भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 48

48.1

तुर्वसोस्तु सुतो गर्भो गोभानुस्तस्य चात्मजः
गोभानोस्तु सुतो वीरस् त्रिसारिरपराजितः ॥

48.2

करंधमस्तु त्रैसारिर् भरतस्तस्य चात्मजः
दुष्यन्तः पौरवस्यापि तस्य पुत्रो ह्य् अकल्मषः ॥

48.3

एवं ययातिशापेन जरासंक्रमणे पुरा
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥

48.4

दुष्यन्तस्य तु दायादो वरूथो नाम पार्थिवः
वरूथात्तु तथाण्डीरः संधानस्तस्य चात्मजः ॥

48.5

पाण्ड्यश्च केरलश्चैव चोलः कर्णस्तथैव च
तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः ॥

48.6

द्रुह्योस्तु तनयौ शूरौ सेतुः केतुस्तथैव च
सेतुपुत्रः शरद्वांस्तु गन्धारस्तस्य चात्मजः ॥

48.7

ख्यायते यस्य नाम्नासौ गन्धारविषयो महान्
आरट्टदेशजास्तस्य तुरगा वाजिनां वराः ॥

48.8

गन्धारपुत्रो धर्मस्तु घृतस्तस्यात्मजो ऽभवत्
घृताच्च विदुषो जज्ञे प्रचेतास्तस्य चात्मजः ॥

48.9

प्रचेतसः पुत्रशतं राजानः सर्व एव ते
म्लेच्छराष्ट्राधिपाः सर्वे उदीचीं दिशम् आश्रिताः ॥

48.10

अनोश्चैव सुता वीरास् त्रयः परमधार्मिकाः
सभानरश्चाक्षुषश्च परमेषुस् तथैव च ॥

48.11

सभानरस्य पुत्रस्तु विद्वान्कोलाहलो नृपः
कोलाहलस्य धर्मात्मा संजयो नाम विश्रुतः ॥

48.12

संजयस्याभवत्पुत्रो वीरो नाम पुरंजयः
जनमेजयो महाराज पुरंजयसुतो ऽभवत् ॥

48.13

जनमेजयस्य राजर्षेर् महाशालो ऽभवत्सुतः
आसीद् इन्द्रसमो राजा प्रतिष्ठितयशाभवत् ॥

48.14

महामनाः सुतस्तस्य महाशालस्य धार्मिकः
सप्तद्वीपेश्वरो जज्ञे चक्रवर्ती महामनाः ॥

48.15

महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ
उशीनरं च धर्मज्ञं तितिक्षुं चैव ताव् उभौ ॥

48.16

उशीनरस्य पत्न्यस्तु पञ्च राजर्षिसम्भवाः
भृशा कृशा नवा दर्शा या च देवी दृषद्वती ॥

48.17

उशीनरस्य पुत्रास्तु तासु जाताः कुलोद्वहाः
तपसा ते तु महता जाता वृद्धस्य धार्मिकाः ॥

48.18

भृशायास्तु नृगः पुत्रो नवाया नव एव च
कृशायास्तु कृशो जज्ञे दर्शायाः सुव्रतो ऽभवत्
दृषद्वत्याः सुतश्चापि शिबिर् औशीनरो नृपः ॥

48.19

शिबेस्तु शिबयः पुत्राश् चत्वारो लोकविश्रुताः
पृथुदर्भः सुवीरश्च केकयो भद्रकस्तथा ॥

48.20

तेषां जनपदाः स्फीताः केकया भद्रकास्तथा
सौवीराश्चैव पौराश्च नृगस्य केकयास्तथा ॥

48.21

सुव्रतस्य तथाम्बष्ठा कृशस्य वृषला पुरी
नवस्य नवराष्ट्रं तु तितिक्षोस्तु प्रजां शृणु ॥

48.22

तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः
बृहद्रथः सुतस्तस्य तस्य सेनो ऽभवत्सुतः ॥

48.23

सेनस्य सुतपा जज्ञे सुतपस्तनयो बलिः
जातो मानुषयोन्यां तु क्षीणे वंशे प्रजेच्छया ॥

48.24

महायोगी तु स बलिर् बद्धो बन्धैर्महात्मना
पुत्रानुत्पादयामास क्षेत्रजान्पञ्च पार्थिवान् ॥

48.25

अङ्गं स जनयामास वङ्गं सुह्मं तथैव च
पुण्ड्रं कलिङ्गं च तथा बालेयं क्षेत्रमुच्यते
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभो ॥

48.26

बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः
महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥

48.27

संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः
त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥

48.28

जयं चाप्रतिमं युद्धे धर्मे तत्त्वार्थदर्शनम्
चतुरो नियतान्वर्णान् स वै स्थापयिता प्रभुः ॥

48.29

तेषां च पञ्च दायादा वङ्गाङ्गाः सुह्मकास्तथा
पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत ॥

48.30

कथं बलेः सुता जाताः पञ्च तस्य महात्मनः
किंनाम्नी महिषी तस्य जनिता कतम ऋषिः ॥

48.31

कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम्
माहात्म्यं च प्रभावं च निखिलेन वदस्व तत् ॥

48.32

अथोशिज इति ख्यात आसीद्विद्वानृषिः पुरा
पत्नी वै ममता नाम बभूवास्य महात्मनः ॥

48.33

उशिजस्य यवीयान्वै भ्रातृपत्नीमकामयत्
बृहस्पतिर्महातेजा ममतामेत्य कामतः ॥

48.34

उवाच ममता तं तु देवरं वरवर्णिनी
अन्तर्वत्न्यस्मि ते भ्रातुर् ज्येष्ठस्य तु विरम्यताम् ॥

48.35

अयं तु मे महाभाग गर्भः कुप्येद्बृहस्पते
औशिजो भ्रातृजन्यस्ते सोपाङ्गं वेदमुद्गिरन् ॥

48.36

अमोघरेतास्त्वं चापि न मां भजितुमर्हसि
अस्मिन्न् एवं गते काले यथा वा मन्यसे प्रभो ॥

48.37

एवमुक्तस्तथा सम्यग् बृहत्तेजा बृहस्पतिः
कामात्मा स महात्मापि न मनः सो ऽभ्यवारयत् ॥

48.38

संबभूवैव धर्मात्मा तया सार्धमकामया
उत्सृजन्तं तु तद्रेतो वाचं गर्भो ऽभ्यभाषत ॥

48.39

भो तात वाचामधिप द्वयोर्नास्तीह संस्थितिः
अमोघरेतास्त्वं चापि पूर्वं चाहमिहागतः ॥

48.40

सो ऽशपत्तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः
पुत्रं ज्येष्ठस्य वै भ्रातुर् गर्भस्थं भगवानृषिः ॥

48.41

यस्मात्त्वमीदृशे काले गर्भस्थो ऽपि निषेधसि
मामेवमुक्तवांस्तस्मात् तमो दीर्घं प्रवेक्ष्यसि ॥

48.42

ततो दीर्घतमा नाम शापादृषिरजायत
अतो ऽंशजो बृहत्कीर्तिर् बृहस्पतिरिवौजसा ॥

48.43

ऊर्ध्वरेतास्ततो ऽसौ वै वसते भ्रातुराश्रमे
स धर्मान्सौरभेयांस्तु वृषभाच्छ्रुतवांस्ततः ॥

48.44

तस्य भ्राता पितृव्यो यश् चकार भरणं तदा
तस्मिन्निवसतस्तस्य यदृच्छातस्तु वै वृषः ॥

48.45

यज्ञार्थमाहृतान्दर्भांश् चचार सुरभीसुतः
जग्राह तं दीर्घतमाः शृङ्गयोस्तु चतुष्पदम् ॥

48.46

तेनासौ निगृहीतश्च न चचाल पदात्पदम्
ततो ऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥

48.47

न मयासादितस्तात बलवांस्त्वत्समः क्वचित्
मम चान्यः समो वापि न हि मे बलसंख्यया
मुञ्च तातेति च पुनः प्रीतस्ते ऽहं वरं वृणु ॥

48.48

एवमुक्तो ऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि
एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम् ॥

48.49

नास्माकं विद्यते तात पातकं स्तेयमेव च
भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च ॥

48.50

द्विपदां बहवो ह्य् एते धर्म एष गवां स्मृतः
कार्याकार्ये न वागम्या गमनं च तथैव च ॥

48.51

गवां धर्मं तु वै श्रुत्वा संभ्रान्तस्तु विसृज्य तम्
शक्त्यान्नपानदानात्तु गोपतिं संप्रसादयत् ॥

48.52

प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः
मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः ॥

48.53

ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत
कृतावलेपां तां मत्वा सो ऽनड्वानिव न क्षमः ॥

48.54

गोधर्मं तु परं मत्वा स्नुषां तामभ्यपद्यत
निर्भर्त्स्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च ॥

48.55

भाव्यमर्थं तु तं ज्ञात्वा माहात्म्यात्तमुवाच सा
विपर्ययं तु त्वं लब्ध्वा अनड्वानिव वर्तसे ॥

48.56

गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्सुताम्
दुर्वृत्तं त्वां त्यजाम्यद्य गच्छ त्वं स्वेन कर्मणा ॥

48.57

काष्ठे समुद्गे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत्
यस्मात्त्वमन्धो वृद्धश्च भर्तव्यो दुरधिष्ठितः ॥

48.58

तमुह्यमानं वेगेन स्रोतसो ऽभ्याशमागतः
जग्राह तं स धर्मात्मा बलिर् वैरोचनिस्तदा ॥

48.59

अन्तःपुरे जुगोपैनं भक्ष्यभोज्यैश्च तर्पयन्
प्रीतश्चैव वरेणैव च्छन्दयामास वै बलिम् ॥

48.60

तस्माच्च स वरं वव्रे पुत्रार्थे दानवर्षभः
संतानार्थं महाभाग भार्यायां मम मानद
पुत्रान्धर्मार्थतत्त्वज्ञान् उत्पादयितुमर्हसि ॥

48.61

एवमुक्तो ऽथ देवर्षिस् तथास्त्वित्युक्तवान् प्रभुः
स तस्य राजा स्वां भार्यां सुदेष्णां नाम प्राहिणोत्
अन्धं वृद्धं च तं ज्ञात्वा न सा देवी जगाम ह ॥

48.62

शूद्रां धात्रेयिकां तस्माव् अन्धाय प्राहिणोत्तदा
तस्यां कक्षीवदादींश्च शूद्रयोनाव् ऋषिर् वशी ॥

48.63

जनयामास धर्मात्मा शूद्रान् इत्येवमादिकम्
उवाच तं बली राजा दृष्ट्वा कक्षीवदादिकान् ॥

48.64

प्रवीणान् ऋषिधर्मस्य चेश्वरान् ब्रह्मवादिनः
विद्वान् प्रत्यक्षधर्माणां बुद्धिमान् वृत्तिमाञ्छुचीन् ॥

48.65

ममैव चेति होवाच तं दीर्घतमसं बलिः
नत्युवाच मुनिस्तं वै ममैवमिति चाब्रवीत् ॥

48.66

उत्पन्नाः शूद्रयोना तु भवच्छन्दे सुरोत्तम
अन्धं वृद्धं च मां ज्ञात्वा सुदेष्णा महिषी तव
प्राहिणोद् अवमानान्मे शूद्रां धात्रेयिकां नृप ॥

48.67

ततः प्रसादयामास बलिस् तमृषिसत्तमम्
बलिः सुदेष्णां तां भार्यां भर्त्सयामास दानवः ॥

48.68

पुनश्चैनाम् अलंकृत्य ऋषये प्रत्यपादयत्
तां स दीर्घतमा देवीं तथा कृतवतीं तदा ॥

48.69

दध्ना लवणमिश्रेण त्व् अभ्यक्तं मधुकेन तु
लिह माम् अजुगुप्सन्ती आपादतलमस्तकम्
ततस्त्वं प्राप्स्यसे देवि पुत्रान्वै मनसेप्सितान् ॥

48.70

तस्य सा तद्वचो देवी सर्वं कृतवती तदा
तस्य सापानम् आसाद्य देवी परिहरत्तदा ॥

48.71

तामुवाच ततः सो ऽथ यत्ते परिहृतं शुभे
विनापानं कुमारं तु जनयिष्यसि पूर्वजम् ॥

48.72

नार्हसि त्वं महाभाग पुत्रं मे दातुमीदृशम्
तोषितश्च यथाशक्ति प्रसादं कुरु मे प्रभो ॥

48.73

तवापचाराद्देव्येष नान्यथा भविता शुभे
नैव दास्यति पुत्रस्ते पौत्रौ वै दास्यते फलम् ॥

48.74

तस्यापानं विना चैव योग्यभावो भविष्यति
तस्माद् दीर्घतमाङ्गेषु कुक्षौ स्पृष्ट्वेदम् अब्रवीत् ॥

48.75

प्राशितं यद्यदङ्गेषु न सोपस्थं शुचिस्मिते
तेन तिष्ठन्ति ते गर्भे पौर्णमास्याम् इवोडुराट् ॥

48.76

भविष्यन्ति कुमारास्तु पञ्च देवसुतोपमाः
तेजस्विनः सुवृत्ताश्च यज्वानो धार्मिकाश्च ते ॥

48.77

तदंशस्तु सुदेष्णाया ज्येष्ठः पुत्रो व्यजायत
अङ्गस्तथा कलिङ्गश्च पुण्ड्रः सुह्मस्तथैव च ॥

48.78

वङ्गराजस्तु पञ्चैते बलेः पुत्राश्च क्षेत्रजाः
इत्येते दीर्घतमसा बलेर्दत्ताः सुतास्तथा ॥

48.79

प्रतिष्ठामागतानां हि ब्राह्मण्यं कारयंस्ततः
ततो मानुषयोन्यां स जनयामास वै प्रजाः ॥

48.80

ततस्तं दीर्घतमसं सुरभिर्वाक्यमब्रवीत्
विचार्य यस्माद्गोधर्मं प्रमाणं ते कृतं विभो ॥

48.81

शक्त्या चानन्ययास्मासु तेन प्रीतास्मि ते ऽनघ
तस्मात्तुभ्यं तमो दीर्घम् आघ्रायापनुदामि वै ॥

48.82

बार्हस्पत्यस्तथैवैष पाप्मा वै तिष्ठति त्वयि
जरां मृत्युं तमश्चैव आघ्रायापनुदामि ते ॥

48.83

सद्यः स घ्रातमात्रस्तु असितो मुनिसत्तमः
आयुष्मांश्च वपुष्मांश्च चक्षुष्मांश्च ततो ऽभवत् ॥

48.84

गो ऽभ्याहते तमसि वै गौतमस्तु ततो ऽभवत्
काक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् ॥

48.85

दृष्ट्वा स्पृष्ट्वा पितुर्वै स ह्य् उपविष्टश्चिरं तपः
ततः कालेन महता तपसा भावितस्तु सः ॥

48.86

विधूय मातृजं कायं ब्राह्मण्यं प्राप्तवान्विभुः
ततो ऽब्रवीत्पिता तं वै पुत्रवानस्म्यहं त्वया ॥

48.87

सत्पुत्रेण तु धर्मज्ञ कृतार्थो ऽहं यशस्विना
मुक्त्वात्मानं ततो ऽसौ वै प्राप्तवान्ब्रह्मणः क्षयम् ॥

48.88

ब्राह्मण्यं प्राप्य काक्षीवान् सहस्रमसृजत्सुतान्
कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः ॥

48.89

इत्येष दीर्घतमसो बलेर्वैरोचनस्य च
समागमो वः कथितः संततिश्चोभयोस्तथा ॥

48.90

बलिस्तानभिनन्द्याह पञ्च पुत्रानकल्मषान्
कृतार्थः सो ऽपि धर्मात्मा योगमायावृतः स्वयम् ॥

48.91

अदृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः
तत्राङ्गस्य तु दायादो राजासीद्दधिवाहनः ॥

48.92

दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः
आसीद् दिविरथापत्यं विद्वान्धर्मरथो नृपः ॥

48.93

स हि धर्मरथः श्रीमांस् तेन विष्णुपदे गिरौ
सोमः शुक्रेण वै राज्ञा सह पीतो महात्मना ॥

48.94

अथ धर्मरथस्याभूत् पुत्रश्चित्ररथः किल
तस्य सत्यरथः पुत्रस् तस्माद्दशरथः किल ॥

48.95

लोमपाद इति ख्यातस् तस्य शान्ता सुताभवत्
अथ दाशरथिर् वीरश् चतुरङ्गो महायशाः ॥

48.96

ऋष्यशृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ॥

48.97

पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह
चम्पस्य तु पुरी चम्पा पूर्वं या मालिनी भवत् ॥

48.98

पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत्
यज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः ॥

48.99

अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम्
हर्यङ्गस्य तु दायादो जातो भद्ररथः किल ॥

48.100

अथ भद्ररथस्यासीद् बृहत्कर्मा जनेश्वरः
बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान् ॥

48.101

बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम्
नाम्ना जयद्रथं नाम तस्माद्बृहद्रथो नृपः ॥

48.102

आसीद्बृहद्रथाच्चैव विश्वजिज्जनमेजयः
दायादस्तस्य चाङ्गो वै तस्मात्कर्णो ऽभवन्नृपः ॥

48.103

कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः
एते ऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया
विस्तरेणानुपूर्व्याच्च पूरोस्तु शृणुत द्विजाः ॥

48.104

कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः
एतद् इच्छामहे श्रोतुम् अत्यन्तकुशलो ह्य् असि ॥

48.105

बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः
तस्य पत्नीद्वयं ह्य् आसीच् छैब्यस्य तनये ह्य् उभे
यशोदेवी च सत्या च तयोर्वंशं च मे शृणु ॥

48.106

जयद्रथं तु राजानं यशोदेवी ह्य् अजीजनत्
सा बृहन्मनसः सत्या विजयं नाम विश्रुतम् ॥

48.107

विजयस्य बृहत्पुत्रस् तस्य पुत्रो बृहद्रथः
बृहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः ॥

48.108

सत्यकर्मणो ऽधिरथः सूतश्चाधिरथः स्मृतः
यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः
तच्चेदं सर्वमाख्यातं कर्णं प्रति यथोदितम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc