भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 4

4.1

अहो कष्टतरं चैतद् अङ्गजागमनं विभो
कथं न दोषमगमत् कर्मणानेन पद्मभूः ॥

4.2

परस्परं च सम्बन्धः सगोत्राणाम् अभूत् कथम्
वैवाहिकस्तत्सुतानां छिन्द्धि मे संशयं विभो ॥

4.3

दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा
अतीन्द्रियेन्द्रिया तद्वद् अतीन्द्रियशरीरिका ॥

4.4

दिव्यतेजोमयी भूप दिव्यज्ञानसमुद्भवा
न मर्त्यैरभितः शक्या वक्तुं वै मांसचक्षुभिः ॥

4.5

यथा भुजंगाः सर्पाणाम् आकाशं विश्वपक्षिणाम्
विदन्ति मार्गं दिव्यानां दिव्या एव न मानवाः ॥

4.6

कार्याकार्ये न देवानां शुभाशुभफलप्रदे
यस्मात्तस्मान्न राजेन्द्र तद्विचारो नृणां शुभः ॥

4.7

अन्यच्च सर्ववेदानाम् अधिष्ठाता चतुर्मुखः
गायत्री ब्रह्मणस्तद्वद् अङ्गभूता निगद्यते ॥

4.8

अमूर्तं मूर्तिमद् वापि मिथुनं तत्प्रचक्षते
विरिञ्चिर् यत्र भगवांस् तत्र देवी सरस्वती
भारती यत्र यत्रैव तत्र तत्र प्रजापतिः ॥

4.9

यथातपो न रहितश् छायया दृश्यते क्वचित्
गायत्री ब्रह्मणःपार्श्वं तथैव न विमुञ्चति ॥

4.10

वेदराशिः स्मृतो ब्रह्मा सावित्री तदधिष्ठिता
तस्मान्न कश्चिद्दोषः स्यात् सावित्रीगमने विभो ॥

4.11

तथापि लज्जावनतः प्रजापतिर् अभूत्पुरा
स्वसुतोपगमाद् ब्रह्मा शशाप कुसुमायुधम् ॥

4.12

यस्मान्ममाभिभवता मनः संक्षोभितं शरैः
तस्मात्त्वद्देहमचिराद् रुद्रो भस्मीकरिष्यति ॥

4.13

ततः प्रसादयामास कामदेवश्चतुर्मुखम्
न मामकारणे शप्तुं त्वमिहार्हसि मानद ॥

4.14

अहमेवंविधः सृष्टस् त्वयैव चतुरानन
इन्द्रियक्षोभजनकः सर्वेषामेव देहिनाम् ॥

4.15

स्त्रीपुंसोरविचारेण मया सर्वत्र सर्वदा
क्षोभ्यं मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो ॥

4.16

तस्मादनपराधो ऽहं त्वया शप्तस्तथा विभो
कुरु प्रसादं भगवन् स्वशरीराप्तये पुनः ॥

4.17

वैवस्वते ऽन्तरे प्राप्ते यादवान्वयसम्भवः
रामो नाम यदा मर्त्यो मत्सत्त्वबलमाश्रितः ॥

4.18

अवतीर्यासुरध्वंसी द्वारकाम् अधिवत्स्यति
तद्भ्रातुस्तत्समस्य त्वं तदा पुत्रत्वमेष्यसि ॥

4.19

एवं शरीरमासाद्य भुक्त्वा भोगानशेषतः
ततो भरतवंशान्ते भूत्वा वत्सनृपात्मजः ॥

4.20

विद्याधराधिपत्यं च यावद् आभूतसंप्लवम्
सुखानि धर्मतः प्राप्य मत्समीपं गमिष्यसि ॥

4.21

एवं शापप्रसादाभ्याम् उपेतः कुसुमायुधः
शोकप्रमोदाभियुतो जगाम स यथागतम् ॥

4.22

को ऽसौ यदुरिति प्रोक्तो यद्वंशे कामसम्भवः
कथं च दग्धो रुद्रेण किमथ कुसुमायुधः ॥

4.23

भरतस्यान्वये कस्य का च सृष्टिः पुराभवत्
एतत्सर्वं समाचक्ष्व मूलतः संशयो हि मे ॥

4.24

या सा देहार्धसम्भूता गायत्री ब्रह्मवादिनी
जननी या मनोर्देवी शतरूपा शतेन्द्रिया ॥

4.25

रतिर्मनस्तपो बुद्धिर् महान् दिक्सम्भ्रमस् तथा
ततः स शतरूपायां सप्तापत्यान्यजीजनत् ॥

4.26

ये मरीच्यादयः पुत्रा मानसास्तस्य धीमतः
तेषामयमभूल्लोकः सर्वज्ञानात्मकः पुरा ॥

4.27

ततो ऽसृजद्वामदेवं त्रिशूलवरधारिणम्
सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ॥

4.28

वामदेवस्तु भगवान् असृजन्मुखतो द्विजान्
राजन्यान् असृजद्बाह्वोर् विट्छूद्रान् ऊरुपादयोः ॥

4.29

विद्युतो ऽशनिमेघांश्च रोहितेन्द्रधनूंषि च
छन्दांसि च ससर्जादौ पर्जन्यं च ततः परम् ॥

4.30

ततः साध्यगणानीशस् त्रिनेत्रानसृजत्पुनः
कोटीश्च चतुरशीतिं जरामरणवर्जिताः ॥

4.31

वामो ऽसृजन्नमर्त्यांस् तान् ब्रह्मणा विनिवारितः
नैवंविधा भवेत्सृष्टिर् जरामरणवर्जिता ॥

4.32

शुभाशुभात्मिका या तु सैव सृष्टिः प्रशस्यते
एवं स्थितः स तेनादौ सृष्टेः स्थाणुरतो ऽभवत् ॥

4.33

स्वायम्भुवो मनुर्धीमांस् तपस्तप्त्वा सुदुश्चरम्
पत्नीमेवाप रूपाढ्याम् अनन्ता नाम नामतः ॥

4.34

प्रियव्रतोत्तानपादौ मनुस्तस्याम् अजीजनत्
धर्मस्य कन्या चतुरा सूनृता नाम भामिनी ॥

4.35

उत्तानपादात्तनयान् प्राप मन्थरगामिनी
अपस्यतिम् अपस्यन्तं कीर्तिमन्तं ध्रुवं तथा ॥

4.36

उत्तानपादो ऽजनयत् सूनृतायां प्रजापतिः
ध्रुवो वर्षसहस्राणि त्रीणि कृत्वा तपः पुरा ॥

4.37

दिव्यमाप ततः स्थानम् अचलं ब्रह्मणो वरात्
तमेव पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥

4.38

धन्या नाम मनोः कन्या ध्रुवाच्छिष्टम् अजीजनत्
अग्निकन्या तु सुच्छाया शिष्टात्सा सुषुवे सुतान् ॥

4.39

कृपं रिपुं जयं वृत्तं वृकं च वृकतेजसम्
चक्षुषं ब्रह्मदौहित्र्यां वीरिण्यां स रिपुंजयः ॥

4.40

वीरणस्यात्मजायां तु चक्षुर्मनुमजीजनत्
मनुर् वै राजकन्यायां नड्वलायां स चाक्षुषः ॥

4.41

जनयामास तनयान् दश शूरानकल्मषान्
ऊरुः पूरुः शतद्युम्नस् तपस्वी सत्यवाग्घविः ॥

4.42

अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः
अभिमन्युस्तु दशमो नड्वलायाम् अजायत ॥

4.43

ऊरोर् अजनयत् पुत्रान् षड् आग्नेयी तु सुप्रभान्
अग्निं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥

4.44

पितृकन्या सुनीथा तु वेनमङ्गादजीजनत्
वेनमन्यायिनं विप्रा ममन्थुस् तत्कराद् अभूत्
पृथुर्नाम महातेजाः स पुत्रौ द्वाव् अजीजनत् ॥

4.45

अन्तर्धानस् तु मारीचं शिखण्डिन्यामजीजनत्
हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान्
प्राचीनबर्हिषं साङ्गं यमं शुक्रं बलं शुभम् ॥

4.46

प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः
हविर्धानाः प्रजास् तेन बहवः सम्प्रवर्तिताः ॥

4.47

सवर्णायां तु सामुद्र्यां दशाधत्त सुतान्प्रभुः
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥

4.48

तत्तपोरक्षिता वृक्षा बभुर् लोके समन्ततः
देवादेशाच्च तानग्निर् अदहद्रविनन्दन ॥

4.49

सोमकन्याभवत् पत्नी मारीषा नाम विश्रुता
तेभ्यस्तु दक्षमेकं सा पुत्रम् अग्र्यम् अजीजनत् ॥

4.50

दक्षादनन्तरं वृक्षान् औषधानि च सर्वशः
अजीजनत्सोमकन्या नदीं चन्द्रवतीं तथा ॥

4.51

सोमांशस्य च तस्यापि दक्षस्याशीतिकोटयः
वक्ष्ये तासां तु विस्तारं लोके यः सुप्रतिष्ठितः ॥

4.52

द्विपदश्चाभवन् केचित् केचिद् बहुपदा नराः
वलीमुखाः शङ्कुकर्णाः कर्णप्रावरणास् तथा ॥

4.53

अश्वऋक्षमुखाः केचित् केचित् सिंहाननास्तथा
श्वसूकरमुखाः केचित् केचिदुष्ट्रमुखास् तथा ॥

4.54

जनयामास धर्मात्मा म्लेच्छान्सर्वाननेकशः
स सृष्ट्वा मनसा दक्षः स्त्रियः पश्चादजीजनत् ॥

4.55

ददौ स दश धर्माय कश्यपाय त्रयोदश
सप्तविंशतिं सोमाय ददौ नक्षत्रसंज्ञिताः
देवासुरमनुष्यादि ताभ्यः सर्वमभूज्जगत् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc