्त इति साध्यम्, उपायान्तरापेक्षत्वादिति हेतुऽ ।
यदुपायान्तरापेक्षं तन्न स्वरूपतऽ शक्तम्, देवदत्तादिपदमिव सङ्केतग्रहणापेक्षमिति ॥33॥
अत्र भाष्यकारेण ऽयदि प्रत्यायकऽ शब्दऽ प्रथमश्रुतऽ किं न प्रत्याययतिऽ इति परिचोद्य ऽसर्वत्र नो दर्शनं प्रमाणम्ऽ इत्यादिना दर्शनबलेन गृहीतशक्तिकऽ प्रत्याययतीति परिहार उक्तऽ, तद्दर्शयति---यथैवेति ।
असार्थऽ--- गमकत्वमेव तावत् शब्दस्य किमभ्युपगम्यते, व्यवहारदर्शनबलेनेति चेत्, समानमिदं श्कतिसंवेदने ऽपि ।
न ह्यविदितशक्तयऽ शब्दादर्थमवयन्तो दृश्यन्त इति ॥34॥
स्यादेतत्--- प्रकाशकाऽ प्रदीपादयो ऽविदितसम्बन्धा अपि स्वार्थं प्रकाशयन्तो दृश्यन्ते, तद्विधर्मा च शब्दऽ, अतो न प्रकाशक इति ।
तच्च नैवम्, शक्तिवैलक्षण्यात् ।
विचित्रशक्तयो ऽपि हि भावाऽ ।
तत्प्रदीपऽ प्रत्यक्षपिरकरतयागृहीतसम्बन्धो ऽपि प्रकाशयतु नाम ।
नैतावता शब्देनापि तद्धर्मेण भवितव्यम् ।
अतो ऽयमपर्यनुयोगऽ ।
अपि च व्रीह्यादयो ऽगृगीतस्वरूपा अपि कार्यमारभन्त एवेति शब्दे तद्धर्मऽ किं नारोप्यते ।
कारकहेतवो हि व्रीह्यादयऽ, शब्दस्तु ज्ञापकहेतुऽ ।
अतो ऽपेक्षते स्वरूपग्रहणमिति चेत् ।
केन वेदमाज्ञापितं ज्ञापकेन स्वरूपग्रहणमपेक्षितव्यं न सम्बन्धग्रहणमिति, दर्शनबलेनेति चेत्, समानमिदं सम्बन्धग्रहणापे
यत्साधकतमत्वेन कस्यचित् किञ्चिदुच्यते ।
तस्यानुग्राहकापेक्षा न स्वशक्तिविघातिनी

5.9.37

न हि तत्काणं लोके वेदे वा किञ्चिदीदृशम् ।
इतिकर्तव्यतासाध्ये यस्य नानुग्रहे ऽर्थिता

5.9.38

प्रत्यात्मनियतत्वाच्च यथैव करणं भवेत् ।
बाह्यान्तरविभागेन क्वचित् स्याद् वा विवक्षया

5.9.39

उद्विग्नो ह्यन्धकारेण कश्चिदेवं ब्रवीत्यपि ।
किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया

5.9.40

क्षायामपि, दर्शनबलादेव हि लिङ्गशब्दादयो ज्ञापकविशेषाऽ सम्बन्धग्रहणमपेक्षन्ते ।
न चक्षुरादयऽ ।
सर्वत्र हि नो दर्शनं प्रमाणम् ।
कारकाश्चक्षुरादय इति नानुमन्यामहे, ज्ञानकारणस्यैव ज्ञापकत्वात्, तदेतदाह---स्वरूपेति ॥35॥
ननु च सम्बन्धग्रहणात् प्रागप्यभिधाने शब्दऽ शक्तो न वा ।
यदि शक्तऽ किं सम्बन्धग्रहणापेक्षया ।
न चेत्
सम्बन्धग्रहणमेव हि सदागमन्यायेन कारणमापद्येत,अत आह---यत्साधकतमेति ।
न तावत् सम्बन्धग्रहणात्पूर्वमशक्तमेव शब्दमवगच्छामऽ ।
न च शक्तस्यानुग्राहकापेक्षा स्वशक्तिं विह(रती?न्ती)ति ॥36॥
किं पुनर्न विहन्त्यत आह----न हीति ।
यदि ह्यनुग्राहकापेक्षा स्वशक्तिं विहन्यात् सर्वमेव लौकिकं वैदिकं करणं करणतां जह्यात् ।
अपेक्षते हि सर्वमेव करणमितिकर्तव्यताजनितमनुग्रहमिति ॥37॥
किञ्च--- अस्तु तावदितिकर्तव्यतापेक्षा करणभावं न विहन्तीति, प्रत्युत तयापि नैव करणत्वं नास्ति, प्रतिकरणस्वरूपं तदपेक्षानियमादित्याह---प्रत्यात्मेति ।
नन्वेवमुभयसमवधानमेवान्तरेण कार्यानिष्पत्तेऽ कथं करणेतिकर्तव्यताविभागो दर्शयितव्यऽ, अत आह--- बाह्यान्तरेति बाह्यमपि क्वचिद् विवक्षातऽ कारकप्रवृत्तेऽ करणतया विवक्ष्यत इत्याह--- क्वचित्स्याद्वेति ॥38॥
नित्यवृत्तौ तु नान्धानां दृष्टिर्दीपशतैरपि ।
रूपादिदर्शने यस्मात् तस्माच्चक्षुऽ प्रकाशकम्

5.9.41

शरीरात्ममनोयोगादसाधरणताबलात् ।
विज्ञानासत्तिभावाच्च चक्षुऽ करणमिष्यते

5.9.42

तथैवेहापि सम्बन्धज्ञानमङ्गं प्रसिद्धितऽ ।
गौरवात् करणत्वेन मतं चेत् केन वार्यते

5.9.43

यथा चक्षुरितीदं तु व्यभिचारित्वमुच्यते ।
देवदत्ते ऽपि चाव्यक्तां शक्तिमिच्छन्ति युक्तितऽ

5.9.44

एतदेव दर्शयति--- उद्विग्न इति ।
ज्ञानोत्पत्तावन्तरङ्गमपि चक्षुर्न करणतया मन्यते, किन्तु कितश्चित्तारतम्यविशेषाद् बाह्यमेव प्रदीपं करणतया विवक्षतीति ॥39॥
स चायं विवक्षानिबन्धऽ करणभावऽ कादाचित्कऽ ।
नित्यवृत्तौ नित्यं तु कार्यसिद्धौ आन्तरस्य तक्षुषऽ करणत्वमवगम्यत इत्याह---नित्यवृत्ताविति ।
अन्धानां दृष्टिर्दर्शनं नास्तीत्यर्थऽ ॥40॥
नन्वस्तु विज्ञानकार्यासत्तिविशेषणात् प्रदीपाद्यपेक्षया चक्षुषऽ करणभावऽ, आत्ममनऽ संयोगस्तु ज्ञानोत्पत्तावत्यन्तमासन्नऽ, अतऽ कथं तदपेक्षया चक्षुषऽ करणत्वं भविष्यतीत्यत आह---शरीरेति ।
अयमभिप्रायऽ-- नासत्तिविशेष एव करणत्वे कारणम्, अपि तर्हि बाह्यप्रदीपाद्यपेक्षयासत्तिऽ, आभ्यन्तरात्ममनऽ संयोगापेक्षया त्वसाधारण्यम्, आत्ममनऽ संयोगो हि रसादिज्ञानसाधारणो नाव्यभिचारितया रूपदर्शनकारणमिति शक्यते ऽवगन्तुम्ष चक्षुषऽ पुनरसाधरणतयैव रूपज्ञाने कारणत्वमिति ऽचक्षूरूपादिभेदस्तुऽ इत्यत्रोक्तमिति ॥41॥
तदेवं दृष्टान्ते विवक्षासननिकर्षविशेषकृतकरणेतिकर्तव्यताविभागं दर्शयित्वा प्रकृते योजयति---तथैवेति ।
अनेन यत्तदागमन्यायेन सम्बन्धग्रहणमेव कारणमापद्येतेत्युक्तं तदपि विवक्षाविशेषवशेनास्त्विति दर्शितमिति ॥42॥
अपरमपि--- ऽयथा चक्षुर्द्रष्ट्टन बाह्येन प्रकाशेन विनाऽ इत्यादि परिहारभाष्यं, तस्याभिप्रायमाह---यथेति ।
चक्षुर्हि प्रदीपाद्युपायान्तरा
प्रकाशे ऽस्थिते बाह्ये नान्धै रूपं प्रतीयते ।
फलानन्तर्यतश्चापि चक्षुऽ करणमिष्यते

5.9.45

पुरुषाधीनविज्ञानस्तेभ्यऽ प्रागनिरूपितऽ ।
यऽ संज्ञासंज्ञिसम्बन्धऽ स चेष्टश्चेद् ध्रुवं कृतऽ

5.9.46

भिन्नदेशाद्यधिष्ठानाद् यथा रज्जुघटादिषु ।
समं नास्त्यनयोऽ किञ्चित् तेनासङ्गतता स्वतऽ

मूल पाठ: Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc