भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 6

6.1

कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकान्
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा ॥

6.2

सुरभिर् विनता तद्वत् ताम्रा क्रोधवशा इरा
कद्रूर्विश्वा मुनिस् तद्वत् तासां पुत्रान् निबोधत ॥

6.3

तुषिता नाम ये देवाश् चाक्षुषस्यान्तरे मनोः
वैवस्वते ऽन्तरे चैते आदित्या द्वादश स्मृताः ॥

6.4

इन्द्रो धाता भगस् त्वष्टा मित्रो ऽथ वरुणो यमः
विवस्वान्सविता पूषा अंशुमान् विष्णुर् एव च ॥

6.5

एते सहस्रकिरणा आदित्या द्वादश स्मृताः
मारीचात्कश्यपादाप पुत्रानदितिरुत्तमान् ॥

6.6

भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः
एते देवगणा विप्राः प्रतिमन्वन्तरेषु च ॥

6.7

उत्पद्यन्ते प्रलीयन्ते कल्पे कल्पे तथैव च
दितिः पुत्रद्वयं लेभे कश्यपाद् इति नः श्रुतम् ॥

6.8

हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च
हिरण्यकशिपोस्तद्वज् जातं पुत्रचतुष्टयम् ॥

6.9

प्रह्लादश् चानुह्लादश्च संह्लादो ह्लाद एव च
प्रह्लादपुत्र आयुष्मान् शिबिर् बाष्कल एव च ॥

6.10

विरोचनश् चतुर्थश्च स बलिं पुत्रमाप्तवान्
बलेः पुत्रशतं त्व् आसीद् बाणज्येष्ठं ततो द्विजाः ॥

6.11

धृतराष्ट्रस् तथा सूर्यश् चन्द्रश्चन्द्रांशुतापनः
निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः ॥

6.12

एवमाद्यास् तु बहवो बाणज्येष्ठा गुणाधिकाः
बाणः सहस्रबाहुश् च सर्वास्त्रगणसंयुतः ॥

6.13

तपसा तोषितो यस्य पुरे वसति शूलभृत्
महाकालत्वम् अगमत् साम्यं यश्च पिनाकिनः ॥

6.14

हिरण्याक्षस्य पुत्रो ऽभूद् उलूकः शकुनिस्तथा
भूतसंतापनश् चैव महानाभस्तथैव च ॥

6.15

एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः
महाबला महाकाया नानारूपा महौजसः ॥

6.16

दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम्
विप्रचित्तिः प्रधानो ऽभूद् येषां मध्ये महाबलः ॥

6.17

द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरोधरः
अयोमुखः शम्बरश् च कपिशो नामतस्तथा ॥

6.18

मारीचिर् मेघवांश्चैव इरा गर्भशिरास् तथा
विद्रावणश्च केतुश्च केतुवीर्यः शतह्रदः ॥

6.19

इन्द्रजित् सप्तजिच्चैव वज्रनाभस्तथैव च
एकचक्रो महाबाहुर् वज्राक्षस् तारकस् तथा ॥

6.20

असिलोमा पुलोमा च बिन्दुर्बाणो महासुरः
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः ॥

6.21

स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा
उपदानवी मयस्यासीत् तथा मन्दोदरी कुहूः ॥

6.22

शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः
पुलोमा कालका चैव वैश्वानरसुते हि ते ॥

6.23

बह्वपत्ये महासत्त्वे मारीचस्य परिग्रहे
तयोः षष्टिसहस्राणि दानवानामभूत्पुरा ॥

6.24

पौलोमान्कालकेयांश्च मारीचो ऽजनयत्पुरा
अवध्या ये ऽमराणां वै हिरण्यपुरवासिनः ॥

6.25

चतुर्मुखाल्लब्धवरास् ते हता विजयेन तु
विप्रचित्तिः सैंहिकेयान् सिंहिकायाम् अजीजनत् ॥

6.26

हिरण्यकशिपोर्ये वै भागिनेयास् त्रयोदश
व्यंसः कल्पश्च राजेन्द्र नलो वातापिरेव च ॥

6.27

इल्वलो नमुचिश्चैव श्वसृपश् चाजनस् तथा
नरकः कालनाभश्च सरमाणस् तथैव च ॥

6.28

कालवीयेश् च विख्यातो दनुवंशविवर्धनाः
संह्रादस्य तु दैत्यस्य निवातकवचाः स्मृताः ॥

6.29

अवध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम्
ये हता भर्गम् आश्रित्य त्व् अर्जुनेन रणाजिरे ॥

6.30

षट्कन्या जनयामास ताम्रा मारीचबीजतः
शुकी श्येनी च भासी च सुग्रीवी गृध्रिका शुचिः ॥

6.31

शुकी शुकानुलूकांश्च जनयामास धर्मतः
श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत् ॥

6.32

गृध्री गृध्रान्कपोतांश्च पारावतविहंगमान्
हंससारसक्रौञ्चांश् च प्लवाञ्छुचिरजीजनत् ॥

6.33

अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत्
एष ताम्रान्वयः प्रोक्तो विनतायां निबोधत ॥

6.34

गरुडः पततां नाथः अरुणश्च पतत्रिणाम्
सौदामनी तथा कन्या येयं नभसि विश्रुता ॥

6.35

सम्पातिश् च जटायुश्च अरुणस्य सुताव् उभौ
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः ॥

6.36

जटायुषः कर्णिकारः शतगामी च विश्रुतौ
सारसो रज्जुवालश्च भेरुण्डश्चापि तत्सुताः ॥

6.37

तेषामनन्तमभवत् पक्षिणां पुत्रपौत्रकम्
सुरसायाः सहस्रं तु सर्पाणाम् अभवत्पुरा ॥

6.38

सहस्रशिरसां कद्रूः सहस्रं चापि सुव्रत
प्रधानास्तेषु विख्याताः षड्विंशतिर् अरिंदम ॥

6.39

शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः
धनंजयमहानील पद्माश्वतरतक्षकाः ॥

6.40

एलापत्त्रमहापद्म धृतराष्ट्रबलाहकाः
शङ्खपालमहाशङ्ख पुष्पदंष्ट्रशुभाननाः ॥

6.41

शङ्कुरोमा च बहुलो वामनः पाणिनस्तथा
कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृताः ॥

6.42

एषामनन्तमभवत् सर्वेषां पुत्रपौत्रकम्
प्रायशो यत्पुरा दग्धं जनमेजयमन्दिरे ॥

6.43

रक्षोगणं क्रोधवशा स्वनामानम् अजीजनत्
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम् ॥

6.44

रुद्राणां च गणं तद्वद् गोमहिष्यो वराङ्गनाः
सुरभिर्जनयामास कश्यपात्संयतव्रता ॥

6.45

मुनिर्मुनीनां च गणं गणमप्सरसां तथा
तथा किंनरगन्धर्वान् अरिष्टाजनयद् बहून् ॥

6.46

तृणवृक्षलतागुल्मम् इरा सर्वम् अजीजनत्
विश्वा तु यक्षरक्षांसि जनयामास कोटिशः ॥

6.47

तत एकोनपञ्चाशन् मरुतः कश्यपाद्दितिः
जनयामास धर्मज्ञान् सर्वानमरवल्लभान् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc