मत्स्य पुराण · अध्याय 54
अतः परं प्रवक्ष्यामि दानधर्मानशेषतः
व्रतोपवाससंयुक्तान् यथामत्स्योदितानिह ॥
महादेवस्य संवादे नारदस्य च धीमतः
यथावृत्तं प्रवक्ष्यामि धर्मकामार्थसाधकम् ॥
कैलासशिखरासीनम् अपृच्छन्नारदः पुरा
विनयनमनङ्गारिम् अनङ्गाङ्गहरं हरम् ॥
भगवन्देवदेवेश ब्रह्मविष्ण्विन्द्रनायक
श्रीमदारोग्यरूपायुर् भाग्यसौभाग्यसम्पदा
संयुक्तस्तव विष्णोर्वा पुमान्भक्तः कथं भवेत् ॥
नारी वा विधवा सर्व गुणसौभाग्यसंयुता
क्रमान्मुक्तिप्रदं देव किंचिद्व्रतमिहोच्यताम् ॥
सम्यक्पृष्टं त्वया ब्रह्मन् सर्वलोकहितावहम्
श्रुतमप्यत्र यच्छान्त्यै तद्व्रतं शृणु नारद ॥
नक्षत्रपुरुषं नाम व्रतं नारायणात्मकम्
पादादि कुर्याद्विधिवद् विष्णुनामानुकीर्तनम् ॥
प्रतिमां वासुदेवस्य मूलर्क्षादिषु चार्चयेत्
चैत्रमासं समासाद्य कृत्वा ब्राह्मणवाचनम् ॥
मूले नमो विश्वधराय पादौ गुल्फावनन्ताय च रोहिणीषु
जङ्घे ऽभिपूज्ये वरदाय चैव द्वे जानुनी वाश्विकुमारऋक्षे ॥
पूर्वोत्तराषाढयुगे तथोरू नमः शिवायेत्यभिपूजनीयौ
पूर्वोत्तराफल्गुनियुग्मके च मेढ्रं नमः पञ्चशराय पूज्यम् ॥
कटिं नमः शार्ङ्गधराय विष्णोः सम्पूजयेन्नारद कृत्तिकासु
तथार्चयेद्भाद्रपदाद्वये च पार्श्वे नमः केशिनिषूदनाय ॥
कुक्षिद्वयं नारद रेवतीषु दामोदरायेत्यभिपूजनीयम्
ऋक्षे ऽनुराधासु च माधवाय नमस्तथोरःस्थलमेव पूज्यम् ॥
पृष्ठं धनिष्ठासु च पूजनीयम् अघौघविध्वंसकराय तच्च
श्रीशङ्खचक्रासिगदाधराय नमो विशाखासु भुजाश्च पूज्याः ॥
हस्ते तु हस्ता मधुसूदनाय नमो ऽभिपूज्या इति कैटभारेः
पुनर्वसावङ्गुलिपूर्वभागाः साम्नामधीशाय नमो ऽभिपूज्याः ॥
भुजंगनक्षत्रदिने नखानि सम्पूजयेन्मत्स्यशरीरभाजः
कूर्मस्य पादौ शरणं व्रजामि ज्येष्ठासु कण्ठे हरिरर्चनीयः ॥
श्रोत्रे वराहाय नमो ऽभिपूज्या जनार्दनस्य श्रवणेन सम्यक्
पुष्ये मुखं दानवसूदनाय नमो नृसिंहाय च पूजनीयम् ॥
नमो नमः कारणवामनाय स्वातीषु दन्ताग्रमथार्चनीयम्
आस्यं हरेर्भार्गवनन्दनाय संपूजनीयं द्विज वारुणे तु ॥
नमो ऽस्तु रामाय मघासु नासा संपूजनीया रघुनन्दनस्य
मृगोत्तमाङ्गे नयने ऽभिपूज्ये नमो ऽस्तु ते राम विघूर्णिताक्ष ॥
बुद्धाय शान्ताय नमो ललाटं चित्रासु संपूज्यतमं मुरारेः
शिरो ऽभिपूज्यं भरणीषु विष्णोर् नमो ऽस्तु विश्वेश्वर कल्किरूपिणे ॥
आर्द्रासु केशाः पुरुषोत्तमस्य संपूजनीया हरये नमस्ते
उपोषितेनर्क्षदिनेषु भक्त्या संपूजनीया द्विजपुंगवाः स्युः ॥
पूर्णे व्रते सर्वगुणान्विताय वाग्रूपशीलाय च सामगाय
हैमीं विशालायतबाहुदण्डां मुक्ताफलेन्दूपलवज्रयुक्ताम् ॥
जलस्य पूर्णे कलशे निविष्टाम् अर्चां हरेर्वस्त्रगवा सहैव
शय्यां तथोपस्करभाजनादि युक्तां प्रदद्याद्द्विजपुंगवाय ॥
यद्यस्ति यत्किंचिदिहास्ति देयं दद्याद्द्विजायात्महिताय सर्वम्
मनोरथान्नः सफलीकुरुष्व हिरण्यगर्भाच्युतरुद्ररूपिन् ॥
सलक्ष्मीकं सभार्याय काञ्चनं पुरुषोत्तमम्
शय्यां च दद्यान्मन्त्रेण ग्रन्थिभेदविवर्जिताम् ॥
यथा न विष्णुभक्तानां वृजिनं जायते क्वचित्
तथा सुरूपतारोग्यं केशवे भक्तिमुत्तमाम् ॥
यथा न लक्ष्म्या शयनं तव शून्यं जनार्दन
शय्या ममाप्यशून्यास्तु कृष्ण जन्मनि जन्मनि ॥
एवं निवेद्य तत्सर्वं वस्त्रमाल्यानुलेपनम्
नक्षत्रपुरुषज्ञाय विप्रायाथ विसर्जयेत् ॥
भुञ्जीतातैललवणं सर्वर्क्षेष्वप्युपोषितः
भोजनं च यथाशक्ति वित्तशाठ्यविवर्जितः ॥
इति नक्षत्रपुरुषम् उपास्य विधिवत्स्वयम्
सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥
ब्रह्महत्यादिकं किंचिद् इह वामुत्र वा कृतम्
आत्मना वाथ पितृभिस् तत्सर्वं क्षयमाप्नुयात् ॥
इति पठति शृणोति वातिभक्त्या पुरुषवरो व्रतमङ्गनाथ कुर्यात्
कलिकलुषविदारणं मुरारेः सकलविभूतिफलप्रदं च पुंसाम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0