मत्स्य पुराण · अध्याय 60
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्
सौभाग्यशयनं नाम यत्पुराणविदो विदुः ॥
पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महादिषु
सौभाग्यं सर्वभूतानाम् एकस्थमभवत्तदा
वैकुण्ठं स्वर्गमासाद्य विष्णोर् वक्षःस्थलस्थितम् ॥
ततः कालेन महता पुनः सर्गविधौ नृप
अहंकारावृते लोके प्रधानपुरुषान्विते ॥
स्पर्धायां च प्रवृत्तायां कमलासनकृष्णयोः
लिङ्गाकारा समुद्भूता वह्नेर्ज्वालातिभीषणा
तयाभितप्तस्य हरेर् वक्षसस्तद्विनिःसृतम् ॥
वक्षःस्थलं समाश्रित्य विष्णोः सौभाग्यमास्थितम्
रसरूपं ततो यावत् प्राप्नोति वसुधातलम् ॥
उत्क्षिप्तमन्तरिक्षे तद् ब्रह्मपुत्रेण धीमता
दक्षेण पीतमात्रं तद् रूपलावण्यकारकम् ॥
बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः
शेषं यदपतद्भूमाव् अष्टधा समजायत ॥
ततो जनानां संजाताः सप्त सौभाग्यदायिकाः
इक्षवो रसराजाश्च निष्पावाजाजिधान्यकम् ॥
विकारवच्च गोक्षीरं कुसुम्भं कुङ्कुमं तथा
लवणं चाष्टमं तद्वत् सौभाग्याष्टकमुच्यते ॥
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुनः
दुहिता साभवत्तस्य या सतीत्यभिधीयते ॥
लोकानतीत्य लालित्याल् ललिता तेन चोच्यते
त्रैलोक्यसुन्दरीम् एनाम् उपयेमे पिनाकधृक् ॥
या देवी सौभाग्यमयी भुक्तिमुक्तिफलप्रदा
तामाराध्य पुमान्भक्त्या नारी वा किं न विन्दति ॥
कथमाराधनं तस्या जगद्धात्र्या जनार्दन
तद्विधानं जगन्नाथ तत्सर्वं च वदस्व मे ॥
वसन्तमासमासाद्य तृतीयायां जनप्रिय
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत् ॥
तस्मिन्नहनि सा देवी किल विश्वात्मना सती
पाणिग्रहणकैर् मन्त्रैर् उदूढा वरवर्णिनी ॥
तया सहैव देवेशं तृतीयायाम् अथार्चयेत्
फलैर्नानाविधैर्धूपैर् दीपनैवेद्यसंयुतैः ॥
प्रतिमां पञ्चगव्येन तथा गन्धोदकेन तु
स्नापयित्वार्चयेद् गौरीम् इन्दुशेखरसंयुताम् ॥
नमो ऽस्तु पाटलायै तु पादौ देव्याः शिवस्य तु
शिवायेति च संकीर्य जयायै गुल्फयोर् द्वयोः ॥
त्रिगुणायेति रुद्राय भवान्यै जङ्घयोर्युगम्
शिवां रुद्रेश्वरायै च विजयायेति जानुनी
संकीर्त्य हरिकेशाय तथोरू वरदे नमः ॥
ईशायै च कीटं देव्याः शंकरायेति शंकरम्
कुक्षिद्वयं च कोटव्यै शूलिने शूलपाणये ॥
मङ्गलायै नमस्तुभ्यम् उदरं चाभिपूजयेत्
सर्वात्मने नमो रुद्रम् ईशान्यै च कुचद्वयम् ॥
शिवं वेदात्मने तद्वद् रुद्राण्यै कण्ठमर्चयेत्
त्रिपुरघ्नाय विश्वेशम् अनन्तायै करद्वयम् ॥
त्रिलोचनाय च हरं बाहू कालानलप्रिये
सौभाग्यभवनायेति भूषणानि सदार्चयेत्
स्वाहास्वधायै च मुखम् ईश्वरायेति शूलिनम् ॥
अशोकमधुवासिन्यै पूज्यावोष्ठौ च भूतिदौ
स्थाणवे तु हरं तद्वद् धास्यं चन्द्रमुखप्रिये ॥
नमो ऽर्धनारीशहरम् असिताङ्गीति नासिकाम्
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥
शर्वाय पुरहन्तारं वासव्यै तु तथालकान्
नमः श्रीकण्ठनाथायै शिवकेशांस्ततो ऽर्चयेत्
भीमोग्रसमरूपिण्यै शिरः सर्वात्मने नमः ॥
शिवमभ्यर्च्य विधिवत् सौभाग्याष्टकमग्रतः
स्थापयेद्धृतनिष्पाव कुसुम्भक्षीरजीरकम् ॥
रसराजं च लवणं कुस्तुम्बुरु तथाष्टकम्
दत्तं सौभाग्यमित्यस्मात् सौभाग्याष्टकमित्यतः ॥
एवं निवेद्य तत्सर्वम् अग्रतः शिवयोः पुनः
रात्रौ शृङ्गोदकं प्राश्य तद्वद्भूमावरिंदम ॥
पुनः प्रभाते तु तथा कृतस्नानजपः शुचिः
संपूज्य द्विजदाम्पत्यं वस्त्रमाल्यविभूषणैः ॥
सौभाग्याष्टकसंयुक्तं सुवर्णचरणद्वयम्
प्रीयतामत्र ललिता ब्राह्मणाय निवेदयेत् ॥
एवं संवत्सरं यावत् तृतीयायां सदा मनो
कर्तव्यं विधिवद्भक्त्या सर्वसौभाग्यमीप्सुभिः ॥
प्राशने दानमन्त्रे च विशेषो ऽयं निबोध मे
शृङ्गोदकं चैत्रमासे वैशाखे गोमयं पुनः ॥
ज्येष्ठे मन्दारकुसुमं बिल्वपत्त्रं शुचौ स्मृतम्
श्रावणे दधि संप्राश्यं नभस्ये च कुशोदकम् ॥
क्षीरमाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्
मार्गे मासे तु गोमूत्रं पौषे संप्राशयेद्घृतम् ॥
माघे कृष्णतिलांस्तद्वत् पञ्चगव्यं च फाल्गुने
ललिता विजया भद्रा भवानी कुमुदा शिवा ॥
वासुदेवी तथा गौरी मङ्गला कमला सती
उमा च दानकाले तु प्रीयतामिति कीर्तयेत् ॥
मल्लिकाशोककमलं कदम्बोत्पलमालतीः
कुब्जकं करवीरं च बाणमम्लानकुङ्कुमम् ॥
सिन्धुवारं च सर्वेषु मासेषु क्रमशः स्मृतम्
जपाकुसुम्भकुसुमं मालती शतपत्त्रिका ॥
यथालाभं प्रशस्तानि करवीरं च सर्वदा
एवं संवत्सरं यावद् उपोष्य विधिवन्नरः ॥
स्त्री भक्ता वा कुमारी वा शिवमभ्यर्च्य भक्तितः
व्रतान्ते शयनं दद्यात् सर्वोपस्करसंयुतम् ॥
उमामहेश्वरं हैमं वृषभं च गवा सह
स्थापयित्वाथ शयने ब्राह्मणाय निवेदयेत् ॥
अन्यान्यपि यथाशक्ति मिथुनान्यम्बरादिभिः
धान्यालंकारगोदानैर् अभ्यर्चेद्धनसंचयैः
वित्तशाठ्येन रहितः पूजयेद्गतविस्मयः ॥
एवं करोति यः सम्यक् सौभाग्यशयनव्रतम्
सर्वान्कामानवाप्नोति पदमत्यन्तमश्नुते
फलस्यैकस्य त्यागेन व्रतमेतत्समाचरेत् ॥
य इच्छन्कीर्तिमाप्नोति प्रतिमासं नराधिप
सौभाग्यारोग्यरूपायुर् वस्त्रालंकारभूषणैः
न वियुक्तो भवेद्राजन् नवार्बुदशतत्रयम् ॥
यस्तु द्वादश वर्षाणि सौभाग्यशयनव्रतम्
करोति सप्त चाष्टौ वा श्रीकण्ठभवने ऽमरैः
पूज्यमानो वसेत्सम्यग् यावत्कल्पायुतत्रयम् ॥
नारी वा कुरुते वापि कुमारी वा नरेश्वर
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ॥
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्
सो ऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत् ॥
इदमिह मदनेन पूर्वमिष्टं शतधनुषा कृतवीर्यसूनुना च
कृतमथ वरुणेन नन्दिना वा किम् उ जननाथ ततो यदुद्भवः स्यात् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0