भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 100

100.1

पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः
नाम्ना लोकेषु विख्यातस् तेजसा सूर्यसंनिभः ॥

100.2

तपसा तस्य तुष्टेन चतुर्वक्त्रेण नारद
कमलं काञ्चनं दत्तं यथाकामगमं मुने ॥

100.3

लोकैः समस्तैर् नगर वासिभिः सहितो नृपः
द्वीपानि सुरलोकं च यथेष्टं व्यचरत्तदा ॥

100.4

कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः
लोके च पूजितं यस्मात् पुष्करद्वीपमुच्यते ॥

100.5

देवेन ब्रह्मणा दत्तं यानमस्य यतो ऽम्बुजम्
पुष्पवाहनमित्याहुस् तस्मात्तं देवदानवाः ॥

100.6

नागम्यमस्यास्ति जगत्त्रये ऽपि ब्रह्माम्बुजस्थस्य तपो ऽनुभावात्
पत्नी च तस्याप्रतिमा मुनीन्द्र नारीसहस्रैरभितो ऽभिनन्द्या
नाम्ना च लावण्यवती बभूव सा पार्वतीवेष्टतमा भवस्य ॥

100.7

तस्यात्मजानामयुतं बभूव धर्मात्मनाम् अग्र्यधनुर्धराणाम्
तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुहुर् विस्मयमाससाद
सो ऽभ्यागतं वीक्ष्य मुनिप्रवीरं प्राचेतसं वाक्यमिदं बभाषे ॥

100.8

कस्माद्विभूतिर् अमलामरमर्त्यपूज्या जाता च सर्वविजितामरसुन्दरीणाम्
भार्या ममाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहं च मुनीन्द्र धात्रा ॥

100.9

यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुञ्जररथौघजनावृतानाम्
नो लक्ष्यते क्व गतमम्बरमध्य इन्दुस् तारागणैरिव गतः परितः स्फुरद्भिः ॥

100.10

तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषफलाप्तिहेतुः
भगवन्मयाथ तनयैर् अथवानयापि भद्रं यदेतदखिलं कथय प्रचेतः ॥

100.11

मुनिरभ्यधादथ भवान्तरितं समीक्ष्य पृथ्वीपतेः प्रसभमद्भुतहेतुवृत्तम्
जन्माभवत्तव तु लुब्धकुले ऽतिघोरे जातस्त्वमप्यनुदिनं किल पापकारी ॥

100.12

वपुरप्यभूत्तव पुनः पुरुषाङ्गसंधिर् दुर्गन्धिसत्त्वभुजगावरणं समन्तात्
न च ते सुहृन् न सुतबन्धुजनो न तातस् त्व् आदृक्स्वसा न जननी च तदाभिशस्ता ॥

100.13

अभिसंगता परमभीष्टतमा विमुखी महीश तव योषिदियम्
अभूदनावृष्टिरतीव रौद्रा कदाचिदाहारनिमित्तमस्मिन्
क्षुत्पीडितेनाथ तदा न किंचिद् आसादितं धान्यफलामिषाद्यम् ॥

100.14

अथाभिदृष्टं महदम्बुजाढ्यं सरोवरं पङ्कपरीतरोधः
पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिशनामधेयम् ॥

100.15

तन्मौल्यलाभाय पुरं समस्तं भ्रान्तं त्वयाशेषम् अहस् तदासीत्
क्रेता न कश्चित्कमलेषु जातः श्रान्तो भृशं क्षुत्परिपीडितश्च ॥

100.16

उपविष्टस्त्वमेकस्मिन् सभार्यो भवनाङ्गणे
अथ मङ्गलशब्दश्च त्वया रात्रौ महाञ्श्रुतः ॥

100.17

सभार्यस्तत्र गतवान् यत्रासौ मङ्गलध्वनिः
तत्र मण्डपमध्यस्था विष्णोरर्चावलोकिता ॥

100.18

वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम्
समाप्तौ माघमासस्य लवणाचलमुत्तमम् ॥

100.19

निवेदयन्ती गुरवे शय्यां चोपस्करान्विताम्
अलंकृत्य हृषीकेशं सौवर्णामरपादपम् ॥

100.20

तां तु दृष्ट्वा ततस्ताभ्याम् इदं च परिचिन्तितम्
किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः ॥

100.21

इति भक्तिस्तदा जाता दम्पत्योस्तु नराधिप
तत्प्रसङ्गात्समभ्यर्च्य केशवं लवणाचलम्
शय्या च पुष्पप्रकरैः पूजिता भूश्च सर्वतः ॥

100.22

अथानङ्गवती तुष्टा तयोर्धनशतत्रयम्
दीयतामादिदेशाथ कलधौतशतत्रयम् ॥

100.23

न गृहीतं ततस्ताभ्यां बहुसत्त्वावलम्बनात्
अनङ्गवत्या च पुनस् तयोरन्नं चतुर्विधम्
आनीय व्याहृतं चात्र भुज्यतामिति भूपते ॥

100.24

ताभ्यां तु तदपि त्यक्तं भोक्ष्यावो वै वरानने
प्रसङ्गादुपवासेन तवाद्य सुखमावयोः ॥

100.25

जन्मप्रभृति पापिष्ठौ कुकर्माणौ दृढव्रते
तत्प्रसङ्गात्तयोर्मध्ये धर्मलेशस्तु ते ऽनघ ॥

100.26

इति जागरणं ताभ्यां तत्प्रसङ्गादनुष्ठितम्
प्रभाते च तदा दत्ता शय्या सलवणाचला ॥

100.27

ग्रामाश्च गुरवे भक्त्या विप्रेषु द्वादशैव तु
वस्त्रालंकारसंयुक्ता गावश्च करकान्विताः ॥

100.28

भोजनं च सुहृन्मित्र दीनान्धकृपणैः समम्
तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम् ॥

100.29

स भवांल् लुब्धको जातः सपत्नीको नृपेश्वरः
पुष्करप्रकरात्तस्मात् केशवस्य न पूजनात् ॥

100.30

विनष्टाशेषपापस्य तव पुष्करमन्दिरम्
तस्य सत्त्वस्य माहात्म्याद् अल्पेन तपसा नृप ॥

100.31

यथाकामगमं जातं लोकनाथश्चतुर्मुखः
संतुष्टस्तव राजेन्द्र ब्रह्मरूपी जनार्दनः ॥

100.32

साप्यनङ्गवती वेश्या कामदेवस्य साम्प्रतम्
पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता
लोकेष्वानन्दजननी सकलामरपूजिता ॥

100.33

तस्मादुत्सृज्य राजेन्द्र पुष्करं तन्महीतले
गङ्गातटं समाश्रित्य विभूतिद्वादशीव्रतम्
कुरु राजेन्द्र निर्वाणम् अवश्यं समवाप्स्यसि ॥

100.34

इत्युक्त्वा स मुनिर् ब्रह्मंस् तत्रैवान्तरधीयत
राजा यथोक्तं च पुनर् अकरोत्पुष्पवाहनः ॥

100.35

इदमाचरतो ब्रह्मन्न् अखण्डव्रतम् आचरेत्
यथाकथंचित् कमलैर् द्वादश द्वादशीर् मुने ॥

100.36

कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणानघ
न वित्तशाठ्यं कुर्वीत भक्त्या तुष्यति केशवः ॥

100.37*

इति कलुषत्रिदारणं जनानामपि पठतीह शृणोति चाथ भक्त्या ।
मतिमपि च ददाति देवलोके वसति स कोटिशतानि वत्सराणाम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc