भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 61

61.1

भूर्लोको ऽथ भुवर्लोकः स्वर्लोको ऽथ महर्जनः
तपः सत्यं च सप्तैते देवलोकाः प्रकीर्तिताः ॥

61.2

पर्यायेण तु सर्वेषाम् आधिपत्यं कथं भवेत्
इह लोके शुभं रूपम् आयुः सौभाग्यमेव च
लक्ष्मीश्च विपुला नाथ कथं स्यात्पुरसूदन ॥

61.3

पुरा हुताशनः सार्धं मारुतेन महीतले
आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम् ॥

61.4

निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः
विरोचनश्च संग्रामाद् अपलायंस्तपोधन ॥

61.5

अम्भः सामुद्रमाविश्य संनिवेशमकुर्वत
अशक्या इति ते ऽप्यग्नि मारुताभ्यामुपेक्षिताः ॥

61.6

ततः प्रभृति ते देवान् मनुष्यान्सह जङ्गमान्
संपीड्य च मुनीन्सर्वान् प्रविशन्ति पुनर्जलम् ॥

61.7

एवं वर्षसहस्राणि वीराः पञ्च च सप्त च
जलदुर्गबलाद्ब्रह्मन् पीडयन्ति जगत्त्रयम् ॥

61.8

ततः परमथो वह्नि मारुतावमराधिपः
आदिदेश चिरादम्बु निधिरेष विशोष्यताम् ॥

61.9

यस्मादस्मद्द्विषामेष शरणं वरुणालयः
तस्माद्भवद्भ्यामद्यैव क्षयमेष प्रणीयताम् ॥

61.10

तावूचतुस्ततः शक्रम् उभौ शम्बरसूदनम्
अधर्म एष देवेन्द्र सागरस्य विनाशनम् ॥

61.11

यस्माज्जीवनिकायस्य महतः संक्षयो भवेत्
तस्मान्न पापमद्यावां करवाव पुरंदर ॥

61.12

अस्य योजनमात्रे ऽपि जीवकोटिशतानि च
निवसन्ति सुरश्रेष्ठ स कथं नाशमर्हति ॥

61.13

एवमुक्तः सुरेन्द्रस्तु कोपात् संरक्तलोचनः
उवाचेदं वचो रोषान् निर्दहन्निव पावकम् ॥

61.14

न धर्माधर्मसंयोगं प्राप्नुवन्त्यमराः क्वचित्
भवतोस्तु विशेषेण माहात्म्यं चाधितिष्ठतोः ॥

61.15

मदाज्ञालङ्घनं यस्मान् मारुतेन समं त्वया
मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम्
धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो ॥

61.16

तस्मादेकेन वपुषा मुनिरूपेण मानुषे
मारुतेन समं लोके तव जन्म भविष्यति ॥

61.17

यदा च मानुषत्वे ऽपि त्वयागस्त्येन शोषितः
भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि ॥

61.18

इतीन्द्रशापात्पतितौ तत्क्षणात्तौ महीतले
अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन ॥

61.19

मित्रावरुणयोर्वीर्याद् वसिष्ठस्यानुजो ऽभवत्
अगस्त्य इत्युग्रतपाः संबभूव पुनर्मुनिः ॥

61.20

सम्भूतः स कथं भ्राता वसिष्ठस्याभवन्मुनिः
कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ
जन्म कुम्भादगस्त्यस्य कथं स्यात्पुरसूदन ॥

61.21

पुरा पुराणपुरुषः कदाचिद्गन्धमादने
भूत्वा धर्मसुतो विष्णुश् चचार विपुलं तपः ॥

61.22

तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ
शक्रेण माधवानङ्गाव् अप्सरोगणसंयुतौ ॥

61.23

यदा न गीतवाद्येन नाङ्गरागादिना हरिः
न काममाधवाभ्यां च विषयान्प्रति चुक्षुभे ॥

61.24

तदा काममधुस्त्रीणां विषादम् अगमद्गणः
संक्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः
नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम् ॥

61.25

संक्षुब्धास्तु तया देवास् तौ तु देववरावुभौ
अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः ॥

61.26

अप्सरा इति सामान्या देवानामब्रवीद्धरिः
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति ॥

61.27

ततः कामयमानेन मित्रेणाहूय सोर्वशी
उक्ता मां रमयस्वेति बाढम् इत्यब्रवीत्तु सा ॥

61.28

गच्छन्ती चाम्बरं तद्वत् स्तोकमिन्दीवरेक्षणा
वरुणेन धृता पश्चाद् वरुणं नाभ्यनन्दत ॥

61.29

मित्रेणाहं वृता पूर्वम् अद्य भार्या न ते विभो
उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम् ॥

61.30

गतायां बाढमित्युक्त्वा मित्रः शापमदात्तदा
तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम् ॥

61.31

भजस्वेति यतो वेश्या धर्म एष त्वया कृतः
जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च
प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ ॥

61.32

निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यत
तत्रान्तरे ऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः ॥

61.33

तस्य पूजामकुर्वन्तं शशाप स मुनिर्नृपम्
विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः ॥

61.34

अन्योन्यशापाच्च तयोर् विगते इव चेतसी
जग्मतुः शापनाशाय ब्रह्माणं जगतः पतिम् ॥

61.35

अथ ब्रह्मण आदेशाल् लोचनेष्ववसन्निमिः
निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद ॥

61.36

वसिष्ठो ऽप्यभवत्तस्मिञ् जलकुम्भे च पूर्ववत्
ततः श्वेतश्चतुर्बाहुः साक्षसूत्रकमण्डलुः
अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः ॥

61.37

मलयस्यैकदेशे तु वैखानसविधानतः
सभार्यः संवृतो विप्रैस् तपश्चक्रे सुदुश्चरम् ॥

61.38

ततः कालेन महता तारकाद् अतिपीडितम्
जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयम् ॥

61.39

ततो ऽस्य वरदाः सर्वे बभूवुः शंकरादयः
ब्रह्मा विष्णुश्च भगवान् वरदानाय जग्मतुः
वरं वृणीष्व भद्रं ते यदभीष्टं च वै मुने ॥

61.40

यावद्ब्रह्मसहस्राणां पञ्चविंशतिकोटयः
वैमानिको भविष्यामि दक्षिणाचलवर्त्मनि ॥

61.41

मद्विमानोदये कुर्याद् यः कश्चित्पूजनं मम
स सप्तलोकाधिपतिः पर्यायेण भविष्यति ॥

61.42

एवमस्त्विति ते ऽप्युक्त्वा जग्मुर्देवा यथागतम्
तस्मादर्घः प्रदातव्यो ह्य् अगस्त्यस्य सदा बुधैः ॥

61.43

कथमर्घप्रदानं तु कर्तव्यं तस्य वै विभो
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ॥

61.44

प्रत्यूषसमये विद्वान् कुर्यादस्योदये निशि
स्नानं शुक्लतिलैस्तद्वच् छुक्लमाल्याम्बरो गृही ॥

61.45

स्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम्
पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम्
नानाभक्ष्यफलैर्युक्तं ताम्रपात्रसमन्वितम् ॥

61.46

अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णम् अत्यायतबाहुदण्डम्
चतुर्मुखं कुम्भमुखे निधाय धान्यानि सप्ताम्बरसंयुतानि ॥

61.47

सकांस्यपात्राक्षतशुक्तियुक्तं मन्त्रेण दद्याद्द्विजपुंगवाय
उत्क्षिप्य लम्बोदरदीर्घबाहुम् अनन्यचेता यमदिङ्मुखः सन् ॥

61.48

श्वेतां च दद्याद्यदि शक्तिरस्ति रौप्यैः खुरैर् हेममुखीं सवत्साम्
धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय ॥

61.49

आ सप्तरात्रोदयम् एतदस्य दातव्यमेतत्सकलं नरेण
यावत्समाः सप्त दशाथवा स्युर् अथोर्ध्वमप्यत्र वदन्ति केचित् ॥

61.50

काशपुष्पप्रतीकाश वह्निमारुतसम्भव
मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते ॥

61.51

विन्ध्यवृद्धिक्षयकर मेघतोयविषापह
रत्नवल्लभ देवेश लङ्कावासिन्नमो ऽस्तु ते ॥

61.52

वातापी भक्षितो येन समुद्रः शोषितः पुरा
लोपामुद्रापतिः श्रीमान् यो ऽसौ तस्मै नमो नमः ॥

61.53

राजपुत्रि महाभागे ऋषिपत्नि वरानने
लोपामुद्रे नमस्तुभ्यम् अर्घो मे प्रतिगृह्यताम्
प्रत्यब्दं तु फलत्यागम् एवं कुर्वन्न सीदति ॥

61.54

होमं कृत्वा ततः पश्चाद् वर्जयेन्मानवः फलम्
अनेन विधिना यस्तु पुमानर्घ्यं निवेदयेत् ॥

61.55

इमं लोकं स चाप्नोति रूपारोग्यसमन्वितः
द्वितीयेन भुवर्लोकं स्वर्गलोकं ततः परम् ॥

61.56

सप्तैव लोकानाप्नोति सप्तार्घान् यः प्रयच्छति
यावदायुश्च यः कुर्यात् परं ब्रह्माधिगच्छति ॥

61.57

इह पठति शृणोति वा य एतद् युगलमुनिप्रभवार्घ्यसम्प्रदानम्
मतिमपि च ददाति सो ऽपि विष्णोर् भवनगतः परिपूज्यते ऽमरौघैः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc