मत्स्य पुराण · अध्याय 71
मोहाद्वापि मदाद्वापि यः परस्त्रीं समाश्रयेत्
तस्यापि निष्कृतिं देव वद सर्वकृपाकर ॥
भगवन्पुरुषस्येह स्त्रियाश्च विरहादिकम्
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद ॥
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः
क्षीरार्णवे सपत्नीकः सदा वसति केशवः ॥
तस्यां सम्पूज्य गोविन्दं सर्वान्कामान्समश्नुते
गोभूहिरण्यदानादि सप्तकल्पशतानुगम् ॥
अशून्यशयनं नाम द्वितीया संप्रकीर्तिता
तस्यां सम्पूजयेद्विष्णुम् एभिर्मन्त्रैर्विधानतः ॥
श्रीवत्सधारिञ्छ्रीकान्त श्रीधामञ्छ्रीपते ऽव्यय
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ॥
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम
पितरो मा प्रणश्यन्तु मास्तु दाम्पत्यभेदनम् ॥
लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान्
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम् ॥
लक्ष्म्या न शून्यो वरद शय्यां त्वं शयनं गतः
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥
गीतवादित्रनिर्घोषं देवदेवस्य कीर्तयेत्
घण्टा भवेदशक्तस्य सर्ववाद्यमयी यतः ॥
एवं सम्पूज्य गोविन्दम् अश्नीयात्तैलवर्जितम्
नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयम् ॥
ततः प्रभाते संजाते लक्ष्मीपतिसमन्विताम्
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम् ॥
पादुकोपानहच्छत्त्र चामरासनसंयुताम्
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम् ॥
सोपधानकविश्रामां फलैर्नानाविधैर्युताम्
तथाभरणधान्यैश्च यथाशक्त्या समन्विताम् ॥
अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने
दातव्या वेदविदुषे भावेनापतिताय च ॥
तत्रोपविश्य दाम्पत्यम् अलंकृत्य विधानतः
पत्न्यास्तु भाजनं दद्याद् भक्ष्यभोज्यसमन्वितम् ॥
ब्राह्मणस्यापि सौवर्णीम् उपस्करसमन्विताम्
प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत् ॥
एवं यस्तु पुमान्कुर्याद् अशून्यशयनं हरेः
वित्तशाठ्येन रहितो नारायणपरायणः ॥
न तस्य पत्न्या विरहः कदाचिदपि जायते
नारी वा विधवा ब्रह्मन् यावच्चन्द्रार्कतारकम्
न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित् ॥
न पुत्रपशुरत्नानि क्षयं यान्ति पितामह
सप्त कल्पसहस्राणि सप्त कल्पशतानि च
कुर्वन्नशून्यशयनं विष्णुलोके महीयते ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0