भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसश्लोकवार्त्तिक (टीका सहित) · अध्याय 5.5

5.5.1

इति अनुमानवार्त्तिकम्॥
अथ शब्दपरिच्छेदऽ ।
प्रत्यक्षादिषु वक्तव्यं शब्दमात्रस्य लक्षणस्य ।
तदतित्वरितेनेह किं1 शास्त्रादभिधीयते

5.5.2

वस्थायां परव्यावृत्त्यकल्पनादसाधारणोल्लेखो नास्त्येवेति ।
यदि तु ताद्रूप्येणाविकल्पितमपि स्वरूपेण विकल्पको ऽवबुध्यत
इति तत्प्रत्यक्षम् ।
एवं तर्हि द्व्याकारमेव संमुग्धं वस्तु लोकऽ प्रतिपद्यत इति परीक्षकैरुभयथापि तत् शक्यत एव वक्तुमिति सिद्धं द्व्याकारेमेव वस्तु प्रत्यक्षेण गृह्यत इति ।
सिद्धं च सामान्यतऽ सम्बन्धदर्शनमित्यभिप्रायेणाह--- यद्वस्तु लोकऽ प्रतिपद्यते ऽस्मिन् द्विधापि तत् शक्यत एव वक्तुमिति ।
अस्मिन्निति प्रत्यक्षज्ञान इत्यर्थऽ ॥188॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायामनुमानपरिच्छेदऽ समाप्तऽ॥
अथ शब्दपरिच्छेदऽ ।
अत्र प्रत्यक्षानुमानयोरपरीक्ष्य्तव उक्ते शास्त्रस्याप्यपरीक्ष्यताप्रतिपादनार्थं भाष्यम्---"शास्त्रं शब्दविज्ञानादसन्निकृष्टेर्ऽथे विज्ञानम्"इति ।
ननु वृत्तिकारमते न परीक्षिव्यं निमित्तमिति प्रतिज्ञायप्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रमित्युक्तेऽ प्रत्यक्षव्यभिचारेण परीक्षामाशङ्क्य तदव्यभिचार उक्ते ऽनन्तरमेव शास्त्रस्यापरीक्षा प्रतिपाद्यत इति युक्तम्, तद्धि प्रकृतम्, किमनुमानेन व्यवधीयते ।
सत्यमेवम् ।
अयं तु तन्त्रान्तरानुसारेण क्रम आश्रितऽ ।
तथा हि नाप्रत्यक्षं प्रमाणमिति लोकायतिका मन्यन्ते ।
ते हि वैशिषिकाद्याश्रितप्रत्यक्षानन्तरानुमानप्रामाण्यप्रतिपादनेन प्रतिबोध्यन्त ।
एवं हिवैशिषिकाऽपठन्ति--- द्विविधं प्रमाणमालोचिताध्यवसानमनालोचितानुगमनं चेति ।
तथान्ये ऽपि प्रत्यक्षमनुमानं वर्णितम् ।
ततो महाविषयतया प्रकृत्वेन पुरुषार्थोपयिकत्वेन च शास्त्रम् ।
तदनन्तरं च यत्र क्वचन वाच्ये बहूनां प्रसिद्धमित्युपमानमुक्तम् ।
न्यायविस्तरे हि प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमित्युक्तम् ।
ततऽ पाराशर्यमतेनार्थापत्तिरुक्ता ।
तदुत्तरकालमेव तन्मतानुसारिणा कृतकोटिनोक्त्तवात् ।
अभावप्रमाणस्य तु भावप्रमाणाभाव एवात्मेति तदुत्तरऽ प्रस्तावऽ ।
कि पुनस्तन्त्रान्तरेष्वेवमिमानि प्रमाणानि प्रसिद्धानीति प्रसिद्धिप्राबल्यं कथितं भवति ।
व्युत्थिताश्च तेन तेन साक्षिणा प्रतिपादिता भवन्ति ।
अत्र च शब्दविज्ञानादित्युच्यते, तत् कथं विगृह्यते ।
किं शब्दाद् विज्ञानं शब्दस्य वा विज्ञानमिति ।
पूर्वत्र समासानुपपत्तिऽ ।
भयेन हि पञ्चमी समस्यते ।
उत्तरत्र तु सविकल्पकप्रत्यक्षे ऽपि शास्त्रत्वप्रसङ्गऽ, शब्दविज्ञानादेव हि गौरित्येवमादयो ऽसन्निकृष्टार्थविकल्पा भवन्ति ।
अत्रोच्यते ।
षष्ठीसमास एवायम् ।
न च सविकल्पके प्रसङ्गऽ, न हि तच्छब्दप्रमाणादुत्पद्यते, अपि तु शब्दसहायादिन्द्रियात् ।
यथैव हि गन्धसहकृतमिदन्द्रियं तैलाद् विलीनं घृतं विविनक्ति ।
एवं शब्दसहकृतं जात्यादीन् ।
तथा चाक्षसम्बन्धफलपरोक्षावभासिता ।
त(त्र?च्च) सविकल्पके ऽस्तीत्यक्तं प्रत्यक्षान्ते ।
अतो यदेव शब्दशक्तिविमर्शोत्थं विज्ञानमसन्निकृष्टार्थ्गोचरं तच्छाब्दम् ।
अत एव न पदार्थमात्रज्ञानं शाब्दम् ।
न हि तदसन्निकृष्टार्थगोच
सामान्यलक्षणं त्यक्त्वा विशेषस्यैव लक्षणम् ।
न शक्यं केवलं वक्तुमितो ऽप्यस्य न वाच्यता

5.5.3

यञ्चोक्तं शब्दविज्ञानादर्थे ज्ञानमितीदृशम् ।
अविशिष्टं विशिष्टस्य न तत् शास्त्रस्य लक्षणम्

5.5.4

प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते

5.5.5

चरम् ।
वक्ष्यति हि--- ऽस्मारकान्न विमृश्यतऽ इति ।
किं नाम तर्हि शाब्दम्, वाक्यार्थज्ञानमिति वदामऽ ।
न(नु) तत्पदार्थज्ञानादुत्पद्यते, न शब्दज्ञानात् ।
न ।
अवान्तरव्यापारत्वात्पदार्थप्रतिपादनस्य शब्दानाम्, पाक इव काष्ठानां ज्वलनस्य ।
वक्ष्यति हि---
पाके ज्वालेन काष्ठानां पदार्थप्रतिपादनम् ।
इति ।
अतो न किञ्चिदनुपपन्नमिति ।
इदं तु वक्तव्यं किमिदं सामान्यलक्षणवसरे विशेषलक्षमं प्रणीयते ।
शब्दविशेषो हि शास्त्रम् ।
तद् यदि वक्तव्यम्, एवमपि सामान्यलक्षणमुक्त्वा( वक्ष्यते?लक्ष्येत) ।
यत् पुनरतित्वरितेनैव सामान्यलक्षणवसरे विशेषो लक्ष्यते तदसाम्प्रतम् ।
न हीह प्रत्यक्षादीनां चाक्षुषत्वादयो विशेषा लक्ष्यन्ते ।
ततऽ प्रत्यक्षादिषु सामान्यतो वक्तुमारब्धेषु मध्ये शब्दमात्रस्यैव लक्षणं वक्तुं युक्तम्, न शास्त्रस्येति ।
तदेतदाह---प्रत्यक्षादिष्विति ॥1॥
दूषणान्तरमाह--- सामान्येति ।
निर्ज्ञातसामान्यलक्षणो हि तद्विशेषं बोधयितुं शक्यो नेतरऽ ।
न ह्यलक्षिते द्रव्ये
तद्विशेषाऽ पृथिव्यादयो लक्षयितुं इति ॥2॥
एवं तावत् शास्त्रमिति लक्ष्यनिर्देशो ऽनुपपन्न इत्युक्तम् ।
शब्दविज्ञानादित्यादि लक्षणमपि लक्ष्यविशेषे न सङ्गच्छत इत्याह---यच्चोक्तमिति ॥3॥
कीदृक् तर्हि शास्त्रलक्षममत आह---प्रवृत्तिरिति ।
प्रवृत्तिनिवृ
स्वरूपकथनं यत्तु कस्यचित् तत्र दृश्यते ।
तदङ्गत्वेन तस्यापि शास्त्रत्वमवगम्यते

5.5.6

भावनायां समस्तायां वाक्यादेवोपजायते ।
प्रवृत्तिर्वा निवृत्तिर्वा तच्छास्त्रं न पदाद्यतऽ

5.5.7

इत्युपदेशकं हि नित्यं वेदवाक्यमनित्यं थर्मशास्त्रादिकं शास्त्रमुच्यते न शब्दमाक्षमिति ॥4॥
ननु स्वरूपमात्राभिधायिनामपि क्षेपिष्ठादिवाक्यानां शास्त्रत्वमिष्यते, किमुच्यते प्रवृत्तिनिवृत्त्यङ्गं शास्त्रमिति ।
अत आह---स्वरूपेति ।
तदङ्गत्वेनेति ।
विधायकवाक्यैकदेशत्वेनेत्यर्थऽ ।
अस्ति हि तत्रापि"वायव्यं श्वेतमालभेत भूतिकाम"इति विध्युद्देशऽ ।
तेनैकवाक्यभूतो"वायुर्वै क्षेपिष्ठे"त्येवमादिऽ ।
अतो युक्तं तस्यापि शास्त्रत्वमिति ॥5॥
नन्वर्थवादा न तावत् साक्षात् क्रियां प्रतिपादयन्ति ।
नापि तदशम् ।
त्रयो ऽपि हि तदंशाऽ साध्यं साधनमितिकर्तव्यता चेति ।
न चैषामन्यतमममीभिरभीधीयते ।
अतो ऽक्रियार्थानामेकवाक्यतामेव न मन्यामहे ।
अत आह---भावनायामिति शास्त्रमित्यन्तेन ।
अयमभिप्रायऽ--- यद्यपि न क्रियां गमयति, न च क्रियासम्बद्धं किञ्चित् साधनादि, तथापि विधिना शब्दभावनापरनामधेयेन सहैषामेकवाक्यता ।
विधिर्हि पुरुषं प्रवर्तयितुं विषयप्रशस्त्यज्ञानमपेक्षते ।
तच्चार्थवादाऽ शक्नुवन्ति कर्तुमिति तत् कुर्वतामेषामस्ति प्रवृत्तिनिवृत्त्योरुपयोगऽ ।
अतऽ समस्तायां त्र्यंशपूर्णायामेव भावनायां महावाक्यादेवसार्थवादकात् पुरुषऽ प्रवर्तते निवर्तते वा न विध्युद्देशमात्रादिति सार्थवादकमेव वाक्यं शास्त्रमिति ।
एतच्चार्थवादाधिकरणे प्रपञ्चयिष्यामऽ ।
दर्शितं च किञ्चिद विधिविवरणे इत्यलमनेनातिपरिस्पन्देतेति ।
यत एव सार्थवादकात् प्रवृत्तिनिवृत्तिज्ञानम्, अत एव विधिनाचिनऽ प्रत्ययमात्रस्यपदमात्रस्य वा यजेतेत्येवमादिकस्य विधिश्रुतावपि कन शास्त्रत्वम् ।
यत्र हि त्र्यंशभावनावचनमप्यवान्तरवाक्यमनपेक्षितार्थवादकं न प्रवृत्तौ समर्थं, कथमिव तत्र पदप्रत्यययोऽ शक्तिर्भविष्यतीति दुरधिगममित्याह--- न पदाद्यत इति ॥6॥
अपरीक्षामिषेणापि लक्षणानि वदन्नयम् ।
न स्वतन्त्रोपयोगित्वनिरपेक्षाणि जल्पति

5.5.8

तत्र यल्लोकवाक्यस्थं कथयेच्छब्दलक्षण् ।
वेदं व्याख्यातुकामस्य तन्नातीवोपयुज्यते

5.5.9

प्रत्यक्षाद्युपयोगं तु वर्णमात्रादितऽ पुरऽ ।
शास्त्रार्थज्ञानवेलायां मत्वा तल्लक्षणं कृतम्

5.5.10

एवं लक्ष्यलक्षमानुपपत्त्या दूषितं भाष्यमुपपादयति---अपरीक्षेति ।
अयमभिप्रायऽ--- वेदव्याख्या हि प्रकृता, अतो यदेव तदुपयोगि तदेव वाच्यमित्यतिक्रम्यापि सामान्यप्रक्रमं विशेषमेवं लक्षितवान् ।
न हीह लक्षणकरणमेव स्वरूपेण विवक्षितम् ।
अपरीक्षाच्छलेन हि लक्षणानि प्रणीयन्ते ।
तत्रापि यदेव प्रकृतोपयोगिशास्त्र्लक्षणं तदेव कृतम ।
स्वतन्त्रो वेदऽ अपुरुषतन्त्रत्वादिति ॥7॥
यदि स्वतन्त्रोपयोगित्वनिरपेक्षाणि न जल्पति, ततऽ किमत आह---तत्रेति ।
यदा ह्ययं जल्पाक इव नानुपयुक्तं भाषत इति स्थितम्, तत्र यदि लोकवाक्यस्थितं शब्दलक्षणं कथयेत् तदस्य वेदं व्याचिख्यासारेनुपयुक्तं स्यादिति ॥8॥
ननु यद्यनुपयुक्तं न लक्षणीयं, किमिति तर्हि प्रत्यक्षादि लक्ष्यते न हि तेषां वेदोपयोगो दृश्यते अत आह---प्रत्यक्षादीति ।
अयमभिप्रायऽ--- वेदस्वरूपावधारण एव तावन्महानुपकारऽ प्रत्यक्षस्य, न हि तदन्तरेण पुरऽ--- पर्थममेव स्वाध्यायग्रहणकाले वर्णमात्राद्यवधारयितुं शक्यते, तदा चानवधृतं शास्त्रार्थज्ञानवेलायामस्मृतत्वान्नोपयुज्येतैव ।
अतऽ पुरस्तात् परस्ताच्च वर्णमात्रादितऽ कृते प्रत्यक्षाद्युपयोगं मत्वा तल्लक्षणं कृतम् ।
अनुमानमपि प्रतीकविनियुक्तमन्त्रशेषानुमान उपयुज्यते ।
यथा देवस्य त्वेति निर्वपतीति ।
उपमानमपि सौर्यादिकर्मणां प्रकृतिविशेषोपमाने ।
अर्थापत्तिरप्यश्रुतवाक्यैकदेशकल्पनायाम् ।
अभावो ऽपि पदवाक्ये यत्तावधारणे द्रव्यदेवताद्यभावे च
कर्मणामव्यक्तचोदनात्वावधारण उपयुज्यत इति द्वयोरादिशब्दयोरर्थ इति ॥9॥
यत्तु गामानयेत्यादिवाक्यस्थं शाब्दलक्षणम् ।
तस्य नेहोपयोगो ऽस्ति तस्माच्छास्त्रगतं कृतम्

5.5.11

विशेषश्च न सामान्यमन्तरेणास्ति कश्चन ।
तस्मात् तम्पयुदाह्रत्य सामान्यं लक्षयेत् सुखम्

5.5.12

सामान्यरूपमप्येतदधिकाराद् विशिष्यते ।
चोदना चोपदेशश्च शास्त्रमेवत्युदाहृतम्

5.5.13

यथा च चोदनाशब्दो वैदिक्यामेव वर्तते ।
न चैवञ्जातीयकऽ कश्चिदुपयोगो गामानयेत्यादिवाक्यस्थस्य शाब्दलक्षमस्यास्तीति तदुपेक्ष्यैव शास्त्रगतमेव लक्षणं प्रणीतमित्याह---यत्विति ॥10॥
यत्पुनरलक्षिते सामान्ये न विशेषो लक्षयितुं शक्यत इत्युक्तं तत्परिहरति---विशेषश्चेति ।
सामान्यलक्षणे हि विशेषो न सिध्यति, व्यभिचारात् ।
विशेषस्तु सामान्याव्यभिचारीति तस्मिन् लक्षिते तदन्तर्गतं सामान्यं सुखमेव लक्षितं भवेत् ।
यदा हि विधायकविज्ञानादसन्निकृष्टेर्ऽथे विज्ञानं शास्त्रमित्युक्तं तदार्ताद् विधायकविशेषरहिताच्छब्दमात्रज्ञानाच्छाब्दमिति शक्यमवगन्तुमिति न पृथगुच्यत इति ॥11॥
ननु नेदं विशेषलक्षणं विशेषोपादानाभावादित्युक्तम् ।
अत आह---सामान्येति ।
नावश्यमुपात्तमेव विशेषणं भवति, किन्तु अधिकारलभ्यमपि, यथाग्नेयादिषु वक्ष्यते, त(द्व)दिहापि चोदनालक्षणाधिकाराच्छब्दविज्ञानादित्युक्ते ऽपि विधायकविशेषणं प्रत्येष्यत इति ।
ननु यदि प्रकृतोपयोगि चोदनेति ।
पर्याया एत इति भावऽ ॥12॥
अयं चाधिकारतो विशेषलाभो जैमिनेरष्यनुमतश्चोदनाशब्दमविशेषितं द्वितीये सूत्रे प्रयुञ्जानस्येत्याह---यथा चेति ।
एवं हि मन्यते--- यद्यपि चोदनाशब्दऽ प्रवर्तकवाक्यमात्रवचनऽ, तथापि प्रथमसूत्रे ऽथशब्देन वेदा
शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथा स्थितौ

5.5.14

प्रत्यक्षाद्यपीक्ष्यत्वे तदन्तर्भावहेतुकम् ।
शास्त्रस्याप्यपरीक्ष्यत्वमनयैव धियोदितम्

5.5.15

ध्ययनानन्तर्यस्योपात्तत्वात् तदधिकारादेव चोदनाशब्दो वैदिक्यामेव चोदनायामवतिष्ठते,एवमिहापि शास्त्रलक्षमे चोदनाप्रामाण्याधिकारात् शब्दविज्ञानार्थज्ञानशब्दौ विशिष्टशब्दार्थपरौ,विधायके शब्दशब्दो विधेये चार्थशब्द इति ॥13॥
यद्यपि वृत्तिकारमतोपन्यासावसरेऽप्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं शास्त्रम्ऽ इति भाष्यकारेणोक्तं तत्रापि विशेषशास्त्रापरीक्षाप्रतिज्ञानं प्रकृतोपयोगित्वाभिप्रायेणैवेति दर्शयति---प्रत्यक्षादीति ।
इदं तु चिन्तनीयम् ।
यदि विधायकशब्दजनितं विज्ञानं शास्त्रम्, किमिदानीमङ्गानि मीमांसा कर्मानुशासनानि च न सास्त्राणि, लौकिकानि च गामानयेत्यादिवाक्यानि शास्त्राणि ।
यद्येवं महान् लोकविरोधऽ ।
न हि लौकिका गामानयेत्यादिषु शास्त्रशब्दमुपचरन्ति ।
स्ववचनविरोधश्व ।
यतो गामानयेत्यादिवाक्यस्थं शाब्दलक्षममिति हि वदन्ति ।
मीमांसादिषु वेदवत् ततो ऽपि वा सातिशयं शास्त्रशब्दोपचारमुपलभामहे ।
अपि चायं शास्त्रशब्दो रूढो वा स्याद् यौगिको वा, सर्वथा, सर्वथा च वैदाङ्गादिषु वर्तितुमर्हति, अस्ति हि तेषु यथायथमर्थानुसासनं, रूढिश्च सातिशेयति वर्णितम् ।
अत्राभिधीयते ।
योगरूढिरियं पङ्कजादिवत्, अतो न तावद्नामानयेत्यादिष्वतिप्रसज्यते ।
सत्यपि योगे लौकिकानां तेष्वप्रयोगात् ।
पुरुषार्थोपदेशानेव लौकिकाऽ शात्र्समिति मन्यन्ते ।
तथा चाङ्गानीति तेषां शास्त्रत्वम् ।
ननु विधायकं शास्त्रमिति शास्त्रलक्षमम्,न च तानि कञ्चिद् विदधति ।
मैवम् ।
सर्वेषामेवानुष्ठानोपदेशपरत्वात् ।
व्याकरणे हि यत्साधुभिर्भाषेत तदेभिरित्युपदिशयते ।
मीमांसायामपि प्रत्यधिकरणं न्यायव्युत्पादनेनानुष्ठानोपदेश एव सर्वत्र ।
अतो यच्छास्त्रं तत्प्रवृत्तिनुवृत्त्युपदेशकमेवेति नियमऽ, न पुनस्तदुपदेशकं शास्त्रमेवेति लौकिकी प्रसिद्धिरिह भाष्यकारेणानूदिता, नपुनस्तन्निरपेक्षं शास्त्रलक्षणं प्रणीतम् ।
अतो यदसन्निकृष्टार्थ
तत्रानुमानमवेदं बौद्धैर्वैशिषिकैऽ श्रितम् ।
भेदऽ साङ्ख्यादिभिस्त्विष्टो नतूक्तं भेदकारणम्

5.5.16

पूर्वसंस्कारयुक्तान्त्यवर्णवाक्यादिकल्पना ।
विवक्षादि च धूमादौ नास्तीत्येतेन भिन्नता

5.5.17

गोचरं पुरुषश्रेयोविधायकं लोके शास्त्रमिति प्रसिद्धं तच्छास्त्रम् ।
यत्पुनरसन्निकृष्टार्थगोचरं विधायकमविधायकं वा तच्छाब्दमिति विवेकऽ ।
प्रत्यक्षवच्चात्रापि शब्दतज्ज्ञानादिषु विवक्षातऽ प्रमाणविकल्पा दर्शयितव्याऽ ।
नावश्यं ज्ञानमेव प्रमाणित्यभिनिवेष्टव्यम ।
पूर्वप्रमाणे चोत्तरं वाक्यार्थज्ञानं फलं तत्प्रामाण्ये च हानादिबुद्धिरिति विवेक इति ॥14॥
इदं चशास्त्रमनुमानादभिन्नमिति प्रमाणद्वयवादिनो मन्यन्ते, तान्निराकर्तृकामस्तेषां मतमुपन्यसति---तत्रेति ।
इदं च प्रतिज्ञामात्रमेव तेषामुक्तम, तदीयाभेदहेतूपन्यासस्तु परोक्तभेदहेतुनिरासावसरे करिष्यत इति ।
किं पुनरभेदोपन्यासनिरासयोऽ प्रयस्यते, नन्वयं साङ्ख्यादिभिरेव भेदवादिभिरभेदो निराकृत एव, अत आह--- भेद इति ।
न तैरसम्यग्भेदकारणमुक्तमित्यर्थऽ ॥15॥
तानेव तदुक्तान् भेदहेतून्निराकर्तृमुपन्यस्यति--- पूर्वसंस्कारेत्युक्तान्तेन ।
एवं हि तैरुक्तम्--- शाब्दे हि पूरवसंस्कारयुक्तो ऽन्त्यो वर्णो, वाक्यं, आद्यो ऽपि वा वर्णऽ, सर्वे वा प्रत्येकं, सहिता वा, तेषामेव क्रमऽ पदानां वा वाक्यत्वजातिरेव वावयवी वा निर्धूतनिखिलवर्णादिविभागऽ स्फोटो वा पदान्यव वा संहत्यार्थमभिदधति ।
एते च पदेष्वपि विकल्पा दर्शयितव्याऽ ।
तथा विवक्षाप्रयत्नादयश्च शब्दनिष्पत्तिहेतव इति ।
सर्वमिदं धूमादौ न दृष्टमिति तद्वैधर्म्याद(न) नुमानत्वमिति ।
अत्र दूषणमाह--- तत्रेति ।
बौद्धेन शाब्दमनुमानादभिन्नमन्वयव्यतिरेकाभ्यामुत्पत्तेऽ, धूमादग्न्यनुमानवदित्युक्ते, यदेतद् धूमादिवैरधर्म्येण प्रत्यवस्थानम्,इयं वैधर्म्यसमा नाम जातिऽ, विकल्पासमा वा ।
का पुनर्जातिऽ ।
साधर्म्यवैधर्म्याभ्यां प्रतय्वस्थानं जातिऽ ।
वादिना हि प्रुयक्ते प्रयोगे प्रसङ्गो जायते, स जायत इति जातिरित्युच्यते, स च प्रसङ्ग साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम् ।
यैरुक्ता तत्र वैधर्म्यविकल्पसमजातिता ।
धूमानित्याविषाण्यादिविशेषान्न हि भिन्नता

5.5.18

यत्रोदाहरणसाधर्म्येण वादिना हेतुरुक्तऽ, तत्र यदा प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति ।
यथा--- क्रियावानात्मा क्रियाहेतुगुणयोगात् लोष्टवदिति वादिनोक्ते, प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति--- यथा क्रियावद् द्रव्यमविभु दष्टम्, यथा लोष्टम्,न तथात्मा, तस्मान्निष्क्रिय इति ।
सेयं वैधर्म्यसमा जातिरुत्युच्यते ।
तथा धर्मान्तरविकल्पात् ।
यदा प्रितवादिना साध्य(वार्)मस्यापि विकल्प आपाद्यते, असौ विकल्पसमा नाम जातिरुच्यते ।
यथास्मिन्नेव प्रयोगे प्रतिवादी वदति, क्रियाहेतुगुणयुक्तं किञ्चिदविभु दृष्टं यथा लोष्टम्, किञ्चिद् विभु यथात्मा, एवं किञ्चित् क्रियावद् भविष्यति किञ्चिदक्रियावदिति ।
एवमिहापि परेणाबेदसाधने उक्ते धुमादिवैधर्म्यमात्रेण प्रत्यवस्थाने वैधर्म्यसमा नाम जातिरापाद्यते ।
धूमादग्न्यनुमानं हि वाक्यविकल्पादिरहितम् ।
न च तथा शाब्दम् ।
अतो नानुमानमिति ।
तथा विकल्पसमाप्येवं दर्शयितव्या ।
अन्वयव्यतिरेकजमेव किञ्चिद् वाक्यविकल्पादिमद् दृष्टं यथा शाब्दम्, किञ्चिच्च न, धूमादिनाग्निज्ञानम् ।
एवं किञ्चिदनुमानं भविष्यति, किञ्चिदननुमानमिति ।
जातिद्वयप्र(तिपादनात्प्र)त्युत्तरं च साधकमिति न वचनीयमिति ॥16 1।2॥
कथं पुनरियं जातिऽ, एवं हि साधनमिदम्--- शाब्दमनुमानाद् भिन्नं तद्वैधर्म्यातं प्रत्यक्षवदिति,अत आह---धूमेति ।
न
तावत् त्रैलक्षण्यप(रित्यागेन) वैधर्म्य तैरुक्तम् ।
किञ्चिद् विशेषणमात्रेण तु वैधर्म्यमविशिष्टमर्थात्मकानानुमानानामिति तेषामप्यनुमानाद् भेदो भवेत् न चासावास्ति, न हि धूमादीनां--------------------------------------------------------
वैलक्षण्यमित्यननुमान्ता भवति ।
त्रैलक्षण्यपरित्यामादनित्यत्वं कृतकत्वे हेतुरिति ।
त्रैलक्षण्य्परित्यागप्रतिपादने (प्य?ह्य) नुमानाद् भेदऽ सिध्यतीति ॥17॥
त्रैलक्षण्युपरित्यागो यावन्न प्रतिपाद्यते ।
तावद्विशेषमात्रेण वदतो जातिता भवेत्

5.5.19

यथेष्टविनियोगेन प्रतीतिर्यापि शब्दतऽ ।
न धूमादेरितीहापि व्यभिचारो ऽङ्गवृत्तिभिऽ

5.5.20

वैलक्षण्यमात्रेण तु भेदं वदतो वैलक्षण्यवचनस्य जाततैवापद्येतेत्याह---त्रैलक्षण्येति ॥18॥
यदपि चदमपरं शाब्दानुमानयोर्वैलक्षण्यमुक्तम्--- धूमादयो हि सावाभाविकेनैव प्रतिबन्धेन प्रतिबन्धकबुद्धिमनुमाने
जनयतन्ति, शब्दात्तु यथेष्टविनियुक्तादेवार्थप्रत्ययो दृश्यते, अतो भेद इति, तत्राप्याह---यथेति ।
अयमभिप्रायऽ--- अत्रापि यदि किञ्चिद्वैधर्म्यमात्रेण भेद उच्यते, अतो जातिरेव ।
अथायं प्रयोगऽ--- शाब्दमनुमानाद् भिन्नं यतेष्टविनियोगेनार्थपादयतीति ।
तदयुक्तम् ।
तत्रापि स्वाभाविक्यैवात्मशक्त्या रूपादिप्रतिपादनात् ।
अथ स्वगोचरे यथेष्टविनियोगेन प्रतिपादनं हेतुरुच्यते, अतो लिङ्गमपि परार्थप्रयोगे यमेव प्रति प्रयुज्यते तमेव प्रतिपादयतीति सामनम् ।
अथ यथेष्टविनियोगऽ सङ्केतो ऽभिधीयते, ततो ऽयमर्थो भवति, यत्रैव सङ्केत्यते तमेव गमयतीति, ततो दृष्टान्ताभावऽ, न हि शब्दादन्यत् सङ्केतानुविधानेनार्थं बोधयति ।
अथावीतमहेतुरम् ।
अनुमानं हि यथेष्टविनियोगाननुविधायिप्रतिपादनम्, न चेदं तथा, अतो भिन्नमिति ।
तन्न ।
व्यतिरकमात्रस्यागमकत्वादन्वयव्यतिरेकी हि हेतुरिष्यते ।
न चायं हेतुरनुमानादबेदेन व्याप्तऽ क्वचिदवगतऽ, शब्दातिरेकिणऽ कस्यचिद् यथेष्टविनियोगेनाप्रतिपादनात् ।
अथास्ति हस्तसङ्केतादीनां यथासमयं प्रतिपादनमित्युच्यते ।
तत् तर्हि प्रमाणान्तरमनुमानं वा ।
न तावत् प्रमाणान्तरम्, तल्ल्क्षमाभावात् ।
अतो व्याप्तिबलेन ज्ञायमानमनुमानमेव तत् ।
एवं च सति
तेनैव व्यभिचार इति नानुमानाद् व्यावृत्तिर्हेतोऽ सिध्यति ।
तदिदमुक्तं व्यभिचरो ऽङ्गवृत्तिभिरिति ।
अङ्गानां हस्तादीनांमाकुञ्चनप्रसारणाद्या वृत्तयो ऽङ्गवृत्तय इति ॥19॥
ह्सतसंज्ञादयो ये ऽपि यदर्थप्रतिपादने ।
भवेयुऽ कृतसङ्केतास्ते तल्लिङ्गमिति स्थितिऽ

5.5.21

पुरुषाक्षिप्ततायां च तथैव व्यभिचारिता ।
पदवैदिकवाक्यानां न सत्यव्यापिता भवेत्

5.5.22

एतदेव विवृणोति--- हस्तेति ।
हस्ताद्यङ्गाश्रितवृत्तय एवार्थविशेज्ञानाङ्गतया हस्तसंज्ञेत्युच्यन्ते ।
कथं पुनरिदमनुमाम्, न हि हस्तादिसन्निवेशाऽ सङ्ख्याविशेषादिभिरर्थैर्व्याप्ताऽ ।
तैर्विनापि कदाचिद् भावात् ।
किन्तु अङ्गुल्यादिसन्निवेशात्सङ्केतकालभाविशब्दस्मरणेनार्थं प्रतिपद्यमानाऽ शब्दादेव प्रतिपद्यन्ते ।
तन्न ।
अन्तरेणापि शब्दसङ्के(त?तं) व्यवहार एवाव्युत्पन्नस्याङ्गुल्यादिसन्निवेशदर्शिनसत्दर्थावगतेऽ ।
न चात्र व्यभिचारऽ ।
न हि यादृशे सन्निवेशे व्याप्तिरवगता तादृशस्य व्यभिचारो दृश्यते ।
तदिदं ऽतेन धर्म्यन्तरेष्वेषेऽत्यत्र वर्णितम् ।
अतो ऽनुमानमेवेदम् ।
तदिदमुक्तं--- ते तल्लिङ्गमिति स्थितिरिति ।
सर्वं चेदमन्वारुह्य वार्त्तिककारेण दूषणं दत्तम् ।
न हि यतेष्टविनियोगेन शब्दादर्थप्रतीतिर्भवति ।
गवादिशब्दा हि निजशक्त्यनुसारेणैव स्वार्थं प्रतिवेदयन्ति ।
यदृच्छाशब्दास्तु हस्तसंज्ञादितुल्यास्ते सङ्केतानुसारेणार्थं बोधयन्तो ऽनुमानमेवेति किं तद्भेदप्रतिपादनेनेति ॥20॥
इदमपरं भेदकारणं, शब्दाद्धि पुरुषापेक्षोर्ऽथनिश्चयऽ, न च तथा शब्द इत्यतो भिद्यत इति ।
एतदपि दूषयति---पुरुषेति ।
व्यतिरेकहेतुर्व्यतिरेकपुरस्कारेणैवार्थं साधयति, प्राणादय इवानात्मकाद् देहाद् व्यावृत्तमात्मानम् ।
पुरुषापेक्षिता त्वनुमाने ऽप्यर्थनिश्चयाङ्गमङ्गवृत्तिषु दृष्टा ।
यादृशो हि सङ्केतो यदर्थप्रतिपादने पुरुषैऽ कृतऽ, तमेव परपुरषापेक्षया बुध्यन्ते ।
अतो ऽत्रापि व्यभिचारितेति ।
अपि चाव्यापकत्वादसिद्धो हेतुरित्याह--- पदेति ।
पदानि हि स्वमहिम्नैवार्थं प्रतिपादयन्ति न पुरुषापेक्षया ।
सम्बन्धानुभवश्चायं सो ऽन्यत्रापि विलक्षणऽ ।
एतस्मिन् पुरुषापेक्षो देशापेक्षो ऽग्निधूमयोऽ

5.5.23

कालाद्यपेक्षया चान्य उक्ता चान्यैरभिन्नता ।
आप्तवादविसंवादसामान्यादनुमानतऽ

5.5.24

वेदवाक्यान्यपि न स्वार्थप्रतिपादयनाय पुरुषमपेक्षन्ते, स्वरूपावधारणमात्र एव तेषामाप्तापेक्षेति ॥21॥
ननु नागृहीतसम्बन्धं पदं प्रत्यायकं भवति ।
न च पुरुषानपेक्षा सम्बन्धावगतिरस्ति ।
वेदवाक्यान्यपि नागृहीते पदपदार्थसम्बन्धे स्वार्थं प्रतिपादयन्ति ।
अतो ऽयं पदपदार्थसम्बन्धऽ पुरुषापेक्ष एवेति नाव्यापकत्वम् ।
अत आह---सम्बन्धेति ।
अयमभिप्रायऽ--- अर्थप्रतिपादने तावदनपेक्षमेव पदं वैदिकानि च वाक्यानि ।
सम्बन्धानुभवश्च यथेह पुरुषापेक्षस्तथान्यत्राप्यनुमाने ऽसौ विलक्षणो दृस्यत एवेति ।
वैलक्षण्यमेव दर्शयति--- एतस्मिन्निति अन्यो ऽन्तेन ।
एतस्मिन्निति ।
हस्तसंज्ञादौ पुरुषापेक्षऽ, पौरुषेयो हि समयऽ ।
अग्निधूमयोस्तु देशापेक्षऽ ।
चन्द्रोदयसमुद्रवृद्ध्योस्तु कालापेक्षऽ ।
आदिशब्देनावस्थापेक्षितां दर्शयति ।
तदनेनैतदुक्तं भवति---अनुमाने ऽप्यनेकप्रकारऽ सम्बन्धावगमो देशाद्यपेक्षया भेदात् ।
एवमिहापि पुरुषापेक्षो भविष्यति ।
अनुमाने ऽपि तदपेक्षऽ सम्बन्धबोधो दृष्ट इति ।
अपि च परोक्ताभेदहेतुनिरासो ऽपि तैर्न कृत इत्याह--- उक्ता चेति ॥22 1।2॥
तमेवाभेदहेतुमुपन्यस्यति---आप्तवादेति ।
अयमर्थऽ--- यथा धुमादिषु भेदहानेन सामान्यधर्मयोर्व्याप्तिरवधार्यते, एवं शाब्दे ऽप्याप्तवादाविसंवादसामान्ययोर्व्याप्तिरवगता ।
(आप्तवादाविसंवादेति?) एवं च विदित्वा वेदे ऽपीश्वराप्तवादत्वादविसंवादो ऽनुमीयते,अतो ऽनुमानमेवेदम् ।
यावत्वविसंवादो नानुमीयते तावदर्थगोचरं ज्ञानमुत्पन्नमप्यनिश्चायकत्वादप्रमाणमेव ।
सामान्यशब्दऽ प्रत्येकमभिसम्बध्यते ।
ल्यब्लोपे पञ्चमी ।
न चापूर्वादिशब्दानां भेदात् सर्वत्र भिन्नता ।
न चेहाश्वादिशब्दभ्यो भेदस्तेषां प्रतीयते

5.5.25

नचाप्यज्ञातसम्बन्धं पदं किञ्चित् प्रकाशकमो ।
सम्बन्धाननुभूत्यातो न स्यादननुमानता

5.5.26

तुल्याकारतयाप्यत्र शब्दज्ञानार्थतद्धियाम् ।
अग्निधूमेष्वदृष्टत्वान्न भेदस्तन्निवारणात्

5.5.27

तदयमन्वयो भवति--- यद्यप्याप्तवादविसंवादविशेषाणां भेदान्न सम्बन्धो ऽवगन्तुं शक्यते, तथापि तयोऽ सामान्यप्रतीत्यानुमानता शक्यते वक्तुम्, सामान्ययोर्व्याप्तसम्भवादिति ॥23॥
नन्विदमस्ति भेदकारणम्, अनुमानं सम्बन्धावधारणाधीनम्, शब्दास्त्वपूर्वादयऽ सम्बन्धज्ञानानपेक्षा एव स्वार्थं प्रतिपादयन्तीति, अतो भिद्यते इत्यत आह--- न चेति ।
गवादयस्तावत् विदितसम्बन्धा एवार्थं प्रतिपादयन्तीति तेषां दुर्वारमनुमानत्वम्, यदि त्वपूर्वादिदृष्टान्तेन तेषामपि भेदो ऽभिधीयते ।
तन्न ।
शक्नोति हि वक्तुमितरो ऽपि तेषामनुमानत्वं सम्बन्धावधीनबोधकत्वाद् धूमादिवदिति ।
अपि चापूर्वशब्दा अपि नाश्वादिशब्देब्यो विशिष्यन्ते, पदत्वेनाभेदादित्याह--- न चेति ॥24॥
किमतो यद्येवमत आह--- न चेति ।
यतऽ खल्वेतानि पदानि, न च पदमज्ञातसम्बन्धं प्रकाशकमस्ति ।
अतो ऽमीभिरपि विदितसम्बन्धैरेवार्थो वेदनीयऽ, पदत्वात् ।
कथं पुनऽ प्रमाणान्तरादृष्टपूर्वेणापूर्वस्वर्गादिना सम्बन्धो ऽनुभवितुं शक्यते ।
न शक्येतापि, यदि प्रमाणान्तरागोचरता भवेत् ।
अपूर्वं तु श्रुतकर्मफलसम्बन्धाद्यन्यथानुपपत्तिप्रमाणकम् ।
स्वर्गश्च निरतिशयानन्दस्वभावो वैदिकवाक्यशेषेभ्यो ऽवगम्यत इति तथावगतयोऽ सम्बन्धग्रहणोपपत्तिरिति ।
अतो यत् परैरुक्तं शब्दो नानुमानं सम्बन्धानपेक्षत्वादक्षवदिति तद्धेतोरसिद्ध्या दूषितमित्याह--- सम्बन्धेति ॥25॥
भेदकारणान्तरमुपन्यस्य दूषयति---तुल्येति ।
शब्द प्रत्यासत्त्या तज्ज्ञान्मर्थश्च तद्धीश्चेति विगर्हऽ ।
अयमप्यवीतहेतुर्दर्शयितव्यऽ ।
तन्निराकरणं चाध्यासनिराकणोनुसन्धातव्यम् ।
अतस्तुल्याकारत्वमसिद्धमिति ॥26॥
प्रतिबिम्बेष्वनेकान्तो बिम्बं यादृग्धि दर्पणे ।
तादृङ्मुखादि बुध्यन्ते न चात्राननुमानता

5.5.28

प्रत्यक्षता(त?य) दाप्यत्र तदान्यैरन्यभिचारिता ।
यत्र पादादि बिम्बेन गतानामनुमीयते

5.5.29

एकवाक्यात् सकृच्चोक्तान्नाप्यनेकस्य तत्क्षणम् ।
स्याद्विरुद्धाविरुद्धस्य बोधादेतस्य भिन्नता

5.5.30

अपि च विवक्षानिवृत्तेरनैकान्तिको हेतुरित्याह---प्रतिबिम्बेष्विति ।
एकान्तो निर्णयऽ, सो ऽस्य कार्यं, तन्नास्तीत्यनेकान्त इति ।
कथमनेकान्तऽ, अत आह--- बिम्बमिति ।
यादृशं हि दर्पणे बिम्बमुपलभ्यते तादृशमेव मुखादि बुध्यते, अतो ऽस्त्यत्रापि गम्यगमकयोऽ सादृश्यमिति प्रतिबिम्बेषु वर्तमानो हेतुरनैकान्तिको भवतीति ।
ननु नैदमनुमानम्, आदर्शतेजसा हि प्रतिहतेन नायनेन तेजसा प्रकाशितं प्रत्यक्षमेव मुखमवगम्यत इति शब्दाधिकरणे वक्ष्यते ।
अत आह--- न चेति ।
अयमभिप्रायऽ--- यदा ह्ययं परत्यक्षेष्वङ्गुल्यादिष्वादर्शवर्तिना प्रतिबिम्बेन तादृक्त्वे विदितव्याप्तिर्भवति, तदा मुखमप्यादर्शगतं बिम्बानुरूपमनुमिनोति ।
इतरथा त्वङ्गुलिसन्निकर्षो ऽप्यन्यरूपमन्यादृक्तया बोधयतीति ।
सम्भावयेत् ।
अतो न तादृक्त्वं निश्चिनुयादिति ॥27॥
अस्तु वेदं प्रत्यक्षं, किमिति सूक्ष्मेक्षिकया, विशदतरमेवानुमानमुपदर्शयामऽ, यत्र गम्यगमकयोऽ सादृश्यमवगम्यत
इत्याह---प्रत्यक्षतेति ।
गतानामित्यनुमानविषयसिद्द्यर्थमप्रत्यक्षतां दर्शयतीति ॥28॥
यदपीदमुक्तम्--- शाब्दे हि सकृदुक्तमेव वाक्यं सहसा नानार्थान् प्रतिभासयति विरुद्धानविरुद्धांश्च, चोदनालक्षणोर्ऽथो धर्मऽ, श्वेतो धावतीति च यथा, नैवमनुमाने ।
धूमो हि येनैव विदितव्याप्तिस्तत्रैकत्रैव धियमादधाति ।
अतऽ शब्दानुमानयोर्भेदऽ ।
प्रयोगश्च भवति--- शब्दो ऽनुमानाद् भिन्नऽ एकदा नानार्थप्रतिभासादक्षवदिति ।
अनीतहेतुर्वा, लिङ्गमेकमेव
लिङ्गस्यापि हि ताद्रूप्यं दृश्टं हेतुविरुद्धयोऽ ।
विरोधान्नानुमानं चेत् स्यादनागमतापि ते

5.5.31

यत्र चैकार्थता वाक्ये तत्र स्यादनुमानता ।
सकृदुच्चरिते चास्मिन् विवक्षैकैव दृश्यते

5.5.32

यस्त्वनिर्धारितार्थानामनेकप्रतिभोद्भवऽ॥
स लिङ्गे ऽप्यस्फुटे दृष्टस्तस्मान्नैतेन भिद्यते

5.5.33

प्रकाशयति, यथा धूमादि,न च तथा शब्दऽ,अतो भिद्यत इति ।
तदुपन्यस्य दूषयति---एकवाक्यादिति ।
अनेनापि प्रकारेण न भिन्नतेत्यर्थ इति ॥29॥
किमिति न भिन्नता, अत आह---लिङ्गस्यापीति ।
अनैकान्तिको हेतिरिति भावऽ ।
हेतुर्हि धूमो ऽग्नित्वमुष्णत्वं दाहकत्वमिन्धनविकारत्वं च एकदैव प्रतिपादयति ।
तथा विरुद्धऽ- नित्यऽ शब्दऽ कृतकत्वादिति, विवक्षानुसारेण तावन्नित्यतां प्रतिपादयति, व्याप्तिबलेन चानित्यत्वमतो ऽनैकान्तिको हेतुरिति ।
ननु न विरुद्धो ऽनैकमर्थ प्रतिपादयति, व्याप्तिबलेन हि लिङ्गं प्रतिपादकं भवति ।
अतऽ कृतकत्वमनित्यत्वेन व्याप्तमिति तदेव गमयति, विरुद्धार्थव्याप्तिस्त्वेकस्य विरोधादेव न सम्भवतीति ।
तत्तावदाशङ्कते--- विरोधादिति ।
उत्तरमाह--- स्यादिति ।
विवक्षितार्थप्रतिपादने हि शब्दस्य शक्तिरवगता, अतऽ सो ऽप्येकदैकमर्थं प्रतिपादयति, अर्थान्तरे त्वसावपि विरोधादनागमक एवेति ॥30॥
भूयसां चैकार्थानां वाक्यानां नानेन हेतुना भेदऽ सिध्यतीत्याह---यत्रचेति ।
न केवलं विरुद्धमनेकं शब्दो न प्रतिपादयति, किन्तु अविरुद्धमपि ।
उक्तमिदं--- विवक्षिते शब्दऽ प्रमाणमिति ।
सकृदुच्चरिताञ्च बुद्धो भवति ।
अतो न क्वचिदनेकार्थप्रतिपादनमित्यसिद्धो हेतुरित्याह--- सकृदिति ॥31॥
नन्वस्ति तावदनेकार्थप्रतिभानं शब्दात, प्रमाणं त्वेकत्र भवतु नाम, एतावता च सिद्धमनुमानाद् वैधर्म्यमत आह---यस्त्विति ।
यथा हि
दृष्टान्तानभिधानं धूमादौ व्यभिचारितम् ।
प्रसिद्धत्वाद्धि तत्रापि न दृष्टान्तो ऽभिधीयते

5.5.34

अनभ्यस्ते त्वपेक्ष्नते शब्दे सम्बन्धिनऽ स्मृतिम् ।
अत्र प्रयुक्त इत्येवं बुध्यन्ते हि चिरात् क्वचित्

5.5.35

परोक्ता हेतवश्चात्र नाभेदस्य निवारिताऽ ।
शब्दानुमानयोरैक्यं धूमादग्न्यनुमानवत्

5.5.36

अन्वयव्यिरेकाब्यामेकप्रत्यक्षदर्शनात् ।
सम्बन्धपूर्वकत्वाच्च प्रतिपत्तिरितो यतऽ

5.5.37

न्याय्यवचनव्यक्तिपरिचयात् पूर्वं शब्दादनेकार्थाऽ परिप्लवन्ते,तथा लिङ्गे ऽपि धूमादावस्फुटविदिते ऽनेकार्थप्रतिभानन्दष्टमेव ।
भवति हि दूराद् धूमो ऽयमाहोस्विद् धूलिसन्तान इति संशयानस्याग्निवातावर्तयोरनवस्थितो वितर्क इति ॥32॥
तथा शब्दे दृष्टान्तानभिधानमपि धूमादौ व्यभिचारान्न भेदहेतुरित्याह---दृष्टान्तेति ।
कथं व्यभिचारऽ, अत आह---प्रसिद्धत्वादिति ॥33॥
नन्वप्रसिद्धे तावदस्ति दृष्टान्तापेक्षा, शब्दे तु तदपि नास्तीत्यत आह---अनभ्यस्तैति ।
अपेक्षामेव दर्शयति--- अत्रेति ।
यत्र ह्यप्रसिद्धपदार्थगोचरऽ संशयो भवति, तत्र यावदयं शब्दो ऽमुष्मिन्नर्थे वृद्धैराचरित इति चिरेण प्रणिधाय न बुध्यते, न तावत् तमर्थं निश्चिनुयादिति ।
तदेवं तावद् भेदवादिभिर्न भेदहेतवऽ सम्यगुक्ता इति दर्शितम् ॥34॥
बौद्धोक्ताभेदहेतुनिरासो ऽपि तैर्न कृत इत्याह--- परोक्ता इति ।
तानेवाभेदहेतूनुपन्यस्यति--- शब्दानुमानयोरिति
सार्दद्वयेन ।
अस्यार्थऽ--- यथा धूमादग्न्यनुमानमन्वयव्यतिरेकजम्, एकस्य च धूमस्य प्रत्यक्षदर्शनात्,
प्रत्यक्षान्यप्रमाणत्वात् तददृष्टार्थबोधनात् ।
सामान्यविषयत्वाच्च् त्रैकाल्यविषयाश्रयात्

5.5.38

कैश्चिन्मीमांसकैरुक्तो भेदो ऽत्र विषयान्तरात् ।
पूर्वाभ्यां ह्यपिरच्छिन्ने शास्त्रमर्थे प्रवर्तते

5.5.39

सम्बन्धपूर्वकं च भवति, एवं शब्दादपि ज्ञानं जायमानमेवं जायते ।
प्रत्यक्षाच्च तदन्यत् प्रमाणं, प्रत्यक्षादृष्टं चार्थं बोधयति, सामान्यविषयं च शाब्दं, त्रैकाल्याश्रयं च ।
अतो न भिद्यते ।
इदं च साधनवाक्यस्यार्थकथनम् ।
साधनप्रयोगास्त्वेवं दर्शयितव्याऽ---- शाब्दं ज्ञानमनुमानमन्वयव्यतिरेकजत्वात् अग्न्यनुमानवदिति ।
एकप्रत्यक्षदर्शनोत्पत्तेऽ, तद्वदेव सम्बन्धपूर्वकत्वं(वा?च) हेतुऽ ।
तावेव साध्यदृष्टान्तौ ।
न च कतवाच्यमन्वयव्यतिरेकजत्वात् सम्बन्धपूर्वकत्वं न भिद्यते, अन्वयव्यतिरेकात्मकत्वादनुमानसम्बन्धस्येति ।
पूर्वं हि सम्बन्धविशेषजत्वं हेतुरुक्तऽ इदानीं त्वविवक्षितविशेषं सम्बन्धसामान्यपूर्वकत्वमिति ।
एवमुत्तरेष्वपि त्रिषु पूर्ववत्साध्यदृष्टान्तयोजना कार्या ।
चतुर्थे त्वग्न्यनुमानं प्रदर्शनमात्रम् ।
भविष्यदवृत्तवृ(त्त्य?ष्ट्य) नुमाने अपि दर्शयितव्ये इति ॥35-37॥
मीमांसकैकदेशिनां भेदहेतुमिदानीं दूषयितुमुपन्यस्यति---कैश्चिदिति ।
विषयान्तरमेव दर्शयति--- पूर्वाभ्यामिति ।
अयमभिप्रायऽ--- यदयदपरिच्छिन्ने पवर्तते तत् ततो भिद्यते, अनुमानमिव प्रत्यक्षात् ।
शास्त्रं च पूर्वद्वयापरिच्छिन्नेर्ऽथे प्रवर्तते ।
ततस्ताभ्यां भिद्यते ।
किं पुनऽ प्रत्यक्षाद् भेदप्रतिपादनेन प्रयोजनम्, न हि तदभेदऽ कैश्चिदाश्रितऽ, यन्निराक्रियते ।
उच्यते ।
अस्त्येव केषाञ्चिद् विभ्रमऽ, श्रोत्रव्यापाराश्रयाज्जायमानमिदं शाब्दं श्रोत्रप्रत्यक्षमेव,तदन्वयव्यतिरेकानुविधानात् ।
अत एव बधिरस्य न भवतीति ।
तदनेन प्रत्यक्षतो भेदप्रतिपादनेन निराक्रियते ।
एवं हि मन्यते--- विद्यमानोपलम्भनं प्रत्यक्षमिति दर्शितम् ।
इदं तु शाब्दं त्रिकालार्थविषयमतऽ कथं प्रत्यक्षे ऽन्तर्भविष्यति ।
बधिरस्तु शब्दाश्रवणादर्थं न जानाति, नार्थाश्रवणात् ।
प्रयोगश्च भवति--- शाब्दं प्रत्यक्षाद् भिन्नं तदपरिच्छिन्नविषयत्वाद् अनुमानवदिति ॥38॥
तत्रापि नागमत्वं स्यात्पुरुषोक्तेस्तथास्तु चेत् ।
प्रत्ययऽ किन्निमित्तोर्ऽथे वक्तृबुद्धेऽ कुतो वसौ

5.5.40

तदिमं प्रत्यक्षतो भेदमभ्युपेत्यानुमानाद् भेदकारणं निराकरोति---तत्रापीति ।
एवं हि मन्यते--- यद्यनुमानापरिच्छिन्नविषतया भेदो ऽभिधीयते, तर्हि पुंवाक्यानामनागमत्वम्, प्रमाणान्तरपरिच्छिन्नविषयवात्, वेदवाक्यान्येव तु मानान्तराविषयार्थानि भिद्यन्ते इत्यव्यापको हेतुरिति ।
किं पुनरिदमनिष्टमापादितम्, नन्विष्यत एव पुंवचसामनागमत्वम्, आगमो हि शास्त्रम्,अप्राप्ते शास्त्रमर्थवदिति ।
वक्ष्यति ।
इमानि पुनऽ प्रमाणान्तरप्राप्तविषयप्रतिपादकानीत्यनुवादवाक्यान्येव ।
अत एव शास्त्रमेव वेदवाक्यं भिन्नतया पक्षीकृतं ऽशास्त्रमर्थे प्रवर्ततऽइति ।
तद्भेदस्थैवोपयोगादिति भावऽ ।
तदेतदाह--- यथेति ।
अत्र दूषणमाह--- प्रत्यय इति ।
एवमयं पंवचनाप्रामाण्यावादी वक्तव्यऽ ।
किमस्ति तेभ्योर्ऽथप्रत्ययो न वा, न तावन्नास्ति, सर्वलोकव्यवहारोच्छेदप्रसङ्गात् ।
सतस्तु नानिमित्तोत्पत्तिऽ सम्भवतीति निमित्तं वाच्यम् ।
न च शब्दादन्यन्निमित्तमस्योपपद्यत इति जातमसन्दग्धमबाधितं च ज्ञानान्तरेण प्रमाणमेव पुंवचनजनितं ज्ञानमिति नास्यानागमत्वाब्युपगमो युक्त इति ।
इतरस्त्वनुमानान्तर्भावाभिप्रायेणाह--- वक्तृबुद्धेरिति ।
अयमभिप्रायऽ--- विसंवादभूयिष्टानि हि पुंवचनानि, तन्नैतानि श्रुतमात्राण्येवार्थं निश्चाययन्ति ।
न चानिश्चितोर्ऽथो ज्ञातो भवति, निश्चयस्यैव ज्ञानत्वात् ।
अतऽ प्रङ्(?) निश्चयोत्पत्तेर्ज्ञानाभाव एवन्ति किं निमित्तप्रयत्नेन ।
यदा तु
वक्तैवमवधारितव्याप्तिर्भवति--- ऽन चायमनवगतं ब्रवीतीऽति, तदा तद्वाक्यादेव ज्ञानकार्यात् कारणभूतं ज्ञायमनुमाय ज्ञानस्यार्थाव्यभिचारेणार्थो निश्चीयते ।
तस्यां चावस्थायां ज्ञानलिङ्गावगतत्वादर्थस्य वाक्यमनुवादकमेव ।
अतो नागम इति ।
सिद्धान्तवादी त्वाह--- कुतो न्वसाविति ।
अयमभिप्रायऽ--- अवगता हि बुद्धिरर्थं निश्चाययति ।
न चास्याऽ किञ्चिदवगमे कारणस्तीति वक्ष्याम इति ॥39॥
न शब्दार्थस्य सा लिङ्गं न शब्दो ऽस्याऽ कथञ्चन ।
विशेषो गम्यते ताभ्यां न चैतस्यानुमेयता

5.5.41

तेन वक्तुरभिप्राये प्रत्यक्षाद्यनिरुपिते ।
पुरुषोक्तिरपि श्रोतुरागमत्वं प्रपद्यते

5.5.42

अतऽ स्वयमेवानवगता नार्थस्य लिङ्गमित्याह--- नेति ।
ननूक्तं कार्यात् शब्दादनुमास्यते, अत आह--- न शब्द इति ।
यता नोभयमुभयत्र लिङ्गं, तथा दर्शयति--- विशेष इति ।
अनुमानं हि व्याप्तिबलेन भवति, इह च वाक्यसामान्यं ज्ञानसामान्येन व्याप्तमवगतमिति ततस्तत् सिध्येद्, ज्ञानमात्राच्चार्थमात्रम्, न चेह तथा, ज्ञानार्थविशेषयोरनुमित्सितत्वात् ।
तयोश्च सम्ब्नधग्रहणाभावेनाननुमेयत्वात् ।
ननु यत्राप्तो वाक्यं प्रयुङ्क्ते तदेव ज्ञात्वा प्रयुङ्क्त इति विज्ञानविशेषेणैव सम्बन्धो ऽवगतऽ ।
अतऽ स एवानुमास्यते ।
यद्येवम्, अवगतस्तर्हि प्रागेव वाक्यादर्थऽ, न ह्यन्यथा यत्र प्रयुङ्क्त इति शक्यते प्रतिनिर्देष्टुम् ।
न चार्थोपरागमन्तरेण ज्ञानस्य विशेषऽ सम्भवति यो ऽनुमीयते ।
न चाकर्मकं ज्ञानमात्रमनुमीयते ।
न च ततोर्ऽथविशेषस्तिध्यति ।
न चानिश्चितं ज्ञानं, संशयात्मनो विज्ञानविधाया दर्शितत्वात् ।
न चैवं पुंवाक्येभ्यऽ सन्देहऽ ।
या तु क्वचिद् व्यभिचारादप्रामाण्याशङ्का सा आप्तत्वादिना निराक्रियत इत्युक्तम् ।
यदि त्वेव ज्ञानविशेषावगतिरुच्यते, य एवमवधारितो भवति--- नायमनन्वितार्थानि पदानि प्रयुङ्क्ते, न चानवगतान्वयानि, तन्नूनममीषामनेनान्वयो ज्ञात इति ।
किमिदानीं विदितपदपदार्थसङ्गतिऽ श्रोता पुंवाक्यादर्थं न बुध्यत एव ।
यद्येवमनुत्तरा गुरवऽ ।
जाता तु बुद्धिरसन्दिग्धाविपर्यस्ता च न वैदवाक्यजनिताया धियो विशिष्येत ।
शङ्कामात्रं तु कथञ्चिद् वेदे ऽपि वाक्यत्वादिना भवतीति न तावता तदप्रामाण्यम् ।
ताभ्यामिति ।
बुद्धिशब्दाभ्यामित्यर्थऽ ॥40॥
अतो वक्त्रभिप्रायावगतौ प्रत्यक्षादिप्रमाणासम्भवात् तदनवगमे
न चाप्यननुमेयत्वमागमार्थस्य शक्यते ।
लिङ्गं हि शब्द एवास्य धूमो ऽग्नेरिव कल्पते

5.5.43

न चाप्यननुमेयत्वात् प्रमाणान्तरगम्यता ।
रूपस्याश्रावणत्वेन न ह्यप्रत्यक्षतेष्यते

5.5.44

एवं स्थिते स्वयूथ्या नऽ केचिन्नातिप्रयत्नतऽ ।
अनुमानविशेषो ऽयमीदृग्धर्मस्य बोधकऽ

5.5.45

भविष्यत्यर्थरूपं तु लिङ्गं धर्मे निराकृतम् ।
चार्थानुमानानुपपत्तेऽ श्रोतुरप्राप्तपूर्वमर्थं प्रापयन्ती पुरुषोक्तिर्वेदवदागम एवेत्याह---तेनेति ॥41॥
यदपि चेदमुच्यते ।
वेदस्तावद् भिन्नविषयतया प्रमाणान्तरमेवेति, तदपि मनोरथमात्रमेवेत्याह---न चापीती ।
न शक्यते वक्तुमित्यभिप्रायऽ ।
किमिति न शक्यते ।
अत आहऽ--- लिङ्गमिति ।
यदा पूर्वोक्तैर्हेतुभिरविशेषेण सर्वमेव शाब्दमनुमानादभिन्नमित्युकं, तदा कथं तद्गोचरस्याननुमेयत्वं भविष्यतीति भावऽ ॥42॥
नन्वर्थात्मना तावदल्लिङ्गेनाननुमितपूर्वमर्थं वेदो बोधयतीति प्रमाणान्तरं भविष्यतीत्यत आह---न चेति ।
धूमत्त्वकृतकत्वादीनां हि सत्यप्यवान्तरभेदे यथैव त्रैलक्षण्यापरित्यागेनानुमानत्वमेवमिहापि स्यात् ।
यदि तु तदेव नास्तीत्युच्यते, तत् तर्हि वचनीयम्, किमवान्तरभेदोपन्यासेनेति ॥43॥
अन्ये तु प्रक्षीणशक्तयो ऽभेदमेवाश्रित्यैकदेशिनऽ प्रत्यवस्थिताऽ, तद् दर्शयति---एवं स्थितैति ।
अयं हि तेषामभिप्रायऽ--- चोदनाप्रामाण्यं हि प्रतिज्ञातं, तच्चानुमानत्वे ऽपि वेदवचऽ सिध्यत्येव ।
यथैव हि शब्दमध्याद् वेदऽ प्रमाणम् ।
एवमनुमानेभ्यो वेदानुमानमिति किमतिप्रयत्नतो बेदप्रतिपादनेनेति ।
ननु"भविष्यत्वाद् धर्मो नानुमीयते"इत्युक्तं भाष्यकारेण ।
अतो ऽनुमानत्वाभ्युपगमे तद्वरोधो भवेद् अत,आह--- भविष्यतीति ।
अर्थरूपलिङ्गाभिप्रायेण तन्निराकृतमित्यर्थऽ ॥44 1।2॥
संज्ञानुमानतेच्छा तु न दुष्येदागमे ऽपिनऽ

5.5.46

लक्षणेन त्वभिन्नत्वं यदि शब्दानुमानयोऽ ।
वेदज्ञानाप्रमाणत्वं स्यादतल्लक्षमत्वतऽ

5.5.47

आप्तवादाविसंवादसामान्यान्नृवचऽ सु हि ।
लक्षणेनानुमानत्वात् प्रामाण्यं सिद्धिमृच्छति

5.5.48

वेदे त्वाप्तनराभावात् सम्बन्धानुभवादृते ।
लक्षणं नानुमानस्येत्यप्रामाण्यचं प्रसज्यते

5.5.49

नन्वेकदेशसत्यत्वे तस्य स्यादनुमानता ।
वेदत्वादग्निहोत्रादौ वायुक्षेपिष्ठवाक्यवत्

5.5.50

एतदपि दूषयति---संज्ञेति ।
यदि पश्चान्मानसामान्यादनुमानत्वं तदस्तु, न च तदभ्युपगमे दोष इत्यर्थऽ ।
लक्षणैकत्वेन त्वभेद इष्टे ऽनुमानलक्षणाभावात् प्रमाणान्तरानब्युपगमाच्चाप्रामाण्यमेव वेदवचसामापद्यत इत्याह--- लक्षणेनेति ॥46॥
ननूक्तं लक्षणैकत्वमाप्तवादाविसंवादसामान्यादित्यत्राह---आप्तवादेति ।
पुंवाक्यानामनेन प्रकारेणानुमानत्वात् प्रामाण्यं सिद्ध्यति न वेदवचसामिति भावऽ ॥47॥
किमिति न सिद्ध्यति ।
अत आह---वेदे त्विति ।
आप्तनराभावात् तावन्नाप्तवादत्वेनाविसंवाददनुमानम् ।
न चातीन्द्रिययैरर्थैर्वेदानां सम्बन्धानुभवऽ सिध्यतीत्यप्रमाणमेव भवेयुऽ ।
नाप्तसन्दृब्धा वेदा इति वेदाधिकरणे वक्ष्यतीति ॥48॥
ननु प्रमाणान्तरकसङ्गतार्थानि वेदैकदेशभूतानि क्षेपिष्ठादिवाक्यानि दृष्ट्वा इतराण्यप्यग्निहोत्रादिवाक्यानि वेदत्वात् सत्यार्थान्यनुमास्यन्ते ।
अतो ऽस्ति लक्षणेनानुमानत्वमित्याह---नन्विति ॥49॥
नादित्ययूपे ऽनैकान्त्यात् तद्वद्वा गौणता भवेत् ।
नातऽ प्रत्यनुमाननामेवं पूर्वोक्तया दिशा

5.5.51

तस्माल्लक्षणभेदेन यदि शब्दप्रमाणता ।
समा लोके च वेदे च सिद्धा वेदप्रमाणता

5.5.52

तेन चाप्तोपदेशत्वं न स्यादागमलक्षणम् ।
नाप्तस्य सम्भवो वेदे लोके नास्मात् प्रमाणता

5.5.53

पुरस्ताद् वर्णितं ह्येतत् तस्मात् शब्देन या मतिऽ ।
तस्याऽ स्वतऽ प्रमाणत्वं न चेत् स्याद्दोषदर्शनम्

5.5.54

एतदपि दूषयति---नादित्येति ।
आदित्ययूपवाक्ये वर्तमानो वेदत्वहेतुरनैकान्तिक इति ।
ननु नेदं वाक्यमसत्यार्थम्, आदित्यशब्दो हि सारुप्याद् गौणो यूपे वर्तत इति तत्सिद्धिसूत्रे वक्ष्यते, अत आह--- तद्वदिति ।
कर्मफलसम्बन्धवाक्यान्यपि तद्वदेव गौणानि भुवेयुरिति ।
अपि च प्राक् स्वमहिम्ना वेदप्रामाण्यबलेनाप्रामाण्यानुमानानि प्रत्युक्तानि ।
अनुमात्वाभ्युपगमे तुल्यबलतया दुर्वारप्रसरणानीत्याह--- नात इति ॥50॥
अतो लक्षणभेदेनैव शब्दस्य प्रमाणान्तरत्वे इष्यमाणे वेदाऽ प्रमाणं भवन्ति ।
लोकवेदयोश्च सममेव प्रमाणता सिद्धेत्याह---तस्मादिति ॥51॥
लक्षममपि यथा परैराश्रितम्--- ऽआप्तोपदेशऽ शब्दऽ इति, तथाप्यचाप्ताभावान्न प्रामाण्यं वेद्सयेति तन्नाश्रयणीयमित्याह---तेनेति वेदान्तेन ।
लोके ऽपि नाप्तत्वं प्रामाण्ये कारणमित्याह--- लोक इति ॥52॥
कारणमाह---पुरस्तादिति ।
आप्तत्वेन ह्यपवादाशङ्कानिराकरणमात्रम् ।
प्रामाण्यं तु सर्वसंविदां सहजमेवेति स्वतऽप्रामाण्येवादे वर्णितमिति ।
किं तर्ह्यागमलक्षणमत आह--- तस्मादिति ।
निर्देषशब्दजनितं विज्ञानं प्रमाणमिति ॥53॥
अनुमानेन चैतस्य प्रामाण्यं केवलं समम् ।
पदे तावत्कृतो यत्नऽ परैरित्यत्र वर्ण्यते

5.5.55

विषयो ऽन्यादृशस्तावद् दृश्यते लिङ्गशब्दयोऽ ।
सामान्यविषयत्वं च पदस्य स्थापयिष्यति

5.5.56

धर्मी धर्मविशिष्टश्च लिङ्गीत्येतञ्च साधितम् ।
न तावदनुमानं हि यावत् तद्विषयं न तत्

5.5.57

सामान्यादतिरिक्तं तु शाब्दे वाक्यस्य गोचरऽ ।
सामर्थ्यादनुमेयत्वादश्रुते ऽपि पदान्तरे

5.5.58

एवञ्जातीयकस्य शब्दस्य चानुमानेन प्रामाण्यमेव समं, न लक्षणमित्याह---अनुमानेनेति ॥53 1।2॥
स्वमतेनेदानीं पदस्यानुमानाद् भेदं वदिष्यस्तत्प्रतिपादने कारणमाह---पदैति ।
यद्यपि पदस्य पदार्थे प्रमाणत्वान्न तद्भेदप्रतिपादनमुपयुज्यते, तथापि परैऽ पदान्युदाहृत्य विचारऽ कृत इति तद्भेदमेव प्रतिपादयामऽ ।
अत्रेति ।
पद इत्यर्थऽ ॥54॥
तदिदानीं भेदकारणमाह---विषयैति ।
विषयभेदमेव दर्शयति--- सामान्येति ।
आकृत्यधिकरणे हि पदस्य
सामान्यविषयत्वं स्थापयिष्यत इति ॥55॥
अनुमानं तु धर्मविशिष्टधर्मिविषयमित्यनुमानपिरच्छेदे साधितमित्याह---धर्मीति ।
लिङ्गमस्यास्तीति लिङ्गी ।
तस्य विशिष्टस्य प्रसाधकं लिङ्गमस्तीति ।
नन्वनुमाने व्याप्तिबलेन धर्मसामान्यमनुमीयत इत्यत आह--- न तावदिति ।
यावत् तदनुमानं तद्विषयं विशिष्टविषयं न भवति तावदनुमानमेव न भवति, न धर्ममा(त्रं?त्रविषयं) सिद्धत्वादित्युक्तमिति ॥56॥
ननु पदमपि विशिष्टगोचरं दृष्टं यथा--- को राजा यातीति पृष्टे परऽ प्रतिब्रवीति , पाञ्चालराज इति ।
तदा केवलादेव पाञ्चालराजपदात् क्रियाविशिष्टऽ पुरुषो ऽवगम्यते, अत आह---सामान्यादिति ।
यदेव
सङ्ख्यादिमान् पदार्थश्चेन्न तावत् सो ऽव्ययादिषु ।
यत्रापि ते प्रतीयन्ते तत्र व्यक्तेर्विशेषणम्

5.5.59

पदान्तराभिधेयस्य तादर्थ्याच्च क्रियात्मनऽ ।
वाक्यार्थे ऽपि पदं यत्र गोमदादि प्रयुज्यते

5.5.60

सत्यप्यत्र विशिष्टत्वे सिद्धत्वान्नैव पक्षता ।
तावानेव हि तत्राप्थो यऽ पूर्वमवधारितऽ

5.5.61

किञ्चित् शाब्दे सामान्यादतिरिक्तमवगम्यते स वाक्यस्यैव विषयऽ ।
वाक्यमेव हि तदनुषक्तयातिपदं पाञ्चालराजो यातीति ।
नन्वस्तु श्रुतस्यानुषङ्गऽ , अश्रुते ऽपि पदान्तरे पदादेकस्माद् विशिष्टबोधो दृष्टऽ, यथा--- द्वारमित्युक्ते विव्रियतामिति, अत्र कथमत आह--- सामर्थ्यादिति ।
कारकं हि क्रियया विदितव्याप्तिकम्, व्याप्तिसामर्थ्यादेव क्रियापदमनुमापयति ।
अनुमितक्रियापदाद् वाक्यादेव तत्रापि विशिष्टार्थप्रत्ययऽ इति ॥57॥
अत्रचोदयति ---सङ्ख्येति ।
परिहरति--- न तावदिति ।
यत्र हि सङ्ख्यादयो ऽवगम्यन्ते तत्र कथमत आह--- यत्रापीति ।
सम्भवव्यभिचाराभ्यां हि विशेषणमर्थवद् भवति ।
आकृतिस्तु न तावदेकत्वं व्यभिचरति, द्वित्वादयस्त्वेकत्वान्न सम्भवन्तीति तदाक्षिप्ताया व्यक्तेरेव विशेषणं सङ्ख्यादय इति ॥58॥
तदेवं तावदनुरञ्जनेन व्यक्तेर्विशेषणमित्युक्तम्, तादर्थ्येन तु क्रियां भावनां सङ्ख्यादयो विशिषन्ति ।
तत्र हि श्रुत्यादिभिर्विनियुज्यन्ते ।
यथा पशोरेकत्वे ऽरुणादिषु च वक्ष्यत इत्याह--- पदन्तरेति ।
पदान्तरेति ।
पदान्तरत्वेनात्यन्तविप्रकृष्टाविशेषणतां दर्शयतीति ॥58 1।2॥
यत्तर्हि वाक्यार्थवृत्तिविशिष्टविषयं गोमदादिपदं तदनुमानं भविष्यत्यत आह--- वाक्यार्थ इति ।
यद्यपि तावदिदं विशिष्टार्थगोचरम्, तथापि नानुमानत्वम् ।
सिद्धो हि धर्मी केनचिद् धर्मेणासिद्धेन विशिष्टऽ साध्यमानऽ पक्षो भवति ।
इह तु पदोञ्चारणात् प्राङ् न किञ्चित् प्रतिपन्नम् ।
उच्चरिते तु पदे विशिष्टऽ प्रतिपन्न एवेति किं साध्यमिति ।
सिद्धत्वमेव
भेदबुद्धेश्च वैषम्यं प्रकृतिप्रत्ययार्थयोऽ ।
विशेषणविशेष्यार्थस्वातन्त्र्यग्रहमं न च

5.5.62

विशेष्यपूर्विका तत्र बुद्धिश्चात्र विपर्ययऽ ।
अथ शब्दोर्ऽथवत्त्वेन पक्षऽ कस्मान्न कल्प्यते

5.5.63

प्रतिज्ञार्थैकदेशो हि हेतुस्तत्र प्रसज्यते ।
पक्षे धूमविशेषे च सामान्यं हेतुरिष्यते

5.5.64

दर्शयति--- तावानिति ।
न तावदगृहीतसम्बन्धऽ शब्दाद् विशिष्टं प्रत्येति ।
गृहीतसम्बन्धस्तु प्रतिपद्यमानो व्युत्पत्तिकालावगतानन किञ्चिदधिकं प्रत्येतीति कथमनुमानं भवतीति ॥60॥
अपि चात्र भिन्नयोरेव प्रकृतिप्रत्ययात्मनोऽ पदभागयोर्भिन्नावेवार्थोप्रतिपन्नौ विशेषणविशेष्यबावमनुभवत इति सिद्धं
वैषम्यमित्याह---भेदबुद्धेरिति ।
इदं तु पाचकादिशब्देषु युक्तं वक्तुम्, तत्र हि (धातुना) पाकऽ प्रत्ययेन चकर्तृमात्रमुपात्तम् ।
आर्थस्तु विशिष्टप्रत्ययऽ ।
गोमदादौ तु तदस्यास्तीति विशिष्ट एवार्थे तद्धितऽ स्मर्यत इति कुतो वैषम्यम्, उक्तमत्र ऽतावानेव हीऽति व्युत्पत्तिकालावगतादनधिकविषयत्वम्, इदं तु पाचकादिशब्दार्थ(मे?ए)वोक्तमिति ।
किञ्चानुमाने स्वतन्त्रगृहीत एव पर्वतादिर्विशेष्यऽ स्वतन्त्रस्मृतेनाग्न्यादिना विशेषणेन विशिष्टो ऽवगम्यते ।
शब्देनोभयोऽ स्वतन्त्रग्रहणमस्तीत्याह--- विशेषणेति ।
ग्रहणमुपलक्षणार्थं, स्मरणं चेत्यर्थऽ ॥61॥
वैषम्यान्तरमाह--- विशेष्येति ॥61 1।2॥
अत्र चोदयति--- अथेति ।
अत्रापि शब्दस्यैव प्रन्थमावगतस्यार्थविशिष्टत्वेन साध्यत्वान्न क्रमव्यतिक्रमो भविष्यतीति ॥62॥
अत्र दूषणमाह--- प्रतिज्ञार्थेति ।
प्रतिज्ञार्थऽ पक्षऽ स च धर्मविशिष्टो धर्मी, विशिष्टापेक्षया धर्म्येकदेश उच्यते ।
स एव हेतुऽ प्रसज्यते ।
शब्दो हि धर्मितयोपात्तऽ स एव हेतुरिति ।
ननु यदा दूराद् धूस्याधारविशेषो न लक्ष्यते तदा धूमो ऽग्निमत्तया साध्यते, हेतुश्च भवति ।
तद्वदिहापि भविष्यत्यत आह--- पक्ष इति ।
धूमविशेषो हि सम्प्रति
शब्दत्वं गमकं नात्र गोशब्दत्वं निषेत्स्यते ।
व्यक्तिरेव विशेष्यातो हेतुश्चेका प्रसज्यते

5.5.65

भवेत् व्यञ्जकभेदाच्चेन्न त्वेवं प्रत्ययो ऽस्तीति नऽ ।
कथं वास्य विशिष्टत्वं न तावद् देशकालतऽ

5.5.66

तत्प्रतीतिविशिष्टश्चेत् परं किमनुमीयते ।
न प्रत्यायनशक्तिश्च विशेष्यस्यानुमीयते

5.5.67

दृश्यमानऽ पक्षऽ पूर्वावगतऽ सपक्षऽ तदनुगतं च सामान्यं हेतुरिति पक्षसपक्षहेतुविभागोपपत्तिरिति ॥63॥
नन्विहापि शब्दविशेषं पक्षीकृत्य शब्दत्वं हेतुं वक्ष्यामऽ, अत आह--- शब्दत्वमिति ।
अर्थविशेषो ह्यनुमित्सितऽ, न चास्य शब्दत्वं गमकमनैकान्तिकत्वादिति ।
नन्ववान्तरसामान्यं तर्हि गोशब्दत्वं हेतुर्भविष्यत्यत आह--- गोशब्दत्वमिति ।
अतो ऽत्रैकैव व्यक्तिरर्थेन विशेष्याहेतुतया चाभिधातव्येति दुष्परिहरं प्रतिज्ञार्थैकदेशत्वमित्याभिप्रायेणाह--- व्यक्तिरिति ॥64॥
ननु व्यञ्जकभेदभिन्नैकैव व्यक्तिऽ पक्षीकरिष्यते इत्याह--- भवेदिति ।
परिहरति--- न त्विति ।
नौपाधिको भेदो वस्तु भिनत्ति, तत्प्रत्ययानपायादिति भावऽ ।
अपि च विशिष्टता सम्बन्धे सति भवति, तदिह कीदृशोर्ऽथशब्दयोशब्दयोऽ सम्बन्ध इत्याह--- कथं वेति ।
न तावत् शब्ददेशेर्ऽथो दृश्यते,मुखे हि शब्दऽ भूमावर्थऽ ।
नापि शब्दकाले, कलौ कृतयुगार्थस्याभावादित्याह--- न तावदिति ॥65॥
अर्थार्थप्रतीत्या विशिष्टऽ शब्दऽ साध्यते, अस्ति हि सा शब्दकाल इति तदेतदाशङ्कते--- तत्प्रतीतिरिति ।
एतदपि दूषयतीति--- परमिति ।
प्रतीत्या विशिष्टे ऽनुमीयमाने सा तावत् पूर्वसिद्धा ग्रहीतव्या ।
सा चेत् ज्ञाता किमपरमनुमीयत इति ।
ननु सम्प्रत्युपलभ्यमानं दुतादिविशेषं पक्षीकृत्य तस्य प्रत्यायनशक्तिविशिष्टता साध्यते सपक्षं च व्युत्पत्तिकाला
विशेषाणां न शक्तिर्हि सैकदेशे ऽग्निजातिवत् ।
सामान्यस्यैव शक्त्वे पक्षो हेतुस्तथैव च

5.5.68

तस्मादर्थविशिष्टस्य न शब्दस्यानुमेयता ।
कथं च पक्षधर्मत्वं शब्दस्येह निरुप्यते

5.5.69

न क्रियाकर्तृसम्बन्धादृते सम्बन्धनं क्वचित् ।
राजा भर्ता मनुष्यस्य तेन राज्ञऽ स उच्यते

5.5.70

वगतविशेषम्,उभयानुगतं गोशब्दसामान्यं हेतुं करिष्यामऽ, न प्रतिज्ञार्थैकदेशता भविष्यत्यत आह --- न प्रत्यायनेति अयमभिप्रायऽ न द्रुतादिविशेषाणां देशादिनिबन्धनोर्ऽथेन सम्बन्धो विद्यते ।
प्रत्यायनशक्तिविशिष्टता चापि तेषां न सम्भवतीति ॥66॥
किमिति न सम्भवत्यत आह---विशेषाणामिति ।
यथा पक्षीकृतस्य महतो धूमस्यैकदेशे ऽधस्तादग्निरस्तीति तद्विशिष्टो धूमऽ साध्यो भवति ।
नैवं द्रुतादिविशेषाणां प्रत्यायनशक्तियोगऽ ।
तेषां व्यभिचारेणाप्रत्यायक्तवादिति ।
यत्तु तेषां सामान्यं गोशब्दऽ सप्रत्यायनशक्तिविशिष्टऽ तत्र च पक्षे स एव पक्षो हेतुश्चेत्युक्तमेवेत्याह सामान्यस्येति ॥67॥
अतोर्ऽथविशिष्टऽ शब्दो नानुमेय इत्युपसंहरन्नाह---तस्मादिति ॥67 1।2॥
एवं तावत् शब्दो न पक्ष इत्युक्तम् ।
यदि त्वर्तं पक्षीकृत्य शब्दो हेतुरित्युच्यते ।
तदप्ययुक्तम् ।
अपक्षधर्मत्वादित्याह---कथं चेति ।
कथं च निरूप्यत इति भावऽ ॥68॥
किमिति न निरूप्यते ऽत आह---न क्रियेति ।
कस्याञ्चित् क्रियायां कर्तृतया सम्बद्धं किञ्चित् कस्यचित् सम्बन्धी भवति, क्रियाकारकसम्बन्धपूर्वकत्वात् शेषसम्बन्धानां स्वस्वाम्यादीनामिति ।
तत्र स्वस्वामिसम्बन्धस्तावत् क्रियाकारकसम्बन्धपूर्वक इत्याह--- राजेति ।
प्रतमं हि भरणक्रियायां कर्तृकर्मभावमापन्नौ राजपुरुषौ
स्वस्वामिसम्बन्धमनुभवत इति ॥69॥
वृक्षस्तिष्ठति शाखासु ता वा तत्रेति तस्य ताऽ ।
देशे ऽग्निमति धूमस्य कर्तृत्वं भवनं प्रति

5.5.71

कार्यकारणभावादौ क्रिया सर्वत्र विद्यते ।
न चानवगताकारऽ सम्बन्धो ऽस्तीति गम्यते

5.5.72

न चास्त्यसति सम्बन्धे षष्ठीतत्पुरुषो ऽपि वा ।
तस्मान्न पक्षधर्मो ऽयमिति शक्या निरूपणा

5.5.73

निवृत्ते ऽन्यत्र सम्बन्धे ये ऽपि तद्विषयात्मना ।
वदेयुऽ पक्षधर्मत्वं शब्दस्यानुपलब्धिवत्

5.5.74

एवमवयवावयविसम्बन्धो ऽपि क्रियागर्भ इत्याह---वृक्षैति ।
वृक्षो ऽवयवी ह्यवयवेषु तिष्ठतीति प्रतीतिऽ ।
कदाचित्त्ववयवा एव शाखादयस्तस्मिन्निति प्रतीतिऽ ।
तदेवं स्थितिक्रियाकर्तृभावनिबन्धनो ऽवयवावयविसमम्बन्ध इति ।
एवं संयोगो ऽपि क्रियागर्भ एवेत्याह--- देश इति ।
अग्निमद्देशे भवने कर्ता भवन् धूमो ऽग्निमतो देशस्य संयोगी भवतीति॥
एवं कार्यकारणभावादयो ऽपि सम्बन्धाऽ क्रियाकारकसम्बन्धपूर्वका इत्याह---कार्येति ।
किण्वं हि सुराया बीजं सुरात्मके परिणामे कर्तृभवत्सुरायाऽ कारणमित्युच्यते ।
तथा समूहसमूहिसम्बन्धो ऽपि ।
सेनाकार्यं प्रतिपक्षजयमंशेन कुर्वन् हस्ती सेनायाऽ सम्बन्धितयोच्यत इति ।
शब्दार्थयोस्तु न कश्चिदेवबाकारऽ सम्बन्धस्यावगम्यते ।
न चानिरूपिताकारऽ सम्बन्धो ऽस्तीति शक्यते वक्तुमित्याह--- न चेति ।
न च सम्बन्धमन्तरेण पक्षस्य धर्म इति विग्रहगता षष्ठी पक्षधर्म इति च तत्पुरुषसमासो वा घटत इत्याह---न चास्तीति ।
वृत्तिविग्रहावपि नोपपन्नाविति ।
उपसंहरति--- तस्मादिति ॥72॥
अन्ये तु शब्दोर्ऽथविषय इत्येवं तद्धर्मतामाहुऽ ।
यथानुपलब्धिरभावे प्रमेय वक्ष्यते ।
तदेतदुपन्यस्यति---निवृत्तैति ॥73॥
तैरप्येतन्निरूप्यं तु शब्दस्तद्विषयऽ कथम् ।
न तद्देशादिसद्भावो नाभिमुख्यादि तस्य वा

5.5.75

तस्मादुत्पादयत्येष यतोर्ऽथविषयां मतिम् ।
तेन तद्विषयऽ शब्द इति धर्मत्वकल्पना

5.5.76

तत्र वाचकतायां च सिद्धायां पक्षधर्मता ।
न प्रतीत्यङ्गतां गच्छेन्न चैवमनुमानता

5.5.77

गमकत्वाच्च धर्मत्वं धर्मत्वाद् गमको यदि ।
स्यादन्योन्याश्रयत्वं हि तस्मान्नैषापि कल्पना

5.5.78

न चागृहीतसम्बन्धाऽ स्वरूपव्यतिरेकतऽ ।
शब्दं जानन्ति येनात्र पक्षधर्ममतिर्भवेत्

5.5.79

एतदपि नोपपन्नमित्याह--- तैरपीति ।
न केनापि प्रकारेण विषयविषयिभावो घटत इत्यर्थऽ ।
यथा न घटते तदेतदाह--- न तदिति ॥74॥
सर्वप्रकारासम्भवात् पारिशेष्येण तद्विषयबुद्धिजनकतया तद्विषयता वक्तव्या, एवं च तद्विषयबुद्धिजनकत्वस्य वाच्यवाचकभावमन्तरेणानुपपत्तेस्तदभ्युपमगऽ कारऽ ।
तत्सिद्धौ च न प्रतीत्यङ्गं पक्षधर्मता ।
न चापक्षधर्मजनिता
प्रतीतिरनुमानमित्याह--- तस्मादिति द्वयेन ॥75,76॥
यदि तु पक्षधर्मतैव तद्विषयबुद्धिजजने हेतुरिष्यते ।
ततस्तव्यतिरेकेण पक्षधर्मताया एवपानुपपत्तेरितरेतराश्रयत्वमतो नेयमपि कल्पना घटत इत्याह---गमकत्वादिति ॥77॥
इतश्च न पक्षधर्मतेत्याह---न चेति ।
अनवगतवाच्यवाचकसम्बन्धाऽ स्वरूपातिरेकेण न शब्दं कस्यचिद् धर्मतया जानन्ति ।
येन पक्षधर्मबुद्धिऽ शब्दे भवेदिति ॥78॥
न च स्वरूपमात्रेण धूमादेऽ पक्षधर्मता ।
न चापि पूर्वसम्बन्धमपेक्ष्यैषा प्रसज्यते

5.5.80

धूमवानयमित्येवमपूर्वस्यापि जायते ।
पक्षधर्ममतिस्तेन भिद्येतोत्तरलक्षणात्

5.5.81

न त्वत्र पूर्वसम्बन्धादधिका पक्षधर्मता ।
न चार्थप्रत्ययात् पूर्वमित्यनङ्गमियं भवेत्

5.5.82

न च धर्मी गृहीतो ऽत्र येन तद्धर्मता भवेत् ।
पर्वतादिर्यथा देशऽ प्राग्धर्मत्ववधारणात्

5.5.83

यश्चात्र कथ्यते धर्मी प्रमेयो ऽस्य स एव नऽ ।
न चानवधृते तस्मिन् तद्धर्मत्वावधारणात्

5.5.84

स्वरूपमात्रविज्ञानं तु न धूमादौ पक्षधर्मतायां हेतुऽ, अपि तु धर्मिसम्बन्धऽ ।
न चासावस्तीत्यभिप्रायेणाह---नचेति ।
नन्वत्राप्यर्थेन धर्मिणा प्रतमं व्युत्पत्तिकाले सम्बन्धो ऽवगत एव, आह--- न चापीति ॥79॥
पूर्वसम्बन्धनिरपेक्ष एवायमव्युत्पन्नसम्बन्धस्यापि पक्षधर्मसम्बन्धो मासते, न चात्र तथेत्याह---धूमवानितिमतिरन्तेन ।
यत एव तन्निरपेक्षो ऽयं पक्षधर्मसम्बन्धऽ, अत एव तदुत्तरस्मात् सपक्षसत्त्वलक्षणाद् भिद्यते, अन्यथा तदभेद एव स्यादित्याह--- तेनेति ।
त्रीणि हेतोर्लक्षणानि पक्षधर्मता सपक्षे सत्ता विपक्षाद् व्यावृत्तिऽ ।
तत्र च पक्षधर्मताया उत्तरं सपक्षसम्बन्धमुत्तरलक्षममपदिशतीति ॥80॥
शब्दे त्वेवं नास्तीत्याह--- न त्वत्रेति ।
पूर्वसम्बन्धापेक्षया चेयमवगम्यमानार्थप्रतीत्युत्तरकालमवगम्यते ।
अतो न तदङ्गमित्याह--- नचेति॥
इतश्च न पक्षधर्मतेत्याह---न च धर्मीति ।
अर्थादन्यस्तावद् धर्मी न प्रमीयत इति भावऽ ॥82॥
यस्त्वसावर्थो धर्मितया कल्पनीयऽ, यद्धर्मतयावगतऽ शब्दऽ पक्ष
प्राक् स चेत् पक्षधर्मत्वाद् गृहीतऽ किं ततऽ परम् ।
पक्षधर्मादिभिर्ज्ञातैर्येन स्यादनुमानिता

5.5.85

अन्वयो न च शब्दस् प्रमेयेन निरूप्यते ।
व्यापारेण हि सर्वेषामन्वितत्वं प्रतीयते

5.5.86

यत्र धूमो ऽस्ति तत्रापग्नेरस्तित्वेनान्वयऽ स्फुटऽ ।
न त्वेवं यत्र शब्दो ऽस्ति तत्रार्थो ऽस्तीति निश्चयऽ

5.5.87

न तावदत्र देशे ऽसौ तत्काले वावगम्यते ।
भवेन्नित्यविभुत्वाच्चेत् सर्वार्थेषु च तत्समम्

5.5.88

तेन सर्वत्र दृष्टत्वात् व्यतिरेकस्य चागतेऽ ।
सर्वशब्दैरशेषार्थप्रतिपत्तिऽ प्रसज्यते

5.5.89

अथैवं देशकालाभ्यामसत्यत्वप्रकल्पने ।
वाचकप्रत्ययं कश्चिद् ब्रूयादर्थधियान्वितम्

5.5.90

धर्मो भवति, परस्तादपि स तावानेव प्रमातव्यऽ ।
तद् यदि पक्षधर्मत्वमवगन्तुमसौ प्रथममेवावगम्यते, ततो गृहीते तस्मिन् किं परभाविना पक्षधर्मादिज्ञानेन अतो नानुमानतेत्याह---यश्चेतिद्वयेन ॥83,84॥
अन्वयमिदानीं दूषयति--- अन्वय इति ।
कथं न निरूप्यते, अत आह---व्यापारेणेति ॥85॥
एतदेव दर्शयति---यत्रेति ।
इह त्वेवं नास्तीत्याह---न त्विति ॥86॥
कथं नेत्यत आह--- न तावदिति ।
इदं च पूर्वमेवोक्तमिति ।
ननु वैभवाच्छब्दस्य नित्यत्वाच्चार्थस्य शब्दार्थयोऽ शक्यते ऽन्वयो दर्शयितुमित्याह--- भवेदिति ।
परिहरति---सर्वार्थोष्विति ॥87॥
किमतो यद्येवमत आह---तेनेति ॥88॥
प्रकारान्तरेण सम्बन्धमाशङ्कते---अथैवामिति ॥89॥
नैवमप्यस्ति दृष्टो हि विनाप्यर्थधिया क्वचित् ।
वाचकप्रत्ययो ऽस्माभिरव्युत्पन्ननरान् प्रति

5.5.91

द्वितीयादिप्रयोगे च भवेदन्वयकल्पना ।
शतकृत्वऽ प्रयुक्ते ऽपि न च दृष्टार्थधीऽ क्वचित्

5.5.92

ननु ये ज्ञातसम्बन्धास्तेषां दृष्टो ऽन्वयऽ स्फुटऽ ।
यद्येवमन्वयात्पूर्वं सम्बन्धऽ को ऽपि कल्पितऽ

5.5.93

नाङ्गमर्थधियामेषा भवेदन्वयकल्पना ।
अन्वयाधीनजन्मत्वमनुमानस्य च स्थितम्

5.5.94

ज्ञाते प्रतीतिसामर्थ्ये त्दवशादेव जायते ।
पश्चादन्वय इत्येष कारणं कथमुच्यते

5.5.95

एतदपि दूषयति---नैवमिति ।
कारणमाह--- दृष्टो हीति (अस्मा)भिरन्तेन ।
क्व दृष्टऽ अत आह--- अव्युत्पन्नेति ॥90॥
ननु द्वितीयादिप्रयोगे शब्दार्थप्रत्यययोरन्वयो ग्रहीष्यत इत्याशङ्कते---द्वितीयादीति ।
एतदपि दूषयति--- शतकृत्व इति ।
शतकृत्वऽ प्रयोगे ऽप्यजिज्ञासासुर्न सम्बन्धं बुध्यते ।
अविदितसम्बन्धश्च नार्थं प्रत्येतीति ॥91॥
ननु ज्ञातसम्बन्धस्य तावन्न शब्दज्ञानमर्थज्ञानं व्यभिचरति ।
तस्यैव चानुमानत्वमिष्यत इत्याह---नन्विति ।
परिहरति--- यद्येवमिति ।
यदि ज्ञातसम्बन्धस्यान्वयऽ, अन्य एव तर्हि सम्बन्धऽ शब्दार्थयोरभ्युपगम्यत इति ॥92॥
ततऽ किमत आह---नाङ्गमिति ।
यदि नाङ्गं , किं जातमत आह---अन्वयेति ।
असत्यन्वये ज्ञानं नानुमानमिति भावऽ ॥93॥
अन्वयस्तु पूर्वावगतप्रतीतिसामर्थ्यानुसारेणैव जायमानो नार्थग्रहीतौ कारणमित्याह--- ज्ञात इति ॥94॥
त्समात्तन्निरपेक्षैव शब्दशक्तिऽ प्रतीयते ।
न च धूमान्वयत्पूर्वं शक्तत्वमवगम्यते

5.5.96

व्यतिरेको ऽप्यविज्ञातादर्थात् शब्दधियो यदि ।
सो ऽपि पश्चाच् स्थितत्वेन नार्थप्रत्ययसाधनम्

5.5.97

सम्बन्धं यं तु वक्ष्यामस्तस्य निर्णयकारणम् ।
स्यादन्वयो ऽतिरेकश्च न त्वर्थाधिगमस्य तौ

5.5.98

तस्मादननुमानत्वं शब्दे प्रत्यक्षवद् भवेत् ।
त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात्

5.5.99

सति चास्य प्रमाणत्वे भेदाबेदनिरूपणा ।
युक्ता न तु पदज्ञानात् पदार्थो ऽत्र प्रमायते

5.5.100

उपसंहरति---तस्मादिति ।
अनुमाने तु नान्वयात्पूर्वं गमकत्वसिद्धिरित्याह---न चेति ॥95॥
व्यतिरेकमिदानीं दूषयति--- व्यतिरेक इति ।
न ह्यनवगतेर्ऽथे तज्ज्ञानेन विना शब्दज्ञानं भवतीति व्यतिरेकऽ शक्यते ऽवगन्तुम् ।
अवगतश्चेदर्थऽ किं व्यतिरेकाश्रणेनेति ॥96॥
किमिदानीमनुपयोगिनावन्वयव्यतिरेकौ शब्दे नेत्याह--- सम्बन्धमिति ।
शक्तिनि (ष्कर्षे) योर्व्यापारो वाच्यवाचकरूपऽ शब्दार्थयोऽ सम्बन्ध इति ॥97॥
एवं च त्रैलक्षण्यपरित्यागेनाननुमानत्वं प्रसाध्य प्रयोगेण दर्शयति---तस्मादिति ।
शब्दो नानुमानं त्रैरूप्यरहितत्वात्
प्रत्यक्षवत् ।
तादृग्विषयवर्जनात् ।
तद्वदेव तादृक् ।
विषयवर्जनं च ऽसामान्यविषयत्वं हीऽत्यादिना वर्णितमेवेति ॥98॥
इदं च पदस्यानुमानाद् भेदप्रतिपादनं प्रौढिप्रदर्शनार्थमस्माभिऽ कृतम् ।
न तुपदं प्रमाणमित्याह--- सतीति ॥99॥
पदं प्रयुज्यमानं हि चतुर्धार्थे प्रयुज्यते ।
प्रत्यक्षे च परोक्षे च ज्ञाते ऽज्ञाते ऽपि वा पुरा

5.5.101

तत्र यत्पूर्वविज्ञाते प्रत्यक्षे च प्रयुज्यते ।
प्रमिते च प्रयुक्तत्वादनुवादो ऽधिकाद् विना

5.5.102

अदृष्टपूर्वे त्वज्ञानं सम्बन्धप्रत्ययो ऽपि वा ।
सम्बन्धो न च तस्यार्थो योर्ऽथऽ स त्वक्षगोचरऽ

5.5.103

परोक्षे ऽननुभूते च नाभिधेये मतिर्भवेत् ।
परोक्षश्चानुभूतश्च यस्तत्र स्मृतिरिष्यते

5.5.104

प्रमिते च प्रवृत्तत्वात् स्मृतेर्नास्ति प्रमाणता ।
परिच्छेदफलत्वाद्धि प्रामाण्यमुपजायते

5.5.105

यथा न प्रमाणं तथा दर्शयति--- पदमिति ।
तानेव चतुरऽ प्रकारानाह--- प्रत्यक्ष इति ॥100॥
एष्वर्थेषु प्रयुक्तस्य यथा न प्रामाण्यं तथाह--- तत्रेति ॥101॥
अदृष्टपूर्वे तु सम्प्रति प्रत्यक्षे ऽनुत्पत्तिलक्षममेवाप्रामाण्यमित्याह---अदृष्टपूर्वैति ।
सम्बन्धज्ञानमेव वा तदा जायत इत्याह--- सम्बन्धेति ।
न च सम्बन्ध एव पदस्य प्रमेय इति वाच्यम्, तस्यार्थापत्तिप्रमेयत्वादित्यभिप्रायेणाह--- सम्बन्ध इति ।
तदर्थस्तु प्रत्यक्षादवगत इत्याह--- योर्ऽथ इति ॥102॥
णननुभूतपूर्वे परोक्षे च ज्ञानानुत्पत्तिरेवेत्याह---परोक्षैति ।
अनुभूते तु परोक्षे स्मृतिरित्याह--- परोक्ष इति ॥103॥
ननु स्मृतिमेव जनयत् प्रमाणं भविष्यत्यत आह--- प्रमित इति ।
प्रमितविषया हि स्मृतिऽ, सन्निकृष्टार्थगोचरं च प्रमाणमिति स्थितिरिति ।
कथं पुनऽ प्रमितविषयं न प्रमाणमत आह--- परिच्छेदेति ।
परिच्छेदफलं हि प्रमाणम् ।
न च स्मृत्या किञ्चित् परिच्छिद्यते, पूर्वविज्ञानमात्रोपस्थापकत्वादिति ॥104॥
तादात्विकपरिच्छेदफलत्वेन प्रमाणता ।
प्रत्यभिज्ञानवत् कस्मात् स्मृते ऽपि न कल्प्यते

5.5.106

यावान् पूर्वपरिच्छिन्नस्तावानेवाधार्यते ।
स्मृत्या तदनुसारेण तदा सत्त्वे ऽस्य नैव धीऽ

5.5.107

पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ।
यदाधिक्यं भवेत् किञ्चित् तत्पदस्य न गोचरऽ

5.5.108

प्रमाणमनुमानं वा यद्यपि स्यात्पदान्मितिऽ ।
वाक्यार्थस्यागमार्थत्वाद् दोषो नागमवादिनाम्

5.5.109

अत्र चोदयति---तादात्विकेति ।
यद्यपि पूर्वमसावर्थो ऽवगतऽ, तथापि तदानीं सत्तां बोधयन्ती प्रत्यभिज्ञानवत् स्मृतिऽ प्रमाणं किमिति न भवतीति ॥105॥
परिहरति---यावानिति ।
उत्पद्यते स्मृतिरन्यदा, न तु प्रत्यभिज्ञानवत् तदनीं वस्तुऽ सत्तां निश्चाययति, पूर्वज्ञानानुसारित्वादिति ॥106॥
ननु पूर्वसंस्कारमात्रजा हि स्मृतिऽ, इदं तु प्रत्युत्पन्नकारणकं पदात् पदार्थज्ञानं ग्रहणमेव, कथं स्मृतिरुच्यते ।
अत आह---पदमिति ।
मा भूत् स्मरणं, ग्रहमपीदमनधिकविषयमेवाधिकप्रतिभासाभावात्, अतो न पदं स्मारकेभ्यऽ सदृशादृष्टादिभ्यो विशिष्यत इत्यप्रमाणमिति ।
ननु क्रियाकारकयोरन्यतरोच्चारणे ऽवश्यमन्यतरस्यान्यतरव्यतिषङ्गो बुद्धौ भवति ।
अतऽ कथमुच्यते नाधिक्यमवगतम्यत इत्यत आह--- यदाधिक्यमिति ।
पदान्तरस्यैवासौ प्रसादौ न पदस्यैकस्यैवेत्यर्थऽ ॥107॥
इदं चास्माभिऽ सौहृदमात्रेण शिष्येभ्यऽ कथ्यते न पदं प्रमाणमिति ।
न तु तत्प्रमाणत्वे वाक्यार्थो नागमार्थो भवति ।
तेन हि प्रमाणेनापि भवतावश्यं पदार्थे भवितव्यम् ।
अतऽ प्रमाणान्तरानधिगतमर्थ गमयद्वाक्यं प्रमाणमेव ।
एवमनुमानान्तर्गतत्वे ऽपि पदस्य न काचित् क्षतिऽ, वाक्यार्थस्याननुमेयत्वादित्याह्--- प्रमाणमिति ॥108॥
वाक्यार्थे तु पदार्थेभ्यऽ सम्बन्धानुभवादृते ।
बुद्धिरुत्पद्यते तेन भिन्नासावक्षबुद्धिवत्

5.5.110

वाक्याधिकरणे चास्य हेतोऽ सिद्धिर्भविष्यति ।
सर्वेषां च परोक्तानां वाक्याद् बुद्धावसिद्धता

5.5.111

आह वाक्यार्थज्ञानस्यैव कथमननुमानत्वं, तदप्यालोचितानुगमनमनुमानमेवात आह---वाक्यार्थैति ।
अगृहीतसम्बन्धा एव पदार्थाऽ वाक्यार्थं गमयन्ति ।
अतो न वाक्यार्थज्ञानमनुमानम् ।
एवञ्च दर्शयितव्यं वाक्यार्थबुद्धरनुमानाद् भिन्ना सम्बन्धनुभवादृते जायमानत्वाद् अक्षबुद्धिवदिति ॥109॥
कथं पुनरप्रतिबद्धमर्थान्तरस्य प्रतिपादकम्, एवं ह्यतिप्रसङ्गऽ ।
अतोसिद्धो हेतुरत आह---वाक्येति ।
ये च परैऽ पदार्थबुद्धेरनुमानादभेदहेतव उक्ताऽ, ते तावद् बहवो वाक्यार्थबुद्धावसिद्धा इत्याह--- सर्वेषामिति ।
वाक्यार्थबुद्धिर्हि न तावदन्वयव्यतिरेकजा ।
नाप सम्बन्धत्वात् ।
सामान्यविषयत्वमप्यसिद्धं विशिष्टविषयत्वात् ।
प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधने तूपमानादीनि प्रसाध्य नैकान्तिकीकार्ये ।
तददृष्टार्थबोधनं चानुमानाभासैरप्यनैकान्तिकम् ।
एवं त्रिकालविषयमप्यनुमानाभासेतत्राप्यसिद्धमेव ।
उक्तं हि शब्दशक्तिनिर्धारणे ऽतयोर्व्यापारो न बुद्धिजन्मनीऽति ।
सम्बन्धपूर्वकत्वं तु यद्यविशेषितं तत् प्रत्यक्षेणैवानैकान्तिकम्, तदपि हीन्द्रियार्थसम्बन्धपूर्वकमेव ।
अथानुमानाङ्गसम्बन्धपूर्वकत्वं, तदसिद्धम्, व्याप्तिर्हि तदङ्गम् ।
न च पदात् पदार्थज्ञाने व्याप्तिऽ कारणम् ।
सामान्यनिषयत्वं चाभासेनैवानैकान्तिकमेव प्रत्यक्षदर्शन(प्रभवत्व) प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधननानि तूपमानादिभिरपीति ॥110॥
यत एवैवं वाक्यार्थबुद्धऽ सहार्थैरदृष्टेष्वपि वाक्येषु पदार्थमात्रविदो जायते ।
अतो ऽस्याऽ स्फटतरमनुमानाद् भेदं पश्यन्तऽ सौगतास्ततो ऽवतीर्यागमस्यामानव्यतिरेकात् विभ्यतऽ पदाबेदविचारणायामेव क्लिष्टाऽ ।
एवं हि
वाक्येष्वदृष्टेष्वपि सार्थकेषु पदार्थविन्मात्रतया प्रतीतिम् ।
दृष्ट्वानुमानव्यतिरेकभीताऽ क्लिष्टाऽ पदाभेदविचारणायाम्

मूल पाठ: Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc