मत्स्य पुराण · अध्याय 99
शृणु नारद वक्ष्यामि विष्णोर्व्रतमनुत्तमम्
विभूतिद्वादशी नाम सर्वदेवनमस्कृतम् ॥
कार्त्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने
आषाढे वा दशम्यां तु शुक्लायां लघुभुङ्नरः
कृत्वा सायन्तनीं संध्यां गृह्णीयान्नियमं बुधः ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम्
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो ॥
तदविघ्नेन मे यातु सफलं स्याच्च केशव
नमो नारायणायेति वाच्यं च स्वपता निशि ॥
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः
पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ॥
विभूतये नमः पादाव् अशोकाय च जानुनी
नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम् ॥
कन्दर्पाय नमो मेढ्रम् आदित्याय नमः करौ
दामोदरायेत्युदरं वासुदेवाय च स्तनौ ॥
माधवायेत्युरो विष्णोः कण्ठम् उत्कण्ठिने नमः
श्रीधराय मुखं केशान् केशवायेति नारद ॥
पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै
स्वनाम्ना शङ्खचक्रासि गदाजलजपाणये
शिरः सर्वात्मने ब्रह्मन् नम इत्यभिपूजयेत् ॥
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः
उदकुम्भसमायुक्तम् अग्रतः स्थापयेद्बुधः ॥
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम्
रात्रौ जागरणं कुर्याद् इतिहासकथादिना ॥
प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने
सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ॥
यथा न मुच्यसे देव सदा सर्वविभूतिभिः
तथा मामुद्धराशेष दुःखसंसारकर्दमात् ॥
दशावताररूपाणि प्रतिमासं क्रमान्मुने
दत्तात्रेयं तथा व्यासम् उत्पलेन समन्वितम्
दद्यादेवं समा यावत् पाषण्डानभिवर्जयेत् ॥
समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः
संवत्सरान्ते लवण पर्वतेन समन्विताम्
शय्यां दद्यान्मुनिश्रेष्ठ गुरवे धेनुसंयुताम् ॥
ग्रामं च शक्तिमान्दद्यात् क्षेत्रं वा भवनान्वितम्
गुरुं सम्पूज्य विधिवद् वस्त्रालंकारभूषणैः ॥
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान्
तर्पयेद् वस्त्रगोदानै रत्नौघधनसंचयैः
अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् ॥
यश्चाप्यतीव निःस्वः स्याद् भक्तिमान्माधवं प्रति
पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम् ॥
अनेन विधिना यस्तु विभूतिद्वादशीव्रतम्
कुर्यात्पापविनिर्मुक्तः पितॄणां तारयेच्छतम् ॥
जन्मनां शतसाहस्रं न शोकफलभाग्भवेत्
न च व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम्
वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि ॥
यावद्युगसहस्राणां शतमष्टोत्तरं भवेत्
तावत्स्वर्गे वसेद्ब्रह्मन् भूपतिश्च पुनर्भवेत् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0