भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 62

62.1

सौभाग्यारोग्यफलदम् अमुत्राक्षय्यकारकम्
भुक्तिमुक्तिप्रदं देव तन्मे ब्रूहि जनार्दन ॥

62.2

यदुमायाः पुरा देव उवाच पुरसूदनः
कैलासशिखरासीनो देव्या पृष्टस्तदा किल ॥

62.3

कथासु सम्प्रवृत्तासु धर्म्यासु ललितासु च
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम् ॥

62.4

शृणुष्वावहिता देवि तथैवानन्तपुण्यकृत्
नराणामथ नारीणाम् आराधनमनुत्तमम् ॥

62.5

नभस्ये वाथ वैशाखे पुण्यमार्गशिरस्य च
शुक्लपक्षे तृतीयायां सुस्नातो गौरसर्षपैः ॥

62.6

गोरोचनं सगोमूत्रम् उष्णं गोशकृतं तथा
दधिचन्दनसम्मिश्रं ललाटे तिलकं न्यसेत्
सौभाग्यारोग्यदं यस्मात् सदा च ललिताप्रियम् ॥

62.7

प्रतिपक्षं तृतीयासु पुमानापीतवाससी
धारयेदथ रक्तानि नारी चेदथ संयता ॥

62.8

विधवा धातुरक्तानि कुमारी शुक्लवाससी
देवीं तु पञ्चगव्येन ततः क्षीरेण केवलम्
स्नापयेन्मधुना तद्वत् पुष्पगन्धोदकेन च ॥

62.9

पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि
धान्यकाजाजिलवणैर् गुडक्षीरघृतान्वितैः ॥

62.10

शुक्लाक्षततिलैरर्च्यां ततो देवीं सदार्चयेत्
पादाद्यभ्यर्चनं कुर्यात् प्रतिपक्षं वरानने ॥

62.11

वरदायै नमः पादौ तथा गुल्फौ नमः श्रियै
अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा ॥

62.12

ऊरू मङ्गलकारिण्यै वामदेव्यै तथा कटिम्
पद्मोदरायै जठरम् उरः कामश्रियै नमः ॥

62.13

करौ सौभाग्यदायिन्यै बाहू हरमुखश्रियै
मुखं दर्पणवासिन्यै स्मरदायै स्मितं नमः ॥

62.14

गौर्यै नमस्तथा नासाम् उत्पलायै च लोचने
तुष्ट्यै ललाटमलकान् कात्यायन्यै शिरस्तथा ॥

62.15

नमो गौर्यै नमो धिष्ण्यै नमः कान्त्यै नमः श्रियै
रम्भायै ललितायै च वासुदेव्यै नमो नमः ॥

62.16

एवं सम्पूज्य विधिवद् अग्रतः पद्ममालिखेत्
पत्त्रैर्द्वादशभिर्युक्तं कुङ्कुमेन सकर्णिकम् ॥

62.17

पूर्वेण विन्यसेद्गौरीम् अपर्णां च ततः परम्
भवानीं दक्षिणे तद्वद् रुद्राणीं च ततः परम् ॥

62.18

विन्यसेत्पश्चिमे सौम्यां सदा मदनवासिनीम्
वायव्ये पाटलामुग्राम् अन्तरेण ततो ऽप्युमाम् ॥

62.19

मध्ये यथास्वं मांसाङ्गां मङ्गलां कुमुदां सतीम्
रुद्रं च मध्ये संस्थाप्य ललितां कर्णिकोपरि
कुसुमैरक्षतैर्वार्भिर् नमस्कारेण विन्यसेत् ॥

62.20

गीतमङ्गलनिर्घोषान् कारयित्वा सुवासिनीः
पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः
सिन्दूरं स्नानचूर्णं च तासां शिरसि पातयेत् ॥

62.21

सिन्दूरकुङ्कुमस्नानम् अतीवेष्टतमं यतः
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्
न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः ॥

62.22

नभस्ये पूजयेद्गौरीम् उत्पलैरसितैः सदा
बन्धुजीवैराश्वयुजे कार्त्तिके शतपत्त्रकैः ॥

62.23

जातीपुष्पैर्मार्गशीर्षे पौषे पीतैः कुरण्टकैः
कुन्दकुङ्कुमपुष्पैस्तु देवीं माघे तु पूजयेत्
सिन्दुवारेण जात्या वा फाल्गुने ऽप्यर्चयेदुमाम् ॥

62.24

चैत्रे तु मल्लिकाशोकैर् वैशाखे गन्धपाटलैः
ज्येष्ठे कमलमन्दारैर् आषाढे च नवाम्बुजैः
कदम्बैरथ मालत्या श्रावणे पूजयेत्सदा ॥

62.25

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्
बिल्वपत्त्रार्कपुष्पं च यवान्गोशृङ्गवारि च ॥

62.26

पञ्चगव्यं च बिल्वं च प्राशयेत्क्रमशस्तदा
एतद्भाद्रपदाद्यं तु प्राशनं समुदाहृतम् ॥

62.27

प्रतिपक्षं च मिथुनं तृतीयायां वरानने
पूजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः ॥

62.28

पुंसः पीताम्बरे दद्यात् स्त्रियै कौसुम्भवाससी
निष्पावाजाजिलवणम् इक्षुदण्डगुडान्वितम्
तस्यै दद्यात्फलं पुष्पं सुवर्णोत्पलसंयुतम् ॥

62.29

यथा न देवि देवेशस् त्वां परित्यज्य गच्छति
तथा माम् उद्धराशेष दुःखसंसारसागरात् ॥

62.30

कुमुदा विमलानन्ता भवानी च सुधा शिवा
ललिता कमला गौरी सती रम्भाथ पार्वती ॥

62.31

नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्
व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् ॥

62.32

मिथुनानि चतुर्विंशद् दश द्वो च समर्चयेत्
अष्टौ षड्वाप्यथ पुनश् चानुमासं समर्चयेत् ॥

62.33

पूर्वं दत्त्वा तु गुरवे शेषानप्यर्चयेद्बुधः
उक्तानन्ततृतीयैषा सदानन्तफलप्रदा ॥

62.34

सर्वपापहरां देवि सौभाग्यारोग्यवर्धिनीम्
न चैनां वित्तशाठ्येन कदाचिदपि लङ्घयेत्
नरो वा यदि वा नारी वित्तशाठ्यात् पतत्यधः ॥

62.35

गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी
यद्यशुद्धा तदान्येन वारयेत्प्रयता स्वयम् ॥

62.36

इमामनन्तफलदां यस्तृतीयां समाचरेत्
कल्पकोटिशतं साग्रं शिवलोके महीयते ॥

62.37

वित्तहीनो ऽपि कुरुते वर्षत्रयमुपोषणैः
पुष्पमन्त्रविधानेन सो ऽपि तत्फलमाप्नुयात् ॥

62.38

नारी वा कुरुते या तु कुमारी विधवाथवा
सापि तत्फलमाप्नोति गौर्यनुग्रहलालिता ॥

62.39

इति पठति शृणोति वा य इत्थं गिरितनयाव्रतम् इन्द्रवाससंस्थः
मतिमपि च ददाति सो ऽपि देवैर् अमरवधूजनकिंनरैश्च पूज्यः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc