भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 58

58.1

जलाशयगतं विष्णुम् उवाच रविनन्दनः
तडागारामकूपानां वापीषु नलिनीषु च ॥

58.2

विधिं पृच्छामि देवेशे देवतायतनेषु च
के तत्र चर्त्विजो नाथ वेदी वा कीदृशी भवेत् ॥

58.3

दक्षिणावलयः कालः स्थानमाचार्य एव च
द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व तत्त्वतः ॥

58.4

शृणु राजन्महाबाहो तडागादिषु यो विधिः
पुराणेष्वितिहासो ऽयं पठ्यते वेदवादिभिः ॥

58.5

प्राप्य पक्षं शुभं शुक्लम् अतीते चोत्तरायणे
पुण्ये ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥

58.6

प्रागुदक्प्रवणे देशे तडागस्य समीपतः
चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखाम् ॥

58.7

तथा षोडशहस्तः स्यान् मण्डपश्च चतुर्मुखः
वेद्याश्च परितो गर्ता रत्निमात्रास्त्रिमेखलाः ॥

58.8

नव सप्ताथ वा पञ्च नातिरिक्ता नृपात्मज
वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलिविस्तृता ॥

58.9

गर्ताश्च तत्र सप्त स्युस् त्रिपर्वोच्छ्रितमेखलाः
सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः ॥

58.10

अश्वत्थोदुम्बरप्लक्ष वटशाखाकृतानि तु
मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ॥

58.11

शुभास्तत्राष्ट होतारो द्वारपालास्तथाष्ट वै
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ॥

58.12

सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः
कुलशीलसमायुक्तः पुरोधाः स्याद्द्विजोत्तमः ॥

58.13

प्रतिगर्तेषु कलशी यज्ञोपकरणानि च
व्यजनं चामरे शुभ्रे ताम्रपात्रे सुविस्तृते ॥

58.14

ततस्त्वनेकवर्णाः स्युश् चरवः प्रतिदैवतम्
आचार्यः प्रक्षिपेद्भूमाव् अनुमन्त्र्य विचक्षणः ॥

58.15

त्र्यरत्निमात्रो यूपः स्यात् क्षारवृक्षविनिर्मितः
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥

58.16

हेमालंकारिणः कार्याः पञ्चविंशतिऋत्विजः
कुण्डलानि च हैमानि केयूरकटकानि च ॥

58.17

तथाङ्गुल्यः पवित्राणि वासांसि विविधानि च
पूजयेत्तु समं सर्वान् आचार्यो द्विगुणं पुनः
दद्याच्छयनसंयुक्तम् आत्मनश्चापि यत्प्रियम् ॥

58.18

सौवर्णकूर्ममकरौ राजतौ मत्स्यदुन्दुभौ
ताम्रौ कुलीरमण्डूकाव् आयसः शिशुमारकः
एवमासाद्य तत्सर्वम् आदावेव विशां पते ॥

58.19

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः
सर्वौषध्युदकैस्तत्र स्नापितो वेदपारगैः ॥

58.20

यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः
पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम् ॥

58.21

ततो मङ्गलशब्देन भेरीणां निःस्वनेन च
अञ्जसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित् ॥

58.22

षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम्
चतुरस्रं च परितो वृत्तं मध्ये सुशोभनम् ॥

58.23

वेद्याश्चोपरि तत्कृत्वा ग्रहांल्लोकपतींस्ततः
विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः ॥

58.24

कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः
ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः ॥

58.25

विनायकं च विन्यस्य कमलामम्बिकां तथा
शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः ॥

58.26

पुष्पभक्ष्यफलैर्युक्तम् एवं कृत्वाधिवासनम्
कुम्भान् सजलगर्भांस्तान् वासोभिः परिवेष्टयेत् ॥

58.27

पुष्पगन्धैरलंकृत्य द्वारपालान्समन्ततः
पठध्वमिति तान्ब्रूयाद् आचार्यस्त्वभिपूजयेत् ॥

58.28

बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ
सामगौ पश्चिमे तद्वद् उत्तरेण त्वथर्वणौ ॥

58.29

उदङ्मुखो दक्षिणतो यजमान उपाविशेत्
यजध्वमिति तान्ब्रूयाद् धौत्रिकान्पुनरेव तु ॥

58.30

उत्कृष्टान्मन्त्रजापेन तिष्ठध्वमिति जापकान्
एवमादिश्य तान्सर्वान् पर्युक्ष्याग्निं स मन्त्रवित् ॥

58.31

जुहुयाद्वारुणैर्मन्त्रैर् आज्यं च समिधस्तथा
ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः ॥

58.32

ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायेश्वराय च
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे ॥

58.33

रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम्
जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक् ॥

58.34

शाक्रं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम्
सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः ॥

58.35

वैराज्यं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम्
शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च ॥

58.36

वामदेव्यं बृहत्साम रौरवं सरथंतरम्
गवां व्रतं च काण्वं च रक्षोघ्नं वयसस्तथा
गायेयुः सामगा राजन् पश्चिमं द्वारमाश्रिताः ॥

58.37

अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा
जपेयुर्मनसा देवम् आश्रित्य वरुणं प्रभुम् ॥

58.38

पूर्वेद्युरमितो रात्राव् एवं कृत्वाधिवासनम्
गजाश्वरथ्यावल्मीकात् संगमाद्ध्रदगोकुलात्
मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा ॥

58.39

रोचनां च ससिद्धार्थां गन्धं गुग्गुलमेव च
स्नपनं तस्य कर्तव्यं पञ्चगव्यसमन्वितम् ॥

58.40

प्रत्येकं तु महामन्त्रैर् एव कृत्वा विधानतः
एवं क्षपातिवाह्याथ विधियुक्तेन कर्मणा ॥

58.41

ततः प्रभाते विमले संजाते ऽथ शतं गवाम्
ब्राह्मणेभ्यः प्रदातव्यम् अष्टषष्टिश्च वा पुनः
पञ्चाशद्वाथ षट्त्रिंशत् पञ्चविंशतिरप्यथ ॥

58.42

ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने
वेदशब्दैश्च गान्धर्वैर् वाद्यैश्च विविधैः पुनः ॥

58.43

कनकालंकृतां कृत्वा जले गामवतारयेत्
सामगाय च सा देया ब्राह्मणाय विशां पते ॥

58.44

पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम्
ततो निक्षिप्य मकर मत्स्यादींश्चैव सर्वशः
धृतां चतुर्विधैर् विप्रैर् वेदवेदाङ्गपारगैः ॥

58.45

महानदीजलोपेतां दध्यक्षतसमन्विताम्
उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत् ॥

58.46

अथर्वणेन संस्नातां पुनर्मामेत्यथेति च
आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम् ॥

58.47

पूजयित्वा सरस्तत्र बलिं दद्यात्समन्ततः
पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः ॥

58.48

चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः
दक्षिणा राजशार्दूल वरुणक्ष्मापणं ततः ॥

58.49

कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च
ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत्पुनः
हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत् ॥

58.50

ततः सहस्रं विप्राणाम् अथवाष्टशतं तथा
भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः
एवमेष पुराणेषु तडागविधिरुच्यते ॥

58.51

कूपवापीषु सर्वासु तथा पुष्करिणीषु च
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च ॥

58.52

मन्त्रतस्तु विशेषः स्यात् प्रासादाद्यानभूमिषु
अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयम्भुवा
अल्पेष्वेकाग्निवत्कृत्वा वित्तशाठ्यादृते नृणाम् ॥

58.53

प्रावृट्काले स्थिते तोये ह्य् अग्निष्टोमफलं स्मृतम्
शरत्काले स्थितं यत्स्यात् तदुक्तफलदायकम्
वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम् ॥

58.54

अश्वमेधसमं प्राहुर् वसन्तसमये स्थितम्
ग्रीष्मे ऽपि तत्स्थितं तोयं राजसूयाद्विशिष्यते ॥

58.55

एतान्महाराज विशेषधर्मान् करोति यो ऽप्यागमशुद्धबुद्धिः
स याति रुद्रालयमाशु पूतः कल्पाननेकान्दिवि मोदते च ॥

58.56

अनेकलोकान्स महत्तमादीन् भुक्त्वा परार्धद्वयमङ्गनाभिः
सहैव विष्णोः परमं पदं यत् प्राप्नोति तद्यागफलेन भूयः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc