मत्स्य पुराण · अध्याय 8
आदिसर्गश्च यः सूत कथितो विस्तरेण तु
प्रतिसर्गश्च ये येषाम् अधिपास् तान्वदस्व नः ॥
यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव
तदौषधीनामधिपं चकार यज्ञव्रतानां तपसां च चन्द्रम् ॥
नक्षत्रताराद्विजवृक्षगुल्म लतावितानस्य च रुक्मगर्भः
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत् ॥
विष्णुं रवीणामधिपं वसूनाम् अग्निं च लोकाधिपतिश्चकार
प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम् ॥
दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम्
पिशाचरक्षःपशुभूतयक्ष वेतालराजं त्व् अथ शूलपाणिम् ॥
प्रालेयशैलं च पतिं गिरीणाम् ईशं समुद्रं ससरिन्नदानाम्
गन्धर्वविद्याधरकिंनराणाम् ईशं पुनश्चित्ररथं चकार ॥
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश
दिशां गजानामधिपं चकार गजेन्द्रमैरावतनामधेयम् ॥
सुपर्णमीशं पततामथाश्व राजानमुच्चैःश्रवसं चकार
सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम् ॥
पितामहः पूर्वमथाभ्यषिञ्चच् चैतान्पुनः सर्वदिशाधिनाथान्
पूर्वेण दिक्पालम् अथाभ्यषिञ्चन् नाम्ना सुधर्माणम् अरातिकेतुम् ॥
ततो ऽधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम्
स केतुमन्तं च दिगीशमीशश् चकार पश्चाद् भुवनाण्डगर्भः ॥
हिरण्यरोमाणम् उदग्दिगीशं प्रजापतिर् देवसुतं चकार
अद्यापि कुर्वन्ति दिशाम् अधीशाः शत्रून् दहन्तस्तु भुवो ऽभिरक्षाम् ॥
चतुर्भिर् एभिः पृथुनामधेयो नृपो ऽभिषिक्तः प्रथमं पृथिव्याम्
गते ऽन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते
प्रजापतिः सो ऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिह्नः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0