मत्स्य पुराण · अध्याय 51
ये पूज्याः स्युर् द्विजातीनाम् अग्नयः सूत सर्वदा
तानिदानीं समाचक्ष्व तद्वंशं चानुपूर्वशः ॥
यो ऽसाव् अग्निरभीमानी स्मृतः स्वायम्भुवे ऽन्तरे
ब्रह्मणो मानसः पुत्रस् तस्मात्स्वाहा व्यजीजनत् ॥
पावकं पवमानं च शुचिरग्निश्च यः स्मृतः
निर्मथ्यः पवमानो ऽग्निर् वैद्युतः पावकात्मजः ॥
शुचिरग्निः स्मृतः सौरः स्थावराश्चैव ते स्मृताः
पवमानात्मजो ह्य् अग्निर् हव्यवाहः स उच्यते ॥
पावकः सहरक्षस्तु हव्यवाहमुखः शुचिः
देवानां हव्यवाहो ऽग्निः प्रथमो ब्रह्मणः सुतः ॥
सहरक्षः सुराणां तु त्रयाणां ते त्रयो ऽग्नयः
एतेषां पुत्रपौत्राश्च चत्वारिंशत्तथैव च ॥
प्रवक्ष्ये नामतस्तान्वै प्रविभागेन तान्पृथक्
पावनो लौकिको ह्य् अग्निः प्रथमो ब्रह्मणश्च यः ॥
ब्रह्मौदनाग्निस् तत्पुत्रो भरतो नाम विश्रुतः
वैश्वानरो हव्यवाहो वहन्हव्यं ममार सः ॥
स मृतो ऽथर्वणः पुत्रो मथितः पुष्करोदधिः
यो ऽथर्वा लौकिको ह्य् अग्निर् दक्षिणाग्निः स उच्यते ॥
भृगोः प्रजायताथर्वा ह्य् अङ्गिराथर्वणः स्मृतः
तस्य ह्य् अलौकिको ह्य् अग्निर् दक्षिणाग्निः स वै स्मृतः ॥
अथ यः पवमानस्तु निर्मथ्यो ऽग्निः स उच्यते
स च वै गार्हपत्यो ऽग्निः प्रथमो ब्रह्मणः स्मृतः ॥
ततः सभ्यावसथ्यौ च संशत्यास् तौ सुतावुभौ
ततः षोडश नद्यस्तु चकमे हव्यवाहनः
यः खल्वाहवनीयो ऽग्निर् अभिमानी द्विजैः स्मृतः ॥
कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा
गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् ॥
विपाशां कौशिकीं चैव शतद्रुं सरयूं तथा
सीतां मनस्विनीं चैव ह्रादिनीं पावनां तथा ॥
तासु षोडशधात्मानं प्रविभज्य पृथक्पृथक्
तदा तु विहरंस्तासु धिष्ण्येच्छः स बभूव ह ॥
स्वाभिधानस्थिता धिष्ण्यास् तासूत्पन्नाश्च धिष्णवः
धिष्ण्येषु जज्ञिरे यस्मात् ततस्ते धिष्णवः स्मृताः ॥
इत्येते वै नदीपुत्रा धिष्ण्येषु प्रतिपेदिरे
तेषां विहरणीया ये उपस्थेयाश्च ताञ्शृणु
विभुः प्रवाहणो ऽग्नीध्रस् तत्रस्था धिष्णवो ऽपरे ॥
विहरति यथास्थानं पुण्याहे समुपक्रमे
अनिर्देश्यानिवार्याणाम् अग्नीनां शृणुत क्रमम् ॥
वासवो ऽग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः
सम्राडग्निसुतो ह्यष्टाव् उपतिष्ठन्ति तान्द्विजाः ॥
पर्जन्यः पवमानस्तु द्वितीयः सो ऽनुदृश्यते
पावकोष्णः समूह्यस्तु वोत्तरे सो ऽग्निरुच्यते ॥
हव्यसूदो ह्य् असंमृज्यः शामित्रः स विभाव्यते
शतधामा सुधाज्योती रौद्रैश्वर्यः स उच्यते ॥
ब्रह्मज्योतिर् वसुधामा ब्रह्मस्थानीय उच्यते
अजैकपादुपस्थेयः स वै शालामुखो यतः ॥
अनिर्देश्यो ह्यहिर्बुध्न्यो बहिरन्ते तु दक्षिणौ
पुत्रा ह्येते तु सर्वस्य उपस्थेया द्विजैः स्मृताः ॥
ततो विहरणीयांस्तु वक्ष्याम्यष्टौ तु तान्सुतान्
हौत्रियस्य सुतो ह्यग्निर् बर्हिषो हव्यवाहनः ॥
प्रशंस्यो ऽग्निः प्रचेतास्तु द्वितीयः संसहायकः
सुतो ह्यग्नेर् विश्ववेदा ब्राह्मणाच्छंसिरुच्यते ॥
अपां योनिः स्मृतः स्वाम्भः सेतुर्नाम विभाव्यते
धिष्ण्य आहरणा ह्येते सोमेनेज्यन्त वै द्विजैः ॥
ततो यः पावको नाम्ना यः सद्भिर्योग उच्यते
अग्निः सो ऽवभृथो ज्ञेयो वरुणेन सहेज्यते ॥
हृदयस्य सुतो ह्यग्नेर् जठरे ऽसौ नृणां पचन्
मन्युमाञ्जठरश्चाग्निर् विद्धाग्निः सततं स्मृतः ॥
परस्परोत्थितो ह्यग्निर् भूतानीह विभुर्दहन्
अग्नेर्मन्युमतः पुत्रो घोरः संवर्तकः स्मृतः ॥
पिबन्नपः स वसति समुद्रे वडवामुखे
समुद्रवासिनः पुत्रः सहरक्षो विभाव्यते ॥
सहरक्षस्तु वै कामान् गृहे स वसते नृणाम्
क्रव्यादग्निः सुतस्तस्य पुरुषान्यो ऽत्ति वै मृतान् ॥
इत्येते पावकस्याग्नेर् द्विजैः पुत्राः प्रकीर्तिताः
ततः सुतास्तु सौवीर्याद् गन्धर्वैरसुरैर् हृताः ॥
मथितो यस्त्वरण्यां तु सो ऽग्निराप समिन्धनम्
आयुर् नाम्ना तु भगवान् पशौ यस्तु प्रणीयते ॥
आयुषो महिमान्पुत्रो दहनस्तु ततः सुतः
पाकयज्ञेष्व् अभीमानी हुतं हव्यं भुनक्ति यः ॥
सर्वस्माद्देवलोकाच्च हव्यं कव्यं भुनक्ति यः
पुत्रो ऽस्य सहितो ह्यग्निर् अद्भुतः स महायशाः ॥
प्रायश्चित्तेष्वभीमानी हृतं हव्यं भुनक्ति यः
अद्भुतस्य सुतो वीरो देवांशस्तु महान्स्मृतः ॥
विविधाग्निस्ततस्तस्य तस्य पुत्रो महाकविः
विविधाग्निसुतादर्काद् अग्नयो ऽष्टौ सुताः स्मृताः ॥
काम्यास्विष्टिष्वभीमानी रक्षोहायतिकृच्च यः
सुरभिर्वसुमान्नादो हर्यश्वश्चैव रुक्मवान् ॥
प्रवर्ग्यः क्षेमवांश्चैव इत्यष्टौ च प्रकीर्तिताः
शुच्यग्नेस्तु प्रजा ह्येषा अग्नयश्च चतुर्दश ॥
इत्येते ह्यग्नयः प्रोक्ताः प्रणीता ये हि चाध्वरे
समतीते तु सर्गे ये यामैः सह सुरोत्तमैः ॥
स्वायम्भुवे ऽन्तरे पूर्वम् अग्नयस्ते ऽभिमानिनः
एते विहरणीयेषु चेतनाचेतनेष्विह ॥
स्थानाभिमानिनो ऽग्नीध्राः प्रागासन्हव्यवाहनाः
काम्यनैमित्तिकाद्यास्ते ये ते कर्मस्ववस्थिताः ॥
पूर्वे मन्वन्तरे ऽतीते शुक्रैर्यामैश्च तैः सह
एते देवगणैः सार्धं प्रथमस्यान्तरे मनोः ॥
इत्येता योनयो ह्यक्ताः स्थानाख्या जातवेदसाम्
स्वारोचिषादिषु ज्ञेयाः सवर्णान्तेषु सप्तसु ॥
तैरेवं तु प्रसंख्यातं साम्प्रतानागतेष्विह
मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम् ॥
मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः
वर्तन्ते वर्तमानैश्च यामैर्देवैः सहाग्नयः ॥
अनागतैः सुरैः सार्धं वत्स्यन्तो ऽनागतास्त्वथ
इत्येष प्रचयो ऽग्नीनां मया प्रोक्तो यथाक्रमम्
विस्तरेणानुपूर्व्या च किमन्यच्छ्रोतुमिच्छथ ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0