ग्रंथ पाठ
मत्स्य पुराण · अध्याय 88
88.1
अथातः सम्प्रवक्ष्यामि कार्पासाचलमुत्तमम्
यत्प्रदानान्नरो नित्यम् आप्नोति परमं पदम् ॥
88.2
कार्पासपर्वतस् तद्वद् विंशद्भारैर् इहोत्तमः
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः
भारेणाल्पधनो दद्याद् वित्तशाठ्यविवर्जितः ॥
88.3
धान्यपर्वतवत्सर्वम् आसाद्य मुनिपुंगव
प्रभातायां तु शर्वर्यां दद्यादिदमुदीरयेत् ॥
88.4
त्वमेवावरणं यस्माल् लोकानामिह सर्वदा
कार्पासाद्रे नमस्तुभ्यम् अघौघध्वंसनो भव ॥
88.5
इति कार्पासशैलेन्द्रं यो दद्याच्छर्वसंनिधौ
रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0