भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 42

42.1

पृच्छाम्यहं वसुमानौषदश्विर् यद्यस्ति लोको दिवि मह्यं नरेन्द्र
यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥

42.2

यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च
लोकास् तावन्तो दिवि संस्थिता वै ते त्वां भवन्तं प्रतिपालयन्ति ॥

42.3

तांस् ते ददामि पत मां प्रपातं ये मे लोकास्तव ते वै भवन्तु
क्रीणीष्वैनांस् तृणकेनापि राजन् प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥

42.4

न मिथ्याहं विक्रयं वै स्मरामि मया कृतं शिशुभावे ऽपि राजन्
कुर्यां न चैवाकृतपूर्वमन्यैर् विवित्समानो वसुमन्न साधु ॥

42.5

तांस् त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते
नाहं तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तावका वै भवन्तु ॥

42.6

पृच्छामि त्वां शिबिरौशीनरो ऽहं ममापि लोका यदि सन्ति तात
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥

42.7

न त्वं वाचा हृदयेनापि राजन् परीप्समानो मावमंस्था नरेन्द्र
तेनानन्ता दिवि लोकाः स्थिता वै विद्युद्रूपाः स्वनवन्तो महान्तः ॥

42.8

तांस् त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते
न चाहं तान्प्रतिपद्य दत्त्वा यत्र त्वं तात गन्तासि लोकान् ॥

42.9

यथा त्वमिन्द्रप्रतिमप्रभावस् तेचाप्यनन्ता नरदेव लोकाः
तथाद्य लोके न रमे ऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि वाचम् ॥

42.10

न चेदेकैकशो राजंल् लोकान्नः प्रतिनन्दसि
सर्वे प्रदाय तांल्लोकान् गन्तारो नरकं वयम् ॥

42.11

यदर्हास् तद्वदध्वं वः सन्तः सत्यादिदर्शिनः
अहं तु नाभिगृह्णामि यत्कृतं न मया पुरा ॥

42.12

अलिप्समानस्य तु मे यदुक्तं न तत्तथास्तीह नरेन्द्रसिंह
अस्य प्रदानस्य यदेव युक्तं तस्यैव चानन्तफलं भविष्यम् ॥

42.13

कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव ॥

42.14

भवतां मम चैवैते रथा भान्ति हिरण्मयाः
आरुह्यैतेषु गन्तव्यं भवद्भिश्च मया सह ॥

42.15

आतिष्ठस्व रथं राजन् विक्रमस्व विहायसा
वयमप्यनुयास्यामो यदा कालो भविष्यति ॥

42.16

सर्वैरिदानीं गन्तव्यं सह स्वर्गो जितो यतः
एष वो विरजाः पन्था दृश्यते देवसद्मगः ॥

42.17

ते ऽभिरुह्य रथान्सर्वे प्रयाता नृपते नृपाः
आक्रामन्तो दिवं भान्ति धर्मेणावृत्य रोदसी ॥

42.18

अहं मन्ये पूर्वमेको ऽभिगन्ता सखा चेन्द्रः सर्वथा मे महात्मा
कस्मादेवं शिबिरौशीनरो ऽयम् एको ऽत्ययात् सर्वं वेगेन वाहान् ॥

42.19

अददाद्देवयानाय यावद्वित्तमनिन्दितः
उशीनरस्य पुत्रो ऽयं तस्माच्छ्रेष्ठो हि वः शिबिः ॥

42.20

दानं शौचं सत्यमथो ह्य् अहिंसा ह्रीः श्रीस्तितिक्षा समतानृशंस्यम्
राजन्त्येतान्यथ सर्वाणि राज्ञि शिबौ स्थितान्यप्रतिमे सुबुद्ध्या
एवं वृत्तं ह्रीनिषेवी बिभर्ति तस्माच्छिबिर् अभिगन्ता रथेन ॥

42.21

अथाष्टकः पुनरेवान्वपृच्छन् मातामहं कौतुकादिन्द्रकल्पम्
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि कथं त्वमागाः
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यो ब्राह्मणः क्षत्रियो वा ॥

42.22

ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम्
गुह्यं मन्त्रं मामकेभ्यो ब्रवीमि मातामहो भवतां सुप्रकाशः ॥

42.23

सर्वाम् इमां पृथिवीं निर्जिगाय ऋद्धां महीमददां ब्राह्मणेभ्यः
मेध्यानश्वान्नैकशस् तान्सुरूपांस् तदा देवाः पुण्यभाजो भवन्ति ॥

42.24

अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलान्नैः प्रशस्ताम्
गोभिः सुवर्णैश्च धनैश्च मुख्यैर् अश्वाः सनागाः शतशस्त्वर्बुदानि ॥

42.25

सत्येन मे द्यौश्च वसुंधरा च तथैवाग्निर्ज्वलते मानुषेषु
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥

42.26*

साध्वष्टक प्रब्रवीमीह सत्यं प्रतर्दनं वसुमन्तं शिबिं च ।
सर्वे देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् ॥

42.27

यो नः सर्वजितं सर्वं यथावृत्तं निवेदयेत्
अनसूयुर् द्विजाग्न्येभ्यः स भजेन्नः सलोकताम् ॥

42.28

एवं राजन्स महात्मा ययातिः स्वदौहित्रैस्तारितो मित्रवर्यैः
त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥

42.29

एवं सर्वं विस्तरतो यथावद् आख्यातं ते चरितं नाहुषस्य
वंशो यस्य प्रथितं पौरवेयो यस्मिञ्जातस्त्वं मनुजेन्द्रकल्पः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc