मत्स्य पुराण · अध्याय 45
गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः
गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ॥
माद्री युधाजितं पुत्रं ततो वै देवमीढुषम्
अनमित्रं शिबिं चैव पञ्चमं कृतलक्षणम् ॥
अनमित्रसुतो निघ्नो निघ्नस्यापि तु द्वौ सुतौ
प्रसेनश्च महावीर्यः शक्तिसेनश्च ताव् उभौ ॥
स्यमन्तकः प्रसेनस्य मणिरत्नमनुत्तमम्
पृथिव्यां सर्वरत्नानां राजा वै सो ऽभवन्मणिः ॥
हृदि कृत्वा तु बहुशो मणिं तमभियाचितः
गोविन्दो ऽपि न तं लेभे शक्तो ऽपि न जहार सः ॥
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः
यथाशब्दं स शुश्राव बिले सत्त्वेन पूरिते ॥
ततः प्रविश्य स बिलं प्रसेनो ह्य् ऋक्षमैक्षत
ऋक्षः प्रसेनं च तथा ऋक्षं चैव प्रसेनजित् ॥
हत्वा ऋक्षः प्रसेनं तु ततस्तं मणिमाददात्
अदृष्टस्तु हतस्तेन अन्तर्बिलगतस्तदा ॥
प्रसेनं तु हतं ज्ञात्वा गोविन्दः परिशङ्कितः
गोविन्देन हतो व्यक्तं प्रसेनो मणिकारणात् ॥
प्रसेनस्तु गतो ऽरण्यं मणिरत्नेन भूषितः
तं दृष्ट्वा स हतस्तेन गोविन्दः प्रत्युवाच ह
हन्मि चैनं दुराचारं शत्रुभूतं हि वृष्णिषु ॥
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः
यदृच्छया च गोविन्दो बिलस्याभ्याशमागमत् ॥
तं दृष्ट्वा तु महाशब्दं स चक्रे ऋक्षराड्बली
शब्दं श्रुत्वा तु गोविन्दः खड्गपाणिः प्रविश्य सः
अपश्यज्जाम्बवन्तं तम् ऋक्षराजं महाबलम् ॥
ततस्तूर्णं हृषीकेशस् तमृक्षपतिमञ्जसा
जाम्बवन्तं स जग्राह क्रोधसंरक्तलोचनः ॥
तुष्टावैनं तदा ऋक्षः कर्मभिर्वैष्णवैः प्रभुम्
ततस्तुष्टस्तु भगवान् वरेणैनमरोचयत् ॥
इच्छे चक्रप्रहारेण त्वत्तो ऽहं मरणं प्रभो
कन्या चेयं मम शुभा भर्तारं त्वामवाप्नुयात्
यो ऽयं मणिः प्रसेनं तु हत्वा प्राप्तो मया प्रभो ॥
ततः स जाम्बवन्तं तं हत्वा चक्रेण वै प्रभुः
कृतकर्मा महाबाहुः सकन्यं मणिमाहरत् ॥
ददौ सत्राजितायैनं सर्वसात्वतसंसदि
तेन मिथ्यापवादेन संतप्तो ऽयं जनार्दनः ॥
ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्
अस्माकं तु मतिर्ह्यासीत् प्रसेनस्तु त्वया हतः ॥
कैकेयस्य सुता भार्या दश सत्राजितः शुभाः
तासूत्पन्नाः सुतास्तस्य शतमेकं तु विश्रुताः
ख्यातिमन्तो महावीर्या भङ्गकारस्तु पूर्वजः ॥
अथ व्रतवती तस्माद् भङ्गकारात्तु पूर्वजात्
सुषुवे सुकुमारीस्तु तिस्रः कमललोचनाः ॥
सत्यभामा वरा स्त्रीणां व्रतिनी च दृढव्रता
तथा पद्मावती चैव ताश्च कृष्णाय सो ऽददात् ॥
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात्
सत्यकस्तस्य पुत्रस्तु सात्यकिस्तस्य चात्मजः ॥
सत्यवान्युयुधानस्तु शिनेर्नप्ता प्रतापवान्
असङ्गो युयुधानस्य द्युम्निस्तस्यात्मजो ऽभवत् ॥
द्युम्नेर्युगंधरः पुत्र इति शैन्याः प्रकीर्तिताः
अनमित्रान्वयो ह्य् एष व्याख्यातो वृष्णिवंशजः ॥
अनमित्रस्य संजज्ञे पृथ्व्यां वीरो युधाजितः
अन्यौ तु तनयौ वीरौ वृषभः क्षत्र एव च ॥
वृषभः काशिराजस्य सुतां भार्यामविन्दत
जयन्तस्तु जयन्त्यां तु पुत्रः समभवच्छुभः ॥
सदायज्ञो ऽतिवीरश्च श्रुतवानतिथिप्रियः
अक्रूरः सुषुवे तस्मात् सदायज्ञो ऽतिदक्षिणः ॥
रत्ना कन्या च शैब्यस्य अक्रूरस्तामवाप्तवान्
पुत्रानुत्पादयामास एकादश महाबलान् ॥
उपलम्भः सदालम्भो वृकलो वीर्य एव च
सवीतरः सदापक्षः शत्रुघ्नो वारिमेजयः ॥
धर्मभृद्धर्मवर्माणौ धृष्टमानस्तथैव च
सर्वे च प्रतिहोतारो रत्नायां जज्ञिरे च ते ॥
अक्रूराद् उग्रसेनायां सुतौ द्वौ कुलवर्धनौ
देववानुपदेवश्च जज्ञाते देवसंनिभौ ॥
अश्विन्यां च ततः पुत्राः पृथुर् विपृथुरेव च
अश्वत्थामा सुबाहुश्च सुपार्श्वकगवेषणौ ॥
वृष्टिनेमिः सुधर्मा च तथा शर्यातिरेव च
अभूमिर् वर्जभूमिश्च श्रमिष्ठः श्रवणस्तथा ॥
इमां मिथ्याभिशस्तिं यो वेद कृष्णादपोहिताम्
न स मिथ्याभिशापेन अभिशाप्यो ऽथ केनचित् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0