भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 59

59.1

पादपानां विधिं सूत यथावद्विस्तराद्वद
विधिना केन कर्तव्यं पादपोद्यापनं बुधैः ॥

59.2

ये च लोकाः स्मृतास्तेषां तानिदानीं वदस्व नः
यत्फलं लभते प्रेत्य तत्सर्वं वक्तुमर्हसि ॥

59.3

पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु
तडागविधिवत्सर्वम् आसाद्य जगदीश्वर ॥

59.4

ऋत्विङ्मण्डपसम्भारश् चाचार्यश्चैव तद्विधः
पूजयेद्ब्राह्मणांस्तद्वद् धेमवस्त्रानुलेपनैः ॥

59.5

सर्वौषध्युदकैः सिक्तान् पिष्टातकविभूषितान्
वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत् ॥

59.6

सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम्
अञ्जनं चापि दातव्यं तद्वद्धेमशलाकया ॥

59.7

फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्
प्रत्येकं सर्ववृक्षाणां वेद्यां तान्यधिवासयेत् ॥

59.8

धूपो ऽत्र गुग्गुलः श्रेष्ठस् ताम्रपात्रैरधिष्ठितान्
सप्तधान्यस्थितान्कृत्वा वस्त्रगन्धानुलेपनैः ॥

59.9

कुम्भान्सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वर
सहिरण्यानशेषांस्तान् कृत्वा बलिनिवेदनम् ॥

59.10

यथास्वं लोकपालानाम् इन्द्रादीनां विशेषतः
वनस्पतेश्च विद्वद्भिर् होमः कार्यो द्विजातिभिः ॥

59.11

ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम्
सकांस्यदोहां सौवर्ण शृङ्गाभ्याम् अतिशालिनीम्
पयस्विनीं वृक्षमध्याद् उत्सृजेद्गामुदङ्मुखीम् ॥

59.12

ततो ऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः
ऋग्यजुःसाममन्त्रैश्च वारुणैरभितस्तथा
तैरेव कुम्भैः स्नपनं कुर्याद्ब्राह्मणपुंगवः ॥

59.13

स्नातः शुक्लाम्बरस्तद्वद् यजमानो ऽभिपूजयेत्
गोभिर् विभवतः सर्वान् ऋत्विजस्तान्समाहितः ॥

59.14

हेमसूत्रैः सकटकैर् अङ्गुलीयपवित्रकैः
वासोभिः शयनीयैश्च तथोपस्करपादुकैः
क्षीरेण भोजनं दद्याद् यावद्दिनचतुष्टयम् ॥

59.15

होमश्च सर्षपैः कार्यो यवैः कृष्णतिलैस्तथा
पलाशसमिधः शस्ताश् चतुर्थे ऽह्नि तथोत्सवः
दक्षिणा च पुनस्तद्वद् देया तत्रापि शक्तितः ॥

59.16

यद्यदिष्टतमं किंचित् तत्तद् दद्यादमत्सरी
आचार्ये द्विगुणं दद्यात् प्रणिपत्य विसर्जयेत् ॥

59.17

अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः
सर्वान्कामानवाप्नोति फलं चानन्त्यमश्नुते ॥

59.18

यश्चैकमपि राजेन्द्र वृक्षं संस्थापयेन्नरः
सो ऽपि स्वर्गे वसेद्राजन् यावदिन्द्रायुतत्रयम् ॥

59.19

भूतान्भव्यांश्च मनुजांस् तारयेद्द्रुमसंमितान्
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥

59.20

य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः
सो ऽपि सम्पूजितो देवैर् ब्रह्मलोके महीयते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc