मत्स्य पुराण · अध्याय 89
अतः परं प्रवक्ष्यामि घृताचलमनुत्तमम्
तेजो ऽमृतमयं दिव्यं महापातकनाशनम् ॥
विंशत्या घृतकुम्भानाम् उत्तमः स्याद्घृताचलः
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः ॥
अल्पवित्तो ऽपि यः कुर्याद् द्वाभ्यामिह विधानतः
विष्कम्भपर्वतांस्तद्वच् चतुर्भागेण कल्पयेत् ॥
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत्
कारयेत्संहतानुच्चान् यथाशोभं विधानतः ॥
वेष्टयेच्छुक्लवासोभिर् इक्षुदण्डफलादिकैः
धान्यपर्वतवच्छेषं विधानमिह पठ्यते ॥
अधिवासनपूर्वं च तद्वद्धोमसुरार्चनम्
प्रभातायां तु शर्वर्यां गुरवे तं निवेदयेत्
विष्कम्भपर्वतांस्तद्वद् ऋत्विग्भ्यः शान्तमानसः ॥
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः
तस्माद्धृतार्चिर्विश्वात्मा प्रीयतामत्र शंकरः ॥
यस्मात्तेजोमयं ब्रह्म घृते तद्विद्ध्यवस्थितम्
घृतपर्वतरूपेण तस्मात्त्वं पाहि नो ऽनिशम् ॥
अनेन विधिना दद्याद् घृताचलमनुत्तमम्
महापातकयुक्तो ऽपि लोकमाप्नोति शांकरम् ॥
हंससारसयुक्तेन किङ्किणीजालमालिना
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर् वृतः
विहरेत्पितृभिः सार्धं यावदाभूतसंप्लवम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0