भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 67

67.1

चन्द्रादित्योपरागे तु यत्स्नानमभिधीयते
तदहं श्रोतुमिच्छामि द्रव्यमन्त्रविधानवित् ॥

67.2

यस्य राशिं समासाद्य भवेद्ग्रहणसम्प्लवः
तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधविधानतः ॥

67.3

चन्द्रोपरागं सम्प्राप्य कृत्वा ब्राह्मणवाचनम्
सम्पूज्य चतुरो विप्राञ् शुक्लमाल्यानुलेपनैः ॥

67.4

पूर्वमेवोपरागस्य समासाद्यौषधादिकम्
स्थापयेच् चतुरः कुम्भान् अव्रणान्सागरानिति ॥

67.5

गजाश्वरथ्यावल्मीक संगमाद्ध्रदगोकुलात्
राजद्वारप्रदेशाच्च मृदमानीय चाक्षिपेत् ॥

67.6

पञ्चगव्यं च कुम्भेषु शुद्धमुक्ताफलानि च
रोचनां पद्मशङ्खौ च पञ्चरत्नसमन्वितम् ॥

67.7

स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम्
राजदन्तं सकुमुदं तथैवोशीरगुग्गुलम्
एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत्सुरान् ॥

67.8

सर्वे समुद्राः सरितस् तीर्थानि जलदा नदाः
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥

67.9

यो ऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः
सहस्रनयनश्चेन्द्रो ग्रहपीडां व्यपोहतु ॥

67.10

मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः
चन्द्रोपरागसम्भूताम् अग्निः पीडां व्यपोहतु ॥

67.11

यः कर्मसाक्षी भूतानां धर्मो महिषवाहनः
यमश्चन्द्रोपरागोत्थां मम पीडां व्यपोहतु ॥

67.12

रक्षोगणाधिपः साक्षात् प्रलयानलसंनिभः
खड्गव्यग्रो ऽतिभीमश्च रक्षःपीडां व्यपोहतु ॥

67.13

नागपाशधरो देवः साक्षान्मकरवाहनः
स जलाधिपतिश् चन्द्र ग्रहपीडां व्यपोहतु ॥

67.14

प्राणरूपेण यो लोकान् पाति कृष्णमृगप्रियः
वायुश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु ॥

67.15

यो ऽसौ निधिपतिर्देवः खड्गशूलगदाधरः
चन्द्रोपरागकलुषं धनदो मे व्यपोहतु ॥

67.16

यो ऽसाविन्दुधरो देवः पिनाकी वृषवाहनः
चन्द्रोपरागजां पीडां विनाशयतु शंकरः ॥

67.17

त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च
ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु वै ॥

67.18

एवमामन्त्र्य तैः कुम्भैर् अभिषिक्तो गुणान्वितैः
ऋग्यजुःसाममन्त्रैश्च शुक्लमाल्यानुलेपनैः
पूजयेद्वस्त्रगोदानैर् ब्राह्मणानिष्टदेवताः ॥

67.19

एतानेव ततो मन्त्रान् विलिखेत् करकान्वितान्
वस्त्रपट्टे ऽथवा पद्मे पञ्चरत्नसमन्वितान् ॥

67.20

यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः
ततो ऽतिवाहयेद्वेलाम् उपरागानुगामिनीम् ॥

67.21

प्राङ्मुखः पूजयित्वा तु नमस्यन्निष्टदेवताम्
चन्द्रग्रहे विनिर्वृत्ते कृतगोदानमङ्गलः
कृतस्नानाय तं पट्टं ब्राह्मणाय निवेदयेत् ॥

67.22

अनेन विधिना यस्तु ग्रहस्नानं समाचरेत्
न तस्य ग्रहपीडा स्यान् न च बन्धुजनक्षयः ॥

67.23

परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्
सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत् ॥

67.24

अधिकाः पद्मरागाः स्युः कपिलां च सुशोभनाम्
प्रयच्छेच्च निशां पत्ये चन्द्रसूर्योपरागयोः ॥

67.25

य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः
सर्वपापविनिर्मुक्तः शक्रलोके महीयते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc