मत्स्य पुराण · अध्याय 90
अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम्
मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः ॥
मध्यमः पञ्चशतिकस् त्रिशतेनाधमः स्मृतः
चतुर्थांशेन विष्कम्भ पर्वताः स्युः समन्ततः ॥
पूर्वेण वज्रगोमेदैर् दक्षिणेनेन्द्रनीलकैः
पद्मरागयुतः कार्यो विद्वद्भिर्गन्धमादनः ॥
वैदूर्यविद्रुमैः पश्चात् सम्मिश्रो विमलाचलः
पद्मरागैः ससौवर्णैर् उत्तरेण च विन्यसेत् ॥
धान्यपर्वतवत्सर्वम् अत्रापि परिकल्पयेत्
तद्वदावाहनं कुर्याद् वृक्षान्देवांश्च काञ्चनान् ॥
पूजयेत्पुष्पगन्धाद्यैः प्रभाते च विमत्सरः
पूर्ववद्गुरुऋत्विग्भ्य इमान्मन्त्रानुदीरयेत् ॥
यदा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः
त्वं च रत्नमयो नित्यं नमस्ते ऽस्तु सदाचल ॥
यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः
सदा रत्नप्रदानेन तस्मान्नः पाहि पर्वत ॥
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम्
स याति विष्णुसालोक्यम् अमरेश्वरपूजितः ॥
यावत्कल्पशतं साग्रं वसेच्चेह नराधिप
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥
ब्रह्महत्यादिकं किंचिद् यदत्रामुत्र वा कृतम्
तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0