मत्स्य पुराण · अध्याय 5
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणैव सूत ब्रूहि यथातथम् ॥
संकल्पाद् दर्शनात्स्पर्शात् पूर्वेषां सृष्टिरुच्यते
दक्षात्प्राचेतसाद् ऊर्ध्वं सृष्टिर् मैथुनसम्भवा ॥
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा
यथा ससर्ज चैवादौ तथैव शृणुत द्विजाः ॥
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्
न वृद्धिम् अगमल्लोकस् तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि पाञ्चजन्यामजीजनत् ॥
तांस् तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः
नारदः प्राह हर्यश्वान् दक्षपुत्रान्समागतान् ॥
भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वम् अध एव च
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः ॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम्
अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः ॥
हर्यश्वेषु प्रनष्टेषु पुनर्दक्षः प्रजापतिः
वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥
शबला नाम ते विप्राः समेताः सृष्टिहेतवः
नारदो ऽनुगतान्प्राह पुनस्तान्पूर्ववत्स तान् ॥
भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄन् अथो पुनः
आगत्य चाथ सृष्टिं च करिष्यथ विशेषतः ॥
ते ऽपि तेनैव मार्गेण जग्मुर्भ्रातृपथा तदा
ततः प्रभृति न भ्रातुः कनीयान्मार्गम् इच्छति
अन्विष्यन्दुःखमाप्नोति तेन तत्परिवर्जयेत् ॥
ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः
वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा ॥
प्रादात्स दश धर्माय कश्यपाय त्रयोदश
सप्तविंशतिं सोमाय चतस्रो ऽरिष्टनेमये ॥
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते
द्वे चैवाङ्गिरसे तद्वत् तासां नामानि विस्तरात् ॥
शृणुध्वं देवमातॄणां प्रजाविस्तारम् आदितः
मरुत्वती वसुर् यामी लम्बा भानुर् अरुन्धती ॥
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी
धर्मपत्न्यः समाख्यातास् तासां पुत्रान् निबोधत ॥
विश्वे देवास्तु विश्वायाः साध्या साध्यानजीजनत्
मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवस्तथा ॥
भानोस्तु भानवस्तद्वन् मुहूर्तायां मुहूर्तकाः
लम्बायां घोषनामानो नागवीथी तु यामिजा ॥
पृथिवीतलसम्भूतम् अरुन्धत्याम् अजायत
संकल्पायास्तु संकल्पो वसुसृष्टिं निबोधत ॥
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतो दिशम्
वसवस्ते समाख्यातास् तेषां सर्गं निबोधत ॥
आपो ध्रुवश्च सोमश्च धरश्चैवानिलो ऽनलः
प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः ॥
आपस्य पुत्राश् चत्वारः शान्तो वै दण्ड एव च
शाम्बो ऽथ मणिवक्त्रश्च यज्ञरक्षाधिकारिणः ॥
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत
द्रविणो हव्यवाहश्च धरपुत्राव् उभौ स्मृतौ ॥
कल्याणिन्यां ततः प्राणो रमणः शिशिरो ऽपि च
मनोहरा धरात्पुत्रान् अवापाथ हरेः सुता ॥
शिवा मनोजवं पुत्रम् अविज्ञातगतिं तथा
अवाप चानलात् पुत्राव् अग्निप्रायगुणौ पुनः ॥
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत
तस्य शाखो विशाखश्च नैगमेयश् च पृष्ठजाः ॥
अपत्यं कृत्तिकानां तु कार्त्तिकेयस् ततः स्मृतः
प्रत्यूषस ऋषिः पुत्रो विभुर् नाम्नाथ देवलः
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः ॥
प्रासादभवनोद्यान प्रतिमाभूषणादिषु
तडागारामकूपेषु स्मृतः सो ऽमरवर्धकिः ॥
अजैकपादहिर्बुध्न्यो विरूपाक्षो ऽथ रैवतः
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः
एते रुद्राः समाख्याता एकादश गणेश्वराः ॥
एतेषां मानसानां तु त्रिशूलवरधारिणाम्
कोटयश्चतुरशीतिस् तत्पुत्राश् चाक्षया मताः ॥
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः
पुत्रपौत्रसुताश्चैते सुरभीगर्भसम्भवाः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0