मत्स्य पुराण · अध्याय 69
पुरा रथंतरे कल्पे परिपृष्टो महात्मना
मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम् ॥
कथमारोग्यमैश्वर्यम् अनन्तममरेश्वर
स्वल्पेन तपसा देव भवेन्मोक्षो ऽथवा नृणाम् ॥
किमज्ञातं महादेव त्वत्प्रसादादधोक्षज
स्वल्पकेनाथ तपसा महत्फलमिहोच्यताम् ॥
एवं पृष्टः स विश्वात्मा ब्रह्मणा लोकभावनः
उमापतिरुवाचेदं मनसः प्रीतिकारकम् ॥
अस्माद्रथंतरात्कल्पात् त्रयोविंशात् पुनर्यदा
वाराहो भविता कल्पस् तस्य मन्वन्तरे शुभे ॥
वैवस्वताख्ये संजाते सप्तमे सप्तलोककृत्
द्वापराख्यं युगं तद्वद् अष्टाविंशतिमं जगुः ॥
तस्यान्ते स महादेवो वासुदेवो जनार्दनः
भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति ॥
द्वैपायन ऋषिस्तद्वद् रौहिणेयो ऽथ केशवः
कंसादिदर्पमथनः केशवः क्लेशनाशनः ॥
पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली
दिव्यानुभावसंयुक्ताम् अधिवासाय शार्ङ्गिणः
त्वष्टा ममाज्ञया तद्वत् करिष्यति जगत्पतेः ॥
तस्यां कदाचिदासीनः सभायाममितद्युतिः
भार्याभिर्वृष्णिभिश्चैव भूभृद्भिर् भूरिदक्षिणैः ॥
कुरुभिर्देवगन्धर्वैर् अभितः कैटभार्दनः
प्रवृत्तासु पुराणीषु धर्मसम्बन्धिनीषु च ॥
कथान्ते भीमसेनेन परिपृष्टः प्रतापवान्
त्वया पृष्टस्य धर्मस्य रहस्यस्यास्य भेदकृत् ॥
भविता स तदा ब्रह्मन् कर्ता चैव वृकोदरः
प्रवर्तको ऽस्य धर्मस्य पाण्डुपुत्रो महाबलः ॥
यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः
मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः ॥
मतिमान्मानशीलश्च नागायुतबलो महान्
भविष्यत्यजरः श्रीमान् कन्दर्प इव रूपवान् ॥
धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे
इदं व्रतमशेषाणां व्रतानामधिकं यतः ॥
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः
अशेषयज्ञफलदम् अशेषाघविनाशनम् ॥
अशेषदुष्टशमनम् अशेषसुरपूजितम्
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्
भविष्यं च भविष्याणां पुराणानां पुरातनम् ॥
यद्यष्टमीचतुर्दश्योर् द्वादशीष्वथ भारत
अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वम् उपोषितुम् ॥
ततः पुण्यां तिथिमिमां सर्वपापप्रणाशिनीम्
उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥
माघमासस्य दशमी यदा शुक्ला भवेत्तदा
घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् ॥
तथैव विष्णुमभ्यर्च्य नभो नारायणेति च
कृष्णाय पादौ सम्पूज्य शिरः सर्वात्मने नमः ॥
वैकुण्ठायेति वैकुण्ठम् उरः श्रीवत्सधारिणे
शङ्खिने चक्रिणे तद्वद् गदिने वरदाय वै
सर्वे नारायणस्यैवं संपूज्या बाहवः क्रमात् ॥
दामोदरायेत्युदरं मेढ्रं पञ्चशराय वै
ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे ॥
नमो नीलाय वै जङ्घे पादौ विश्वसृजे नमः
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै ॥
नमः पुष्ट्यै नमस्तुष्ट्यै धृष्ट्यै हृष्ट्यै नमो नमः
नमो विहंगनाथाय वायुवेगाय पक्षिणे
विषप्रमाथिने नित्यं गरुडं चाभिपूजयेत् ॥
एवं सम्पूज्य गोविन्दम् उमापतिविनायकौ
गन्धैर्माल्यैस्तथा धूपैर् भक्ष्यैर्नानाविधैरपि ॥
गव्येन पयसा सिद्धां कृसरामथ वाग्यतः
सर्पिषा सह भुक्त्वा च गत्वा शतपदं बुधः ॥
नैयग्रोधं दन्तकाष्ठम् अथवा खादिरं बुधः
गृहीत्वा धावयेद्दन्तान् आचान्तः प्रागुदङ्मुखः ॥
ब्रूयात् सायन्तनीं कृत्वा संध्यामस्तमिते रवौ
नमो नारायणायेति त्वामहं शरणं गतः ॥
एकादश्यां निराहारः समभ्यर्च्य च केशवम्
रात्रिं च सकलां स्थित्वा स्नानं च पयसा तथा ॥
सर्पिषा चापि दहनं हुत्वा ब्राह्मणपुंगवैः
सहैव पुण्डरीकाक्ष द्वादश्यां क्षीरभोजनम् ॥
करिष्यामि यतात्माहं निर्विघ्नेनास्तु तच्च मे
एवमुक्त्वा स्वपेद्भूमाव् इतिहासकथां पुनः ॥
श्रुत्वा प्रभाते संजाते नदीं गत्वा विशां पते
स्नानं कृत्वा मृदा तद्वत् पाषण्डान् अभिवर्जयेत् ॥
उपास्य संध्यां विधिवत् कृत्वा च पितृतर्पणम्
प्रणम्य च हृषीकेशं सप्तलोकैकमीश्वरम् ॥
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः
दशहस्तमथाष्टौ वा करान्कुर्याद्विशां पते ॥
चतुर्हस्तां शुभां कुर्याद् वेदीमरिनिषूदन
चतुर्हस्तप्रमाणं च विन्यसेत्तत्र तोरणम् ॥
आरोप्य कलशं तत्र दिक्पालान्पूजयेत्ततः
छिद्रेण जलसम्पूर्णम् अथ कृष्णाजिनस्थितः
तस्य धारां च शिरसा धारयेत्सकलां निशाम् ॥
तथैव विष्णोः शिरसि क्षीरधारां प्रपातयेत्
अरत्निमात्रं कुण्डं च कुर्यात्तत्र त्रिमेखलम् ॥
योनिवक्त्रं च तत्कृत्वा ब्राह्मणैः यवसर्पिषी
तिलांश्च विष्णुदेवत्यैर् मन्त्रैरेकाग्निवत्तदा ॥
हुत्वा च वैष्णवं सम्यक् चरुं गोक्षीरसंयुतम्
निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत् ॥
जलकुम्भान्महावीर्य स्थापयित्वा त्रयोदश
भक्ष्यैर्नानाविधैर्युक्तान् सितवस्त्रैरलंकृतान् ॥
युक्तानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितान्
चतुर्भिर्बह्वृचैर्होमस् तत्र कार्य उदङ्मुखैः ॥
रुद्रजापश्चतुर्भिश्च यजुर्वेदपरायणैः
वैष्णवानि तु सामानि चतुरः सामवेदिनः
अरिष्टवर्गसहितान्य् अभितः परिपाठयेत् ॥
एवं द्वादश तान्विप्रान् वस्त्रमाल्यानुलेपनैः
पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः ॥
वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः
एवं क्षपातिवाह्या च गीतमङ्गलनिःस्वनैः ॥
उपाध्यायस्य च पुनर् द्विगुणं सर्वमेव तु
ततः प्रभाते विमले समुत्थाय त्रयोदश ॥
गा वै दद्यात्कुरुश्रेष्ठ सौवर्णमुखसंयुताः
पयस्विनीः शीलवतीः कांस्यदोहसमन्विताः ॥
रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः
तास्तु तेषां ततो भक्त्या भक्ष्यभोज्यान्नतर्पितान् ॥
कृत्वा वै ब्राह्मणान् सर्वान् अन्नैर्नानाविधैस्तथा
भुक्त्वा चाक्षारलवणम् आत्मना च विसर्जयेत् ॥
अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः ॥
शिवस्य हृदये विष्णुर् विष्णोश्च हृदये शिवः
यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः ॥
एवमुच्चार्य तान्कुम्भान् गाश्चैव शयनानि च
वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः ॥
अभावे बहुशय्यानाम् एकामपि सुसंस्कृताम्
शय्यां दद्याद्द्विजातेश्च सर्वोपस्करसंयुताम् ॥
इतिहासपुराणानि वाचयित्वातिवाहयेत्
तद्दिनं नरशार्दूल य इच्छेद्विपुलां श्रियम् ॥
तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन विमत्सरः
कुरु व्रतमिदं सम्यक् स्नेहात्तव मयेरितम् ॥
त्वया कृतमिदं वीर त्वन्नामाख्यं भविष्यति
सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा
या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते ॥
त्वमादिकर्ता भव सौकरे ऽस्मिन् कल्पे महावीरवरप्रधान
यस्याः स्मरन्कीर्तनमप्यशेषं विनष्टपापस्त्रिदशाधिपः स्यात् ॥
कृत्वा च यामप्सरसाम् अधीशा वेश्या कृता ह्यन्यभवान्तरेषु
आभीरकन्यातिकुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे ॥
जाताथवा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी
तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा ॥
स्नातः पुरा मण्डलमेष तद्वत् तेजोमयं वेदशरीरमाप
अस्यां च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः ॥
इदमेव कृतं महेन्द्रमुख्यैर् वसुभिर्देवसुरारिभिस्तथा तु
फलमस्य न शक्यते ऽभिवक्तुं यदि जिह्वायुतकोटयो मुखे स्युः ॥
कलिकलुषविदारिणीमनन्ताम् इति कथयिष्यति यादवेन्द्रसूनुः
अपि नरकगतान्पितॄन् अशेषान् अलमुद्धर्तुमिहैव यः करोति ॥
य इदमघविदारणं शृणोति भक्त्या परिपठतीह परोपकारहेतोः
तिथिमिह सकलार्थभाङ्नरेन्द्रस् तव चतुरानन साम्यतामुपैति ॥
कल्याणिनी नाम पुरा बभूव या द्वादशी माघदिनेषु पूज्या
सा पाण्डुपुत्रेण कृता भविष्यत्य् अनन्तपुण्यानघ भीमपूर्वा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0