भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 50

50.1

अजमीढस्य नीलिन्यां नीलः समभवन्नृपः
नीलस्य तपसोग्रेण सुशान्तिरुदपद्यत ॥

50.2

पुरुजानुः सुशान्तेस्तु पृथुस्तु पुरुजानुतः
भद्राश्वः पृथुदायादो भद्राश्वतनयाञ्छृणु ॥

50.3

मुद्गलश्च जयश्चैव राजा बृहदिषुस्तथा
जवीनरश्च विक्रान्तः कपिलश्चैव पञ्चमः ॥

50.4

पञ्चानां चैव पञ्चालान् एताञ्जनपदान्विदुः
पञ्चालरक्षिणो ह्य् एते देशानामिति नः श्रुतम् ॥

50.5

मुद्गलस्यापि मौद्गल्याः क्षत्रोपेता द्विजातयः
एते ह्य् अङ्गिरसः पक्षं संश्रिताः काण्वमुद्गलाः ॥

50.6

मुद्गलस्य सुतो जज्ञे ब्रह्मिष्ठः सुमहायशाः
इन्द्रसेनः सुतस्तस्य विन्ध्याश्वस्तस्य चात्मजः ॥

50.7

विन्ध्याश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः
दिवोदासश्च राजर्षिर् अहल्या च यशस्विनी ॥

50.8

शरद्वतस्तु दायादम् अहल्या सम्प्रसूयत
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहातपाः ॥

50.9

सुतः सत्यधृतिर्नाम धनुर्वेदस्य पारगः
आसीत्सत्यधृतेः शुक्रम् अमोघं धार्मिकस्य तु ॥

50.10

स्कन्नं रेतः सत्यधृतेर् दृष्ट्वा चाप्सरसं जले
मिथुनं तत्र संभृतं तस्मिन्सरसि संभृतम् ॥

50.11

ततः सरसि तस्मिंस्तु क्रममाणं महीपतिः
दृष्ट्वा जग्राह कृपया शंतनुर्मृगयां गतः ॥

50.12

एते शरद्वतः पुत्रा आख्याता गौतमा वराः
अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य वै प्रजाः ॥

50.13

दिवोदासस्य दायादो धर्मिष्ठो मित्रयुर्नृपः
मैत्रायणावरः सो ऽथ मैत्रेयस्तु ततः स्मृतः ॥

50.14

एते वंश्या यतेः पक्षाः क्षत्रोपेतास्तु भार्गवाः
राजा चैद्यवरो नाम मैत्रेयस्य सुतः स्मृतः ॥

50.15

अथ चैद्यवराद्विद्वान् सुदासस्तस्य चात्मजः
अजमीढः पुनर्जातः क्षीणे वंशे तु सोमकः ॥

50.16

सोमकस्य सुतो जन्तुर् हते तस्मिञ्छतं बभौ
पुत्राणामजमीढस्य सोमकस्य महात्मनः ॥

50.17

महिषी त्व् अजमीढस्य धूमिनी पुत्रवर्धिनी
पुत्राभावे तपस्तेपे शतं वर्षाणि दुश्चरम् ॥

50.18

हुत्वाग्निं विधिवत्सम्यक् पवित्रीकृतभोजना
अग्निहोत्रक्रमेणैव सा सुष्वाप महाव्रता ॥

50.19

तस्यां वै धूमवर्णायाम् अजमीढः समीयिवान्
ऋक्षं सा जनयामास धूमवर्णं शताग्रजम् ॥

50.20

ऋक्षात्संवरणो जज्ञे कुरुः संवरणात् ततः
यः प्रयागमतिक्रम्य कुरुक्षेत्रमकल्पयत् ॥

50.21

कृष्यतस्तु महाराजो वर्षाणि सुबहून्यथ
कृष्यमाणस्ततः शक्रो भयात्तस्मै वरं ददौ ॥

50.22

पुण्यं च रमणीयं च कुरुक्षेत्रं तु तत्स्मृतम्
तस्यान्ववायः सुमहान् यस्य नाम्ना तु कौरवाः ॥

50.23

कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च
परीक्षिच्च महातेजाः प्रजनश्चारिमर्दनः ॥

50.24

सुधन्वनस्तु दायादः पुत्रो मतिमतां वरः
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थतत्त्ववित् ॥

50.25

च्यवनस्य कृमिः पुत्र ऋक्षाज्जज्ञे महातपाः
कृमेः पुत्रो महावीर्यः ख्यातस्त्विन्द्रसमो विभुः ॥

50.26

चैद्योपरिचरो वीरो वसुर्नामान्तरिक्षगः
चैद्योपरिचराज्जज्ञे गिरिका सप्त वै सुतान् ॥

50.27

महारथो मगधराड् विश्रुतो यो बृहद्रथः
प्रत्यश्रवाः कुशश्चैव चतुर्थो हरिवाहनः ॥

50.28

पञ्चमश्च यजुश्चैव मत्स्यः काली च सप्तमी
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ॥

50.29

कुशाग्रस्यात्मजश्चैव वृषभो नाम वीर्यवान्
वृषभस्य तु दायादः पुण्यवान्नाम पार्थिवः ॥

50.30

पुण्यः पुण्यवतश्चैव राजा सत्यधृतिस्ततः
दायादस्तस्य धनुषस् तस्मात्सर्वश्च जज्ञिवान् ॥

50.31

सर्वस्य सम्भवः पुत्रस् तस्माद्राजा बृहद्रथः
द्वे तस्य शकले जाते जरया संधितश् च सः ॥

50.32

जरया संधितो यस्माज् जरासंधस्ततः स्मृतः
जेता सर्वस्य क्षत्रस्य जरासंधो महाबलः ॥

50.33

जरासंधस्य पुत्रस्तु सहदेवः प्रतापवान्
सहदेवात्मजः श्रीमान् सोमवित् स महातपाः ॥

50.34

श्रुतश्रवास्तु सोमादेर् मागधाः परिकीर्तिताः
जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम् ॥

50.35

सुरथस्य तु दायादो वीरो राजा विदूरथः
विदूरथसुतश्चापि सार्वभौम इति स्मृतः ॥

50.36

सार्वभौमाज्जयत्सेनो रुचिरस्तस्य चात्मजः
रुचिरात्तु ततो भौमस् त्वरितायुस्ततो ऽभवत् ॥

50.37

अक्रोधनस् त्व् आयुसुतस् तस्माद्देवातिथिः स्मृतः
देवातिथेस्तु दायादो दक्ष एव बभूव ह ॥

50.38

भीमसेनस्ततो दक्षाद् दिलीपस् तस्य चात्मजः
दिलीपस्य प्रतीपस्तु तस्य पुत्रास् त्रयः स्मृताः ॥

50.39

देवापिः शंतनुश्चैव वाह्लीकश्चैव ते त्रयः
वाह्लीकस्य तु दायादाः सप्त वाह्लीश्वरा नृपाः
देवापिस्तु ह्य् अपध्यातः प्रजाभिरभवन्मुनिः ॥

50.40

प्रजाभिस्तु किमर्थं वै ह्य् अपध्यातो जनेश्वरः
को दोषो राजपुत्रस्य प्रजाभिः समुदाहृतः ॥

50.41

किलासीद्राजपुत्रस्तु कुष्ठी तं नाभ्यपूजयन्
कार्यं चैव तु देवानां क्षत्रं प्रति द्विजोत्तमाः
भविष्यं कीर्तयिष्यामि शंतनोस्तु निबोधत ॥

50.42

शंतनुस्त्वभवद्राजा विद्वान्स वै महाभिषक्
इदं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषक् ॥

50.43

यं यं कराभ्यां स्पृशति जीर्णं रोगिणमेव च
पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः ॥

50.44

तत्तस्य शंतनुत्वं हि प्रजाभिरिह कीर्त्यते
ततो ऽवृणुत भार्यार्थं शंतनुर्जाह्नवीं नृप ॥

50.45

तस्यां देवव्रतं नाम कुमारं जनयद्विभुः
काली विचित्रवीर्यं तु दाशेयी जनयत्सुतम् ॥

50.46

शंतनोर्दयितं पुत्रं शान्तात्मानमकल्मषम्
कृष्णद्वैपायनो नाम क्षेत्रे वैचित्रविर्यके ॥

50.47

धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत्
धृतराष्ट्रस्तु गान्धार्यां पुत्रानजनयच्छतम् ॥

50.48

तेषां दुर्योधनः श्रेष्ठः सर्वक्षत्रस्य वै प्रभुः
माद्री कुन्ती तथा चैव पाण्डोर्भार्ये बभूवतुः ॥

50.49

देवदत्ताः सुताः पञ्च पाण्डोरर्थे ऽभिजज्ञिरे
धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः ॥

50.50

इन्द्राद्धनंजयश्चैव इन्द्रतुल्यपराक्रमः
नकुलं सहदेवं च माद्र्यश्विभ्यामजीजनत् ॥

50.51

पञ्चैते पाण्डवेभ्यस्तु द्रौपद्यां जज्ञिरे सुताः
द्रौपद्यजनयच्छ्रेष्ठं प्रतिविन्ध्यं युधिष्ठिरात् ॥

50.52

श्रुतसेनं भीमसेनाच् छ्रुतकीर्तिं धनंजयात्
चतुर्थं श्रुतकर्माणं सहदेवाद् अजायत ॥

50.53

नकुलाच्च शतानीकं द्रौपदेयाः प्रकीर्तिताः
तेभ्यो ऽपरे पाण्डवेयाः षडेवान्ये महारथाः ॥

50.54

हैडम्बो भीमसेनात्तु पुत्रो जज्ञे घटोत्कचः
काशी बलधराद्भीमाज् जज्ञे वै सर्वगं सुतम् ॥

50.55

सुहोत्रं तनयं माद्री सहदेवादसूयत
करेणुमत्यां चैद्यायां निरमित्रस्तु नाकुलिः ॥

50.56

सुभद्रायां रथी पार्थाद् अभिमन्युरजायत
यौधेयं देवकी चैव पुत्रं जज्ञे युधिष्ठिरात् ॥

50.57

अभिमन्योः परीक्षित्तु पुत्रः परपुरजयः
जनमेजयः परीक्षितः पुत्रः परमधार्मिकः ॥

50.58

ब्रह्माणं कल्पयामास स वै वाजसनेयकम्
स वैशम्पायनेनैव शप्तः किल महर्षिणा ॥

50.59

न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि
यावत्स्थास्यसि त्वं लोके तावदेव प्रपत्स्यति ॥

50.60

क्षत्रस्य विजयं ज्ञात्वा ततःप्रभृति सर्वशः
अभिगम्य स्थिताश्चैव नृपं च जनमेजयम् ॥

50.61

ततःप्रभृति शापेन क्षत्रियस्य तु याजिनः
उत्सन्ना याजिनो यज्ञे ततःप्रभृति सर्वशः ॥

50.62

क्षत्रस्य याजिनः केचिच् छापात्तस्य महात्मनः
पौर्णमासेन हविषा इष्ट्वा तस्मिन्प्रजापतिम्
स वैशम्पायनेनैव प्रविशन्वारितस्ततः ॥

50.63

परीक्षितः सुतो ऽसौ वै पौरवो जनमेजयः
द्विर् अश्वमेधमाहृत्य महावाजसनेयकः ॥

50.64

प्रवर्तयित्वा तं सर्वम् ऋषिं वाजसनेयकम्
विवादे ब्राह्मणैः सार्धम् अभिशप्तो वनं ययौ ॥

50.65

जनमेजयाच्छतानीकस् तस्माज्जज्ञे स वीर्यवान्
जनमेजयः शतानीकं पुत्रं राज्ये ऽभिषिक्तवान् ॥

50.66

अथाश्वमेधेन ततः शतानीकस्य वीर्यवान्
जज्ञे ऽधिसोमकृष्णाख्यः साम्प्रतं यो महायशाः ॥

50.67

तस्मिञ्छासति राष्ट्रं तु युष्माभिरिदमाहृतम्
दुरापं दीर्घसत्त्रं वै त्रीणि वर्षाणि पुष्करे
वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ॥

50.68

भविष्यं श्रोतुमिच्छामः प्रजानां लोमहर्षणे
पुरा किल यदेतद्वै व्यतीतं कीर्तितं त्वया ॥

50.69

येषु वै स्थास्यते क्षत्रम् उत्पत्स्यन्ते नृपाश्च ये
तेषाम् आयुष्प्रमाणं च नामतश्चैव तान्नृपान् ॥

50.70

कृतयुगप्रमाणं च त्रेताद्वापरयोस्तथा
कलियुगप्रमाणं च युगदोषं युगक्षयम् ॥

50.71

सुखदुःखप्रमाणं च प्रजादोषं युगस्य तु
एतत्सर्वं प्रसंख्याय पृच्छतां ब्रूहि नः प्रभो ॥

50.72

यथा मे कीर्तितं पूर्वं व्यासेनाक्लिष्टकर्मणा
भाव्यं कलियुगं चैव तथा मन्वन्तराणि च ॥

50.73

अनागतानि सर्वाणि ब्रुवतो मे निबोधत
अत ऊर्ध्वं प्रवक्ष्यामि भविष्या ये नृपास्तथा ॥

50.74

ऐडेक्ष्वाक्वन्वये चैव पौरवे चान्वये तथा
येषु संस्थास्यते तच्च ऐडेक्ष्वाकुकुलं शुभम्
तान्सर्वान्कीर्तयिष्यामि भविष्ये कथितान्नृपान् ॥

50.75

तेभ्यो ऽपरे ऽपि ये त्व् अन्ये ह्य् उत्पत्स्यन्ते नृपाः पुनः
क्षत्राः पारशवाः शूद्रास् तथान्ये ये बहिश्चराः ॥

50.76

अन्धाः शकाः पुलिन्दाश्च चूलिका यवनास्तथा
कैवर्ताभीरशबरा ये चान्ये म्लेच्छसम्भवाः
पर्यायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ॥

50.77

अधिसोमकृष्णश् चैतेषां प्रथमं वर्तते नृपः
तस्यान्ववाये वक्ष्यामि भविष्ये कथितान्नृपान् ॥

50.78

अधिसोमकृष्णपुत्रस्तु विवक्षुर्भविता नृपः
गङ्गया तु हृते तस्मिन् नगरे नागसाह्वये ॥

50.79

त्यक्त्वा विवक्षुर्नगरं कौशाम्ब्यां तु निवत्स्यति
भविष्याष्टौ सुतास्तस्य महाबलपराक्रमाः ॥

50.80

भूरिर्ज्येष्ठः सुतस्तस्य तस्य चित्ररथः स्मृतः
शुचिद्रवश्चित्ररथाद् वृष्णिमांश्च शुचिद्रवात् ॥

50.81

वृष्णिमतः सुषेणश्च भविष्यति शुचिर्नृपः
तस्मात्सुषेणाद्भविता सुनीथो नाम पार्थिवः ॥

50.82

नृपात्सुनीथाद्भविता नृचक्षुः सुमहायशाः
नृचक्षुषस्तु दायादो भविता वै सुखीवलः ॥

50.83

सुखीवलसुतश्चापि भावी राजा परिष्णवः
परिष्णवसुतश्चापि भविता सुतपा नृपः ॥

50.84

मेधावी तस्य दायादो भविष्यति न संशयः
मेधाविनः सुतश्चापि भविष्यति पुरंजयः ॥

50.85

उर्वो भाव्यः सुतस्तस्य तिग्मात्मा तस्य चात्मजः
तिग्माद्बृहद्रथो भाव्यो वसुदामा बृहद्रथात् ॥

50.86

वसुदाम्नः शतानीको भविष्योदयनस्ततः
भविष्यते चोदयनाद् वीगे राजा वहीनरः ॥

50.87

वहीनरात्मजश्चैव दण्डपाणिर्भविष्यति
दण्डपाणेर्निरमित्रो निरमित्रात्तु क्षेमकः ॥

50.88

अत्रानुवंशश्लोको ऽयं गीतो विप्रैः पुरातनैः
ब्रह्मक्षत्रस्य यो योनिर् वंशो देवर्षिसत्कृतः
क्षेमकं प्राप्य राजानं संस्थास्यति कलौ युगे ॥

50.89

इत्येष पौरवो वंशो यथावदिह कीर्तितः
धीमतः पाण्डुपुत्रस्य चार्जुनस्य महात्मनः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc