भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 52

52.1

इदानीं प्राह यद्विष्णुः पृष्टः परममुत्तमम्
तदिदानीं समाचक्ष्व धर्माधर्मस्य विस्तरम् ॥

52.2

एवमेकार्णवे तस्मिन् मत्स्यरूपी जनार्दनः
विस्तारमादिसर्गस्य प्रतिसर्गस्य चाखिलम् ॥

52.3

कथयामास विश्वात्मा मनवे सूर्यसूनवे
कर्मयोगं च सांख्यं च यथावद्विस्तरान्वितम् ॥

52.4

श्रोतुमिच्छामहे सूत कर्मयोगस्य लक्षणम्
यस्मादविदितं लोके न किंचित्तव सुव्रत ॥

52.5

कर्मयोगं च वक्ष्यामि यथा विष्णुविभाषितम्
ज्ञानयोगसहस्राद्धि कर्मयोगः प्रशस्यते ॥

52.6

कर्मयोगोद्भवं ज्ञानं तस्मात्तत्परमं पदम्
कर्मज्ञानोद्भवं ब्रह्म न च ज्ञानमकर्मणः ॥

52.7

तस्मात्कर्मणि युक्तात्मा तत्त्वमाप्नोति शाश्वतम्
वेदो ऽखिलो धर्ममूलम् आचारश्चैव तद्विदाम् ॥

52.8

अष्टावात्मगुणास् तस्मिन् प्रधानत्वेन संस्थिताः
दया सर्वेषु भूतेषु क्षान्ती रक्षातुरस्य तु ॥

52.9

अनसूया तथा लोके शौचमन्तर्बहिर्द्विजाः
अनायासेषु कार्येषु माङ्गल्याचारसेवनम् ॥

52.10

न च द्रव्येषु कार्पण्यम् आर्तेषूपार्जितेषु च
तथास्पृहा परद्रव्ये परस्त्रीषु च सर्वदा ॥

52.11

अष्टावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः
अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ॥

52.12

कर्मयोगं विना ज्ञानं कस्यचिन् नेह दृश्यते
श्रुतिस्मृत्युदितं धर्मम् उपतिष्ठेत्प्रयत्नतः ॥

52.13

देवतानां पितॄणां च मनुष्याणां च सर्वदा
कुर्यादहरहर्यज्ञैर् भूतर्षिगणतर्पणम् ॥

52.14

स्वाध्यायैरर्चयेच्चर्षीन् होमैर्विद्वान्यथाविधि
पितॄञ्छ्राद्धैर् अन्नदानैर् भूतानि बलिकर्मभिः ॥

52.15

पञ्चैते विहिता यज्ञाः पञ्चसूनापनुत्तये
कण्डनी पेषणी चुल्ली जलकुम्भी प्रमार्जनी ॥

52.16

पञ्च सूना गृहस्थस्य तेन स्वर्गं न गच्छति
तत्पापनाशनायामी पञ्च यज्ञाः प्रकीर्तिताः ॥

52.17

द्वाविंशतिस्तथाष्टौ च ये संस्काराः प्रकीर्तिताः
तद्युक्तो ऽपि न मोक्षाय यस्त्वात्मगुणवर्जितः ॥

52.18

तस्मादात्मगुणोपेतः श्रुतिकर्म समाचरेत्
गोब्राह्मणानां वित्तेन सर्वदा भद्रमाचरेत् ॥

52.19

गोभूहिरण्यवासोभिर् गन्धमाल्योदकेन च
पूजयेद्ब्रह्मविष्ण्वर्क रुद्रवस्वात्मकं शिवम् ॥

52.20

व्रतोपवासैर् विधिवच् छ्रद्धया च विमत्सरः
यो ऽसाव् अतीन्द्रियः शान्तः सूक्ष्मो ऽव्यक्तः सनातनः
वासुदेवो जगन्मूर्तिस् तस्य सम्भूतयो ह्य् अमी ॥

52.21

ब्रह्मा विष्णुश्च भगवान् मार्तण्डो वृषवाहनः
अष्टौ च वसवस्तद्वद् एकादश गणाधिपाः
लोकपालाधिपाश्चैव पितरो मातरस्तथा ॥

52.22

इमा विभूतयः प्रोक्ताश् चराचरसमन्विताः
ब्रह्माद्याश् चतुरो मूलम् अव्यक्ताधिपतिः स्मृतः ॥

52.23

ओं ओं ब्रह्मणा चाथ सूर्येण विष्णुनाथ शिवेन वा
अभेदात्पूजितेन स्यात् पूजितं सचराचरम् ॥

52.24

ब्रह्मादीनां परं धाम त्रयाणामपि संस्थितिः
वेदमूर्ताव् अतः पूषा पूजनीयः प्रयत्नतः ॥

52.25

तस्मादग्निद्विजमुखान् कृत्वा सम्पूजयेदिमान्
दानैर्व्रतोपवासैश्च जपहोमादिना नरः ॥

52.26

इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्सलस्य
विकर्मभीतस्य सदा न किंचित् प्राप्तव्यमस्तीह परे च लोके ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc