मत्स्य पुराण · अध्याय 70
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः
सदाचारस्य भगवन् धर्मशास्त्रविनिश्चयः
पण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः ॥
तस्मिन्नेव युगे ब्रह्मन् सहस्राणि तु षोडश
वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव ॥
ताभिर्वसन्तसमये कोकिलालिकुलाकुले
पुष्पिते पवनोत्फुल्ल कह्लारसरसस्तटे ॥
निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृतः
कुरङ्गनयनः श्रीमान् मालतीकृतशेखरः ॥
गच्छन्समीपमार्गेण साम्बः परपुरंजयः
साक्षात्कन्दर्पो रूपेण सर्वाभरणभूषितः ॥
अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः
प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि ॥
तदावेक्ष्य जगन्नाथः सर्वतो ज्ञानचक्षुषा
शापं वक्ष्यति ताः सर्वा वो हरिष्यन्ति दस्यवः
मत्परोक्षं यतः काम लौल्यादीदृग्विधं कृतम् ॥
ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत्
ताभिः शापाभितप्ताभिर् भगवान् भूतभावनः ॥
उत्तारभूतं दासत्वं समुद्राद्ब्राह्मणप्रियः
उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम् ॥
भवतीनाम् ऋषिर्दाल्भ्यो यद्व्रतं कथयिष्यति
तदैवोत्तारणायालं दासत्वे ऽपि भविष्यति
इत्युक्त्वा ताः परिष्वज्य गतो द्वारवतीश्वरः ॥
ततः कालेन महता भारावतरणे कृते
निवृत्ते मौसले तद्वत् केशवे दिवमागते ॥
शून्ये यदुकुले सर्वैश् चौरैरपि जिते ऽर्जुने
हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ ॥
तिष्ठन्तीषु च दौर्गत्य संतप्तासु चतुर्मुख
आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः ॥
तास्तमर्घ्येण सम्पूज्य प्रणिपत्य पुनः पुनः
लालप्यमाना बहुशो बाष्पपर्याकुलेक्षणाः ॥
स्मरन्त्यो विपुलान्भोगान् दिव्यमाल्यानुलेपनान्
भर्तारं जगतामीशम् अनन्तमपराजितम् ॥
दिव्यभावां तां च पुरीं नानारत्नगृहाणि च
द्वारकावासिनः सर्वान् देवरूपान्कुमारकान्
प्रश्नमेवं करिष्यन्ति मुनेरभिमुखं स्थिताः ॥
दस्युभिर्भगवान्सर्वाः परिभुक्ता वयं बलात्
स्वधर्माच्च्यवने ऽस्माकम् अस्मिन्नः शरणं भव ॥
आदिष्टो ऽसि पुरा ब्रह्मन् केशवेन च धीमता
कस्मादीशेन संयोगं प्राप्य वेश्यात्वमागताः ॥
वेश्यानामपि यो धर्मस् तं नो ब्रूहि तपोधन
कथयिष्यत्यतस्तासां स दाल्भ्यश्चैकितायनः ॥
जलक्रीडाविहारेषु पुरा सरसि मानसे
भवतीनां च सर्वासां नारदो ऽभ्याशमागतः ॥
हुताशनसुताः सर्वा भवन्त्यो ऽप्सरसः पुरा
अप्रणम्यावलेपेन परिपृष्टः स योगवित्
कथं नारायणो ऽस्माकं भर्ता स्याद् इत्युपादिश ॥
तस्माद्वरप्रदानं वः शापश्चायमभूत्पुरा
शय्याद्वयप्रदानेन मधुमाधवमासयोः ॥
सुवर्णोपस्करोत्सर्गाद् द्वादश्यां शुक्लपक्षतः
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि ॥
यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात्
परिपृष्टो ऽस्मि तेनाशु वियोगो वो भविष्यति
चौरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ ॥
एवं नारदशापेन केशवस्य च धीमतः
वेश्यात्वमागताः सर्वा भवन्त्यः काममोहिताः
इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराङ्गनाः ॥
पुरा देवासुरे युद्धे हतेषु शतशः सुरैः
दानवासुरदैत्येषु राक्षसेषु ततस्ततः ॥
तेषां व्रातसहस्राणि शतान्यपि च योषिताम्
परिणीतानि यानि स्युर् बलाद्भुक्तानि यानि वै
तानि सर्वाणि देवेशः प्रोवाच वदतां वरः ॥
वेश्याधर्मेण वर्तध्वम् अधुना नृपमन्दिरे
भक्तिमत्यो वरारोहास् तथा देवकुलेषु च ॥
राजानः स्वामिनस्तुल्याः सुता वापि च तत्समाः
भविष्यति च सौभाग्यं सर्वासामपि शक्तितः ॥
यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा
निधनेनोपचार्यो वः स तदान्यत्र दाम्भिकात् ॥
देवतानां पितॄणां च पुण्याहे समुपस्थिते
गोभूहिरण्यधान्यानि प्रदेयानि स्वशक्तितः
ब्राह्मणानां वरारोहाः कार्याणि वचनानि च ॥
यच्चाप्यन्यद्व्रतं सम्यग् उपदेक्ष्याम्यहं ततः
अविचारेण सर्वाभिर् अनुष्ठेयं च तत्पुनः ॥
संसारोत्तारणायालम् एतद्वेदविदो विदुः
यदा सूर्यदिने हस्तः पुष्यो याथ पुनर्वसुः ॥
भवेत्सर्वौषधीस्नानं सम्यङ्नारी समाचरेत्
तदा पञ्चशरस्यापि संनिधातृत्वमेष्यति
अर्चयेत्पुण्डरीकाक्षम् अनङ्गस्यानुकीर्तनैः ॥
कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे
मेढ्रं कन्दर्पनिधये कीटं प्रीतिमते नमः ॥
नाभिं सौख्यसमुद्राय वामाय च तथोदरम्
हृदयं हृदयेशाय स्तनावाह्लादकारिणे ॥
उत्कण्ठायेति वैकुण्ठम् आस्यमानन्दकारिणे
वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम् ॥
मानसायेति वै मौलिं विलोलायेति मूर्धजम्
सर्वात्मने च सर्वाङ्गं देवदेवस्य पूजयेत् ॥
नमः शिवाय शान्ताय पाशाङ्कुशधराय च
गदिने पीतवस्त्राय शङ्खचक्रधराय च ॥
नमो नारायणायेति कामदेवात्मने नमः
सर्वशान्त्यै नमः प्रीत्यै नमो रत्यै नम श्रियै ॥
नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे
एवं सम्पूज्य देवेशम् अनङ्गात्मकमीश्वरम्
गन्धैर्मौल्यैस्तथा धूपैर् नैवेद्येन च कामिनी ॥
तत आहूय धर्मज्ञं ब्रह्माणं वेदपारगम्
अव्यङ्गावयवं पूज्य गन्धपुष्पार्चनादिभिः ॥
शालेयतण्डुलप्रस्थं घृतपात्रेण संयुतम्
तस्मै विप्राय सा दद्यान् माधवः प्रीयतामिति ॥
यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम्
रत्यर्थं कामदेवो ऽयम् इति चित्ते ऽवधार्य तम् ॥
यद्यदिच्छति विप्रेन्द्रस् तत्तत्कुर्याद्विलासिनी
सर्वभावेन चात्मानम् अर्पयेत्स्मितभाषिणी ॥
एवमादित्यवारेण सर्वमेतत्समाचरेत्
तण्डुलप्रस्थदानं च यावन्मासास्त्रयोदश ॥
ततस्त्रयोदशे मासि सम्प्राप्ते तस्य भामिनी
विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम् ॥
सोपधानकविश्रामां सास्तरावरणां शुभाम्
प्रदीपोपानहच्छत्त्र पादुकासनसंयुताम् ॥
सपत्नीकमलंकृत्य हेमसूत्राङ्गुलीयकैः
सूक्ष्मवस्त्रैः सकटकैर् धूपमाल्यानुलेपनैः ॥
कामदेवं सपत्नीकं गुडकुम्भोपरि स्थितम्
ताम्रपात्रासनगतं हैमनेत्रपटावृतम् ॥
सकांस्यभाजनोपेतम् इक्षुदण्डसमन्वितम्
दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम् ॥
यथान्तरं न पश्यामि कामकेशवयोः सदा
तथैव सर्वकामाप्तिर् अस्तु विष्णो सदा मम ॥
यथा न कमला देहात् प्रयाति तव केशव
तथा ममापि देवेश शरीरे स्वे कुरु प्रभो ॥
तथा च काञ्चनं देवं प्रतिगृह्णन्द्विजोत्तमः
क इदं कस्मा अदादिति वैदिकं मन्त्रमीरयेत् ॥
ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजपुंगवम्
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत् ॥
ततः प्रभृति यो विप्रो रत्यर्थं गृहमागतः
स मान्यः सूर्यवारे च स मन्तव्यो भवेत्तदा ॥
एवं त्रयोदशं यावन् मासमेवं द्विजोत्तमान्
तर्पयेत यथाकामं प्रोषिते ऽन्यं समाचरेत् ॥
तदनुज्ञया रूपवान्यो यावदभ्यागतो भवेत्
आत्मनो ऽपि यथाविघ्नं गर्भभूतिकरं प्रियम् ॥
दैवं वा मानुषं वा स्याद् अनुरागेण वा ततः
साचारानष्टपञ्चाशद् यथाशक्त्या समाचरेत् ॥
एतद्धि कथितं सम्यग् भवतीनां विशेषतः
अधर्मो ऽयं ततो न स्याद् वेश्यानामिह सर्वदा ॥
पुरुहूतेन यत्प्रोक्तं दानवीषु पुरा मया
तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते ॥
सर्वपापप्रशमनम् अनन्तफलदायकम्
कल्याणीनां च कथितं तत्कुरुध्वं वराननाः ॥
करोति याशेषमखण्डमेतत् कल्याणिनी माधवलोकसंस्था
सा पूजिता देवगणैर् अशेषैर् आनन्दकृत्स्थानम् उपैति विष्णोः ॥
तपोधनः सो ऽप्यभिधाय चैवं तदा च तासां व्रतमङ्गनानाम्
स्वस्थानमेष्यत्यनु ताः समस्तं व्रतं करिष्यन्ति च देवयानैः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0