मत्स्य पुराण · अध्याय 53
पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात्
दानधर्ममशेषं तु यथावदनुपूर्वशः ॥
इदमेव पुराणेषु पुराणपुरुषस्तदा
यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत ॥
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥
पुराणमेकमेवासीत् तदा कल्पान्तरे ऽनघ
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥
निर्दग्धेषु च लोकेषु वाजिरूपेण वै मया
अङ्गानि चतुरो वेदान् पुराणं न्यायविस्तरम् ॥
मीमांसां धर्मशास्त्रं च परिगृह्य मया कृतम्
मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे ॥
अशेषम् एतत्कथितम् उदकान्तर्गतेन च
श्रुत्वा जगाद च मुनीन् प्रति देवांश्चतुर्मुखः ॥
प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः
कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो नृप ॥
व्यासरूपमहं कृत्वा संहरामि युगे युगे
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥
तथाष्टादशधा कृत्वा भूर्लोके ऽस्मिन्प्रकाश्यते
अद्यापि देवलोके ऽस्मिञ् छतकोटिप्रविस्तरम् ॥
तदर्थो ऽत्र चतुर्लक्षं संक्षेपेण निवशितः
पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते ॥
नामतस्तानि वक्ष्यामि शृणुध्वं मुनिसत्तमाः
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ॥
ब्राह्मं त्रिदशसाहस्रं पुराणं परिकीर्त्यते
लिखित्वा तच्च यो दद्याज् जलधेनुसमन्वितम्
वैशाखपूर्णिमायां च ब्रह्मलोके महीयते ॥
एतदेव यदा पद्मम् अभूद्धैरण्मयं जगत्
तद्वृत्तान्ताश्रयं तद्वत् पाद्ममित्युच्यते बुधैः
पाद्मं तत्पञ्चपञ्चाशत् सहस्राणीह कथ्यते ॥
तत्पुराणं च यो दद्यात् सुवर्णकमलान्वितम्
ज्येष्ठे मासि तिलैर्युक्तम् अश्वमेधफलं लभेत् ॥
वाराहकल्पवृत्तान्तम् अधिकृत्य पराशरः
यत्प्राह धर्मानखिलांस् तद्युक्तं वैष्णवं विदुः ॥
तदाषाढे च यो दद्याद् घृतधेनुसमन्वितम्
पौर्णमास्यां विपूतात्मा स पदं याति वारुणम्
त्रयोविंशतिसाहस्रं तत्प्रमाणं विदुर्बुधाः ॥
श्वेतकल्पप्रसङ्गेन धर्मान्वायुरिहाब्रवीत्
यत्र तद्वायवीयं स्याद् रुद्रमाहात्म्यसंयुतम्
चतुर्विंशसहस्राणि पुराणं तदिहोच्यते ॥
श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम्
यो दद्याद्वृषसंयुक्तं ब्राह्मणाय कुटुम्बिने
शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः ॥
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः
वृत्रासुरवधोपेतं तद्भागवतमुच्यते ॥
सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरोत्तमाः
तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते ॥
लिखित्वा तच्च यो दद्याद् धेमसिंहसमन्वितम्
पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम्
अष्टादश सहस्राणि पुराणं तत्प्रचक्षते ॥
यत्राह नारदो धर्मान् बृहत्कल्पाश्रयाणि च
पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते ॥
आश्विने पञ्चदश्यां तु दद्याद्धेनुसमन्वितम्
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥
यत्राधिकृत्य शकुनीन् धर्माधर्मविचारणा
व्याख्याता वै मुनिप्रश्ने मुनिभिर्धर्मचारिभिः ॥
मार्कण्डेयेन कथितं तत्सर्वं विस्तरेण तु
पुराणं नवसाहस्रं मार्कण्डेयम् इहोच्यते ॥
प्रतिलिख्य च यो दद्यात् सौवर्णकरिसंयुतम्
कार्त्तिक्यां पुण्डरीकस्य यज्ञस्य फलभाग्भवेत् ॥
यत् तद् ईशानकं कल्पं वृत्तान्तमधिकृत्य च
वसिष्ठायाग्निना प्रोक्तम् आग्नेयं तत्प्रचक्षते ॥
लिखित्वा तच्च यो दद्याद् धेमपद्मसमन्वितम्
मार्गशीर्ष्यां विधानेन तिलधेनुसमन्वितम् ॥
तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम्
यः प्रदधन्नरः सो ऽथ स्वर्गलोके महीयते ॥
यत्राधिकृत्य माहात्म्यम् आदित्यस्य चतुर्मुखः
अघोरकल्पवृत्तान्त प्रसङ्गेन जगत्स्थितिम्
मनवे कथयामास भूतग्रामस्य लक्षणम् ॥
चतुर्दश सहस्राणि तथा पञ्च शतानि च
भविष्यचरितप्रायं भविष्यं तदिहोच्यते ॥
तत्पौषे मासि यो दद्यात् पौर्णमास्यां विमत्सरः
गुडकुम्भसमायुक्तम् अग्निष्टोमफलं भवेत् ॥
रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च
सावर्णिना नारदाय कृष्णमाहात्म्यमुत्तमम् ॥
यत्र ब्रह्मवराहस्य चोदन्तं वर्णितं मुहुः
तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते ॥
पुराणं ब्रह्मवैवर्तं यो दद्यान्माघमासि च
पौर्णमास्यां शुभदिने ब्रह्मलोके महीयते ॥
यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः
धर्मार्थकाममोक्षार्थम् आग्नेयमधिकृत्य च ॥
कल्पान्ते लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम्
तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति
तिलधेनुसमायुक्तं स याति शिवसाम्यताम् ॥
महावराहस्य पुनर् माहात्म्यमधिकृत्य च
विष्णुनाभिहितं क्षोण्यै तद्वाराहम् इहोच्यते ॥
मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः
चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते ॥
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम्
पौर्णमास्यां मधौ दद्याद् ब्राह्मणाय कुटुम्बिने
वराहस्य प्रसादेन पदमाप्नोति वैष्णवम् ॥
यत्र माहेश्वरान्धर्मान् अधिकृत्य च षण्मुखः
कल्पे तत्पुरुषं वृत्तं चरितैरुपबृंहितम् ॥
स्कान्दं नाम पुराणं च ह्य् एकाशीतिर्निगद्यते
सहस्राणि शतं चैकम् इति मर्त्येषु गद्यते ॥
परिलिख्य च यो दद्याद् धेमशूलसमन्वितम्
शैवं पदमवाप्नोति मीने चोपागते रवौ ॥
त्रिविक्रमस्य माहात्म्यम् अधिकृत्य चतुर्मुखः
त्रिवर्गमभ्यधात्तच्च वामनं परिकीर्तितम् ॥
पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम्
यः शरद्विषुवे दद्याद् वैष्णवं यात्यसौ पदम् ॥
यत्र धर्मार्थकामानां मोक्षस्य च रसातले
माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥
इन्द्रद्युम्नप्रसङ्गेन ऋषिभ्यः शक्रसंनिधौ
अष्टादश सहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ॥
यो दद्यादयने कूर्मं हेमकूर्मसमन्वितम्
गोसहस्रप्रदानस्य फलं सम्प्राप्नुयान्नरः ॥
श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः
मत्स्यरूपेण मनवे नरसिंहोपवर्णनम् ॥
अधिकृत्याब्रवीत्सप्त कल्पवृत्तं मुनीश्वराः
तन्मात्स्यमिति जानीध्वं सहस्राणि चतुर्दश ॥
विषुवे हेममत्स्येन धेन्वा चैव समन्वितम्
यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला ॥
यदा च गारुडे कल्पे विश्वाण्डाद्गरुडोद्भवम्
अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते ॥
तद् अष्टादशकं चैकं सहस्राणीह पठ्यते
सौवर्णहंससंयुक्तं यो ददाति पुमानिह
स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥
ब्रह्मा ब्रह्माण्डमाहात्म्यम् अधिकृत्याब्रवीत्पुनः
तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः
तद्ब्रह्माण्डपुराणं च ब्रह्मणा समुदाहृतम् ॥
यो दद्यात्तद्व्यतीपाते पीतोर्णायुगसंयुतम्
राजसूयसहस्रस्य फलमाप्नोति मानवः
हेमधेन्वा युतं तच्च ब्रह्मलोकफलप्रदम् ॥
चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा
मत्पितुर्मम पित्रा च मया तुभ्यं निवेदितम् ॥
इह लोकहितार्थाय संक्षिप्तं परमर्षिणा
इदमद्यापि देवेषु शतकोटिप्रविस्तरम् ॥
उपभेदान्प्रवक्ष्यामि लोके ये सम्प्रतिष्ठिताः
पाद्मे पुराणे यत्रोक्तं नरसिंहोपवर्णनम्
तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते ॥
नन्दाया यत्र माहात्म्यं कार्त्तिकेयेन वर्ण्यते
नन्दीपुराणं तल्लोकैर् आख्यातमिति कीर्त्यते ॥
यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम्
प्रोच्यते तत्पुनर्लोके साम्बमेतन्मुनिव्रताः ॥
पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः
धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम्
एवमादित्यसंज्ञा च तत्रैव परिगद्यते ॥
अष्टादशभ्यस्तु पृथक् पुराणं यत्प्रदिश्यते
विजानीध्वं द्विजश्रेष्ठास् तदेतेभ्यो विनिर्गतम् ॥
पञ्चाङ्गानि पुराणेषु आख्यानकमिति स्मृतम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ॥
ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च
ससंहारप्रदानां च पुराणे पञ्चवर्णके ॥
धर्मश्चार्थश्च कामश्च मोक्षश्चैवात्र कीर्त्यते
सर्वेष्वपि पुराणेषु तद्विरुद्धं च यत्फलम् ॥
सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः
राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥
तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च
संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः
भारताख्यानमखिलं चक्रे तदुपबृंहितम्
लक्षेणैकेन यत्प्रोक्तं वेदार्थपरिबृंहितम् ॥
वाल्मीकिना तु यत्प्रोक्तं रामोपाख्यानमुत्तमम्
ब्रह्मणाभिहितं यच्च शतकोटिप्रविस्तरम् ॥
आहृत्य नारदायैवं तेन वाल्मीकये पुनः
वाल्मीकिना च लोकेषु धर्मकामार्थसाधनम्
एवं सपादाः पञ्चैते लक्षा मर्त्ये प्रकीर्तिताः ॥
पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः
धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम्
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥
इदं पवित्रं यशसो निधानम् इदं पितॄणामतिवल्लभं च
इदं च देवेष्व् अमृतायितं च नित्यं त्विदं पापहरं च पुंसाम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0