भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 49

49.1

पूरोः पुत्रो महातेजा राजा स जनमेजयः
प्राचीत्वतः सुतस्तस्य यः प्राचीमकरोद्दिशम् ॥

49.2

प्राचीत्वतस्य तनयो मनस्युश्च तथाभवत्
राजा पीतायुधो नाम मनस्योरभवत्सुतः ॥

49.3

दायादस्तस्य चाप्यासीद् धुन्धुर्नाम महीपतिः
धुन्धोर्बहुविधः पुत्रः सम्पातिस्तस्य चात्मजः ॥

49.4

सम्पातेस्तु रंहवर्चा भद्राश्वस्तस्य चात्मजः
भद्राश्वस्य धृतायां तु दशाप्सरसि सूनवः ॥

49.5

औचेयुश्च हृषेयुश्च कक्षेयुश्च सनेयुकः
धृतेयुश्च विनेयुश्च स्थलेयुश्चैव सत्तमः ॥

49.6

धर्मेयुः संनतेयुश्च पुण्येयुश्चेति ते दश
औचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ॥

49.7

तस्यां स जनयामास अन्तिनारं महीपतिम्
अन्तिनारो मनस्विन्यां पुत्राञ्जज्ञे पराञ्छुभान् ॥

49.8

अमूर्तरयसं वीरं त्रिवनं चैव धार्मिकम्
गौरी कन्या तृतीया च मान्धातुर्जननी शुभा ॥

49.9

इलिना तु यमस्यासीत् कन्या याजनयत्सुतान्
ब्रह्मवादपराक्रान्ताञ् छुभदा त्व् इलिना ह्य् अभूत् ॥

49.10

उपदानवी सुतांल्लेभे चतुरस्त्विलिनात्मजात्
ऋष्यन्तमथ दुष्यन्तं प्रवीरम् अनधं तथा ॥

49.11

चक्रवर्ती ततो यज्ञे दुष्यन्तात्समितिंजयः
शकुन्तलायां भरतो यस्य नाम्ना च भारताः ॥

49.12

दौष्यन्तीं प्रति राजानं वागूचे चाशरीरिणी
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥

49.13

भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्
रेतोधां नयते पुत्रः परेतं यमसादनात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥

49.14

भरतस्य विनष्टेषु तनयेषु पुरा किल
पुत्राणां मातृकात् कोपात् सुमहान्संक्षयः कृतः ॥

49.15

ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः
संक्रामितो भरद्वाजो मरुद्भिर्भरतस्य तु ॥

49.16

भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम्
संक्रामितो महातेजास् तन्नो ब्रूहि यथातथम् ॥

49.17

पत्न्यामापन्नसत्त्वायाम् उशिजः स स्थितो भुवि
भ्रातुर्भार्यां स दृष्ट्वा तु बृहस्पतिरुवाच ह ॥

49.18

उपतिष्ठ स्वलंकृत्य मैथुनाय च मां शुभे
एवमुक्ताब्रवीदेनं स्वयमेव बृहस्पतिम् ॥

49.19

गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा
अमोघरेतास्त्वं चापि धर्मं चैवं विगर्हितम् ॥

49.20

एवमुक्तो ऽब्रवीदेनां स्वयमेव बृहस्पतिः
नोपदेष्टव्यो विनयस् त्वया मे वरवर्णिनि ॥

49.21

धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे
ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह ॥

49.22

संनिविष्टो ह्य् अहं पूर्वम् इह नाम बृहस्पते
अमोघरेताश्च भवान् नावकाश इह द्वयोः ॥

49.23

एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति
अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि ॥

49.24

ततः कामं संनिवर्त्य तस्यानन्दाद्बृहस्पतेः
तद्रेतस्त्वपतद्भूमौ निवृत्तं शिशुको ऽभवत् ॥

49.25

सद्योजातं कुमारं तु दृष्ट्वा तं ममताब्रवीत्
गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते ॥

49.26

एवमुक्त्वा गता सा तु गतायां सो ऽपि तं त्यजत्
मातापितृभ्यां त्यक्तं तु दृष्ट्वा तं मरुतः शिशुम्
जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः ॥

49.27

तस्मिन्काले तु भरतो बहुभिर् ऋतुभिर्विभुः
पुत्रनैमित्तिकैर्यज्ञैर् अयजत्पुत्रलिप्सया ॥

49.28

यदा स यजमानस्तु पुत्रं नासादयत्प्रभुः
ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत् ॥

49.29

तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः
उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै ॥

49.30

दायादो ऽङ्गिरसः सूनोर् औरसस्तु बृहस्पतेः
संक्रामितो भरद्वाजो मरुद्भिर्भरतं प्रति ॥

49.31

भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुर् ब्रवीत्
आदाव् आत्महिताय त्वं कृतार्थो ऽहं त्वया विभो ॥

49.32

पूर्वं तु वितथे तस्मिन् कृते वै पुत्रजन्मनि
ततस्तु वितथो नाम भरद्वाजो नृपो ऽभवत् ॥

49.33

तस्मादपि भरद्वाजाद् ब्राह्मणाः क्षत्रिया भुवि
द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च ॥

49.34

ततो जाते हि वितथे भरतश्च दिवं ययौ
भरद्वाजो दिवं यातो ह्य् अभिषिच्य सुतमृषिः ॥

49.35

दायादो वितथस्यासीद् भुवमन्युर् महायशाः
महाभूतोपमाः पुत्राश् चत्वारो भुवमन्यवः ॥

49.36

बृहत्क्षत्रो महावीर्यो नरो गर्गश्च वीर्यवान्
नरस्य संकृतिः पुत्रस् तस्य पुत्रो महायशाः ॥

49.37

गुरुधी रन्तिदेवश्च सत्कृत्यां ताव् उभौ स्मृतौ
गर्गस्य चैव दायादः शिबिर्विद्वानजायत ॥

49.38

स्मृताः शैब्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः
आहार्यतनयश्चैव धीमानासीद् उरुक्षवः ॥

49.39

तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम्
त्र्युषणं पुष्करिं चैव कविं चैव महायशाः ॥

49.40

उरुक्षवाः स्मृता ह्य् एते सर्वे ब्राह्मणतां गताः
काव्यानां तु वरा ह्य् एते त्रयः प्रोक्ता महर्षयः ॥

49.41

गर्गाः संकृतयः काव्याः क्षत्रोपेता द्विजातयः
संभृताङ्गिरसो दक्षा बृहत्क्षत्रस्य च क्षितिः ॥

49.42

बृहत्क्षत्रस्य दायादो हस्तिनामा बभूव ह
तेनेदं निर्मितं पूर्वं पुरं तु गजसाह्वयम् ॥

49.43

हस्तिनश्चैव दायादास् त्रयः परमकीर्तयः
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ॥

49.44

अजमीढस्य पत्न्यस्तु तिस्रः कुरुकुलोद्वहाः
नीलिनी धूमिनी चैव केशिनी चैव विश्रुता ॥

49.45

स तासु जनयामास पुत्रान्वै देववर्चसः
तपसो ऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः ॥

49.46

भारद्वाजप्रसादेन विस्तरं तेषु मे शृणु
आजमीढस्य केशिन्यां कण्वः समभवत्किल ॥

49.47

मेधातिथिः सुतस्तस्य तस्मात्काण्वायना द्विजाः
अजमीढस्य भूमिन्यां जज्ञे बृहदनुर् नृपः ॥

49.48

बृहदनोर् बृहन्तो ऽथ बृहन्तस्य बृहन्मनाः
बृहन्मनःसुतश्चापि बृहद्धनुरिति श्रुतः ॥

49.49

बृहद्धनोर् बृहदिषुः पुत्रस्तस्य जयद्रथः
अश्वजित्तनयस्तस्य सेनजित् तस्य चात्मजः ॥

49.50

अथ सेनजितः पुत्राश् चत्वारो लोकविश्रुताः
रुचिराश्वश्च काव्यश्च राजा दृढरथस्तथा ॥

49.51

वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः
रुचिराश्वस्य दायादः पृथुसेनो महायशाः ॥

49.52

पृथुसेनस्य पौरस्तु पौरान्नीपो ऽथ जज्ञिवान्
नीपस्यैकशतं त्व् आसीत् पुत्राणाम् अमितौजसाम् ॥

49.53

नीपा इति समाख्याता राजानः सर्व एव ते
तेषां वंशकरः श्रीमान् नीपानां कीर्तिवर्धनः ॥

49.54

काव्याच्च समरो नाम सदेष्टसमरो ऽभवत्
समरस्य पारसम्पारौ सदश्व इति ते त्रयः ॥

49.55

पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि
पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतो ऽभवत् ॥

49.56

जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः
विभ्राजस्य तु दायादस् त्व् अणुहो नाम वीर्यवान् ॥

49.57

बभूव शुकजामाता कृत्वीभर्ता महायशाः
अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः ॥

49.58

युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः
विभ्राजः पुनर् आजातः सुकृतेनेह कर्मणा ॥

49.59

विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह
भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥

49.60

उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते
किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः ॥

49.61

उग्रायुधः सूर्यवंश्यस् तपस्तेपे वराश्रमे
स्थाणुभूतो ऽष्टसाहस्रं तं भेजे जनमेजयः ॥

49.62

तस्य राज्यं प्रतिश्रुत्य नीपान् आजघ्निवान् प्रभुः
उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्य् उभाव् अपि ॥

49.63

हन्यमानागतान् ऊचे यस्माद्धेतोर्न मे वचः
शरणागतरक्षार्थं तस्मादेवं शपामि वः ॥

49.64

यदि मे ऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः
ततस्तान् कृप्यमाणांस्तु यमेन पुरतः स तु ॥

49.65

कृपया परयाविष्टो जनमेजयम् ऊचिवान्
गतानेतानिमान्वीरांस् त्वं मे रक्षितुमर्हसि ॥

49.66

अरे पापा दुराचारा भवितारो ऽस्य किंकराः
तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम् ॥

49.67

व्याधिभिर्नारकैर्घोरैर् यमेन सह तान्बलात्
विजित्य मुनये प्रादात् तदद्भुतमिवाभवत् ॥

49.68

यमस्तुष्टस्ततस्तस्मै मुक्तिज्ञानं ददौ परम्
सर्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम् ॥

49.69

येषां तु चरितं गृह्य हन्यते नापमृत्युभिः
इह लोके परे चैव सुखमक्षय्यमश्नुते ॥

49.70

अजमीढस्य धूमिन्यां विद्वाञ्जज्ञे यवीनरः
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः स्मृतः
अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ॥

49.71

दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः
आसीत्सुधर्मतनयः सार्वभौमः प्रतापवान् ॥

49.72

सार्वभौमेति विख्यातः पृथिव्याम् एकराड् बभौ
तस्यान्ववाये महति महापौरवनन्दनः ॥

49.73

महापौरवपुत्रस्तु राजा रुक्मरथः स्मृतः
अथ रुक्मरथस्यासीत् सुपार्श्वो नाम पार्थिवः ॥

49.74

सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः
सुमतेरपि धर्मात्मा राजा संनतिमानपि ॥

49.75

तस्यासीत्संनतिमतः कृतो नाम सुतो महान्
हिरण्यनाभिनः शिष्यः कौशल्यस्य महात्मनः ॥

49.76

चतुर्विंशतिधा येन प्रोक्ता वै सामसंहिताः
स्मृतास्ते प्राच्यसामानः कार्ता नामेह सामगाः ॥

49.77

कार्तिरुग्रायुधो ऽसौ वै महापौरववर्धनः
बभूव येन विक्रम्य पृथुकस्य पिता हतः ॥

49.78

नीलो नाम महाराजः पाञ्चालाधिपतिर्वशी
उग्रायुधस्य दायादः क्षेमो नाम महायशाः ॥

49.79

क्षेमात्सुनीथः संजज्ञे सुनीथस्य नृपंजयः
नृपंजयाच्च विरथ इत्येते पौरवाः स्तुताः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc