भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 44

44.1

किमर्थं तद्वनं दग्धम् आपवस्य महात्मनः
कार्तवीर्येण विक्रम्य सूत प्रब्रूहि तत्त्वतः ॥

44.2

रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम्
स कथं रक्षिता भूत्वा अदहत्तत्तपोवनम् ॥

44.3

आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः
तृप्तिमेकां प्रयच्छस्व आदित्यो ऽहं नरेश्वर ॥

44.4

भगवन्केन तृप्तिस्ते भवत्येव दिवाकर
कीदृशं भोजनं दद्मि हुत्वा तु विदधाम्यहम् ॥

44.5

स्थावरं देहि मे सर्वम् आहारं ददतां वर
तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव ॥

44.6

न शक्याः स्थावराः सर्वे तेजसा च बलेन च
निर्दग्धुं तपतां श्रेष्ठ तेन त्वां प्रणमाम्यहम् ॥

44.7

तुष्टस्ते ऽहं शरान्दद्मि अक्षयान्सर्वतोमुखान्
ये प्रक्षिप्ता ज्वलिष्यन्ति मम तेजःसमन्विताः ॥

44.8

आविष्टा मम तेजोभिः शोषयिष्यन्ति स्थावरान्
शुष्कान् भस्मीकरिष्यन्ति तेन तृप्तिर्नराधिप ॥

44.9

ततः शरांस्तदादित्यस् त्व् अर्जुनाय प्रयच्छत
ततो ददाह सम्प्राप्तान् स्थावरान् सर्वमेव च ॥

44.10

ग्रामांस्तथाश्रमांश्चैव घोषाणि नगराणि च
तपोवनानि रम्याणि वनान्युपवनानि च ॥

44.11

एवं प्राचीमन्वदहत् ततः सर्वां स दक्षिणाम्
निर्वृक्षा निस्तृणा भूमिर् हता घोरेण तेजसा ॥

44.12

एतस्मिन्नेव काले तु आपवो जलमास्थितः
दश वर्षसहस्राणि तत्रास्ते स महानृषिः ॥

44.13

पूर्णे व्रते महातेजा उदतिष्ठंस्तपोधनः
सो ऽपश्यदाश्रमं दग्धम् अर्जुनेन महामुनिः ॥

44.14

क्रोधाच्छशाप राजर्षिं कीर्तितं वो यथा मया
क्रोष्टोः शृणुत राजर्षेर् वंशमुत्तमपौरुषम् ॥

44.15

यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः
क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महारथः ॥

44.16

वृजिनीवतश्च पुत्रो ऽभूत् स्वाहो नाम महाबलः
स्वाहपुत्रो ऽभवद् राजन् रुषङ्गुर् वदतां वरः ॥

44.17

स तु प्रसूतिमिच्छन् वै रुषङ्गुः सौम्यमात्मजम्
चित्रश्चित्ररथश्चास्य पुत्रः कर्मभिरन्वितः ॥

44.18

अथ चैत्ररथिवीरो जज्ञे विपुलदक्षिणः
शशबिन्दुरिति ख्यातश् चक्रवर्ती बभूव ह ॥

44.19

अत्रानुवंशश्लोको ऽयं गीतस् तस्मिन्पुराभवत्
शशबिन्दोस्तु पुत्राणां शतानाम् अभवच्छतम् ॥

44.20

धीमतां चाभिरूपाणां भूरिद्रविणतेजसाम्
तेषां शतप्रधानानां पृथुसाह्वा महाबलाः ॥

44.21

पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुंजयः
पृथुकीर्तिः पृथुमना राजानः शशबिन्दवः ॥

44.22

शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम्
अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयो ऽभवत् ॥

44.23

उशना तु सुयज्ञस्य यो रक्षन्पृथिवीमिमाम्
आजहाराश्वमेधानां शतमुत्तमधार्मिकः ॥

44.24

तितिक्षुरभवत्पुत्र औशनः शत्रुतापनः
मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः ॥

44.25

आसीन्मरुत्ततनयौ वीरः कम्बलबर्हिषः
पुत्रस्तु रुक्मकवचो विद्वान्कम्बलबर्हिषः ॥

44.26

निहत्य रुक्मकवचः परान्कवचधारिणः
धन्विनो विविधैर्बाणैर् अवाप्य पृथिवीमिमाम् ॥

44.27

अश्वमेधे ददौ राजा ब्राह्मणेभ्यस्तु दक्षिणाम्
यज्ञे तु रुक्मकवचः कदाचित्परवीरहा ॥

44.28

जज्ञिरे पञ्च पुत्रास्तु महावीर्या धनुर्भृतः
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः ॥

44.29

परिघं च हरिं चैव विदेहे ऽस्थापयत्पिता
रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः ॥

44.30

तेभ्यः प्रव्राजितो राज्याज् ज्यामघस्तु तदाश्रमे
प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः ॥

44.31

जगाम धनुरादाय देशमन्यं ध्वजी रथी
नर्मदां नृप एकाकी केवलं वृत्तिकामतः ॥

44.32

ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरुपाविशत्
ज्यामघस्याभवद्भार्या चैत्रा परिणता सती ॥

44.33

अपुत्रो न्यवसद्राजा भार्यामन्यां न विन्दत
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः ॥

44.34

भार्यामुवाच संत्रासात् स्नुषेयं ते शुचिस्मिते
एवमुक्ताब्रवीदेनं कस्य चेयं स्नुषेति च ॥

44.35

यस्ते जनिष्यते पुत्रस् तस्य भार्या भविष्यति
तस्मात्सा तपसोग्रेण कन्यायाः सम्प्रसूयत ॥

44.36

पुत्रं विदर्भं सुभगा चैत्रा परिणता सती
राजपुत्र्यां च विद्वान्स स्नुषायां क्रथकैशिकौ
लोमपादं तृतीयं तु पुत्रं परमधार्मिकम् ॥

44.37

तस्यां विदर्भो ऽजनयच् छरान्रणविशारदान्
लोमपादान्मनुः पुत्रा ज्ञातिस्तस्य तु चात्मजः ॥

44.38

कैशिकस्य चिदिः पुत्रस् तस्माच्चैद्या नृपाः स्मृताः
क्रथो विदर्भपुत्रस्तु कुन्तिस् तस्यात्मजो ऽभवत् ॥

44.39

कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान्
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ॥

44.40

तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः
दशार्हस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः
दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते ॥

44.41

जीमूतपुत्रो विमलस् तस्य भीमरथः सुतः
सुतो भीमरथस्यासीत् स्मृतो नवरथः किल ॥

44.42

तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः
तस्मात्करम्भः कारम्भिर् देवरातो बभूव ह ॥

44.43

देवक्षत्रो ऽभवद्राजा दैवरातिर्महायशाः
देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः ॥

44.44

मधुर्नाम महातेजा मधोः पुरवसस् तथा
आसीत् पुरवसात् पुत्रः पुरुद्वान्पुरुषोत्तमः ॥

44.45

जन्तुर्जज्ञे ऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः
ऐक्ष्वाकी चाभवद्भार्या जन्तोस्तस्यामजायत ॥

44.46

सात्वतः सत्त्वसंयुक्तः सात्वतां कीर्तिवर्धनः
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः
प्रजावान् एति सायुज्यं राज्ञः सोमस्य धीमतः ॥

44.47

सात्वतान् सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान्
भजिनं भजमानं तु दिव्यं देवावृधं नृप ॥

44.48

अन्धकं च महाभोजं वृष्णिं च यदुनन्दनम्
तेषां तु सर्गाश् चत्वारो विस्तरेणैव तच्छृणु ॥

44.49

भजमानस्य सृञ्जय्यां बाह्यकायां च बाह्यकाः
सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन् ॥

44.50

तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून्सुतान्
निमिं च कृमिलं चैव वृष्णिं परपुरंजयम्
ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे ॥

44.51

यज्ञे देवावृधो राजा बन्धूनां मित्रवर्धनः
अपुत्रस्त्वभवद्राजा चचार परमं तपः
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन् ॥

44.52

संयोज्य मन्त्रमेवाथ पर्णाशाजलमस्पृशत्
तदोपस्पर्शनात्तस्य चकार प्रियमापगा ॥

44.53

कल्याणत्वान्नरपतेस् तस्मै सा निम्नगोत्तमा
चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम् ॥

44.54

नाधिगच्छाम्यहं नारीं यस्यामेवंविधः सुतः
जायेत तस्मादद्याहं भवाम्यथ सहस्रशः ॥

44.55

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः
ज्ञापयामास राजानं तामियेष महाव्रतः ॥

44.56

अथ सा नवमे मासि सुषुवे सरितां वरा
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात् ॥

44.57

अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम्
गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः ॥

44.58

यथैव शृणुमो दूराद् अपश्यामस् तथान्तिकात्
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ॥

44.59

षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः
एते ऽमृतत्वं सम्प्राप्ता बभ्रोर् देवावृधान्नृप ॥

44.60

यज्वा दानपतिर् वीरो ब्रह्मण्यश्च दृढव्रतः
रूपवान्सुमहातेजाः श्रुतवीर्यधरस्तथा ॥

44.61

अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान्
कुकुरं भजमानं च शशिं कम्बलबर्हिषम् ॥

44.62

कुकुरस्य सुतो वृष्णिर् वृष्णेस्तु तनयो धृतिः
कपोतरोमा तस्याथ तैत्तिरिस्तस्य चात्मजः ॥

44.63

तस्यासीत्तनुजः सर्पो विद्वान्पुत्रो नलः किल
ख्यायते तस्य नाम्ना स नन्दनो दरदुन्दुभिः ॥

44.64

तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः
अश्वमेधं च पुत्रार्थम् आजहार नरोत्तमः ॥

44.65

तस्य मध्ये ऽतिरात्रस्य सभामध्यात्समुत्थितः
अतस्तु विद्वान्कर्मज्ञो यज्वा दाता पुनर्वसुः ॥

44.66

तस्यासीत् पुत्रमिथुनं बभूवाविजितं किल
आहुकश्चाहुकी चैव ख्यातं मातेमतां वर ॥

44.67

इमांश्चोदाहरन्त्यत्र श्लोकान्प्रति तमाहुकम्
सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ॥

44.68

रथानां मेघघोषाणां सहस्राणि दशैव तु
नासत्यवादी नातेजा नायज्वा नासहस्रदः ॥

44.69

नाशुचिर्नाप्यविद्वान् हि यो भोजेष्वभ्यजायत
आहुकस्य भृतिं प्राप्ता इत्येतद्वै तदुच्यते ॥

44.70

आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ
आहुकात्काश्यदुहिता द्वौ पुत्रौ समसूयत ॥

44.71

देवकश्चोग्रसेनश्च देवगर्भसमाव् उभौ
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥

44.72

देववानुपदेवश्च सुदेवो देवरक्षितः
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥

44.73

देवकी श्रुतदेवी च मित्रदेवी यशोधरा
श्रीदेवी सत्यदेवी च सुतापी चेति सप्तमी ॥

44.74

नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः
न्यग्रोधश्च सुनामा च कङ्कः शङ्कुश्च भूयसः ॥

44.75

अजभू राष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिदः
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा ॥

44.76

सुतन्तू राष्ट्रपाली च कङ्का चेति वराङ्गनाः
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ॥

44.77

भजमानस्य पुत्रो ऽथ रथिमुख्यो विदूरथः
राजाधिदेवः शूरश्च विदूरथसुतो ऽभवत् ॥

44.78

राजाधिदेवस्य सुतौ जज्ञाते देवसंमितौ
नियमव्रतप्रधानौ शोणाश्वः श्वेतवाहनः ॥

44.79

शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः
शमी च देवशर्मा च निकुन्तः शक्रशत्रुजित् ॥

44.80

शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः
प्रतिक्षेत्रः सुतो भोजो हृदीकस्तस्य चात्मजः ॥

44.81

हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः
कृतवर्माग्रजस् तेषां शतधन्वा च मध्यमः ॥

44.82

देवार्हश्चैव नाभश्च भीषणश्च महाबलः
अजातो वनजातश्च कनीयककरम्भकौ ॥

44.83

देवार्हस्य सुतो विद्वाञ् जज्ञे कम्बलबर्हिषः
असामञ्जाः सुतस्तस्य तमोजातस्य चात्मजः ॥

44.84

अजातपुत्रा विक्रान्तास् त्रयः परमकीर्तयः
सुदंष्ट्रश्च सुनाभश्च कृष्ण इत्यन्धका मताः ॥

44.85

अन्धकानामिमं वंशं यः कीर्तयति नित्यशः
आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc