मत्स्य पुराण · अध्याय 43
इत्येतच्छौनकाद्राजा शतानीको निशम्य तु
विस्मितः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥
पूजयामास नृपतिर् विधिवच्चाथ शौनकम्
रत्नैर्गोभिः सुवर्णैश्च वासोभिर्विविधैस्तथा ॥
प्रतिगृह्य ततः सर्वं यद्राज्ञा प्रहितं धनम्
दत्त्वा च ब्राह्मणेभ्यश्च शौनको ऽन्तरधीयत ॥
ययातेर्वंशमिच्छामः श्रोतुं विस्तरतो वद
यदुप्रभृतिभिः पुत्रैर् यदा लोके प्रतिष्ठितम् ॥
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः
विस्तरेणानुपूर्व्या च गदतो मे निबोधत ॥
यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः
महारथा महेष्वासा नामतस्तान्निबोधत ॥
सहस्रजिर् अथो ज्येष्ठः क्रोष्टुर्नीलो ऽन्तिको लघुः
सहस्रजेस्तु दायादः शतजिर्नाम पार्थिवः ॥
शतजेरपि दायादास् त्रयः परमकीर्तयः
हैहयश्च हयश्चैव तथा वेणुहयश्च यः ॥
हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः
धर्मनेत्रस्य कुन्तिस्तु संहतस्तस्य चात्मजः ॥
संहतस्य तु दायादो महिष्मान्नाम पार्थिवः
आसीन्महिष्मतः पुत्रो रुद्रश्रेण्यः प्रतापवान् ॥
वाराणस्याम् अभूद्राजा कथितं पूर्वमेव तु
रुद्रश्रेण्यस्य पुत्रो ऽभूद् दुर्दमो नाम पार्थिवः ॥
दुर्दमस्य सुतो धीमान् कनको नाम वीर्यवान्
कनकस्य तु दायादाश् चत्वारो लोकविश्रुताः ॥
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च
कृतौजाश्च चतुर्थो ऽभूत् कृतवीर्यात्ततो ऽर्जुनः ॥
जातः करसहस्रेण सप्तद्वीपेश्वरो नृपः
वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः ॥
दत्तमाराधयामास कार्तवीर्यो ऽत्रिसम्भवम्
तस्मै दत्ता वरास्तेन चत्वारः पुरुषोत्तम ॥
पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः
अधर्मं चरमाणस्य सद्भिश्चापि निवारणम् ॥
युद्धेन पृथिवीं जित्वा धर्मेणैवानुपालनम्
संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत् ॥
तेनेयं पृथिवी सर्वा सप्तद्वीपा सपर्वता
सप्तोदधिपरिक्षिप्ता क्षात्त्रेण विधिना जिता ॥
जज्ञे बाहुसहस्रं वै इच्छतस्तस्य धीमतः
रथो ध्वजश्च संजज्ञ इत्येवमनुशुश्रुम ॥
दश यज्ञसहस्राणि राज्ञां द्वीपेषु वै तदा
निरर्गलानि वृत्तानि श्रूयन्ते तस्य धीमतः ॥
सर्वे यज्ञा महाराज्ञस् तस्यासन् भूरिदक्षिणाः
सर्वे काञ्चनयूपास्ते सर्वाः काञ्चनवेदिकाः ॥
सर्वे देवैः समं प्राप्तैर् विमानस्थैरलंकृताः
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥
तस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा
कार्तवीर्यस्य राजर्षेर् महिमानं निरीक्ष्य सः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति क्षत्रियाः
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥
स हि सप्तसु द्वीपेषु खड्गी चक्री शरासनी
रथी द्वीपान्यनुचरन् योगी पश्यति तस्करान् ॥
पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः
स सर्वरत्नसम्पूर्णश् चक्रवर्ती बभूव ह ॥
स एव पशुपालो ऽभूत् क्षेत्रपालः स एव हि
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनो ऽभवत् ॥
यो ऽसौ बाहुसहस्रेण ज्याघातकठिनत्वचा
भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥
एष नागं मनुष्येषु माहिष्मत्यां महाद्युतिः
कर्कोटकसुतं जित्वा पुर्यां तत्र न्यवेशयत् ॥
एष वेगं समुद्रस्य प्रावृट्काले भजेत वै
क्रीडन्नेव सुखोद्भिन्नः प्रतिस्रोतो महीपतिः ॥
ललता क्रीडता तेन प्रतिस्रग्दाममालिनी
ऊर्मिभ्रुकुटिसंत्रासाच् चकिताभ्येति नर्मदा ॥
एको बाहुसहस्रेण वगाहे स महार्णवम्
करोत्युद्वृत्तवेगां तु नर्मदां प्रावृडुद्धताम् ॥
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ
भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः ॥
चूर्णीकृतमहावीचि लीनमीनमहातिमिम्
मारुताविद्धफेनौघम् आवर्ताक्षिप्तदुःसहम् ॥
करोत्यालोडयन्नेव दोःसहस्रेण सागरम्
मन्दरक्षोभचकिता ह्य् अमृतोत्पादशङ्किताः ॥
तदा निश्चलमूर्धानो भवन्ति च महोरगाः
सायाह्ने कदलीखण्डा निर्वातस्तिमिता इव ॥
एवं बद्ध्वा धनुर्ज्यायाम् उत्सिक्तं पञ्चभिः शरैः
लङ्कायां मोहयित्वा तु सबलं रावणं बलात् ॥
निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध च
ततो गत्वा पुलस्त्यस्तु ह्य् अर्जुनं संप्रसादयन् ॥
मुमोच रक्षः पौलस्त्यं पुलस्त्येनेह सान्त्वितम्
तस्य बाहुसहस्रेण बभूव ज्यातलस्वनः ॥
युगान्ताभ्रसहस्रस्य आस्फोटस्त्वशनेरिव
अहो बत विधेर्वीर्यं भार्गवो ऽयं यदाछिनत् ॥
तद्वै सहस्रं बाहूनां हेमतालवनं यथा
यत्रापवस्तु संक्रुद्धो ह्य् अर्जुनं शप्तवान्प्रभुः ॥
यस्माद्वनं प्रदग्धं वै विश्रुतं मम हैहय
तस्मात्ते दुष्करं कर्म कृतमन्यो हरिष्यति ॥
छित्त्वा बाहुसहस्रं ते प्रथमं तरसा बली
तपस्वी ब्राह्मणश्च त्वां स वधिष्यति भार्गव ॥
तस्य रामस्तदा त्व् आसीन् मृत्युः शापेन धीमतः
वरश्चैव तु राजर्षेः स्वयमेव वृतः पुरा ॥
तस्य पुत्रशतं त्व् आसीत् पञ्च तत्र महारथाः
कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबलाः ॥
शूरसेनश्च शूरश्च धृष्टः क्रोष्टुस्तथैव च
जयध्वजश्च वैकर्ता अवन्तिश्च विशांपते ॥
जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः
तस्य पुत्रशतान्येव तालजङ्घा इति श्रुताः ॥
तेषां पञ्च कुलाः ख्याता हैहयानां महात्मनाम्
वीतिहोत्राश्च शार्यातो भोजाश्चावन्तयस्तथा ॥
कुण्डिकेराश्च विक्रान्तास् तालजङ्घास् तथैव च
वीतिहोत्रसुतश्चापि आनर्तो नाम वीर्यवान्
दुर्जेयस्तस्य पुत्रस्तु बभूव मित्रकर्शनः ॥
सद्भावेन महाराज प्रजा धर्मेण पालयन्
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ॥
येन सागरपर्यन्ता धनुषा निर्जिता मही
यस्तस्य कीर्तयेन्नाम कल्यमुत्थाय मानवः ॥
न तस्य वित्तनाशः स्यान् नष्टं च लभते पुनः
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः
यथावत्स्विष्टपूतात्मा स्वर्गलोके महीयते ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0