मत्स्य पुराण · अध्याय 47
अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः
विहारार्थं स देवेशो मानुषेष्विह जयते ॥
देवक्यां वसुदेवस्य तपसा पुष्करेक्षणः
चतुर्बाहुस्तदा जातो दिव्यरूपो ज्वलञ्श्रिया ॥
श्रीवत्सलक्षणं देवं दृष्ट्वा दिव्यैश्च लक्षणैः
उवाच वसुदेवस्तं रूपं संहर वै प्रभो ॥
भीतो ऽहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते
मम पुत्रा हतास्तेन ज्येष्ठास्ते भीमविक्रमाः ॥
वसुदेववचः श्रुत्वा रूपं संहरते ऽच्युतः
अनुज्ञाप्य ततः शौरिं नन्दगोपगृहे ऽनयत् ॥
दत्त्वैनं नन्दगोपस्य रक्ष्यतामिति चाब्रवीत्
अतस्तु सर्वकल्याणं यादवानां भविष्यति
अयं तु गर्भो देवक्यां जातः कंसं हनिष्यति ॥
क एष वसुदेवस्तु देवकी च यशस्विनी
नन्दगोपश्च कस्त्वेष यशोदा च महाव्रता ॥
यो विष्णुं जनयामास यं च तातेत्यभाषत
या गर्भं जनयामास या चैनं त्व् अभ्यवर्धयत् ॥
पुरुषः कश्यपस्त्वासीद् अदितिस्तु प्रिया स्मृता
ब्रह्मणः कश्यपस्त्वंशः पृथिव्यास्त्वदितिस्तथा ॥
अथ कामान्महाबाहुर् देवक्याः समपूरयत्
ये तया काङ्क्षिता नित्यम् अजातस्य महात्मनः ॥
सो ऽवतीर्णो महीं देवः प्रविष्टो मानुषीं तनुम्
मोहयन्सर्वभूतानि योगात्मा योगमायया ॥
नष्टे धर्मे तथा जज्ञे विष्णुर्वृष्णिकुले प्रभुः
कर्तुं धर्मस्य संस्थानम् असुराणां प्रणाशनम् ॥
रुक्मिणी सत्यभामा च सत्या नाग्नजिती तथा
सुभामा च तथा शैब्या गान्धारी लक्ष्मणा तथा ॥
मित्रविन्दा च कालिन्दी देवी जाम्बवती तथा
सुशीला च तथा माद्री कौशल्या विजया तथा
एवमादीनि देवीनां सहस्राणि च षोडश ॥
रुक्मिणी जनयामास पुत्रान्रणविशारदान्
चारुदेष्णं रणे शूरं प्रद्युम्नं च महाबलम् ॥
सुचारुं भद्रचारुं च सुदेष्णं भद्रमेव च
परशुं चारुगुप्तं च चारुभद्रं सुचारुकम्
चारुहासं कनिष्ठं च कन्यां चारुमतीं तथा ॥
जज्ञिरे सत्यभामायां भानुर्भ्रमरतेक्षणः
रोहितो दीप्तिमांश्चैव ताम्रश् चक्रो जलंधमः ॥
चतस्रो जज्ञिरे तेषां स्वसारस्तु यवीयसीः
जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः ॥
मित्रवान्मित्रविन्दश्च मित्रविन्दा वराङ्गना
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजा हि सा ॥
एवमादीनि पुत्राणां सहस्राणि निबोधत
शतं शतसहस्राणां पुत्राणां तस्य धीमतः ॥
अशीतिश्च सहस्राणि वासुदेवसुतास्तथा
लक्षमेकं तथा प्रोक्तं पुत्राणां च द्विजोत्तमाः ॥
उपसङ्गस्य तु सुतौ वज्रः संक्षिप्त एव च
भूरीन्द्रसेनो भूरिश्च गवेषणसुताव् उभौ ॥
प्रद्युम्नस्य तु दायादो वैदर्भ्यां बुद्धिसत्तमः
अनिरुद्धो रणे ऽरुद्धो जज्ञे ऽस्य मृगकेतनः ॥
काश्या सुपार्श्वतनया साम्बाल्लेभे तरस्विनः
सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्तिताः ॥
तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनाम्
षष्टिः शतसहस्राणि वीर्यवन्तो महाबलाः ॥
देवांशाः सर्व एवेह ह्य् उत्पन्नास्ते महौजसः
देवासुरे हता ये च त्व् असुरा ये महाबलाः ॥
इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान्
तेषामुत्सादनार्थाय उत्पन्नो यादवे कुले ॥
कुलानां शतमेकं च यादवानां महात्मनाम्
सर्वमेतत्कुलं यावद् वर्तते वैष्णवे कुले ॥
विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः
निदेशस्थायिनस्तस्य कथ्यन्ते सर्वयादवाः ॥
सप्तर्षयः कुबेरश्च यक्षो माणिचरस्तथा
शालकिर् नारदश्चैव सिद्धो धन्वन्तरिस्तथा ॥
आदिदेवस्तथा विष्णुर् एभिस्तु सह दैवतः
किमर्थं संघशो भूताः स्मृताः सम्भूतयः कति ॥
भविष्याः कति चैवान्ये प्रादुर्भावा महात्मनः
ब्रह्मक्षत्रेषु शान्तेषु किमर्थमिह जायते ॥
यदर्थमिह सम्भूतो विष्णुर्वृष्ण्यन्धकोत्तमः
पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥
त्यक्त्वा दिव्यां तनुं विष्णुर् मानुषेष्विह जायते
युगे त्व् अथ परावृत्ते काले प्रशिथिले प्रभुः ॥
देवासुरविमर्देषु जायते हरिरीश्वरः
हिरण्यकशिपौ दैत्ये त्रैलोक्यं प्राक्प्रशासति ॥
बलिनाधिष्ठिते चैव पुरा लोकत्रये क्रमात्
सख्यमासीत्परमकं देवानामसुरैः सह ॥
युगाख्यासुरसम्पूर्णं ह्य् आसीद् अत्याकुलं जगत्
निदेशस्थायिनश्चापि तयोर्देवासुराः समम् ॥
मृधो बलिविमर्दाय सम्प्रवृद्धः सुदारुणः
देवानामसुराणां च घोरः क्षयकरो महान् ॥
कर्तुं धर्मव्यवस्थानं जायते मानुषेष्विह
भृगोः शापनिमित्तं तु देवासुरकृते तदा ॥
कथं देवासुरकृते व्यापारं प्राप्तवान्स्वतः
देवासुरं यथा वृत्तं तन्नः प्रब्रूहि पृच्छताम् ॥
तेषां दायनिमित्तं ते संग्रामास्तु सुदारुणाः
वराहाद्या दश द्वौ च शण्डामर्कान्तरे स्मृताः ॥
नामतस्तु समासेन शृणुतैषां विवक्षतः
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥
तृतीयस्तु वराहश्च चतुर्थो ऽमृतमन्थनः
संग्रामः पञ्चमश्चैव संजातस्तारकामयः ॥
षष्ठो ह्य् आडीबकाख्यस्तु सप्तमस्त्रैपुरस्तथा
अन्धकाख्यो ऽष्टमस्तेषां नवमो वृत्रघातकः ॥
धात्रश्च दशमश्चैव ततो हालाहलः स्मृतः
प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा ॥
हिरण्यकशिपुर् दैत्यो नारसिंहेन पातितः
वामनेन बलिर् बद्धस् त्रैलोक्याक्रमणे पुरा ॥
हिरण्याक्षो हतो द्वंद्वे प्रतिघाते तु दैवतैः
दंष्ट्रया तु वराहेण समुद्रस्तु द्विधा कृतः ॥
प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने
विरोचनस्तु प्राह्लादिर् नित्यम् इन्द्रवधोद्यतः ॥
इन्द्रेणैव तु विक्रम्य निहतस्तारकामये
अशक्नुवन्स देवानां सर्वं सोढुं सदैवतम् ॥
निहता दानवाः सर्वे त्रैलोक्ये त्र्यम्बकेण तु
असुराश्च पिशाचाश्च दानवाश्चान्धकाहवे ॥
हता देवमनुष्ये स्वे पितृभिश्चैव सर्वशः
संपृक्तो दानवैर्वृत्रो घोरो हालाहले हतः ॥
तदा विष्णुसहायेन महेन्द्रेण निवर्तितः
हतो ध्वजे महेन्द्रेण मायाच्छन्नस्तु योगवित्
ध्वजलक्षणमाविश्य विप्रचित्तिः सहानुजः ॥
दैत्यांश्च दानवांश्चैव संयतान्किल संयुतान्
जयन्कोलाहले सर्वान् देवैः परिवृतो वृषा ॥
यज्ञस्यावभृथे दृश्यौ शण्डामर्कौ तु दैवतैः
एते देवासुरे वृत्ताः संग्रामा द्वादशैव तु ॥
देवासुरक्षयकराः प्रजानां तु हिताय वै
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ॥
द्विसप्तति तथान्यानि नियुतान्यधिकानि च
अशीतिं च सहस्राणि त्रैलोक्यैश्वर्यतां गतः ॥
पर्यायेण नु राजाभूद् बलिर्वर्षायुतं पुनः
षष्टिवर्षसहस्राणि नियुतानि च विंशतिः ॥
बले राज्याधिकारस्तु यावत्कालं बभूव ह
तावत्कालं तु प्रह्लादो निवृत्तो ह्य् असुरैः सह ॥
इन्द्रास्त्रयस्ते विज्ञेया असुराणां महौजसः
दैत्यसंस्थमिदं सर्वम् आसीद्दशयुगं पुनः ॥
त्रैलोक्यमिदमव्यग्रं महेन्द्रेणानुपाल्यते
असपत्नमिदं सर्वम् आसीद्दशयुगं पुनः ॥
प्रह्लादस्य हते तस्मिंस् त्रैलोक्ये कालपर्ययात्
पर्यायेण तु सम्प्राप्ते त्रैलोक्यं पाकशासने
ततो ऽसुरान्परित्यज्य शुक्रो देवानगच्छत ॥
यज्ञे देवानथ गतं दितिजाः काव्यमाह्वयन्
किं त्वं नो मिषतां राज्यं त्यक्त्वा यज्ञं पुनर्गतः ॥
स्थातुं न शक्नुमो ह्य् अत्र प्रविशामो रसातलम्
एवमुक्तो ऽब्रवीद्दैत्यान् विषण्णान्सान्त्वयन्गिरा ॥
मा भैष्ट धारयिष्यामि तेजसा स्वेन वो ऽसुराः
मन्त्राश्चौषधयश्चैव रसा वसु च यत्परम् ॥
कृत्स्नानि मयि तिष्ठन्ति पादस्तेषां सुरेषु वै
तत्सर्वं वः प्रदास्यामि युष्मदर्थे धृता मया ॥
ततो देवास्तु तान्दृष्ट्वा वृतान्काव्येन धीमता
संमन्त्रयन्ति देवा वै संविज्ञास्तु जिघृक्षया ॥
काव्यो ह्य् एष इदं सर्वं व्यावर्तयति नो बलात्
साधु गच्छामहे तूर्णं यावन्नाध्यापयिष्यति ॥
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे
ततो देवास्तु संरब्धा दानवान् उपसृत्य ह ॥
ततस्ते वध्यमानास्तु काव्यमेवाभिदुद्रुवुः
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैर् अभिद्रुतान् ॥
रक्षां काव्येन संहृत्य देवास्ते ऽप्यसुरार्दिताः
काव्यं दृष्ट्वा स्थितं देवा निःशङ्कमसुराञ्जहुः ॥
ततः काव्यो ऽनुचिन्त्याथ ब्राह्मणो वचनं हितम्
तानुवाच ततः काव्यः पूर्वं वृत्तमनुस्मरन् ॥
त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः
बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥
महासुरा द्वादशसु संग्रामेषु सुरैर् हताः
तैस्तैरुपायैर्भूयिष्ठं निहता वः प्रधानतः ॥
किंचिच्छीष्टास्तु यूयं वै युद्धं मास्त्विति मे मतम्
नीतिं यां वो ऽभिधास्यामि तिष्ठध्वं कालपर्ययात् ॥
यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम्
अप्रतीपांस्ततो मन्त्रान् देवात्प्राप्य महेश्वरात्
युध्यामहे पुनर्देवांस् ततः प्राप्स्यथ वै जयम् ॥
ततस्ते कृतसंवादा देवान् ऊचुस्तदासुराः
न्यस्तशस्त्रा वयं सर्वे निःसंनाहा रथैर्विना ॥
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने
प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् ॥
ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते
न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः ॥
ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यथ
निरुत्सिक्तास् तपोयुक्ताः कालं कार्यार्थसाधकम् ॥
पितुर्ममाश्रमस्था वै मां प्रतीक्षत दानवाः
तत्संदिश्यासुरान्काव्यो महादेवं प्रपद्यत ॥
मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ
पराभवाय देवानाम् असुराणां जयाय च ॥
एवमुक्तो ऽब्रवीद्देवो व्रतं त्वं चर भार्गव
पूर्णं वर्षसहस्रं तु कणधूममवाक्शिराः
यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि ॥
तथेति समनुज्ञाप्य शुक्रस्तु भृगुनन्दनः
पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः
व्रतं चराम्यहं देव त्वयादिष्टो ऽद्य वै प्रभो ॥
ततो ऽनुसृष्टो देवेन कुण्डधारो ऽस्य धूमकृत्
तदा तस्मिन्गते शुक्रे ह्य् असुराणां हिताय वै
मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे ॥
तद्बुद्ध्वा नीतिपूर्वं तु राज्ये न्यस्ते तदासुरैः
अस्मिंश्छिद्रे तदामर्षाद् देवास्तान्समुपाद्रवन्
दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः ॥
दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान्पुनः
उत्पेतुः सहसा ते वै संत्रस्तास्तान्वचो ऽब्रुवन् ॥
न्यस्ते शस्त्रे ऽभये दत्त आचार्ये व्रतमास्थिते
दत्त्वा भवन्तो ह्य् अभयं सम्प्राप्ता नो जिघांसया ॥
अनाचार्या वयं देवास् त्यक्तशस्त्रास्त्ववस्थिताः
चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः ॥
रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन
अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम् ॥
यापयामः कृच्छ्रमिदं यावदभ्येति नो गुरुः
निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः ॥
एवमुक्त्वा ततो ऽन्योन्यं शरणं काव्यमातरम्
प्रापद्यन्त ततो भीतास् तेभ्यो ऽदादभयं तु सा ॥
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः
मत्संनिधौ वर्ततां वो न भीर् भवितुमर्हति ॥
तया चाभ्युपपन्नांस्तान् दृष्ट्वा देवास्ततो ऽसुरान्
अभिजग्मुः प्रसह्यैतान् अविचार्य बलाबलम् ॥
ततस्तान्बाध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा
देवी क्रुद्धाब्रवीद्देवान् अनिन्द्रान्वः करोम्यहम् ॥
संभृत्य सर्वसम्भारान् इन्द्रं साभ्यचरत्तदा
तस्तम्भ देवी बलवद् योगयुक्ता तपोधना ॥
ततस्तं स्तम्भितं दृष्ट्वा इन्द्रं देवाश्च मूकवत्
प्राद्रवन्त ततो भीता इन्द्रं दृष्ट्वा वशीकृतम् ॥
गतेषु सुरसंघेषु शक्रं विष्णुरभाषत
मां त्वं प्रविश भद्रं ते नयिष्ये त्वां सुरोत्तम ॥
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः
विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचो ऽब्रवीत् ॥
एषा त्वां विष्णुना सार्धं दहामि मघवन्बलात्
मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥
तया ऽभिभूतौ तौ देवाव् इन्द्राविष्णू बभूवतुः
कथं मुच्येव सहितौ विष्णुरिन्द्रम् अभाषत ॥
इन्द्रो ऽब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो
विशेषणाभिभूतो ऽस्मि त्वत्तो ऽहं जहि मा चिरम् ॥
ततः समीक्ष्य विष्णुस्तां स्त्रीवधे कृच्छ्रम् आस्थितः
अभिध्याय ततश्चक्रम् आपदुद्धरणे तु तत् ॥
ततस्तु त्वरया युक्तः शीघ्रकारी भयान्वितः
ज्ञात्वा विष्णुस्ततस्तस्या क्रूरं देव्याश्चिकीर्षितम्
क्रुद्धः स्वमस्त्रमादाय शिरश्चिच्छेद वै भिया ॥
तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः
ततो ऽभिशप्तो भृगुणा विष्णुर् भार्यावधे तदा ॥
यस्मात्ते जानतो धर्म प्रवध्या स्त्री निषूदिता
तस्मात्त्वं सप्तकृत्वेह मानुषेषूपपत्स्जसे ॥
ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः
लोकस्य च हितार्थाय जायते मानुयेष्विह ॥
अनुव्याहृत्य विष्णुं स तदादाय शिरस्त्वरन्
समानीय ततः कायम् असौ गृह्येदमब्रवीत् ॥
एषा त्वं विष्पुना देवि हता संजीवयाम्यहम्
ततस्तां योज्य शिरसा अभिजीवेति सो ऽब्रवीत् ॥
यदि कृत्स्नो मया धर्मो ज्ञायते चरितो ऽपि वा
तेन सत्येन जीवस्व यदि सत्यं वदाम्यहम् ॥
ततस्तां प्रोक्ष्य शीताभिर् अद्भिर् जीवेति सो ऽब्रवीत्
ततो ऽभिव्याहृते तस्य देवी संजीविता तदा ॥
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव
साधु साध्विति चक्रुस्ते वचसा सर्वतोदिशम् ॥
एवं प्रत्याहृता तेन देवी सा भृगुणा तदा
मिषतां देवतानां हि तदद्भुतम् इवाभवद् ॥
असंभ्रान्तेन भृगुणा पत्नी संजीविता पुनः
दृष्ट्वा चेन्द्रो नालभत शर्म काव्यभयात्पुनः
प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीत् ॥
संचिन्त्य मतिमान् वाक्यं स्वां कन्यां पाकशासनः
एष काव्यो ह्यमित्राय व्रतं चरति दारुणम्
तेनाहं व्याकुलः पुत्रि कृतो मतिमता भृशम् ॥
गच्छ संसाधयस्वैनं श्रमापनयनैः शुभैः
तैस्तैर्मनोनुकूलैश्च ह्य् उपचारैर् अतन्द्रिता ॥
काव्यमाराधयस्वैनं यथा तुष्येत स द्विजः
गच्छ त्वं तस्य दत्ताऽसि प्रयत्नं कुरु मत्कृते ॥
एवमुक्ता जयन्ती सा वचः संगृह्य वै पितुः
अगच्छद्यत्र घोरं स तप आरभ्य तिष्ठति ॥
तं दृष्ट्वा तु पिबन्तं सा कणधूमम् अवाङ्मुखम्
यक्षेण पात्यमानं च कुण्डधारेण पातितम् ॥
दृष्ट्वा च तं पात्यमानं देवी काव्यमवस्थितम्
स्वरूपं ध्यानशाम्यन्तं दुर्बलं भूतिमास्थितम्
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा ॥
गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी
गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः
व्रतचर्यानुकूलाभिर् उवास बहुलाः समाः ॥
पूर्णे धूमव्रते तस्मिन् घोरे वर्षसहस्रके
वरेण च्छन्दयामास काव्यं प्रीतो भवस्तदा ॥
एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित्
तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च ॥
तेजसा च सुरान्सर्वांस् त्वमेको ऽभिभविष्यसि
यच्चाभिलषितं ब्रह्मन् विद्यते भृगुनन्दन ॥
प्रपत्स्यसे तु तत्सर्वं नानुवाच्यं तु कस्यचित्
सर्वाभिभावी तेन त्वं भविष्यसि द्विजोत्तम ॥
एतान्दत्त्वा वरांस्तस्मै भार्गवाय भवः पुनः
प्रजेशत्वं धनेशत्वम् अवध्यत्वं च वै ददौ ॥
एतांल्लब्ध्वा वरान्काव्यः सम्प्रहृष्टतनूरुहः
हर्षात्प्रादुर्बभौ तस्य दिव्यस्तोत्रं महेश्वरे
तथा तिर्यक्स्थितश्चैव तुष्टुवे नीललोहितम् ॥
नमो ऽस्तु शितिकण्ठाय कनिष्ठाय सुवर्चसे
लेलिहानाय काव्याय वत्सरायान्धसः पते ॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च
संस्तुताय सुतीर्थाय देवदेवाय रंहसे ॥
उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे
वसुरेताय रुद्राय तपसे चित्रवाससे ॥
ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च
कवये राजवृक्षाय तक्षकक्रीडनाय च ॥
सहस्रशिरसे चैव सहस्राक्षाय मीधुषे
वराय भव्यरूपाय श्वेताय पुरुषाय च ॥
गिरिशाय नमो ऽर्काय बलिने आज्यपाय च
सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च ॥
निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च
ताम्राय चैव भीमाय उग्राय च शिवाय च ॥
महादेवाय शर्वाय विश्वरूपशिवाय च
हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च ॥
वास्तोष्पते पिनाकाय मुक्तये केवलाय च
मृगव्याधाय दक्षाय स्थाणवे भीषणाय च ॥
बहुनेत्राय धुर्याय त्रिनेत्रायेश्वराय च
कपालिने च वीराय मृत्यवे त्र्यम्बकाय च ॥
बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च
पिनाकिने चेषुमते चित्राय रोहिताय च ॥
दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च
आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥
सांख्याय चैव योगाय व्यापिने दीक्षिताय च
अनाहताय शर्वाय भव्येशाय यमाय च ॥
रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये
चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च ॥
शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे
भास्वराय प्रतीताय सुदीप्ताय सुमेधसे ॥
क्रूरायाविकृतायैव भीषणाय शिवाय च
सौम्याय चैव मुख्याय धार्मिकाय शुभाय च ॥
अवध्यायामृतायैव नित्याय शाश्वताय च
व्यापृताय विशिष्टाय भरताय च साक्षिणे ॥
क्षेमाय सहमानाय सत्याय चामृताय च
कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे ॥
सोमपायाज्यपायैव धूमपायोष्मपाय च
शुचये परिधानाय सद्योजाताय मृत्यवे ॥
पिशिताशाय सर्वाय मेघाय विद्युताय च
व्यावृत्ताय वरिष्ठाय भरिताय तरक्षवे ॥
त्रिपुरघ्नाय तीर्थाया -वक्राय रोमशाय च
तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये ॥
रोचमानाय चण्डाय स्फीताय ऋषभाय च
व्रतिने युञ्जमानाय शुचये चोर्ध्वरेतसे ॥
असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च
कृशानवे प्रचेताय वह्नये निर्मलाय च ॥
रक्षोघ्नाय पशुघ्नाया विघ्नाय श्वसिताय च
विभ्रान्ताय महान्ताय अर्णवे दुर्गमाय च ॥
कृष्णाय च जयन्ताय लोकानामीश्वराय च
अनाश्रिताय वेध्याय समत्वाधिष्ठिताय च ॥
हिरण्यबाहवे चैव व्याप्ताय च महाय च
सुकर्मणे प्रसह्याय चेशानाय सुचक्षुषे ॥
क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च
कपिलाय पिशङ्गाय महादेवाय धीमते ॥
महाकायाय दीप्ताय रोदनाय सहाय च
दृढधन्विने कवचिने रथिने च वरूथिने ॥
भृगुनाथाय शुक्राय गह्वरेष्ठाय वेधसे
अमोघाय प्रशान्ताय सुमेधाय वृषाय च ॥
नमो ऽस्तु तुभ्यं भगवन् विश्वाय कृत्तिवाससे
पशूनां पतये तुभ्यं भूतानां पतये नमः ॥
प्रणवे ऋग्यजुःसाम्ने स्वाहाय च स्वधाय च
वषट्कारात्मने चैव तुभ्यं मन्त्रात्मने नमः ॥
त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुःश्रोत्रमयाय च
भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः ॥
वसवे चैव साध्याय रुद्रादित्यसुराय च
विषाय मारुतायैव तुभ्यं देवात्मने नमः ॥
अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च
स्वयम्भुवे ह्य् अजायैव अपूर्वप्रथमाय च
प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः ॥
आत्मेशायात्मवश्याय सर्वेशातिशयाय च
सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः ॥
निर्गुणाय गुणज्ञाय व्याकृतायामृताय च
निरुपाख्याय मित्राय तुभ्यं सांख्यात्मने नमः ॥
पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥
अव्यक्ताय च महते भूतादेरिन्द्रियाय च
आत्मज्ञाय विशेषाय तुभ्यं सर्वात्मने नमः ॥
नित्याय चात्मलिङ्गाय सूक्ष्मायैवेतराय च
बुद्धाय विभवे चैव तुभ्यं मोक्षात्मने नमः ॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस् त्रिषु
सत्यान्तेषु महाद्येषु चतुर्षु च नमो ऽस्तु ते ॥
नमः स्तोत्रे मया ह्य् अस्मिन् यदि न व्याहृतं भवेत्
मद्भक्त इति ब्रह्मण्य तत्सर्वं क्षन्तुमर्हसि ॥
एवमाभाष्य देवेशम् ईश्वरं नीललोहितम्
प्रह्वो ऽभिप्रणतस्तस्मै प्राञ्जलिर्वाग्यतो ऽभवत् ॥
काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः
निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥
ततः सो ऽन्तर्हिते तस्मिन् देवेशे ऽनुचरीं तदा
तिष्ठन्तीं पार्श्वतो दृष्ट्वा जयन्तीमिदमब्रवीत् ॥
कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता
महता तपसा युक्ता किमर्थं मां निषेवसे ॥
अनया संस्तुतो भक्त्या प्रश्रयेण दमेन च
स्नेहेन चैव सुश्रोणि प्रीतो ऽस्मि वरवर्णिनि ॥
किमिच्छसि वरारोहे कस्ते कामः समृध्यताम्
तत्ते सम्पादयाम्यद्य यद्यपि स्यात्सुदुष्करः ॥
एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि
चिकीर्षितं हि मे ब्रह्मंस् त्वं हि वेत्थ यथातथम् ॥
एवमुक्तो ऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा
मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि ॥
सर्वभूतैरदृश्या च संप्रयोगमिहेच्छसि
देवि चेन्दीवरश्यामे वरार्हे वामलोचने
एवं वृणोषि कामं त्वं मत्तो वै वल्गुभाषिणि ॥
एवं भवतु गच्छामो गृहान्नो मत्तकाशिनि
ततः स्वगृहमागत्य जयन्त्याः पाणिमुद्वहन् ॥
तया सहावसद्देव्या दश वर्षाणि भार्गवः
अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः ॥
कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः
अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥
यदा गता न पश्यन्ति मायया संवृतं गुरुम्
लक्षणं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥
बृहस्पतिस्तु संरुद्धं काव्यं ज्ञात्वा वरेण तु
तुष्ट्यर्थं दश वर्षाणि जयन्त्या हितकाम्यया ॥
बुद्ध्वा तदन्तरं सो ऽपि दैत्यानामिन्द्रनोदितः
काव्यस्य रूपमास्थाय असुरान् समुपाह्वयत् ॥
ततस्तानागतान्दृष्ट्वा बृहस्पतिरुवाच ह
स्वागतं मम याज्यानां प्राप्तो ऽहं वो हिताय च ॥
अहं वो ऽध्यापयिष्यामि विद्याः प्राप्तास्तु या मया
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥
पूर्णे काव्यस्तदा तस्मिन् समये दशवार्षिके
समयान्ते देवयानी तदोत्पन्ना इति श्रुतिः
बुद्धिं चक्रे ततः सो ऽथ याज्यानां प्रत्यवेक्षणे ॥
देवि गच्छाम्यहं द्रष्टुं मम याज्याञ्शुचिस्मिते
विभ्रान्तवीक्षिते साध्वि त्रिवर्णायतलोचने ॥
एवमुक्ताब्रवीद् एनं भज भक्तान्महाव्रत
एष धर्मः सतां ब्रह्मन् न धर्मं लोपयामि ते ॥
ततो गत्वासुरान्दृष्ट्वा देवाचार्येण धीमता
वञ्चितान्काव्यरूपेण ततः काव्यो ऽब्रवीत्तु तान् ॥
काव्यं मां वो विजानीध्वं तोषितो गिरिशो विभुः
वञ्चिता बत यूयं वै सर्वे शृणुत दानवाः ॥
श्रुत्वा तथा ब्रुवाणं तं संभ्रान्तास्ते तदाभवन्
प्रेक्षन्तस् ताव् उभौ तत्र स्थितासीनौ सुविस्मिताः ॥
सम्प्रमूढास् ततः सर्वे न प्राबुध्यन्त किंचन
अब्रवीत् सम्प्रमूढेषु काव्यस्तानसुरांस्तदा ॥
आचार्यो वो ह्य् अहं काव्यो देवाचार्यो ऽयमङ्गिराः
अनुगच्छत मां दैत्यास् त्यजतैनं बृहस्पतिम् ॥
इत्युक्ता ह्य् असुरास्तेन ताव् उभौ समवेक्ष्य च
यदासुरा विशेषं तु न जानन्त्युभयोस्तयोः ॥
बृहस्पतिर् उवाचैनान् असम्भ्रान्तस्तपोधनः
काव्यो वो ऽहं गुरुर्दैत्या मद्रूपो ऽयं बृहस्पतिः ॥
संमोहयति रूपेण मामकेनैष वो ऽसुराः
श्रुत्वा तस्य ततस्ते वै समेत्य तु ततो ऽब्रुवन् ॥
अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः
एष वै गुरुरस्माकम् अन्तरेप्सुरयं द्विजः ॥
ततस्ते दानवाः सर्वे प्रणिपत्याभिनन्द्य च
वचनं जगृहुस्तस्य चिराभ्यासे न मोहिताः ॥
ऊचुस् तमसुराः सर्वे क्रोधसंरक्तलोचनाः
अयं गुरुर् हितो ऽस्माकं गच्छ त्वं नासि नो गुरुः ॥
भार्गवो वाङ्गिरा वापि भगवानेष नो गुरुः
स्थिता वयं निदेशे ऽस्य साधु त्वं गच्छ माचिरम् ॥
एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम्
यदा न प्रत्यपद्यन्त काव्येनोक्तं महद्धितम् ॥
चुकोप भार्गवस्तेषाम् अवलेपेन तेन तु
बोधिता हि मया यस्मान् न मां भजथ दानवाः ॥
तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ
इति व्याहृत्य तान्काव्यो जगामाथ यथागतम् ॥
शप्तांस्तानसुराञ्ज्ञात्वा काव्येन स बृहस्पतिः
कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ॥
बुद्ध्यासुरान् हताञ्ज्ञात्वा कृतार्थो ऽन्तरधीयत
ततः प्रनष्टे तस्मिंस्तु विभ्रान्ता दानवाभवन् ॥
अहो विवञ्चिताः स्मेति परस्परमथाब्रुवन्
पृष्ठतो ऽभिमुखाश्चैव ताडिताङ्गिरसेन तु ॥
वञ्चिताः सोपधानेन स्वे स्वे वस्तुनि मायया
ततस्त्वपरितुष्टास्ते तमेव त्वरिता ययुः
प्रह्लादमग्रतः कृत्वा काव्यस्यानुपदं पुनः ॥
ततः काव्यं समासाद्य उपतस्थुरवाङ्मुखाः
समागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥
मया संबोधिताः सर्वे यस्मान्मा नाभिनन्दथ
ततस्तेनावमानेन गता यूयं पराभवम् ॥
एवं ब्रुवाणं शुक्रं तु बाष्पसंदिग्धया गिरा
प्रह्लादस्तं तदोवाच मा नस्त्वं त्यज भार्गव ॥
स्वाश्रयान् भजमानांश्च भक्तांस्त्वं भज भार्गव
त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः
भक्तानर्हसि वै ज्ञातुं तपोदीर्घेण चक्षुषा ॥
यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन
अपध्यातास् त्वया ह्य् अद्य प्रविशामो रसातलम् ॥
ज्ञात्वा काव्यो यथातत्त्वं कारुण्यादनुकम्पया
एवं प्रत्यनुनीतो वै ततः कोपं नियम्य सः
उवाचैतान्न भेतव्यं न गन्तव्यं रसातलम् ॥
अवश्यं भाविनो ह्य् अर्थाः प्राप्तव्या मयि जाग्रति
न शक्यमन्यथा कर्तुं दिष्टं हि बलवत्तरम् ॥
संज्ञा प्रनष्टा या वो ऽद्य तामेतां प्रतिपत्स्यथ
देवाञ्जित्वा सकृच्चापि पातालं प्रतिपत्स्यथ ॥
प्राप्ते पर्यायकाले च हीति ब्रह्माभ्यभाषत
मत्प्रसादाच्च त्रैलोक्यं भुक्तं युष्माभिरूर्जितम् ॥
युगाख्या दश सम्पूर्णा देवानाक्रम्य मूर्धनि
एतावन्तं च कालं वै ब्रह्मा राज्यमभाषत ॥
राज्यं सावर्णिके तुभ्यं पुनः किल भविष्यति
लोकानामीश्वरो भाव्यस् तव पौत्रः पुनर्बलिः ॥
एवं किल मिथः प्रोक्तः पौत्रस्ते विष्णुना स्वयम्
वाचा हृतेषु लोकेषु तास्तास्तस्याभवन्किल ॥
यस्मात्प्रवृत्तयश्चास्य संकाशाद् अभिसंधिताः
तस्माद्वृत्तेन प्रीतेन तुभ्यं दत्तं स्वयम्भुवा ॥
देवराज्ये बलिर्भाव्य इति मामीश्वरो ऽब्रवीत्
तस्माददृश्यो भूतानां कालापेक्षः स तिष्ठति ॥
प्रीतेन चापरो दत्तो वरस्तुभ्यं स्वयम्भुवा
तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहितो ऽसुरैः ॥
न हि शक्यं मया तुभ्यं पुरस्ताद् विप्रभाषितुम्
ब्रह्मणा प्रतिषिद्धो ऽहं भविष्यं जानता विभो ॥
इमौ च शिष्यौ द्वौ मह्यं समाव् एतौ बृहस्पतेः
दैवतैः सह संसृष्टान् सर्वान्वो धारयिष्यतः ॥
इत्युक्ता ह्य् असुराः सर्वे काव्येनाक्लिष्टकर्मणा
हृष्टास्तेन ययुः सार्धं प्रह्लादेन महात्मना ॥
अवश्यं भाव्यमर्थं तु श्रुत्वा शुक्रेण भाषितम्
सकृदाशंसमानास्तु जयं शुक्रेण भाषितम्
दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् ॥
देवास्तदासुरान्दृष्ट्वा संग्रामे समुपस्थितान्
सर्वे संभृतसम्भारा देवास्तान् समयोधयन् ॥
देवासुरे तदा तस्मिन् वर्तमाने शतं समाः
अजयन्नसुरा देवांस् ततो देवा ह्य् अमन्त्रयन् ॥
यज्ञेनोपाह्वयामस् तौ ततो जेष्यामहे ऽसुरान्
तदोपामन्त्रयन्देवाः शण्डामर्कौ तु ताव् उभौ ॥
यज्ञे चाहूय तौ प्रोक्तौ त्यजेतामसुरान् द्विजौ
वयं युवां भजिष्यामः सह जित्वा तु दानवान् ॥
एवं कृताभिसंधी तौ शण्डामर्कौ सुरास्तथा
ततो देवा जयं प्रापुर् दानवाश्च पराजिताः ॥
शण्डामर्कपरित्यक्ता दानवा ह्य् अबलास्तथा
एवं दैत्याः पुरा काव्य शापेनाभिहतास्तदा ॥
काव्यशापाभिभूतास्ते निराधाराश्च सर्वशः
निरस्यमाना देवैश्च विविशुस्ते रसातलम् ॥
एवं निरुद्यमा देवैः कृताः कृच्छ्रेण दानवाः
ततः प्रभृति शापेन भृगोर्नैमित्तिकेन तु ॥
जज्ञे पुनः पुनर्विष्णुर् धर्मे प्रशिथिले प्रभुः
कुर्वन्धर्मव्यवस्थानम् असुराणां प्रणाशनम् ॥
प्रह्लादस्य निदेशे तु न स्थास्यन्त्यसुराश्च ये
मनुष्यवध्यास्ते सर्वे ब्रह्मेति व्याहरत्प्रभुः ॥
धर्मान्नारायणस्यांशः सम्भूतश् चाक्षुषे ऽन्तरे
यज्ञं वै वर्तयामासुर् देवा वैवस्वते ऽन्तरे ॥
प्रादुर्भावे ततस्तस्य ब्रह्मा ह्य् आसीत्पुरोहितः
युगाख्यायां चतुर्थ्यां तु आपन्नेषु सुरेषु वै ॥
सम्भूतस्तु समुद्रान्ते हिरण्यकशिपोर्वधे
द्वितीये नरसिंहाख्ये रुद्रो ह्य् आसीत्पुरोहितः ॥
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति
तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा ॥
एतास् तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयो द्विजाः
मानुषाः सप्त यान्यास्तु शापजास्ता निबोधत ॥
त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह
नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः ॥
पञ्चमः पञ्चदश्यां च त्रेतायां संबभूव ह
मान्धाता चक्रवर्ती तु तदोत्तङ्कपुरःसरे ॥
एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा
सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥
अष्टमे द्वापरे विष्णुर् अष्टाविंशे पराशरात्
वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः ॥
कर्तुं धर्मव्यवस्थानम् असुराणां प्रणाशनम्
बुद्धो नवमको जज्ञे तपसा पुष्करेक्षणः
देवसुन्दररूपेण द्वैपायनपुरःसरः ॥
तस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति
कल्की तु विष्णुयशसः पाराशर्यपुरःसरः ॥
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः
सर्वांश्च भूतांस् तिमितान् पाषण्डांश्चैव सर्वशः ॥
प्रगृहीतायुधैर् विप्रैर् वृतः शतसहस्रशः ॥
निःशेषाञ्छूद्रराज्ञस्तु तदा स तु करिष्यति
ब्रह्मद्विषः सपत्नांस्तु संहृत्यैव च तद्वपुः ॥
पञ्चविंशे स्थितः कल्किश् चरितार्थः ससैनिकः
शूद्रान् संशोधयित्वा तु समुद्रान्तं च वै स्वयम् ॥
प्रवृत्तचक्रो बलवान् संहारं तु करिष्यति
उत्सादयित्वा वृषलान् प्रायशस्तानधार्मिकान् ॥
ततस्तदा स वै कल्किश् चरितार्थः ससैनिकः
प्रजास्तं साधयित्वा तु समृद्धास्तेन वै स्वयम् ॥
अकस्मात्कोपितान्योन्यं भविष्यन्तीह मोहिताः
क्षपयित्वा तु ते ऽन्योन्यं भाविनार्थेन चोदिताः ॥
ततः काले व्यतीते तु स देवो ऽन्तरधीयत
नृपेष्वथ प्रनष्टेषु प्रजानां संग्रहात्तदा ॥
रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे
परस्परं च हत्वा तु निराक्रन्दाः सुदुःखिताः ॥
पुराणि हित्वा ग्रामांश्च तुल्यत्वे निष्परिग्रहाः
प्रनष्टाश्रमधर्माश्च नष्टवर्णाश्रमास्तथा ॥
अट्टशूला नानपदाः शिवशूलाश्चतुष्पथाः
प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥
ह्रस्वदेहायुषश्चैव भविष्यन्ति वनौकसः
सरित्पर्वतवासिन्यो मूलपत्त्रफलाशनाः ॥
चीरचर्माजिनधराः संकरं घोरमाश्रिताः
उत्पातदुःखाः स्वल्पार्था बहुबाधाश्च ताः प्रजाः ॥
एवं कष्टमनुप्राप्ताः काले संध्यंशके तदा
ततः क्षयं गमिष्यन्ति सार्धं कलियुगेन तु ॥
क्षीणे कलियुगे तस्मिंस् ततः कृतमवर्तत
इत्येतत्कीर्तितं सम्यग् देवासुरविचेष्टितम् ॥
यदुवंशप्रसङ्गेन समासाद्वैष्णवं यशः
तुर्वसोस्तु प्रवक्ष्यामि पूरोर् द्रुह्योस्तथा ह्य् अनोः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0