मत्स्य पुराण · अध्याय 7
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः
देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम् ॥
पुरा देवासुरे युद्धे हृतेषु हरिणा सुरैः
पुत्रपौत्रेषु शोकार्ता गत्वा भूलोकमुत्तमम् ॥
स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे
भर्तुर् आराधनपरा तप उग्रं चचार ह ॥
तदा दितिर् दैत्यमाता ऋषिरूपेण सुव्रता
फलाहारा तपस् तेपे कृच्छ्रं चान्द्रायणादिकम् ॥
यावद्वर्षशतं साग्रं जराशोकसमाकुला
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत ॥
कथयन्तु भवन्तो मे पुत्रशोकविनाशनम्
व्रतं सौभाग्यफलदम् इहलोके परत्र च ॥
ऊचुर् वसिष्ठप्रमुखा मदनद्वादशीव्रतम्
यस्याः प्रभावादभवत् सुतशोकविवर्जिता ॥
श्रोतुमिच्छामहे सूत मदनद्वादशीव्रतम्
सुतानेकोनपञ्चाशद् येन लेभे दितिः पुनः ॥
यद्वसिष्ठादिभिः पूर्वं दितेः कथितमुत्तमम्
विस्तरेण तदेवेदं मत्सकाशान्निबोधत ॥
चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः
स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम् ॥
नानाफलयुतं तद्वद् इक्षुदण्डसमन्वितम्
सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम् ॥
नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥
तस्मादुपरि कामं तु कदलीदलसंस्थितम्
कुर्याच्छर्करयोपेतां रतिं तस्य च वामतः ॥
गन्धं धूपं ततो दद्याद् गीतं वाद्यं च कारयेत्
तदभावे कथां कुर्यात् कामकेशवयोर्नरः ॥
कामनाम्ना हरेरर्चां स्नापयेद्गन्धवारिणा
शुक्लपुष्पाक्षततिलैर् अर्चयेन्मधुसूदनम् ॥
कामाय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च
ऊरू स्मरायेति पुनर् मन्मथायेति वै कटिम् ॥
स्वच्छोदरायेत्युदरम् अनङ्गायेत्युरो हरेः
मुखं पद्ममुखायेति बाहू पञ्चशराय वै ॥
नमः सर्वात्मने मौलिम् अर्चयेदिति केशवम्
ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥
ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते
भुक्त्या तु दक्षिणां दद्याद् इमं मन्त्रमुदीरयेत् ॥
प्रीयताम् अत्र भगवान् कामरूपी जनार्दनः
हृदये सर्वभूतानां य आनन्दो ऽभिधीयते ॥
अनेन विधिना सर्वं मासि मासि व्रतं चरेत्
उपवासी त्रयोदश्याम् अर्चयेद्विष्णुमव्ययम् ॥
फलमेकं च संप्राश्य द्वादश्यां भूतले स्वपेत्
ततस्त्रयोदशे मासि धृतधेनुसमन्विताम् ॥
शय्यां दद्यादनङ्गाय सर्वोपस्करसंयुताम्
काञ्चनं कामदेवं च शुक्लां गां च पयस्विनीम् ॥
वासोभिर् द्विजदाम्पत्यं पूज्यं शक्त्या विभूषणैः
शय्यागन्धादिकं दद्यात् प्रीयताम् इत्युदीरयेत् ॥
होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत्
गव्येन हविषा तद्वत् पायसेन च धर्मवित् ॥
विप्रेभ्यो भोजनं दद्याद् वित्तशाठ्यं विवर्जयेत्
इक्षुदण्डानथो दद्यात् पुष्पमालाश् च शक्तितः ॥
यः कुर्याद् विधिनानेन मदनद्वादशीमिमाम्
स सर्वपापनिर्मुक्तः प्राप्नोति हरिसाम्यताम् ॥
इहलोके वरान् पुत्रान् सौभाग्यफलम् अश्नुते
यः स्मरः संस्मृतो विष्णुर् आनन्दात्मा महेश्वरः ॥
सुखार्थी कामरूपेण स्मरेदङ्गजमीश्वरम्
एतच्छ्रुत्वा चकारासौ दितिः सर्वमशेषतः ॥
कश्यपो व्रतमाहात्म्याद् आगत्य परया मुदा
चकार कर्कशां भूयो रूपयौवनशालिनीम् ॥
वरैर् आछन्दयामास सा तु वव्रे ततो वरम्
पुत्रं शक्रवधार्थाय समर्थममितौजसम् ॥
वरयामि महात्मानं सर्वामरनिषूदनम्
उवाच कश्यपो वाक्यम् इन्द्रहन्तारम् ऊर्जितम् ॥
प्रदास्याम्यहमेवेह किं त्व् एतत् क्रियतां शुभे
आपस्तम्बः करोत्विष्टिं पुत्रीयामद्य सुव्रते ॥
विधास्यामि ततो गर्भम् इन्द्रशत्रुनिषूदनम्
आपस्तम्बस्ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम् ॥
इन्द्रशत्रुर् भवस्वेति जुहाव च सविस्तरम्
देवा मुमुदिरे दैत्या विमुखाः स्युश्च दानवाः ॥
दित्यां गर्भम् अथाधत्त कश्यपः प्राह तां पुनः
त्वया यत्नो विधातव्यो ह्य् अस्मिन्गर्भे वरानने ॥
संवत्सरशतं त्व् एकम् अस्मिन्न् एव तपोवने
संख्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ॥
न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा
नोपस्करेषूपविशेन् मुसलोलूखलादिषु ॥
जले च नावगाहेत शून्यागारं च वर्जयेत्
वल्मीकायां न तिष्ठेत न चोद्विग्नमना भवेत् ॥
विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना
न शयालुः सदा तिष्ठेद् व्यायामं च विवर्जयेत् ॥
न तुषाङ्गारभस्मास्थि कपालेषु समाविशेत्
वर्जयेत्कलहं लोकैर् गात्रभङ्गं तथैव च ॥
न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन
न शयीतोत्तरशिरा न चापरशिराः क्वचित् ॥
न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती
नामङ्गल्यां वदेद्वाचं न च हास्याधिका भवेत् ॥
कुर्यात्तु गुरुशुश्रूषां नित्यं माङ्गल्यतत्परा
सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ॥
कृतरक्षा सुभूषा च वास्तुपूजनतत्परा
तिष्ठेत्प्रसन्नवदना भर्तुः प्रियहिते रता ॥
दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत्
इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ॥
यस्तु तस्या भवेत्पुत्रः शीलायुर्वृद्धिसंयुतः
अन्यथा गर्भपतनम् अवाप्नोति न संशयः ॥
तस्मात्त्वमनया वृत्त्या गर्भे ऽस्मिन्यत्नमाचर
स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः ॥
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत
ततः सा कश्यपोक्तेन विधिना समतिष्ठत ॥
अथ भीतस्तथेन्द्रो ऽपि दितेः पार्श्वमुपागमत्
विहाय देवसदनं तच्छुश्रूषुरवस्थितः ॥
दितेश्छिद्रान्तरप्रेप्सुर् अभवत्पाकशासनः
विनीतो ऽभवद् अव्यग्रः प्रशान्तवदनो बहिः ॥
अजानन्किल तत्कार्यम् आत्मनः शुभमाचरन्
ततो वर्षशतान्ते सा न्यूने तु दिवसैस् त्रिभिः ॥
मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा
अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा ॥
निद्राभरसमाक्रान्ता दिवापरशिराः क्वचित्
ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः ॥
वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः
ततः सप्तैव ते जाताः कुमाराः सूर्यवर्चसः ॥
रुदन्तः सप्त ते बाला निषिद्धा गिरिदारिणा
भूयो ऽपि रुदतश्चैतान् एकैकं सप्तधा हरिः ॥
चिछेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः
एवमेकोनपञ्चाशद् भूत्वा ते रुरुदुर्भृशम् ॥
इन्द्रो निवारयामास मां रोदिष्ट पुनः पुनः
ततः स चिन्तयामास किमेतदिति वृत्रहा ॥
धर्मस्य कस्य माहात्म्यात् पुनः संजीवितास्त्वमी
विदित्वा ध्यानयोगेन मदनद्वादशीफलम् ॥
नूनम् एतत् परिणतम् अधुना कृष्णपूजनात्
वज्रेणापि हताः सन्तो न विनाशम् अवाप्नुयुः ॥
एको ऽप्यनेकतामाप यस्मादुदरगो ऽप्यलम्
अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति ॥
यस्मान्मा रुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः
मरुतो नाम ते नाम्ना भवन्तु मखभागिनः ॥
ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः
अर्थशास्त्रं समास्थाय मयैतद् दुष्कृतं कृतम् ॥
कृत्वा मरुद्गणं देवैः समानममराधिपः
दितिं विमानमारोप्य ससुतामनयद्दिवम् ॥
यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः
न जग्मुरैक्यमसुरैर् अतस्ते सुरवल्लभाः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0