मीमांसश्लोकवार्त्तिक (टीका सहित) · अध्याय 5.6
इति शब्दवार्तिकम् ।
अथोपमानपरिच्छेदऽ ।
कीदृग्गवय इत्येवं पृष्टो नागरिकैर्यदि ।
ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा
मन्यते ।
अस्तु तावत्पदमप्यनुमानादभिन्नम् ।
एतावतापीह शब्दानुमानयोरैक्यमिति वाक्य प्रवर्तत सोपहासमाह --- वाक्येष्विति ॥111॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
शब्दपरिच्छेदऽ समाप्तऽ॥
अथोपमानपरिच्छेदऽ ।
ऽउपमानमपि सादृश्यमसन्निकृष्टेर्ऽथे बुद्धिमुत्पादयति ।
यथा गवयदर्शनं गोस्मरमस्येऽकि भाष्यम् ।
अस्यायं तात्पर्यार्थऽ--- उपामानमपि न परीक्षणीयम्, एवं लक्षमकत्वेनाव्यभिचारादिति ।
अवयवार्थस्त्वेकत्र दृश्यमानं सादृश्यं प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयासन्निकृष्टेर्ऽथे यां बुद्धिमुत्पादयति ऽएतत्सादृश्यविशिष्टो ऽसाऽविति, सोपमानमिति, सोपमानमिति च यत्तदोरध्याहारऽ ।
न च वाच्यं विषयविशेषानुपादानात् कथं सादृश्यविशिष्टविषया बुद्धिरवगम्यत इति, प्रसिद्धप्रमाणानुवादेन ह्यत्रापरीक्षा प्रतिपाद्यते ।
लोके च सादृश्यविशिष्टविषयैव
एतस्मिन्नुपमानत्वं प्रसिद्धं शावरे पुनऽ ।
तस्यागमाबहिर्भावादन्यथैवोपवर्णितम्
पुरुषप्रत्ययेनैव तत्रार्थऽ सम्प्रतीयते ।
बुद्धिरुपमानमिति प्रसिद्धम् ।
अतो न दोषऽ
दृश्यमानविशेषमेकदेशदर्शनादितिवदनुपात्तमिति चेद् न ।
उदाहरणे उपादानात् ।
एवं ह्याह--- ऽयथा गवयदर्शनं गोस्मरणस्येऽति ।
अस्यार्थऽ--- दृश्यते ऽस्मिन्निति दर्शनं, अधिकरणे ल्युट् ।
गवयो दर्शनमस्येति गवयदर्शनम् ।
सादृश्यमन्यपदार्थऽ ।
एतदुक्तं भवति--- गवये दृश्यमानं सादृश्यमिति ।
अत्रोदाहरमानुसारेण लक्षमवाक्ये ऽपि
दृश्यमानमेव सादृश्यमानमेव सादृश्यमभिमतमिति गमय्ते ।
गोस्मरणस्येति च ऽनन्दिग्रहीऽ (पा-3-1-134) त्यादिना कर्तरि ल्युऽ ।
गां स्मरतऽ प्रमातुऽ ।
यथा गवये दृश्यमानं सादृश्यमेतत्सदृशागौरिति बुद्धिमुत्पादयतीति ।
सङ्गतिस्तु प्रसिद्धिबाहुल्यात् शाब्दानन्तरमुपमानमिति प्रगेवोक्तम् ।
अत्र चोदयति--- प्रसिद्धप्रमाणानुवादेनात्रापरीक्षा प्रतिपाद्यते ।
अतो यथा नैयायिकोक्तमुपमानं प्रमाणमाश्रीयते, एवं तदुक्तमेवोपमानलक्षणमाश्रयितुमुचितम् ।
एवं हि तैरुक्तं--- ऽप्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमिऽति ।
अस्यार्थऽ--- प्रसिद्धेन गवादिना साधर्म्यात् साध्यस्याप्रसिद्धस्य गवयादेऽ कञ्चिदनभिज्ञं प्रति साधनं प्रज्ञापनं यादृशो गौस्तादृशो गवय इचि वाक्यं, तज्जनिता वा बुद्धिरुपमानमिति ।
तदेतत्परिहारेण लक्षणान्तरप्रणयने कारणं वाच्यमित्यत आह--- कीदृगिति द्वयेन ।
सत्यं नैयायिकैरिदमुक्तम् ।
न तु युक्तम् ।
अनन्तरोक्तागमाबहिर्भावात् ।
शब्दविज्ञानाद्धीदमसन्निकृष्टेर्ऽथे विज्ञानम् ।
अतो ऽन्यथैव शाबरे तन्त्रे उपमानं वर्णितमिति ॥1,2॥
नैयायिकागमलक्षणानुसारेणाप्यस्यागमत्वमवगम्यत इत्याह--- पुरुषेति ।
एवं हि नैयायिकानां शाब्दलक्षणम् ऽआप्तोपदेशऽ शब्दऽ इति ।
अत्रापि चाप्तपुरुषप्रत्येनैवापरिदृष्टे गवयादौ सादृश्येन सम्प्रत्ययो भवति ।
नानाप्ता(द्धि?द्वि) संवादात् ।
अत आप्तस्यैवेदं वचनमव्यभिचाररीति मत्वा तदबलभावी निश्चयो जायते, तेषामप्यागम एवेति ॥3॥
तदीयवचनत्वेन तस्मादागम एव सऽ ॥3॥
सदृशादुपजायेत या मतिऽ सदृशान्तरे ।
ध्यानादिस्मृतितुल्यत्वात् सा प्रमाणं कथं भवेत्
देशकालादिभेदेन यथान्यत्र विशिष्यते ।
प्रमेयं नैवमस्त्यत्र नगरस्थानुसारतऽ
श्रुततिदेशवाक्यानामारण्ये गवये मतिऽ ।
या सोपमानं केषाञ्चिद् गोसादृश्यानुरञ्जिता
ननु शाबरे ऽपि ह्यदृशदर्शनात् सदृशान्तरे ज्ञानमुपमानमिति वर्णितम् ।
एतदपि स्मरणाबहिर्भावादप्रमाणमेव ।
यथा हि किञ्चिद् ध्यायतऽ स्मरणं भवति, एवं सदृशदर्शिनो ऽपि सदृशान्तरे स्मरणम्, अतो न ध्यानादिजन्मना स्मृत्या सहास्याऽ कश्चिद् विशेषऽ ।
अतो ऽप्रमाणमित्याह--- सदृशादिति ।
नैयायिकलक्षणं तावदागमाबहिर्भावि ।
शाबरं त्वप्रमाणमेव क्षङ्गृह्णातीति ॥4॥
ननु स्मृतिसम्भिन्नमपि देशादिभेदेन जायमानं प्रत्यभिज्ञानं प्रमाणं दृष्टम् ।
एवमिहापि गां नगरे दृष्टवतो वने गवयदर्शनस्तद्भानं प्रमाणं भवत्यत आह---देशकालादीति ।
न खलु देशादिभेदऽ सन्मात्रतया प्रामाण्ये कारणम्, अपि तर्हि प्रमेयतया, न चेह देशान्तरादिविशिष्टो गौऽ प्रमीयते, अपि तु नगरावगतऽ सम्प्रत्यपि तत्स्थ एव स्मर्यत इति ॥5॥
नैयायिकैकदेशिनां मतमुपन्यस्यति---श्रुतेति ।
येन किलातिदेशवाक्यं श्रुतं यादृशो गौस्तादृशो गवय इति, तस्य श्रुतादिदेशवाक्यस्य वनं प्राप्तस्य यत् स्वयमसौ गोसदृशो गवय इति सादृश्यानुरञ्जितं गवयज्ञानमिदमुपमानमिति ॥6॥
प्रत्यक्षो गवयस्तावत् सादृश्यस्मृतिरत्र तु ।
ननु सादृश्ययुक्तेर्ऽथे न स्मृतिर्नैन्द्रियाद् गतिऽ
पूर्ववाक्यार्थविज्ञानान्नाधिक्यं गवये यदि ।
स्मरणादविशिष्टत्वात् सङ्गतेर्न प्रमाणता
अथ त्वधिकता काचित् प्रत्यक्षादिवशाद् भवेत् ।
यावद्धीन्द्रियसम्बद्धे1 तत्प्रत्यक्षमिति स्मृतम्
एतदपि दूषयति---प्रत्यक्ष इति ।
गवयस्तावदिन्द्रियसन्निकर्षात् प्रत्यक्षेण प्रतीयते ।
गोसादृश्यमप्यतिदेशवाक्यादवगतं स्मर्यत इति नोपमेयमस्तीति ।
अत्र चोदयति--- नन्विति ।
अयमभिप्रायऽ--- गोसादृश्यविशिष्टो ह्यत्र गवयो ऽवगम्यते ।
न च तत्प्रत्यक्षं, गोरप्रत्यक्षत्वात् ।
तद्विशिष्टो गवय उपमानस्य विषयऽ ।
न ह्यसौ प्रत्यक्षेणावसीयते, गवयमात्रविषयत्वात् तस्य ।
न चागमादवगतऽ स्मर्यते, सामान्यविषयत्वादागमस्य ।
इह चायमसाविति विशेषप्रतिभानादिति ॥7॥
एतदपि विकल्प्य दूषयति---पूर्वेतिसार्धेन ।
इदमत्र विकल्पनीयम्---- अतिदेशवाक्यादवगतात् किञ्चिदधिकमवगम्यते न वा, यदि नेत्याह, ततऽ स्मरणादविशिष्टा सङ्गतिरियमप्रमाणम् ।
यथा पदात् पदार्थज्ञानं प्रत्युत्पन्नकारणजत्वेनास्मरणमप्यनधिकवि,यत्वादप्रमाणम्, एवमिहाप्यतिदेशवाक्यावगतगोसादृश्यविशिष्टवगयज्ञानम् ।
यदि
तर्हि प्रत्यक्षादेव लभ्यत इति न प्रमाणान्तरावकाश इति ॥8 1।2॥
ननुक्तमसन्निहिते गवितत्सादृश्यस्याप्रत्यक्षात्वान्न तद्विशिष्टो गवयऽ प्रत्यक्षेणावगन्तुं शक्यत इति सावकाशं प्रमाणान्तरमित्यत आह--- यावद्धीति ।
यावदिन्द्रियव्यापारानन्तरमपरोक्षं भासते तन्नऽ प्रत्यक्षम् ।
तथा च सादृश्यविशिष्टो गवय इति कथमप्रत्यक्षो भविष्यति ।
प्रतिजाति कृत्स्नपरिसमाप्तमेव जातिवत् सादृश्यमित्यप्रत्यक्षे ऽपि गवि तत्सादृश्यविशिष्टगवयप्रत्यक्षमुपपद्यत एवेति भावऽ ॥9॥
स्मर्यमाण्स्य चांशस्य विवेके नाप्रमाणता ।
श्रुतातिदेशवाक्यत्वं न चातीवोपयुज्यते
ये ऽपि ह्यश्रुततद्वाक्यास्तेषामपि भवत्ययम् ।
प्रत्यक्षदृष्टगोत्वानां वने गवयदर्शिनाम्
अथ संज्ञानुसन्धानं तेषां नास्तीति वर्ण्यते ।
न नाम्, वस्तु तत्तावत् सर्वथा तैऽ प्रतीयते
न च शब्दार्थसम्बन्धऽ प्रमेयो ऽत्र तदेष्यते ।
सादृश्यावधृते वाक्ये वाक्यादवगतो ह्यसौ
न चशब्दादिस्मरणसम्बेदादप्रमाणता, गृह्यमाणस्मर्यमाणयोर्विवेकस्य सविकल्पकसिद्धौ फणितत्वादित्याह---स्मर्यमाणस्येति ।
विवेके सति नाप्रमाणतेत्यर्थऽ ।
श्रुतातिदेशवाक्यविशेषणोपादानस्यापि न फलमुपलभ्यत इत्याह--- श्रुतेति ॥10॥
कथं नोपयुज्यते---ये ऽपीति ।
गोसादृश्यविशिष्टगवयदर्शनं चेदुपमानमभिमतं तदाश्रुततद्वाक्यानामपि नगरे गां दृष्टवतां वने गवयं पश्यतामस्त्येवेति मन्दं विशेषणफलमिति ॥11॥
नन्वश्रुतातिदेशवाक्यानामयमसौ गवय इति संज्ञानुसन्धानं नास्ति, इतरेषामस्तीत्ययमस्ति विशेष इत्याह---अथति ।
परिहरति--- न नामेति ।
यदुपमानस्य प्रमेयमभिमतं तत्तावत्ते ऽपि जानन्ति ।
संज्ञित्वं मा नामानुसन्धीयतामिति ॥12॥
स्यान्मतम्--- संज्ञासज्ञिसम्बन्ध एवोपमानस्य विषयऽ ।
यथोक्तं न्यायविस्तरे---"समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ"इति ।
विवृतं च---"यथा गौरिव गवय इत्युक्ते गवा समानार्थमिन्द्रियसन्निकर्षादुपलभमानो ऽस्य गवयशब्दऽ संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यतऽ इति ।
न चाश्रुतातिदेशवाक्यस्य शब्दमविदुषऽ समाख्यासम्बन्धप्रतिपत्तिऽ सम्भवतीति फल
न चास्य प्रत्यभिज्ञानं पुनरुत्पद्यते वने ।
शक्त्योरतीन्द्रियत्वेन स्मृतिरेव हि सेष्यते
शब्दानुविद्धबोधे ऽपि प्रत्यक्षमुपपादितम् ।
तस्मात् सादृश्ययुक्तार्थऽ प्रमेयो ऽपूर्व उच्यताम्
वद्विशेषणमत आह--- न चेति ।
कारणमाह--- सादृश्येति ।
अति देशवाक्यादेव गोसादृश्येन गवयशब्दवाच्येर्ऽथेवधारिते व्यक्तिरूपेणानवगतो ऽपि शब्दार्थसम्बन्धो ऽवगत एव ।
एतद्धि तदावगतं गोसदृशं वस्तु गवयशब्दवाच्यमिति ।
एतावच्च सम्बन्धस्य स्वरूपम्, अतऽ सूक्तं विशेषणानर्थक्यमिति ॥13॥
ननु ज्ञातस्यापि सम्बन्धस्य प्रत्यभिज्ञाने प्रामाण्यमविहतमेवात आह---न चेति ।
अत्र कारणमाह--- शक्त्योरिति ।
वाच्यवाचकशक्तिनियमो हि शब्दार्थयोऽ सम्बन्धऽ ।
स चातीन्द्रियत्वान्नेह प्रत्यभिज्ञायते ।
पूर्वावगत एवान्यूनानतिरिक्तऽ स्मर्यते ।
किमिदानीमतीन्द्रिये नैव प्रत्यभिज्ञानमस्ति, यद्येवमनुमानेन कथं पूर्वानुभूतमग्न्यादि प्रत्यभिज्ञायते ।
आह च--- ऽगृहीते ऽपि देशादिभेदभिन्ने पुनऽ प्रमाप्रत्यभिज्ञानुमानात्सात् प्रत्यक्षवदवधारिते ऽपीऽति ।
इहापि च वक्ष्यति---
ऽयेन नाम प्रमाणेन ग्रहणं बुद्धिकर्मणोऽऽ ।
इति ।
सत्यम् ।
न ब्रूमऽ परोक्षं न प्रत्यभिज्ञायत इति, यदेतदयमसौ गोसादृश्यविशिष्टो गवय इतीन्द्रियजमपरोक्षावभासं प्रत्यभिज्ञानम्---
अस्य शब्दार्थसम्बन्धऽ शक्तिरूपो न गोचरऽ ।
गोसादृश्येन विज्ञानतपूर्वो गवय एव तु॥
इति ।
अत एव ऽन चास्येऽति सम्बन्धस्य प्रत्यभिज्ञानविषयत्वं निराकरोति ।
गवयस्त्विह गोसादृश्येनावगत पूर्वऽ
प्रत्यभिज्ञायत इति न किञ्चिदनुपपन्नमिति ॥14॥
अथोच्येत (वृ?प्रत्य) क्षाद् व्यवर्तयितुं विशेषणोपादानम् ।
श्रुतशब्दोल्लिस्वतमिदं गवयज्ञानमतो न प्रत्यक्षस्य विषय इस्युपमानस्य भविष्यतीत्यत आह---शब्देति ।
शब्दानुविद्धबोधे ऽपि हीन्द्रियसम्बन्धा
व्यवसायात्मकत्वं तु प्रत्यक्षस्य यदेष्यते ।
जात्यादिवत् तदा तेन सादृश्यं किं न मीयते
प्रत्यक्षाभासमेतत्तु निर्वकल्पकवादिनाम् ।
प्रमेयवस्त्वभावाञ्च नाभिप्रेता प्रमाणता
नुसारि ज्ञानं शब्दशक्तिपरामर्शजमेवेति प्रत्यक्षमेवेति वर्णितमित्यतो नैकत्रापि लक्षणे उपमानस्य प्रमेयमधिकं पश्याम इति वाच्यमस्यापूर्वं प्रमेयमित्युपसंहरति--- तस्मादिति ॥15॥
यदि तूच्यते--- प्रतियोगिसापेक्षं सादृश्यग्रहणम् अतो न प्रत्यक्षम्, अर्थेन्द्रियसामर्थ्यमात्रजं हि प्रत्यक्षं ज्ञानं, न तत्पूर्वमपरं वानुसन्धत्ते ।
अतऽ प्रत्यक्षे ऽपि धर्मिणि परोक्षमेव सादृश्यमिति न तद्विशिष्टस्य प्रत्यक्षत्वमिति सावकाशमुपमानमित्यत आह---व्यवसायेति ।
बौद्धानामयं सिद्धान्तऽ--- यदविकल्पकमापातजं प्रत्यक्षमिति ।
नैयायिकास्तु व्यवसायात्मकप्रत्यक्षवादिनऽ ।
अतो जात्यादिवत्सादृश्यमपि तेषां किं न प्रत्यक्षेम प्रमीयत इति ॥16॥
निर्विकल्पकवादिनामपि नेदं प्रमाणान्तरं,प्रत्यक्षाभासत्वादित्याह--- प्रत्यक्षेति ।
एवं तावत् सादृश्यस्य वस्त्वन्तरत्वमङ्गीकृत्य तत्प्रत्यक्षतयोपमानस्य विषयाभावेनाप्रामाण्यमुक्तम् ।
इदानीं बौद्धमतेन सादृश्यापलापमाह---प्रमेयेति ।
निर्विकल्पकप्रत्यक्षवादिनामपि सादृस्यप्रमेयाभावादपमानस्य प्रमाणता नाभिप्रेता ।
अतस्तेषु स्पर्धमानेषु कथमुपमानं प्रमाणम् ।
अयं च तेषामभिप्रायऽ--- सादृश्यं हि न तावदाश्रयेभ्यो भिन्नमुपलम्भात् ।
अभेदे चाश्रयात् तन्मात्रापातात् ।
कथं चाश्रयेषु वर्तते ।
न तावत् कार्त्स्न्येन वृत्तमन्यत्रापि तथैव वर्तत इति साम्प्रतम् ।
न च भागशऽ, तदभावात् ।
किञ्चेदं सादृश्यं न तावद् द्रव्यगुणकर्मणामन्यतमम्, पदार्थपण्डितैस्तेष्वनुपसंख्यातत्वात् ।
न हि नवसु द्रव्येषु चतुर्विशत्यां गुणेषु पञ्चसु वा कर्मसु सादृश्यमन्तर्गतं पश्यामऽ ।
न च सामान्यमेव सादृश्यं, तद्धि तद्बुद्धौ करणं, तद्वद्बुद्धिवेद्यं च सादृश्यं, तत्सादृश्ये च गोत्वादावपि तथात्वप्रसनङ्गऽ ।
अवयवसामान्यानि सादृश्यमिति चेद् ।
न ।
तेष्वप्यैकैकश्येनसादृश्यबुद्धेरुपजननात् ।
भूयांसि सादृश्यमिति चेद् ।
न ।
भूयऽ स्वप्येकत्र समाहृतेषु प्रतियोग्य(न्यतरा?) नपेक्षेषु सादृस्यबुद्धेरुपजननात् ।
सन्ति खलु तान्येकत्र समाहृतानि वस्तूनि, न च सादृश्यबुद्ध्या गृह्यन्ते, न ह्यनपेक्षितप्रतियोगिभेदं सदृशो ऽयमिति गां जानाति ।
प्रयोग्यपेक्षया सामान्यानि सादृश्यमिति चेति ।
किमिदानीमापेक्षिकं सादृश्यम् ।
बाडम् ।
यद्येवमपेक्षया तदभिव्यज्यते जन्यते वा ।
न तावज्जन्यते ।
द्वित्वमिवापेक्षाबुद्ध्या, सहजसिद्धत्वात् ।
अभिव्यञ्जकानि त्वालोकेन्द्रियादीनि सन्तीति किमन्यदपेक्षते ।
यदि चावयवसामान्यानि सादृश्यं, यमयोस्तु तदभावादभावप्रसङ्गऽ ।
तत्रापि तदभ्युपगमे तन्नाशे सामान्यनाशात् सिद्धान्तहानिऽ ।
चिक्षादौ च पारिणामिकानामवयवानां करशिरऽ प्रभृतीनामभावात् ।
सामान्याभावे सादृश्याभावऽ ।
एवमेव गन्धदिष्वपि प्रसङ्गो दर्शनयितव्यऽ ।
अवयवानां कर्णादीनामवयवान्ताभावादसादृश्यम् ।
अथ मतम्, सत्यं नावयवसामान्यानि सादृश्यम् ।
किन्तु तत्त्वान्तरमेवेदं द्रव्यजातिगुणकर्मभ्यो व्यतिरिक्तं गुणभेदो वा ।
यथाह गुरुऽ--- ऽन सामान्यं सादृश्यम् ।
किं तर्हि?तदेव तत्, गोत्वादेरकत्वाऽदिति ।
एवं चोपपन्नो भवति सदृशसम्भावनमेव तत्र विध्यर्थऽ श्येनचिञ्चोदनार्थऽ ।
श्येनव्यक्तिजात्योऽ स्वभावनिर्मितपक्षत्वग्रसमांसलोहितास्थिशिरऽ पृष्ठपादोदराद्यवयवारब्धावयविसमवायित्वेनेष्टकाभिरशक्यसम्पादनत्वात् ।
यदि चावयवसामान्यानि सादृश्यमिष्यन्ते ततस्तेषामिहाभावात् सादृश्यमपि दुऽ सम्पादनमिति सो ऽनारभ्योर्ऽथऽ प्रतिज्ञातो भवेत् ऽश्येनचितं चिन्वीतेऽति ।
एवं चानवयवेष्वपि गन्धादिषु सादृश्यसंविदुपपत्स्यत इति ।
तच्च नैवम् ।
तत्त्वान्तरे हि सादृश्ये गामनपेक्ष्यापि गवयं सदृशमिति जानीयुऽ ।
तत्र हि तन्निरवशेषमेव सादृश्यं परिसमाप्तमिति किमन्यदपेक्षते ।
कथमनपेक्षिते गवि तत्सादृश्यविशिष्टो ऽवगम्यत इति चेत् कसत्स्य गवा सम्बन्धऽ ।
समवाय इति चेत्, सो ऽपि तर्हि गवयवद् गोसदृशतया ज्ञातव्यऽ ।
अपि च समवेतं नाम तत्सादृश्यं गवयगतसादृश्यग्रहणे ऽपि किमित्यपेक्ष्यते ।
न हि गोत्वं शाबलेये समवेतमिति
सादृश्यस्यापि वस्तुत्वं न शक्यमपबाधितुम् ।
भूयोवयवसामान्ययोगो जात्यन्तरस्य तत्
बाहुलेये तदबोधे ऽपि तदपेक्षा दृष्टा ।
तथेदं गवि गवयसादृश्यमिति न तदपेक्षाहेतुरुपलभ्यत इति ।
अपि चापेक्षतां नाम गौऽ,
दूराद् गामुपलब्धवतो(ऽ)विदितावयवसामान्यविभागस्यापि गोसदृश्यगवयज्ञानं भवेत् ।
अवयवसामान्यान्यपि तद्बोधे ऽप्यपेक्ष्यन्त इति चेत् ।
वक्तव्यो ऽपेक्षार्थऽ ।
यदि मतम्, अभिव्यञ्जकानि तस्यावयवसामान्यानीति, तानि तर्हि गवयवर्तीनि तस्याभिव्यञ्जकानि, सन्ति च तानि गवे(?वि) इति किं गोगतद्वेदनेन, अतो गव्यवगते ऽनवगतेषु चावयवसामान्येषु गोसादृश्यज्ञानं जायेत ।
जात्योर्हि तत्सादृश्यम्, अवगते च ते इति किमन्यदपेक्ष्यते ।
यञ्चेदमवयवसामान्यानां बाहुल्ये सदृशत्वम्, इदं च न स्यादर्थान्तरत्वे सादृश्यस्य सर्वत्र तावत्त्वात् ।
स्यान्मतम्, व्यञ्जकानि तानि तस्य ।
भवति चाभिव्यञ्जकप्रकर्षे ऽभिव्यङ्ग्यबुद्धिप्रकर्षऽ ।
यथा घटादौ तद्वदिहापि भविष्यतीति ।
तन्न ।
न हि बुद्धिमात्रमत्र प्रकृष्यते ।
अपि तर्हि वस्त्वेव सातिशयमुपालभामहे ।
अत एव मुख्यापचारे सदृशोपादित्सयासुसदृशं प्रतिनिधीयते ।
न मन्दसदृशमित्येतदपि यत्किञ्चित् ।
अतऽ कल्पनामात्रकल्पितं द्विचन्द्रालातचक्रादिवद् भ्रान्तिकरणं सादृश्यं न प्रामाणिकमिति ।
प्रमेयाभावादपि नोपमानाङ्गमन्यद् वा सदृश्ये प्रमाणमित्यापेक्ष इति ॥17॥
अत्र समाधिमाह---सादृश्यस्येति ।
अयमभिप्रायऽ--- नेदं कल्पनामात्रकल्पितं, मिथ्यात्वहेतुद्वयासम्भवात् ।
द्विचन्द्रादिप्रत्यया हि कुतश्चिद्दोषादुत्पन्नाऽ कालादिभेदेषु बाध्यन्ते ।
सादृश्यं तु जात्यादिवतत्सत्यमेवं सादृश्यमपीति किमपह्नूयते ।
तदिदमवगतमसंशयितमवाधितं च देशान्तरादिष्वपीत्यस्ति तावत् सादृश्यं, प्रमाणबलेन यथा तदुपपद्यते तथा कल्पनीयम् ।
न हि दृष्टे ऽनुपपन्नं नाम किञ्चिदस्तीति॥
तत्र यत्तावदुक्तं किमस्य स्वरूपमिति ।
तत्रोत्तरमाह---भूयोवयवेति ।
अस्यार्थऽ--- भूयोभिरवयवसामान्यैर्यो जात्यन्तरस्य योगऽ तत् सादृश्यम् ।
जात्यन्तरावयवसामान्यग्रहममुपलक्षणार्थम्, व्यक्तिसादृश्यमपि यमादिषु दृष्टमेव ।
एवमवयवसामान्यैर्विनापि गुणकर्मादिसामान्ययोगेनापि सादृश्यं दृष्टमेव,यथा चित्रादिषु ।
एतेन यदुक्तं चित्रादौ कथं सादृश्यमिति तत् परिहृतम् ।
एवमग्नावपि संस्थानपरिमाणसामान्यं दर्शयितव्यम् ।
यमयोस्त्ववयवसामान्याभ्युपगमे यानुपपत्तिरुक्ता, असौ परिहरिष्यत एव ।
गुणानां त्वसत्यप्यवयवसामान्ये ऽवयवगुणसामान्यमेवावयविगुणानां सादृश्यम्,अवयवसामान्यस्योपलक्षणार्थत्वादिति ।
तत्त्वान्तरवादिनां चेदमाश्रयपारतन्त्र्याद् गुणान्तर्गतमेवास्थेयम् ।
न पञ्चममलौकिकत्वात् ।
जातिद्रव्यगुणक्रियाऽ पदार्था इति लोकसिद्धम् ।
अतो ऽस्य गुणस्य सतो गुमकर्मणोरनुपपन्न एव समवायऽ ।
अथ द्रव्यसमवेतमेव गुणकर्मणी अपि सदृशतया बोधयति, एकार्थसमवायात् ।
यति, एकार्थसमवेतसमवायादित्युच्यते ।
न ।
द्रव्यसमवाये प्रमाणाभावात्, अवयवसामान्यानि हि कर्णादीनि व्यक्तिसमवेतानि प्रत्यक्षाणि ।
सादृश्यं तु सदृशबुद्ध्या ग्रहीतव्यम् ।
न च गन्धादिसदृशं द्रव्यमिति अतो ऽवयवसामान्यमेव सादृश्यमिति ।
नन्वेकत्रैव भूयसामवयवसामान्यानामुपलम्भात् सादृश्यबोधप्रसक्तिरित्युक्तम्, परिहृतमिदं जात्यन्तरस्येति वदता ।
जात्यन्तरसमवायिनां जात्यन्तरे समवायात् सादृश्यम्, न स्वरूपमात्रम्, न च भूयस्त्वम् ।
एतञ्चोपरिष्टाद् विवरिष्यत एव ।
अतो जात्यन्तरग्रहणमपेक्षितव्यम् ।
यत्तु न तेन तज्जन्यत इति ।
सत्यम् ।
अभिव्यज्यते तु तत् ।
यथोक्तम्---
सामान्यानि च भूयांसि गुणावयवकर्मणाम् ।
भिन्नप्रधानसामान्यव्यक्तं सादृश्यमुच्यते॥
इति ।
यद्धि यस्योपलब्धौ निमित्तं, तत्तदभिव्यञ्जकम् ।
अत एकैकत्रापि स्वरूपमात्रेण सामान्यानि गम्यन्त एव ।
जात्यन्तरसमवायात्मना
सदृशावयवत्वं तु यत्र पद्मदलाक्षिवत् ।
तत् स्वावयवसामान्यभूम्ना तेषां भविष्यति
एवं जातिगुणद्रव्यक्रियाशक्तिस्वधर्मतऽ ।
तु तानि सादृश्यम्, समवायात्मा च नाप्रतिसंहिते जात्यन्तरे ऽभिव्यक्तो भवतीति युक्तैव तदपेक्षा ।
न च यदर्थान्तरापेक्षप्रतिभासं तदवस्तु भवति ।
न हि देवदत्तस्य पितृत्वं पुत्रापेक्षा प्रतीयत इति, तदवस्तु ।
अतऽ आपेक्षिकाण्येवञ्जातीयकानि न चालयितुं शक्यन्ते ।
अत एवावयवसामान्यप्रचयाप्रचययोऽ सुसदृशादिबोधोपपत्तिऽ ।
अतऽ सिद्धं जातिव्यक्त्यन्तरावच्छिन्नानि गुणावयवादिसामान्यानि सादृश्यमिति ॥18॥
ननु पद्मदलाक्षीयमङ्गनेति पद्मावयवेन दलेनाङ्गनायाश्चक्षुरुपमीयते, यदि चावयवसामान्यं सादृश्यं, न तदिह सम्भवति, स्वयमेवावयवत्वात्, न हि चक्षुषश्चक्षुराद्यवयवान्तरमस्ति ।
अत आह---सदृशेति ।
नावश्यं महावयविनो यो ऽवयवस्तत्सामान्यं सादृश्यम् ।
अवयवसामान्यानि तु सादृश्यमित्युक्तम् ।
तञ्चावयवानामपि चक्षुरादीनां
स्वावयवसामान्यभूम्ना सम्भवत्येवेति युक्तो ऽङ्गनादीनां सदृशावयवबोध इत्याह ॥19॥
अस्तु तावदवयवेष्ववान्तरावयवसामान्ययोगात् सादृश्यम्, विनापि तु तानि तत्र तत्र सदृशबोधो दृष्टऽ ।
स कथमुपपद्यते अत आह---एवमिति ।
नेदमवयवसामान्यग्रहणं तन्त्रम् ।
यदेव तु किञ्चिद् गुणादिसामान्यं सदृशधियमुपजनयति तदेव सादृश्यमतो नात्रैकरूप्यमेव ।
विचित्रता तु सादृश्यस्य यथादर्शनमङ्गीकर्तव्यम् ।
तद् यथा--- जातिसादृश्यम् ऽअग्निर्वै ब्राह्मणऽ इति, अग्निसदृश इत्यर्थऽ ।
किमनयोऽ सादृश्यम्, एकस्माद् ब्रह्मणो मुखाज्जातीरुत्पत्तिरित्यर्थऽ ।
इदं च तत्सिद्धिसूत्रे वक्ष्यते ।
कुतऽ पुनरनयोऽ समानाभिजननत्वमवगम्यते ।
श्रुतेऽ ।
एवं ह्याह--- ऽप्रजापतिर्मुखतस्त्रिवृतं छन्दसां निरमिमीत अग्निं देवतानां ब्राह्मणं मनुष्याणामिऽति ।
लोके च समानाभिजननयोर्दर्शयितव्यम् ।
गुणसामान्यं तु चित्रादौ सुप्रकाशमेव लोके, वेदे च ऽआदित्यो यूपऽ इति ।
एकैकद्वित्रिसामस्त्यभेदादेतस्य चित्रता
न धर्मा एव सादृश्यं भूयस्ता वा तदाश्रया ।
भूयस्त्ववद्धि जात्यादि सदृशत्वेन दृश्यते
द्रव्यसादृश्यं समालङ्कारधारिणोर्लोके, वेदे च "लोहितोप्णीषा ऋत्विजऽ प्रचरन्तीति" ।
क्रियासादृश्यमध्ययनादिसामान्याल्लोके, वेदे च यज्ञविहङ्गमयोर्निपत्यादानसामान्यात् ।
एवं ह्याह---"यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते"इति ।
शक्तिसादृश्यं तु भीमो मल्ल इति लोके, वेदे च सोमपूतीकयोऽ ।
अवगम्यते हि पूतीकानां सामशक्तिरर्थवादात् ।
तत्कार्यत्वेनावगमात् ।
कार्यस्य चकारणानुविधायिशक्तिकत्वात् ।
उक्तं च---"सोमस्य योंऽशऽ परापतत् स पूतीको ऽभवद्" इति ।
स्वधर्मसादृश्यं केचित् त्रिशिखाऽ केचित् पञ्चशिखा इति लोके त्रिशिखादीनामन्योन्यसादृश्यं, वेदे च वसिष्ठात्र्यादीनां नराशंसो द्वितीयऽ प्रयाज इति ।
धर्मनियम एव हि तत्र सादृश्यम्, प्रकृतिविकृतिकर्मणोश्च धर्मसामान्यमेव सादृश्यमित्युक्तमेव ।
एते च जात्यादय एकैकशो द्विशस्त्रिशऽ समस्तशश्च समाना भवन्तऽ सादृश्यस्य विचित्रतामापादयन्तीति ॥20॥
ननु यत्र सादृश्यं समवैति तत्सदृशबुद्ध्या गृह्यते ।
यदि चावयवसामान्यानि सादृश्यं, तानि तर्ह्यवयवेषु समवयन्तीति तेष्वेव सदृशधियं जनयेयुऽ ।
अथ तेषां भूयसस्ता, सा चावयवसामान्येष्विति तान्येव सदृशानि स्युऽ ।
कथं जात्यन्तरे सदृशबुद्धिरत आह---न धर्मा इति ।
सत्यम् ।
अत एव हेतोर्न ध्माख्यावयवसामान्यानि तदभूयस्ता वा सादृश्यं, तेषु सादृस्यबुद्ध्यनुत्पत्तेऽ ।
यदेव हि तेषां भूयस्तया युक्तं जात्यन्तरं गवयादि व्यक्त्यन्तरं वाग्नेयसौर्यादि, तदेव सदृशबुद्ध्या गृह्यते ।
अतो जात्यन्तरसमवाय एव तेषां सादृश्यम् ।
स्वरूपतस्त्वेकैकशस्तानि सामान्यानि प्रदानसामान्यवदेकत्वबुद्धिनिबन्धनमेव ।
पिण्डितानि तु जात्यन्तरसमवायोपहितानि सादृश्यम्, अयं च भूयो ऽवयवसामान्येत्यस्यैव ।
प्रपञ्च इति ॥21॥
यमयोऽ कथमेतञ्चेद् दृष्टत्वात् किमिहोच्यते ।
क्वचिद्धि भूयसामेतत् क्वचिदल्पीयसामपि
नैतावता विशेषेण वस्तुत्वं तस्य हीयते ।
सामान्यान्यपि चैतानि नाशीन्याश्रयनाशतऽ
अनन्ताश्रययोगाच्च न नाशो ऽन्यत्र विद्यते ।
तेन सर्वं न सामान्यं नित्यत्वेन प्रकल्प्यते
अत्र चोदयति--- यमयोरिति ।
जात्यन्तरस्येति यावच्छ्रुतग्राहिणऽ परिचोदनमिदम्--- यदि जात्यन्तरस्य भूयो ऽवयवसामान्ययोगतऽ सादृश्यं कतं यमयोर्व्यक्तिसादृश्यमिति ।
इतरस्तु--- प्रदर्शनमात्रं जात्यन्तस्येति केयमत्रैवास्था, तदयमर्भको बराक इत्यपहसति--- दृष्टत्वादिति ।
यत्रैवं सादृश्यं दृश्यते जातौ व्यक्तौ वा, तत्रैव तदाश्रयणीयम् ।
किमेकत्रैवालस्थां बध्नासीति ।
स्यादेतत् ।
एकस्वभावा हि भावा जात्यादयऽ ।
तदिदं सादृश्यमपि तथैव युक्तम् ।
यदि तावदल्पवृत्तिस्वभावं व्यक्त्योरेव युक्तम्, अथ बहुवृत्तिस्वभावं ततो जात्योरेव ।
अर्धवैशसं त्ववस्तुतामापादयतीति, अत आह--- क्वचिद्धीति ।
प्रतीत्यविसंवादादुभयोपपत्तिरिति भावऽ ॥22॥
ननु सामान्यानि सादृश्यं, तानि च व्यक्तिनाशेन नश्येयुऽ ।
अतो नित्यं सामान्यमिति सिद्धान्तहानिरत आह---सामान्यानीति ।
एतानि तावन्नाशीनि भवन्तु , सामान्यान्तराणि गोत्वादीनि नित्यान्येवेति न कश्चिल्लोकविरोध
इति ॥23॥
कऽ पुनऽ सामान्यान्तरेषु विशेषऽ,अत आह---अनन्तेति ।
अनन्तो हि गोत्वादीनामाश्रयऽ ।
तदेकस्य नाशे ऽप्याश्रयान्तरे प्रत्यभिज्ञानान्नैकान्तिको नाश इति ।
नित्यसामान्यवादो ऽपि न नऽ सार्वत्रिक इत्याह---तेनेति ।
सामान्यस्य न वा नाशऽ क्वचिदभ्युपगम्यते ।
सर्वस्य ह्याश्रयऽ कश्चिदस्ति देशान्तरादिषु
तेषां भूयस्तया चेदं सादृश्यमतिरिच्येत ।
तानि व्यस्तानि सन्त्येवं प्रत्यक्षे ऽपि क्वचित् क्वचित्
सादृशावयवत्वं तु यत्र नाम प्रतीयते ।
तदप्यवयवानां स्यात् समानावयवान्तरैऽ
एवं तावद् यतो नास्ति पराभेदप्रकल्पना ।
ततऽ परं तु सामान्यं भवेत् सादृश्यवर्जितम्
मूल पाठ: Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0