मत्स्य पुराण · अध्याय 98
अथान्यदपि वक्ष्यामि संक्रान्त्युद्यापने फलम्
यदक्षयं परे लोके सर्वकामफलप्रदम् ॥
अयने विषुवे वापि संक्रान्तिव्रतमाचरेत्
पूर्वेद्युरेकभक्तेन दन्तधावनपूर्वकम्
संक्रान्तिवासरे प्रातस् तिलैः स्नानं विधीयते ॥
रविसंक्रमणे भूमौ चन्दनेनाष्टपत्त्रकम्
पद्मं सकर्णिकं कुर्यात् तस्मिन्नावाहयेद्रविम् ॥
कर्णिकायां न्यसेत्सूर्यम् आदित्यं पूर्वतस्ततः
नम उष्णार्चिषे याम्ये नमो ऋङ्मण्डलाय च ॥
नमः सवित्रे नैरृत्ये वारुणे तपनं पुनः
वायव्ये तु भगं न्यस्य पुनः पुनरथार्चयेत् ॥
मार्तण्डमुत्तरे विष्णुम् ईशाने विन्यसेत्सदा
गन्धमाल्यफलैर्भक्ष्यैः स्थण्डिले पूजयेत्ततः ॥
द्विजाय सोदकुम्भं च घृतपात्रं हिरण्मयम्
कमलं च यथाशक्त्या कारयित्वा निवेदयेत् ॥
चन्दनोदकपुष्पैश्च देवायार्घ्यं न्यसेद्भुवि
विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे
नमो ऽनन्त नमो धात्रे ऋक्सामयजुषां पते ॥
अनेन विधिना सर्वं मासि मासि समाचरेत्
वत्सरान्ते ऽथवा कुर्यात् सर्वं द्वादशधा नरः ॥
संवत्सरान्ते घृतपायसेन संतर्प्य वह्निं द्विजपुंगवांश्च
कुम्भान्पुनर्द्वादश धेनुयुक्तान् सरत्नहैरण्मयपद्मयुक्तान् ॥
पयस्विनीः शीलवतीश्च दद्याद् धर्मैः शृङ्गैः रौप्यखुरैश्च युक्ताः
गावो ऽष्ट वा सप्त सकांस्यदोहा माल्याम्बरा वा चतुरो ऽप्यशक्तः
दौर्गत्ययुक्तः कपिलामथैकां निवेदयेद्ब्राह्मणपुंगवाय ॥
हैमीं च दद्यात्पृथिवीं सशेषाम् आकार्य रूप्यामथ वा च ताम्रीम्
पैष्टीमशक्तः प्रतिमां विधाय सौवर्णसूर्येण समं प्रदद्यात्
न वित्तशाठ्यं पुरुषो ऽत्र कुर्यात् कुर्वन्नधो याति न संशयो ऽत्र ॥
यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वा च सप्ताब्धियुतेह तिष्ठेत्
तावत्स गन्धर्वगणैर् अशेषैः सम्पूज्यते नारद नाकपृष्ठे ॥
ततस्तु कर्मक्षयमाप्य सप्त द्वीपाधिपः स्यात्कुलशीलयुक्तः
सृष्टेर्मुखे ऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः ॥
इति पठति शृणोति वाथ भक्त्या विधिमखिलं रविसंक्रमस्य पुण्यम्
मतिमपि च ददाति सो ऽपि देवैर् अमरपतेर्भवने प्रपूज्यते च ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0