भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 57

57.1

दीर्घायुरारोग्यकुलाभिवृद्धि युक्तः पुमान्भूपकुलायुतः स्यात्
मुहुर्मुहुर्जन्मनि येन सम्यग् व्रतं समाचक्ष्व तदिन्दुमौले ॥

57.2

त्वया पृष्टमिदं सम्यग् उक्तं चाक्षय्यकारकम्
रहस्यं तव वक्ष्यामि यत्पुराणविदो विदुः ॥

57.3

रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम्
तस्मिन्नारायणस्यार्चाम् अर्चयद् इन्दुनामभिः ॥

57.4

यदा सोमदिने शुक्ला भवेत्पञ्चदशी क्वचित्
अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते ॥

57.5

तदा स्नानं नरः कुर्यात् पञ्चगव्येन सर्षपैः
आप्यायस्वेति तु जपेद् विद्वानष्टशतं पुनः ॥

57.6

शूद्रो ऽपि परया भक्त्या पाषण्डालापवर्जितः
सोमाय वरदायाथ विष्णवे च नमो नमः ॥

57.7

कृतजप्यः स्वभवनम् आगत्य मधुसूदनम्
पूजयेत्फलपुष्पैश्च सोमनामानि कीर्तयन् ॥

57.8

सोमाय शान्ताय नमो ऽस्तु पादाव् अनन्तधाम्नेति च जानुजङ्घे
ऊरुद्वयं चापि जलोदराय सम्पूजयेन्मेढ्रमनन्तबाहवे ॥

57.9

नमो नमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीया
तथोदरं चाप्यमृतोदराय नाभिः शशाङ्काय नमो ऽभिपूज्या ॥

57.10

नमो ऽस्तु चन्द्राय मुखं च पूज्यं दन्ता द्विजानामधिपाय पूज्याः
हास्यं नमश्चन्द्रमसे ऽभिपूज्यम् ओष्ठौ कुमुद्वन्तवनप्रियाय ॥

57.11

नासा च नाथाय वनौषधीनाम् आनन्दभूताय पुनर्भ्रुवौ च
नेत्रद्वयं पद्मनिभं तथेन्दोर् इन्दीवरश्यामकराय शौरेः ॥

57.12

नमः समस्ताध्वरवन्दिताय कर्णद्वयं दैत्यनिषूदनाय
ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः ॥

57.13

शिरः शशाङ्काय नमो मुरारेर् विश्वेश्वरायेति नमः किरीटिने
पद्मप्रिये रोहिणि नाम लक्ष्मीः सौभाग्यसौख्यामृतचारुकाये ॥

57.14

देवीं च संपूज्य सुगन्धपुष्पैर् नैवेद्यधूपादिभिरिन्दुपत्नीम्
सुप्त्वाथ भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः ॥

57.15

देयः प्रभाते सहिरण्यवारि कुम्भो नमः पापविनाशनाय
संप्राश्य गोमूत्रममांसमन्नम् अक्षारमष्टावथ विंशतिं च
ग्रासान्पयःसर्पिर्युतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तम् ॥

57.16

कदम्बनीलोत्पलकेतकानि जाती सरोजं शतपत्त्रिका च
अम्लानकुब्जान्यथ सिन्दुवारं पुष्पं पुनर्नारद मल्लिकायाः
शुभ्रं च विष्णोः करवीरपुष्पं श्रीचम्पकं चन्द्रमसः प्रदेयम् ॥

57.17

श्रावणादिषु मासेषु क्रमादेतानि सर्वदा
यस्मिन्मासे व्रतादिः स्यात् तत्पुष्पैरर्चयेद्धरिम् ॥

57.18

एवं संवत्सरं यावद् उपास्य विधिवन्नरः
व्रतान्ते शयनं दद्याद् दर्पणोपस्करान्वितम् ॥

57.19

रोहिणीचन्द्रमिथुनं कारयित्वाथ काञ्चनम्
चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला ॥

57.20

मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्
क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम्
दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम् ॥

57.21

श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम्
सवस्त्रभाजनां धेनुं तथा शङ्खं च शोभनम् ॥

57.22

भूषणैर्द्विजदाम्पत्यम् अलंकृत्य गुणान्वितम्
चन्द्रो ऽयं द्विजरूपेण सभार्य इति कल्पयेत् ॥

57.23

यथा न रोहिणी कृष्ण शय्यां संत्यज्य गच्छति
सोमरूपस्य ते तद्वन् ममाभेदो ऽस्तु भूतिभिः ॥

57.24

यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः
भुक्तिर्मुक्तिस्तथा भक्तिस् त्वयि चन्द्रास्तु मे सदा ॥

57.25

इति संसारभीतस्य मुक्तिकामस्य चानघ
रूपारोग्यायुषामेतद् विधायकमनुत्तमम् ॥

57.26

इदमेव पितॄणां च सर्वदा वल्लभं मुने
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्
चन्द्रलोकमवाप्नोति विद्युद्भूत्वा तु मुच्यते ॥

57.27

नारी वा रोहिणी चन्द्र शयनं या समाचरेत्
सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम् ॥

57.28

इति पठति शृणोति वा य इत्थं मधुमथनार्चनम् इन्दुकीर्तनेन
मतिमपि च ददाति सो ऽपि शौरेर् भवनगतः परिपूज्यते ऽमरौघैः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc