मत्स्य पुराण · अध्याय 68
किमुद्वेगाद्भुते कृत्यम् अलक्ष्मीः केन हन्यते
मृतवत्साभिषेकादि कार्येषु च किमिष्यते ॥
पुरा कृतानि पापानि फलन्त्यस्मिंस्तपोधन
रोगदौर्गत्यरूपेण तथैवेष्टवधेन च ॥
तद्विघाताय वक्ष्यामि सदा कल्पाणकारकम्
सप्तमीस्नपनं नाम जनपीडाविनाशनम् ॥
बालानां मरणं यत्र क्षीरपाणां प्रदृश्यते
तद्वद्वृद्धातुराणां च यौवने चापि वर्तताम् ॥
शान्तये तत्र वक्ष्यामि मृतवत्साभिषेचनम्
एतद् एवाद्भुतोद्वेग चित्तभ्रमविनाशनम् ॥
भविष्यति च वाराहो यत्र कल्पस्तपोधन
वैवस्वतश्च तत्रापि यदा तु मनुरुत्तमः ॥
भविष्यति च तत्रैव पञ्चविंशतिमं यदा
कृतं नाम युगं तत्र हैहयान्वयवर्धनः
भविता नृपतिर्वीरः कृतवीर्यः प्रतापवान् ॥
स सप्तद्वीपमखिलं पालयिष्यति भूतलम्
यावद्वर्षसहस्राणि सप्तसप्तति नारद ॥
जातमात्रं च तस्यापि यावत्पुत्रशतं तथा
च्यवनस्य तु शापेन विनाशमपयास्यति ॥
सहस्रबाहुश्च यदा भविता तस्य वै सुतः
कुरङ्गनयनः श्रीमान् सम्भूतो नृपलक्षणैः ॥
कृतवीर्यस्तदाराध्य सहस्रांशुं दिवाकरम्
उपवासैर्व्रतैर्दिव्यैर् वेदसूक्तैश्च नारद
पुत्रस्य जीवनायालम् एतत्स्नानमवाप्स्यति ॥
कृतवीर्येण वै पृष्ट इदं वक्ष्यति भास्करः
अशेषदुष्टशमनं सदा कल्मषनाशनम् ॥
अलं क्लेशेन महता पुत्रस्तव नराधिप
भविष्यति चिरंजीवी किंतु कल्मषनाशनम् ॥
सप्तमीस्नपनं वक्ष्ये सर्वलोकहिताय वै
जातस्य मृतवत्सायाः सप्तमे मासि नारद
अथवा शुक्लसप्तम्याम् एतत्सर्वं प्रशस्यते ॥
ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम्
बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः
तद्वद्वृद्धातुराणां च कृत्यं स्यादितरेषु च ॥
गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा
तण्डुलै रक्तशालीयैश् चरुं गोक्षीरसंयुतम्
निर्वपेत्सूर्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः ॥
कीर्तयेत्सूर्यदेवत्यं सप्तर्चं च घृताहुतीः
जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद ॥
होतव्याः समिधश्चात्र तथैवार्कपलाशयोः
यवकृष्णतिलैर्होमः कर्तव्यो ऽष्टशतं पुनः ॥
व्याहृतीभिस्तथाज्येन तथैवाष्टशतं पुनः
हुत्वा स्नानं च कर्तव्यं मङ्गलं येन धीमता ॥
विप्रेण वेदविदुषा विधिवद्दर्भपाणिना
स्थापयित्वा तु चतुरः कुम्भान्कोणेषु शोभनान् ॥
पञ्चमं च पुनर्मध्ये दध्यक्षतविभूषितम्
स्थापयेदव्रणं कुम्भं सप्तर्चेनाभिमन्त्रितम् ॥
सौरेण तीर्थतोयेन पूर्णं रत्नसमन्वितम्
सर्वान्सर्वौषधैर्युक्तान् पञ्चगव्यसमन्वितान्
पञ्चरत्नफलैः पुष्पैर् वासोभिः परिवेष्टयेत् ॥
गजाश्वरथ्यावल्मीकात् संगमाद्ध्रदगोकुलात्
संशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत् ॥
चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम्
गृहीत्वा ब्राह्मणस्तत्र सौरान्मन्त्रानुदीरयेत् ॥
नारीभिः सप्तसंख्याभिर् अव्यङ्गाङ्गीभिरत्र च
पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः
सविप्राभिश्च कर्तव्यं मृतवत्साभिषेचनम् ॥
दीर्घायुरस्तु बालो ऽयं जीवत्पुत्रा च भामिनी
आदित्यश्चन्द्रमाः सार्धं ग्रहनक्षत्रमण्डलैः ॥
सशक्रा लोकपाला वै ब्रह्मविष्णुमहेश्वराः
ते ते चान्ये च देवौघाः सदा पान्तु कुमारकम् ॥
मित्रः शनिर्वा हुतभुग् ये च बालग्रहाः क्वचित्
पीडां कुर्वन्तु बालस्य मा मातुर्जनकस्य वै ॥
ततः शुक्लाम्बरधरा कुमारपतिसंयुता
सप्तकं पूजयेद्भक्त्या स्त्रीणामथ गुरुं पुनः ॥
काञ्चनीं च ततः कुर्यात् ताम्रपात्रोपरिस्थिताम्
प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत् ॥
वस्त्रकाञ्चनरत्नौघैर् भक्ष्यैः सघृतपायसैः
पूजयेद्ब्राह्मणांस्तद्वद् वित्तशाठ्यविवर्जितः ॥
भुक्त्वा च गुरुणा चेयम् उच्चार्या मन्त्रसंततिः
दीर्घायुरस्तु बालो ऽयं यावद्वर्षशतं सुखी ॥
यत्किंचिदस्य दुरितं तत्क्षिप्तं वडवानले
ब्रह्मा रुद्रो वसुः स्कन्दो विष्णुः शक्रो हुताशनः ॥
रक्षन्तु सर्वे दुष्टेभ्यो वरदाः सन्तु सर्वदा
एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम् ॥
शक्तितः कपिलां दद्यात् प्रणम्य च विसर्जयेत्
चरुं च पुत्रसहिता प्रणम्य रविशंकरौ ॥
हुतशेषं तदाश्नीयाद् आदित्याय नमो ऽस्त्विति
इदमेवाद्भुतोद्वेग दुःस्वप्नेषु प्रशस्यते ॥
कर्तुर्जन्मदिनर्क्षं च त्यक्त्वा सम्पूजयेत्सदा
शान्त्यर्थं शुक्लसप्तम्याम् एतत्कुर्वन्न सीदति ॥
सदानेन विधानेन दीर्घायुरभवन्नरः
संवत्सराणामयुतं शशास पृथिवीमिमाम् ॥
पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः
कथयित्वा द्विजश्रेष्ठ तत्रैवान्तरधीयत ॥
एतत्सर्वं समाख्यातं सप्तमीस्नानमुत्तमम्
सर्वदुष्टोपशमनं बालानां परमं हितम् ॥
आरोग्यं भास्करादिच्छेद् धनमिच्छेद्धुताशनात्
ईश्वराज्ज्ञानम् अन्विच्छेन् मोक्षम् इच्छेज्जनार्दनात् ॥
एतन्महापातकनाशनं स्यात् परं हितं बालविवर्धनं च
शृणोति यश्चैनमनन्यचेतास् तस्यापि सिद्धिं मुनयो वदन्ति ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0