मत्स्य पुराण · अध्याय 46
ऐक्ष्वाकी सुषुवे शूरं ख्यातमद्भुतमीढुषम्
पौरुषाज्जज्ञिरे शूराद् भोजायां पुत्रका दश ॥
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः
देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः ॥
अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः
श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः ॥
श्रुतकीर्तिः पृथा चैव श्रुतादेवी श्रुतश्रवाः
राजाधिदेवी च तथा पञ्चैता वीरमातरः ॥
कृतस्य तु श्रुतादेवी सुग्रीवं सुषुवे सुतम्
कैकेय्यां श्रुतकीर्त्यां तु जज्ञे सो ऽनुव्रतो नृपः ॥
श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत
बहुशो धर्मचारी स संबभूवारिमर्दनः ॥
अथ सख्येन वृद्धे ऽसौ कुन्तिभोजे सुतां ददौ
एवं कुन्ती समाख्याता वसुदेवस्वसा पृथा ॥
वसुदेवेन सा दत्ता पाण्डोर्भार्या ह्य् अनिन्दिता
पाण्डोरर्थेन सा जज्ञे देवपुत्रान् महारथान् ॥
धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकादेरः
इन्द्राद्धनंजयश् चैव शक्रतुल्यपराक्रमः ॥
माद्रवत्यां तु जनिताव् अश्विभ्याभिति शुश्रुम
नकुलः सहदेवश्च रूपशीलगुणान्वितौ ॥
रोहिणी पौरवी नाम भार्या ह्य् आनकदुन्दुभेः
लेभे ज्येष्ठं सुतं रामं सारणं च सुतं प्रियम् ॥
दुर्दमं दमनं सुभ्रुं पिण्डारकमहाहनू
चित्राक्ष्यौ द्वे कुमार्यौ तु रोहिण्यां जज्ञिरे तदा ॥
देवक्यां जज्ञिरे शौरेः सुषेणः कीर्तिमानपि
उदासी भद्रसेनश्च ऋषिवासस्तथैव च
षष्ठो भद्रविदेहश्च कंसः सर्वानघातयत् ॥
प्रथमा या अमावास्या वार्षिकी तु भविष्यति
तस्यां जज्ञे महाबाहुः पूर्वं कृष्णः प्रजापतिः ॥
अनुजा त्व् अभवत्कृष्णा सुभद्रा भद्रभाषिणी
देवक्यां तु महातेजा जज्ञे शूरो महायशाः ॥
सहदेवस्तु ताम्रायां जज्ञे शौरिः कुलोद्वहः
उपासङ्गधरं लेभे तनयं देवरक्षिता
एकां कन्यां च सुभगां कंसस्ताम् अभ्यघातयत् ॥
विजयं रोचमानं च वर्धमानं तु देवलम्
एते सर्वे महात्मानो ह्य् उपदेव्यां प्रजज्ञिरे ॥
अवगाहो महात्मा च वृकदेव्यामजायत
वृकदेव्यां स्वयं जज्ञे नन्दको नाम नामतः ॥
सप्तमं देवकीपुत्रं मदनं सुषुवे नृप
गवेषणं महाभागं संग्रामेष्वपराजितम् ॥
श्रद्धादेव्या विहारे तु वने हि विचरन्पुरा
वैश्यायामदधाच्छौरिः पुत्रं कौशिकमग्रजम् ॥
सुतनू रथराजी च शौरेरास्तां परिग्रहौ
पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ बलौ ॥
जरा नाम निषादो ऽभूत् प्रथमः स धनुर्धरः
सौभद्रश्च भवश्चैव महासत्त्वौ बभूवतुः ॥
देवभागसुतश्चापि नाम्नासाव् उद्धवः स्मृतः
पण्डितं प्रथमं प्राहुर् देवश्रवःसमुद्भवम् ॥
ऐक्ष्वाक्यलभतापत्यम् अनाधृष्टेर्यशस्विनी
निधूतसत्त्वं शत्रुघ्नं श्राद्धस्तस्मादजायत ॥
करूषायानपत्याय कृष्णस्तुष्टः सुतं ददौ
सुचन्द्रं तु महाभागं वीर्यवन्तं महाबलम् ॥
जाम्बवत्याः सुताव् एतौ द्वौ च सत्कृतलक्षणौ
चारुदेष्णश्च साम्बश्च वीर्यवन्तौ महाबलौ ॥
तन्तिपालश्च तन्तिश्च नन्दनस्य सुताव् उभौ
शमीकपुत्राश् चत्वारो विक्रान्ताः सुमहाबलाः
विराजश्च धनुश्चैव श्यामश्च सृञ्जयस्तथा ॥
अनपत्यो ऽभवच्छ्यामः शमीकस्तु वनं ययौ
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥
कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः
शृणोति मानवो नित्यं सर्वपापैः प्रमुच्यते ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0